सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

२ ] पूर्वजवर्णनम् १५
गुणान् कणेह्रत्य निपीय यस्य भृशं प्रहृष्टोऽपि सुपर्ववर्गः ।
कष्टं [सचित्त्राहत एव तस्थौ न देवभूपं] श्रितवान् यदेषः ॥ ५९ ॥
तस्मादशोभिष्ट महिष्टधामा महीमहेंद्रो जयपालनामा ।
स्रवद्दिस्रैरिपुकामिनीनां यशस्तरूर् पल्लवितो यदीयः ॥ ६० ॥
वृंदानि संख्ये बलिनामरीणां वीक्ष्यावरोधे च तनूदरीणां ।
•यो विश्वविख्यातयशः प्रकाशो भृशं न कंदर्पमुरीचकार ॥ ६१ ॥
दुग्धोदधिस्फीततरत्तरंग—श्रेणिश्रियां वैभवजेतृभारः ।
जगूग्र्गणेन्दुरवाभिरामं गुणान् यदीयानुरगेंद्रकन्याः ॥ ६२ ॥
गांगेयवद्वेयगुणस्ततोऽभात् श्रीगंगदेवो वसुधासुधांशुः ।
निश्वासवातै रिपुकामिनीनां प्रतापरसार्धिरदीपि यस्य ॥ ६३ ॥
दोषाकरो यद्यशसो महत्त्वं विलोक्य मात्सर्यभरं दधानः ॥
यदर्जयामास तमःकलंक—च्छलात्तदद्यापि न मुंचते ऽसौ ॥ ६४ ॥
परः शतेभ्योऽपि रिपुव्रजेभ्यो यच्छन्न तुच्छां सुरलोकलक्ष्मीं ।
उद्दामसंग्राममवाप्य मात्रा हीनः कृपाणोऽजनि यस्य नैव ॥ ६५ ॥
गतेषु कर्णादिषु दानशौंडे—त्रयं जनो मा जनि दौस्थ्यपात्रं ।
ध्यातेति यं दायकचक्रशक्रं मन्ये दयालुर्वदधे विधाता ॥ ६६ ॥
त्रैलोक्यलोकावलिकर्णकर्ण—पूरीकृतानंतगुणैकधाम ।
इलाविलासी जयंतिस्म तस्मात् सोमेद्ववरोऽन्नभरनीतिरीतिः ॥ ६७ ॥
रणेषु येन स्वकरांबुजेन प्रोल्लास्यमानासिलता चकासे ।
अंतः स्फुरत्क्रोधकृशानुजात—धूम्येव साक्षाद्वहिरुल्लसंती ॥ ६८ ॥
उक्तेन गोत्रस्खलनाद्यदीय—नाम्ना विलक्षं रमणं विधाय ।
चिराय संभोगरसप्रसंगि चेतो निजं प्रीणयतिस्म का न ॥ ६९ ॥
वह्नेंद्विपन्नंश्विति यत्प्रतापा द्विमभ्यवर्षन्नरियोषितो ऽस्रैः ।
हविर्विदेभिर्ववृधे सकामं वामे विधौ वाममशेषमेव ॥ ७० ॥
अनेन राज्ञा सममेकभावं कथं समायातु भुजंगराजः ॥
अधात्सहस्रेण रा गां शिरोभि रयं पुनस्तां भुजयैकयैव ॥ ७१ ॥

१६ श्रीहम्मीरमहाकाव्ये [ सर्गः
कर्पूरदेवीति बभूव तस्य प्रिया [प्रिया] राधनसावधाना ।
जितं यदास्येन जले निलीया द्याप्यप्सुजं किन्न तपस्तनोति ॥ ७२ ॥
इहस्थितो ऽसौ रमणः कदाचित् विलोक्य लुब्धो भविता बतैताः ।
इतीव या नो हृदये प्रवेष्टु मेणीदृशामप्यदितावकाशं ॥ ७३ ॥
पत्या भुवो वैषयिकं विनोदं सा निर्विशंकं किल निर्विशंती ।
अमानधामानमसूत सूनुं हरेरिवाशा तुहिनांशुबिंबं ॥ ७४ ॥
अतुच्छवात्सल्यभरं दधानो वितत्य तज्जन्ममहं महांतं ॥
जगज्जनाल्हादकरस्य पृथ्वी—राजेतिनामाऽधित तस्य भूपः ॥ ७५ ॥
तनुत्विषान्निर्द्दलितांधकार—जालः स बालोऽन्वहमेधमानः ।
भृशं प्रजानां नयनांबुजानां भद्रं करो भानुरिवाजनिष्ट ॥ ७६ ॥
शस्त्रेषु शास्त्रेषु च लब्धपारं विलोक्य भूमानथ तं कुमारं ।
साम्राज्यभारं प्रवितीर्य तस्मै योगेन मार्त्तं वपुरुत्ससर्ज ॥ ७७ ॥
पित्रा प्रदत्तं समवाप्य काले राज्यं स भूभृन्नितरां चकासे ।
अहर्मुखे हर्पति नोदयाद्रि र्यथा तमोव्रातविनाशि रोचिः ॥ ७८ ॥
गुणाभिघातं प्रसभं प्रकुर्व न्नप्येष चक्रे न गुणाभिघातं ।
अपि प्रतन्वन् परलोकबाधां न च प्रतेने परलोकबाधां ॥ ७९ ॥
निषेवमाणोप्यसितांसवृत्तिं नैवासितां वृत्तिमुपादितैषः ।
तेनेति तेने परलोकपीडा न तेन तेने परलोकपीडा ॥ ८० ॥
द्विट्कुंभिकुंभतटदत्तदृढप्रहार-
प्रत्यंगलग्ननवमौक्तिककैतवेन ।
क्षमामंडलं फलितुमुन्मिषितप्रसून
राजीव यस्य युधि खड्गलता विरेजे ॥ ८१ ॥
कीर्तिर्यस्य सतीव्रतेति मृदुरप्याधत्त न प्रत्ययं
चित्ते कस्य न योज्झतिस्म तमहो कल्पांतमप्यास्थितं ।
अन्येषां तु सतीव्रतापि न सती वेश्येव तान् जीविता
वध्येवोज्झति चेन्नयास्म कतिचित्तान् जीवतोप्युज्झति ॥ ८२ ॥

२ ] पूर्वजवर्णनम् १७
वाग्देवीं चिकुरे शशांक मुदरे शंभुं गले तद्वृषं
प्रोद्यामे बलमंबरे मदकलं स्वःकुंभिनं कुंभयोः ।
जग्राहास्य यशोभ्रमेण भुवने भ्राम्याद्विषां दुर्यशो
धिग्वैरस्य दुरंततां स्फुरति या तत्संततावप्यहो ॥ ८३ ॥
भेजे यस्य शयालुतां शयपयोजन्मन्यसा विंदिरा ।
तद्रागेण समेदसिच्छलमलंकृत्य स्वयं श्रीपतिः ।
नैवं चेत् बलिवैरिविक्रमभरध्वंसेऽस्यकौतस्कुती
शक्तिः संयति संबभूव नितमामुल्लासिनीलद्युतेः ॥ ८४ ॥
दिक्शैलद्विपकूर्मभोगिविभवः प्रोद्धृत्य सर्वसहां
तद्भूयो भरभंगुराः परिमुमुक्षंतोपि कंपच्छलात् ।
दृष्ट्वा यं प्रतिपन्नसूरमनिशं भूपालचूडामणि
लज्जाकीलककीलिता इव न तां शंके त्यजंति स्म ते ॥ ८५ ॥
औन्नत्येन यशोभरेण च पराभूतिं परां लंभितो-
ऽस्योचैर्लभयितुं पराभवपदं वांछन् स्वयं तौ पुनः ।
ईशाराधनमाततान हिमवान् कन्याप्रदानादिभि
र्व्यर्थं किं यशसैककेन न तयोस्तं वेदमूढोज्झित ॥ ८६ ॥
चिंतारत्नावनद्धेऽनवरतममृता सिक्तकल्पद्रुसांद्र-
च्छायाच्छन्ने निषण्णाः श्रमविगमकृते चत्वरे चत्वरेपि ।
तीरे सिद्धापगायाः सुरसुरभिगणांश्चारयंत्योस्पदानं
जेगीयंतेस्म देव्यः करकमलमिलद्वेणुवीणाविलासाः ॥ ८७ ॥
शश्वद्येन निरीतितां गमयता क्षोणीतलं क्ष्माभृता
दिष्ट्याप्यतिवृष्टयो जलनिधेः पारं प्रयातुं परं ।
यत्प्रक्षिप्य ददृशिरेऽक्षिषु निजेषूच्चैरिपुस्त्रीजनै-
स्तत्तेनैव हतप्रियेण पुपुषे साकं न किं वैरिना ॥ ८८ ॥
यत्खड्गक्षुण्णभूमीपतिविततिशिरःसंचरद्रक्तधारा-
वारां राशिः प्रसर्पन् क्षितितलमखिलं रक्तमेवाकरिष्यत् ।
3 k

१८ श्रीहम्मीरमहाकाव्ये [:
एषा प्रोद्गच्छदच्छामृतकरकिरणक्षुब्धदुग्धाब्धिमुग्धा
यत्कीर्तिर्विस्फुंती यदि सपदि न तत् श्वेततामापयिष्यत् ॥ ८९ ॥
वीरे यत्र रणे तथा वितरणे सन्मार्गणानां गणां-
स्तन्वाने प्रथमानमानविभवे संलब्धलक्षान् क्षणात् ।
पूर्वोपार्जितकीर्तिकर्त्तनभिया संभ्रांतचित्ताश्चिरं
कश्चिन्न श्रयतिस्म दानपरतां नो वा भटंमन्यतां ॥ ९० ॥
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीर-
महाकाव्ये वीरांक्रे श्रीभीमदेवप्रभृतिपूर्वजवर्णनो नाम द्वितीयः सर्गः
समाप्तः ॥ छ ॥
अथ तृतीयः सर्गः
अथ प्रथीयस्तरसा रसायास्तलं शयालुं स्वंशये शकेन ।
सहाबदीनेन वितन्वतालमुपद्रुताः पश्चिमभूमिपालाः ॥ १ ॥
आह्लादनेनाखिलभूतधात्र्या यथार्थतां नाम निजं नयंतं ।
गोपालचंद्रांगवितीर्णरंगं श्रीचंद्रराजं पुरतो निधाय ॥ २ ॥
उपायनानीतमहेभकुंभ—गलन्मदाद्रीकृतभूमिभागं ।
भेजुर्भुजोर्जाविजितारि पृथ्वी—राजा लयद्वारमुदारवेगाः ॥ ३ ॥
त्रिभिर्विशेषकं
प्रवेशिता नाथगिराथ वेत्र—करेण कांताभरणा नरेण ।
पृथ्वीपतेः पादसरोजयुग्मं नत्वा यथा स्थानमुपाविशंस्ते ॥ ४ ॥
दीनाननाँस्तान् प्रविलोक्य पृथ्वी—राजस्ततः पार्श्वचरानुवाच ।
पद्मा हिमासीव निदाघसंङ्गे श्रियं किमंते दधते न भूपाः ॥ ५ ॥
तं चंद्रराजोथ जगाद चंद्र—श्रीगर्वकूलंकषदंतदीप्त्या ।
हृद्युल्लसद्भाङ्ग्यदुग्धसिंधौ विस्तारयंस्तारतरानिवोर्मीन् ॥ ६ ॥
तपःप्रभावाजितवर्यवीर्यः सहाबदीनः शकमेदिनीनः ।
उपप्लवायाजनि धूमकेतु रिवावनौ बाहुजमंडलानां ॥ ७ ॥

२ ] पृथ्वीराजसंग्रामवर्णनम् १९
देशानशेषान् जहि नागराणां हरेणनेत्रा दह मंदिराणि ।
विगृह्य यो बाहुजराजराजेः कुलानि चक्रे विपदाकुलानि ॥ ८ ॥
अशेषभूपालविशेषकाभ के नाम ते क्षोणिभुजः क्षमायां ।
स स्वौजसा त्रासितबाहुजानां वृंदैर्दर्रीः पूरितवान्न येषां ॥ ९ ॥
यः संगरे संगररंगवेदी क्षात्रं क्षणाद्द्वेषम नयन् यमस्य ।
किं भार्गवोयं पुनरेव जात इत्याकुलैर्वीरकुलैर्न्यतर्कि ॥ १० ॥
अयं समागादयमः समागाज्जना इति स्फारितलोचनाब्जं ।
दिशो दशापि प्रविलोकयंतो यतो भयेनानिमिषीबभूवुः ॥ ११ ॥
उद्वास्य शस्यान्यपि भूपतीनां यस्त्रैपुराणीव पुराणि शंभुः ।
अतिष्ठिपत् द्विट्कुलशूल मूल—स्थाने प्रधाने निजराजधानीं ॥ १२ ॥
निःकारणं दारुणवैरभाजा तेनाभिभूता नृपभूभुजोमी ।
समैयुरुस्त्वां शरणं शरण्य मतो भवानेव परं प्रमाणं ॥ १३ ॥
इत्येतदीयां विनिशम्य वाचं वाच्यंमानामापि कोपरूचीं ।
आकृप्य कूर्चं तरवारिमुष्टि—पट्टिष्टनाभात्करवारिजेन ॥ १४ ॥
मयूरबंधेन निबंध्य नैनं पादारविंदे यदि वः क्षिपामि ।
जातोन्वये तर्हि न चाहमाने इति प्रतिज्ञामकरोन्नरेशः ॥ १५ ॥
ततस्ततः श्रीः शुभकारिसर्व—ग्रहे विलग्ने विजये च योगे ।
चचाल चंचन् प्रतिपंधिमथ चिकीर्षया व्याकुलचित्तवृत्तिः ॥ १६ ॥
पौरैणपोताभदृशः प्रयांतं प्रक्षिप्तिक्षितुस्तं प्रति यान् कटाक्षान् ।
मांगत्यहेतोः स्म भवंति तस्य त एव दूर्वाक्षतकांतिभाजः ॥ १७ ॥
निरंतरप्राप्तमहाप्रसाद—विशुद्धये शुद्धधियः प्रकामं ।
करस्फुरत्स्फारतरासिदंड-स्फुराः प्रचेलुर्बरवीरवाराः ॥ १८ ॥
द्यावापृथिव्योरुदरंभरीणि प्रोत्तुंगरंगद्गजगर्जितानि ।
अपि द्वयानां धरणीधराणां सत्त्वानि चक्रुर्विधुताधृतीनि ॥ १९ ॥
प्रतापसूर्येऽभ्युदितेऽस्र्यये साध्यं किमेतेन बतोद्यतेन ।
इतीव तीव्रद्युतिमुद्यतश्चि-सैन्योत्थरेणुस्तिरयांबभूव ॥ २० ॥

२० श्रीहम्मीरमहाकाव्ये [सर्गः
रजोव्रजै र्वाजिखुराभिघातो—त्थैर्जातमुद्गत्वमपि प्रयाताः ।
मदोदकैः सैन्यमतंगजानां वंशद्वयस्यः सरितो बभूवुः ॥ २१ ॥
इति प्रयाणैः कृतवैरिवारः प्राणप्रयाणैर्नृपतिः कियद्भिः ।
वसुंधरा भूरितरामतीत्याऽभ्यवेष्टयत्तच्छकराजदेशं ॥ २२ ॥
आजग्मिवांसं तमुपस्वदेशं चौरैरथाकर्ण्य शकेश्वरोपि ।
संनह्य सैन्यं रिपुदत्तदैन्यं भेजेभ्यमित्रत्वमवार्यवीर्यः ॥ २३ ॥
कोदंडदंडद्युतिमंडितांगाः कटीतटावद्धवृहन्निषंगाः ।
सूक्ष्माखिलक्षीकृतवैरीवीराः पृष्ठेनिरीयुर्यवनप्रवीराः ॥ २४ ॥
प्राक् रेणुजालानि ततः करेणु-कुंभभ्रमत्षट्पदझंकृतानि ।
ततो भटानां स्फुटसिंहनादाः सैन्यद्वयस्याप्यमिलंस्तदानीं ॥ २५ ॥
परस्परालोकनितांतजात-प्रसृत्वरायत्नकवेल्हदंगाः ।
नानास्फुरद्धेतिभृतः प्रवीराः प्रतेनिवांसो रणरंगलीलां ॥ २६ ॥
मणीचकानीव महीरुहाणां क्षिपन् यशांसि द्रुतविद्रुतानां ।
ववौ मरुत्वान् भटराजराजि-करांबुजयक्तपृषत्कजन्मा ॥ २७ ॥
मिथः समानाक्षिनिरीक्षणेन प्ररूढगूढप्रतिघा इवोच्चैः ।
घटैकदेशीयभटास्तुशोभा- श्वानामयुध्यंत हठात्तदानीं ॥ २८ ॥
दंतावलस्य प्रथरं प्रविश्य कश्चित्तदाघातकलाविपश्चित् ।
क्षुर्या विदार्योदरमुग्रवीर्यो विलोठयामास तमाशु भूमौ ॥ २९ ॥
उल्लुत्य कश्चित्तरसा रसाया आरूढवांस्तुंगकरींद्रकुंभं ।
लांगूललीलायितखड्गदंड एणारिलीलां कलयांबभूव ॥ ३० ॥
काश्चित्पदात् स्पंदनमापतंतं धृत्वा करी काकमुखे सुखेन ।
अवाप्य सद्यो भ्रमिमंतरिक्षे प्रास्फालयत्संगरभूमिशिलायां ॥ ३१ ॥
प्रक्षिप्य पश्चात्करमुग्रवेगात् उत्पाटितस्पंदनकैतवेन ।
योद्धुं स्वयं पट्टिशमादधान इवेतरोभात्पदगै रमेभः ॥ ३२ ॥
चीत्कारमाकर्ण्य मतंगजानां वित्रस्यतः कोपि तुरंगमस्य ।
उष्णीषखंडेन पिधाय कर्णावपूपुरत्तैः सममाहवेच्छां ॥ ३३ ॥

३ ] पृथ्वीराजसंग्रामवर्णनम् २१
हंतुं क्रुधा दंतिनमापतंतं अरंतुदाग्रैर्युधि दद्रिरेव ॥
प्रार्थ्यना लूनभुजद्वयोन्यो दशन् प्रतेने नययुद्धमेव ॥ ३४ ॥
सन्नाहसंधावभिजातगात्र-प्रभेदने किं कुतुकं भटानां ।
मनोपि तेषां परमाणुरूपं अभेदि यत्तैः करलाघवेन ॥ ३५ ॥
तदा विपत्तौ पितरः सुतानां प्रमोदपूरं युधि लेभिरे यं ।
अपुत्रिणामप्यजनिष्ट तेषा मेतच्छतांषोपि न जन्मकाले ॥ ३६ ॥
अयोदृढैश्चारभटैस्तुरुष्का श्चंडासिदंडैरभिताड्यमानाः ।
नेशुः समंताल्गुडप्रपातै र्यथा कुलान्येकविलोचनानां ॥ ३७ ॥
स्यालेष यंत्रांतरसंस्थितानां यादृग्यवस्था हरिमंथकानां ।
तादृग्बभूद्भूपतिचाहमान-रणाश्रयाणां यवनेश्वराणां ॥ ३८ ॥
दृष्ट्वा विशीर्णं युधिजीर्णकल्प मिवात्मनीनं शिविरं शकेशः ।
क्रोधादधाविट महिष्टमुष्टि-धृतासिदंडः स्वयमाशुचंडः ॥ ३९ ॥
तमापतंतं प्रसमीक्ष्य चाह-मानोप्यधावद्द्रुततीव्रवेगः ।
अंतःस्फुरत्क्रोधकृशानुकीला-नुकारिरागारुणदारुणाक्षः ॥ ४० ॥
करोदरोल्लासिमहासिसिंड—छलोल्लसत्पुष्करदुर्निरिक्षौ ।
अभ्युद्यतौ वन्यगजौ किमेतौ वितर्क्यमाणाविति वीरवारैः ॥ ४१ ॥
प्रपूरयंतौ भुवनोदराणि पादाभिघातप्रतिजातशब्दैः ।
मिथः प्रहारप्रयनप्रवीणौ युद्धं चिरायातनुतां क्रुधा तौ ॥ ४२ ॥
एवं नृदेवो युधि युध्यमानः प्रसह्य किंचिच्छलमाकलय्य ।
शक्राधिराजं विनियम्य सम्य गपूरयत्स्वां विधिवत्प्रतिज्ञां ॥ ४३ ॥
महीमहेंद्रान् शरणागतांस्तान् स्वे स्वेधिकृत्वा विषये नयेन ।
ततः स मानी निजराजधानी मापद्धिमानानीकृतशत्रुजातः ॥ ४४ ॥
वासांसि दत्वा सुरलोकलोभिमहांसि तस्मा इति राड् मुमोच ।
हा तत्र को नाम पुनर्विधित्सु रसामया संगरमेवमुच्चैः ॥ ४५ ॥
पृथक् पृथक् संगररंगभंग्ये—त्थं सप्तकृत्वः क्षितिवासवेन ।
विनिर्जितोऽसौ यवनावनीशो मम्लौ च जम्लौ च भृशं नृशंसः ॥ ४

२२ श्रीहम्मीरमहाकाव्ये [ सर्गः
अथासहस्तं स्वबलच्छलाभ्यां जेतुं शकेशः शक्रचक्रकेतुं ।
बलाभिलाषी प्रचचाल चंद्र इव ग्रहेशं प्रति षर्परेरशं ॥ ४७ ॥
कांबोजलंगाहथभीमभिल्ल—बंगादिदेशाधिपपेंटलश्री ।
शिष्टाष्टलक्षप्रमितामिताहि—कांतखराजिखरवाजिराजी ॥ ४८ ॥
संपादितातातिविपत्तिपत्ति—कोश्याकुलं शौर्यकलं बलं स्वाक् ।
उक्तात्मवार्ताय नृपाय तस्मै घट्टैकदेशीय नृपो ददेऽथ ॥ ४९ ॥
सद्यस्ततोऽसौ प्रसरत् प्रसादात् साम्राज्यमासाद्य सहाबदीनः ।
न केनचित् ज्ञातचरः समेत्य जग्राह दिल्लीमतिविग्रहेण ॥ ५० ॥
ततो भियाभ्यस्तपलायनानां हताहता हेति कृतारवाणां ।
भग्नप्रभाणां मुखतो जनानां समागमं शत्रुपेर्तर्निशम्य ॥ ५१ ॥
रणे मयासौ शतशो जितोपि किं चापलं बाल इवातनोति ।
वहन्नहंकारमिति क्षितीशः प्रचेलिवांस्तुच्छपरिच्छदोपि ॥ ५२ ॥
युग्मं
प्राग्लग्नतद्धस्तभृशानुभूत—भीस्तं समीक्ष्येति शकः प्रद्धयौ ।
अस्माकमेकाक्यपि नैष जेतुं शक्यो मृगाणामिव पंचवक्त्रः ॥ ५३ ॥
ततो निशीथे निभृतांधकारे संप्रषितैः प्रत्ययितैः शकेशः ।
अबीभिदत्पुष्कलनिष्कदानै स्तस्याश्वपालं सह तौर्यिकैः सः ॥ ५४ ॥
दिष्ट्या समेता ध्रुवमस्मदुक्ता यास्यंति वेश्मानि परं निजानि ।
हन्मो वितन्मोद्य दृढं स्वराज्य मित्युक्तियुक्तिप्रथका मिथोपि ॥ ५५ ॥
आकाशशेषे तुहिनांशुबिंबे प्रकाशकल्पेऽतुहिनद्युतौ च ।
शकाः समंतान्निभृतं समेत्य पृथ्वीपतीये शिबिरे निपेतुः ॥ ५६ ॥
युग्मं
गृहाण शस्त्रं निगृहाण शीघ्रं प्रयात एवैष शक्रोऽग्रतस्ते ।
आहन्म एतान्निहता बतैतै रित्थं भटोप्रोट्ठवाक्यचित्रे ॥ ५७ ॥
प्रवर्त्तमाने समरे समंता च्छकेशनुन्नेन तदाश्वपेन ।
तुरंगमस्तेन नृपाय नाटा—रंभाभिधानो श्रयते ददे सः ॥ ५८ ॥

३] • पृथ्वीराजसंग्रामवर्णनं २३
तमश्वमारूढममुं विभाव्य शकात्तचित्ता अथ तौर्यिकास्ते ।
अवीवदन् वीरवरप्रियाणि मृदंगभेरीपटहादिकानि ॥ ५९ ॥
अभ्युन्नतांभोधरधीरगार्जि—वितार्जनं तूर्यरवं निशम्य ।
प्रनर्तितुं बर्हणवद्ववृत्ते तार्क्ष्यं विलक्षः क्षणमास भूपः ॥ ६० ॥
भज स्थिरत्वं व्रज मा विषादं इत्युक्तिभाजो यवना जवेन ।
किं कार्यता मूढममुं तयास्थ मवेष्टयन् द्राक् चटका इवाहिं ॥ ६१ ॥
भुवं स्पृशन् दक्षिणपादजानुं—गुष्ठेन चाकुंचितवामपादः ।
वहन् कृपाणावरशं च हस्ते ज्योत्स्न्य सप्तेनिषसाद भूमौ ॥ ६२ ॥
भंग्या ध्रुवः कांश्चन कांश्चिदुग्रा—सैर्बलनैः कांश्चन सिंहनादैः ।
वित्रासयन् चित्रविधायि युद्धं चिराय चक्रे भटचक्रशक्रः ॥ ६३ ॥
पृष्ठे शकस्तावदुपेल्य कश्चित्प्रक्षिप्य कंठे धनुर्राततन्यं ।
अपीपतद्द्पतिमाशु पश्चात् संभूय सर्वे तरसा बबंधुः ॥ ६४ ॥
अथ स धरणिकांतः सद्गुणाली निशांतः
प्रतिहतखलजातः प्रौढराढावदातः ॥
विधिविलसितयोगादाप्तबंधः शकेन्द्रात्
द्विरपि रतिमहासीद्भोजने जीवने च ॥ ६५ ॥
यवनाधिपदेशमनुप्रहितं विभुनै[व] पुरोदयराजभटं ।
समुपेतमवेक्ष्य तदा शकराट् प्रविवेश पुरीमुररीकृतभीः ॥ ६६ ॥
कष्टं निशम्योदयराज ईशितुः प्राप्तं तथा नाह मभूव मित्यथ ।
मूर्धानमुच्चैरधुनोन्मुहुर्मुहुः शल्यं तदुद्धर्तुमिव स्वतो हृदः ॥ ६७ ॥
संत्यज्यैनं व्यसनपतितं स्वामिनं चेद्व्रजामि
व्रीडां व्रीडा कलयति तदा गौडगोत्रे सुखं मे ।
इत्थं ध्यात्वा शकपतिपुरीं संनिरुध्याभितोसौ
तस्थौ पक्षद्वयमनुदिनं युध्यमानो हठेन ॥ ६८ ॥
म्लेच्छावनीपमिममेवमन्यदा कश्चिज्जगाद सविषादमानसः ।
त्वामेष कोऽमुचदनेकशो रणे त्वं नैकवेळमपि हा जहास्यमुम् ॥ ६९ ॥

२४ . श्रीहम्मीरमहाकाव्ये [ सर्ग :
धर्मोचितामपि तदेति तद्गिरं श्रुत्वा भृशं स कुपितो नृशंसधीः ।
उच्चैत एत इत एव विद्रव—द्राजज्ञकोपनिषदस्तिमित्यवक् ॥ ७० ॥
वीरेंद्रेष्वथ दत्तदृष्टिषु धरापीठे ह्रिया स्वाक् सतां
सांद्राश्रुस्रुतिसिक्तशोकलतिकाकंदेषु वृंदेषु च ।
आनीयैष नृपं तमुग्रतररुट् दुर्गांतरे चीचय-
त्कार्याकार्यविचारणांधबधिरा हाहाऽधमाः सर्वतः ॥ ७१ ॥
शैवा यं “चिच्छव” मामनंति “सुगतं” बौद्धा यदाचक्षते
“सर्वज्ञं” यदुदाहरंति नितमामर्हन्मते छेकिलाः ।
तद्ब्रह्माद्रुतचिन्मयं स्थिरमनास्तत्र स्थितोऽसौ स्मरन्
पृथ्वीराजनृपो नृपालितिलको लेभे शिवं शाश्वतं ॥ ७२ ॥
पृथ्वीपतेरिति विनाशगतिं निशम्य
दूनः स गौडकुलपंकजबालसूर्यः ।
स्थानं निजं तदुपगम्य बलं स्वयं च
युध्वा दिवस्पतिपदं तरसाससाद ॥ ७३ ॥
अधिगत्य भूपतिविपत्तिमिति स्रवदश्रुमिश्रनयनस्तदनु ।
विहितौर्ध्वदैहिक इलामखिलां स्वकरे चकार हरिराजनृपः ॥ ७४ ॥
यन्नामप्रतिवर्णसंश्रुतसुधापूरापतद्यद्यशः
कर्पूरोरुरजोभरप्रसृमराविर्भाविपंकाकुले ।
वाणीनां पथि नाभजंत पथिकीभावं यदीया गुणा
औदार्यप्रमुखाः किमद्भुतमहो तत्तत्कवीनामपि ॥ ७५ ॥
यत्पाणि सरसीरुहं किल रमा भेजेऽसिदंभाच्च तां
रागादन्वगमत्स्वयं हरिरभूत्सूनुः प्रतापस्तयोः ।
यः श्रुत्वाऽग्रजवैरिणं स्मररिपुं कोपांत्तथाऽतीतपत्
नालं दूरयितुं यथा क्षणमपि स्वस्मात्स गंगामभूत् ॥ ७६ ॥
भूचक्रे स्वयशोऽद्रितुंगशिखरादभ्युद्गतैरंशुभि-
र्ब्रह्मांडादहतिभ्रमवेगविधुरैः पश्चान्निवृत्तैः पुनः ।

३ ] पृथ्वीराजसंग्रामवर्णनम् २५
देवानामपि कुंभजन्ममुनये दातुं किमर्थं व्यधात्
नित्योल्लासिविकासिकाससुभगं भूष्णुश्रियं यौ दिवम् ॥ ७७ ॥
विधुरतिविधुरश्रींनिस्तरंगा च गंगा
कनकगिरिरगौरस्तंक्तगर्वश्च शर्वः ।
कुमुदममदमैंद्रः सिंधुरो नोद्दुरोजा
अजनि लसति विवस्त्रीचि यत्कीर्तिपूरे ॥ ७८ ॥
यान् यान् व्यत्यगमन्नृपान् कृतनतीस्ते ते प्रकाशं ययु-
र्यान् यान् प्रत्यचलच्च भेजुरभितस्ते ते क्षणान्म्लानतां ।
यस्य क्षोणिपतेः प्रतापवसतेर्दिग्जैत्रयात्रोत्सवे
सेना कापि न वा व्यराजततमां संचारिणी दीपिका ॥ ७९ ॥
कर्तुं दिग्गजमुद्यतस्य निखिलं क्षोणीतलं क्रामता-
मश्वानां गतिभंगता मुपनयन् वेगोत्तरं धावतां ।
वारांराशिरसावजायत तमां यस्यांतरायः कवे-
र्वाचां वाच्यविचारभास्वररुचां गोष्ठीशठानामिव ॥ ८० ॥
हत्तानेन विपक्षभूमिपतयः स्वैर्विभवं लंमिता
अस्येमामुपकारितां स्वहृदये संभाव्य तेपि क्षणात् ।
सचक्रुर्गजवाजिराजिवसुधाकोशादिदानैरमुं
वंध्यं सारपरोपकारजनितं पुण्यं न शत्रावपि ॥ ८१ ॥
हुत्वा यो निजकोपपावकमुखे द्विद्वीरहव्यं शुचा-
कंदत्कंदमणीविलोचनगलद्वाष्पांबुभिर्भूरिभिः ।
भूचक्रेञ्च तथातिवृष्टिमनिश् प्रोल्लासयामासिनान्
आशिश्राय यथाविनाशमचिरादन्यायबीजांकुरः ॥ ८२ ॥
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहा-
काव्ये वीरांक श्रीपृथ्वीराजसंग्रामवर्णनो नाम तृतीयः सर्गः॥
4 A .
.

२६ श्रीहम्मीरमहाकाव्ये [ सर्गः
अथ चतुर्थः सर्गः
कुर्वन् कुवलयोल्लास मसन्तापकरैः करैः ।
वेला इव तुषारांशुः स प्रजा अभ्यवीवृधत् ॥ १ ॥
राज्यं निर्विशतेऽन्येद्यु र्हरिराजमहीभृते ।
प्रीतिव्रततिवृद्ध्यर्थं श्रीगुर्जरनरेश्वरः ॥ २ ॥
विस्फुरच्छुक्रसंबंधाः समुन्नतपयोधराः ।
वर्षा इवोहसद्धर्षाः प्रेषयामास नर्त्तकीः ॥ ३ ॥ युग्मं
अन्यदा स्फुरितोदार—स्फारशृंगारभासुरे ।
नृपे च नृपलोके च स्फीतप्रीतौ निषेदुषि ॥ ४ ॥
वाद्यमानेषु वाद्येषु तालमेलमनोहरं ।
गायनेषु च गायत्सु कोकिलालापकोमलं ॥ ५ ॥
दृढयौवनसोपानाः शृंगाररसवारयः ।
विस्फुरद्बालसेवाला विलासोल्लासवीचयः ॥ ६ ॥
पीनस्तनोल्लसत्कोका विस्मेरवदनांबुजाः ।
चलदृक्पृथुलोमानः सुमेषोद्दीर्घिका इव ॥ ७ ॥
वात्याव्यतिकराद्धूत—कदलीदलवत्तनुं ।
वेल्ल्यंत्यो भ्रमंत्यश्च चक्रजीविकचक्रवत् ॥ ८ ॥
कदाचिद्भुजयोर्मूलं कदाचिन्नाभिमंडलं ।
कदाचन कुचोन्नत्यं दर्शयंत्यो मुहुर्मुहुः ॥ ९ ॥
लसल्लावण्यलीलाभि र्लोकलोचनलोभनाः ।
मूर्त्ताः (कंदर्प) दर्पास्ताः प्रावर्तंत प्रनर्त्तितुं ॥ १० ॥
सप्तभिः
तस्याजननमेवासी दासां लावण्यवारिधौ ।
मग्ने दृग्मनसी यस्य निर्यातुं शक्ततां गते ॥ ११ ॥

४ ] तज्जन्मवर्णनम् २७
इति तासां स्फुरद्वासो नाट्यं पश्यन्नहर्निशं ।
क्षणमात्रमपि त्यक्तुं नालंभूष्णुरभूदयं ॥ १२ ॥
ततोऽसौ गीतनृत्तादि—दक्षदानपरायणः ।
मितंपचत्वं शिश्राय सेविनां जीविकार्पणे ॥ १३ ॥
वार्तामलभमानास्ते तस्य सेवामहासिनुः।
स्वार्थसिद्धिं विना कोपि किं स्यात्कस्यापि सेवकः ॥ १४ ॥
राज्यस्थितिं तथाभूतां दर्शदर्शं प्रजा अपि ।
विरज्यंतेस्म तस्मात् द्वाग् स्त्रितमा दुर्भगादिव ॥ १५ ॥
एतत्स्वरूपं विज्ञाय प्राग्वैरी शकनायकः ।
ससैन्योभ्येत्य दिल्लीतो देशसीमानमानशे ॥ १६ ॥
काकनाशं ततो भीत्या प्रनष्टजनताननात् ।
सौख्यसर्वंकषं श्रुत्वा गमनं शत्रुभूपतेः ॥ १७ ॥
आरभ्य पृथ्वीराजेंद्र—नाकलोकातिवासरं ।
अकृत्यमिति संत्यक्त—शकाननविलोकनः ॥ १८ ॥
सांतःपुरपुरंध्रीक स्ततोऽसौ ज्वलने विशत् ।
भाविनी यादृशी कीर्ति र्मतिः स्यात्तादृशी नृणां ॥ १९ ॥
त्रिभिर्विशेषकं
नाकलोकं पृणे ऽमुष्मि नम्लासीत्तत्परिच्छदः ।
अस्तंगते जगद्दीपे स्मेरः किं कमलाकरः ॥ २० ॥
अपुत्रत्वेन भूभर्तुः शत्रोरागमनेन च ।
चिंताचांतहृदो बाढं मंत्रयंति स्म मंत्रिणः ॥ २१ ॥
अपत्यं भूपतेर्नास्ति भटा न च रणोद्धताः ।
विपक्षस्तु महावीर्यः कथं रक्षिष्यते पुरं ॥ २२ ॥
तत् त्यक्त्वा नीवृतं यामो रणस्तंभपुरं प्रति ।
सूरोपि बलवैकल्यात् श्रयेत् द्वीपांतरं न किं ॥ २३ ॥

२८ श्रीहम्मीरमहाकाव्ये [ सर्गः
तत्रास्ति पृथ्वीराजस्य प्राक् पित्रातो निरासितः ।
पौत्रो गोविंदराजाख्यः स्वसामर्थ्यात्तवैभवः ॥ २४ ॥
स्वस्वामिवंशकासार-हंसं तं भूपमाश्रिताः ।
कीर्त्तिपानीभवंतोऽव-तिष्ठेम ह्यकुतोभयाः ॥ २५ ॥
मंत्रयित्वेति भूपीयं सर्वं कोशवलादिकं ।
सहादाय चलंतिस्म रणस्तंभपुरंप्रति ॥ २६ ॥
दावपावकवत् वाध्यं ज्वालयन् देशमुद्धसं ।
शकः पश्चादुपागत्या ऽजयमेरुपुरं ललौ ॥ २७ ॥
अथ प्राप्य रणस्तंभं पुरं गोविंदभूपतेः ।
समगंसत ते सर्वे वृत्तांतं च न्यगादिषुः ॥ २८ ॥
पितृव्यस्य तथाभूतं मृत्युं श्रुत्वा धराधिपः ।
वाचामगोचरं कष्टं कलयामास मानसे ॥ २९ ॥
स्मृतिस्मृतिपरित्यक्त-शोकः कृतौर्ध्वदैहिकं ।
धीसत्त्वांस्तान् यथायोग्य-कार्येणायोजयन्नृपः ॥ ३० ॥
पराभवन् द्विषच्चक्रं प्रभवन् न्यायवृद्धये ।
सौख्यं चानुभवन्स्फीतं स प्रजाश्चिरमन्वशात् ॥ ३१ ॥
गोविंदे दिविषद्वृंदे संचारयति चातुरीं ।
तानवं शात्रवं निन्ये श्रीमद्वाल्हण भूपतिः ॥ ३२ ॥
घनवत् समरे यत्र शरासारं वितन्वति ।
नाशेनैवा ऽभवद्व्यक्ता रिपूणां राजहंसतां ॥ ३३ ॥
वर्षत्यपि भृशंवाण-धाराभिर्यद्धनुर्घने ।
चित्रं विच्छायतामेव भेजिरे शत्रुभूभृतः ॥ ३४ ॥
सखरं जिखरं वीक्ष्य समरे यमरिन्वजाः ।
अभिलेषुः सपक्षत्वं न वरं नाशहेतवे ॥ ३५ ॥
नाम्नि धाम्नि च संक्षेपं विधित्सन् यो विरोधिनां ।
अवनीपालतां हित्वा द्राग् वनीपालतां ददौ ॥ ३६ ॥

४ ] तज्जन्मवर्णनम् २९
स दानभोगौ गोचक्र-मंडनौ पापखंडनौ ।
उभावभूतां तत्पुत्रौ सूर्याचंद्रमसाविव ॥ ३७ ॥
गुणश्रेष्ठस्तयोर्ज्येष्ठः ख्यातः प्रल्हादनाह्वयः ।
द्वैतीयीको द्वितीयश्रीर्वाग्भटः प्रतिपद्भटः ॥ ३८ ॥
समं वितन्वतः क्रीडां सममभ्यस्यतः कलाः ।
अवर्द्धिष्ट तयोः प्रीती रामलक्ष्मणयोरिव ॥ ३९ ॥
वीक्ष्यान्यदा नृपो मूर्ध्नि पलितं करणीं जरां ।
शपतिस्माऽशु भोगेभ्यो योगेभ्यः श्लाघते स्म च ॥ ४० ॥
ततोऽनुशास्य विधिना भूपः पुत्रावुभावपि ।
न्यधात् प्रल्हादनं राज्ये प्रधानत्वे च वाग्भटं ॥ ४१ ॥
स्वयं स्थित्वा कियत्कालं तयोः प्रीतिमिवेक्षितुं ।
प्रांते स्मरन् परंब्रह्म बभूवे दिविषत्पदं ॥ ४२ ॥
कृतौर्ध्वदैहिकं वस्तु स्ततः प्रल्हादनो नृपः ।
अरंजयत्प्रजा नास्थ्यो-पनिषज्ज्ञो यथा सभाः ॥ ४३ ॥
भास्वत्यभ्युदिते यस्मि न्नासन्नजनि कर्त्तरि ।
सपक्षैश्च विपक्षैश्च कौतुकं कौशिकायितं ॥ ४४ ॥
विशामीशे दशाऽप्याशा जेतुं यत्र कृतोद्यमे ।
वैरिणो जीवितं त्रातुं द्विधापि प्रधनं जहुः ॥ ४५ ॥
बलिध्वंसोलसदाम शय शायिसुदर्शनः ।
विष्वक्सेनोऽपि यच्चित्रं न भेजे दानवारितां ॥ ४६ ॥
उत्सलद्धूलिविज्ञात-खुरामक्षुण्णभूतलाः ।
त्वरया वायुविस्फूर्ति-जिह्वरा स्तुरगा बभुः ॥ ४७ ॥
मुदान्यदा स दावाग्नि-प्रतापश्वापविप्लुतः ।
विधित्सुः पटुमाखेटं निरैगान्नगराद्वहिः ॥ ४८ ॥
आजानुलंबि सुस्थूल-नीलीचीवरधारिणः ।
चेलुः पदातयो मूर्त्ता भयानकरसा इव ॥ ४९ ॥

३० श्रीहम्मीरमहाकाव्ये [ सर्गः
स्तब्धोर्ध्वकर्णाः सुस्निग्ध-वर्णाः स्वर्णाग्रकंठिकाः ।
चाक्षुषा मातरिश्वान इव श्वानश्चकासिरे ॥ ५० ॥
वाहिनीशतसंश्लेष-बहुलैः प्रचलद्दलैः ।
समुद्रैरिव कल्पांत-भ्रांतैर्विह्वलयन्निलां ॥ ५१ ॥
विस्मेरसुमनोबाण-करवीरमनोहराः ।
नारीरिव वनीर्वीक्ष्य नृपोभूद्द्रुतुमुन्मनाः ॥ ५२ ॥
बलभद्रास्ततः केपि हरिमार्गानुसारिणः ।
केचिच्छशधरादृष्ट-सिंहिकासुतविक्रमाः ॥ ५३ ॥
केचिच्छिवानुगा रौद्रा वृषोलंघनजांघिकाः । .
अंतर्वणं विशंति स्म भटा आखेटलंपटाः ॥ ५४ ॥
द्विधापि पृष्ठदानेन सत्रपः कोपि सिंहयोः ।
यशोमृतं पिवन्नंतः स्थितः क्रोडं व्यडंबयत् ॥ ५५ ॥
मत्स्वामिवल्लभां शश्वद्वसुधां चंखनीयत्यं ।
इति प्रकुपितः कोपि वराहं मध्यतो ऽच्छिनत् ॥ ५६ ॥
त्वन्नेत्रकांतिचोरोयं यथारुचि विधीयताम् ।
इति कश्चित्प्रियाप्रीत्यै मृगं बध्वा समायहीत् ॥ ५७ ॥
निघ्नन् पुरः स्थितं सिंहं हत्वा पृष्ठागतं परं ।
लेभे काकाक्षगोलस्यो-पमानं कस्याचित्करः ॥ ५८ ॥
तत्कटीदर्शनादाशु प्रियां संस्मृत्य कश्चन ।
न हातुं न प्रहंतुं च सिंहमासीत्क्षणं क्षमः ॥ ५९ ॥
व्यात्तवक्त्रे करं क्षिप्त्वा छित्त्वा केसरिणः शिरः ।
उदांचितभुजो बाहु-त्राणवत्कोप्यदीदृशत् ॥ ६० ॥
निजिघांसुं मृगीं कंचिन्मृगो दृष्ट्वातिकोष्टितः ।
स्वयमासांतरावतीं कटास्नेहकटाक्षितं ॥ ६१ ॥
वंचयित्वाथ दाक्ष्येण कोपि दृग्गोचरं हरेः ।
पृष्ठमारूढवान् सिंह-यानलीलायितं दधौ ॥ ६२ ॥

४ ] तज्जन्मवर्णनम् ३१
कृत्वातिसिंहस्यामप्राक्—पश्चाच्छस्त्रेण पातितः ।
वराहो रारटीतिस्म स्वभावः खलु दुस्त्यजः ॥ ६३ ॥
नृपोपि वर्षन् हर्षेण शरासारैररुंतुदैः ।
श्वापदानापदाक्रांता न्कुर्वन्नाच्छन् यदृच्छया ॥ ६४ ॥
क्वचिद्धिरिणदीतीरे स्फुरच्छ्रवणांतरे ।
पारींद्रमेकमद्राक्षी निद्रामुद्रितलोचनं ॥ ६५ ॥ युग्मं
उत्सार्य भूपो विज्ञात—शरसंधानमोक्षणः ।
निर्ममे दक्षिणेम्मर्माण तं पारींद्रं विनिद्रितं ॥ ६६ ॥
तेनैवोत्साहनादेन कुतोपि कुपितोऽन्यतः ।
तावत्परः स्फुरत्फालः सिंहः संहतविक्रमः ॥ ६७ ॥
जग्राह भूपतेरंसं प्रांशुं तीव्राग्रदंष्ट्रया ।
उरोविदारं राज्ञापि क्षुर्याऽसौ प्रतिचस्करे ॥ ६८ ॥ युग्मं
दंष्ट्राघातस्रुवद्रक्त—धाराभिरभितश्चितः ।
दधौ धातुद्रवक्लिष्ट—शैललीलां क्षणं नृपः ॥ ६९ ॥
ततो दंष्ट्राविषोत्सर्पि—मूर्छाभिर्विह्वलीकृतः ।
यतीवर्द्धिं स पापर्द्धिं त्यक्त्वागादात्ममंदिरं ॥ ७० ॥
मंत्रवादिगणैर्वैद्य—वृंदैरपि परः शतैः ।
भृशं चिकित्स्यमानोपि नाभूद्भूयः स्वरूपभाक् ॥ ७१ ॥
दुश्चिकित्सतरं ज्ञात्वा ऽऽत्मानं भूपोथ सर्वथा ।
वीरनारायणं पुत्र मभ्यषिंचन्निजे पदे ॥ ७२ ॥
पतिष्यच्चाह्मानीय राज्यश्रीवल्लिपादपं ।
वाग्भटं च समाहूय सोदरं जगिवानिति ॥ ७३ ॥
शौर्यं बुद्धिरविश्वासो राज्यश्रीकारणं त्रयं ।
तद्युक्तं स्थावरे स्वापं दुरापं शैशवे पुनः ॥ ७४ ॥
तदस्ति स्वापचापल्याद् बाल्येऽसौ वयसि स्थितः ।
अनुशास्यस्तथाकारं यथास्यान्नाहितं क्वचित् ॥ ७५ ॥

३. जलालुद्दीन खिलजी पराभव व शरणागत महिमा

३२ श्रीहम्मीरमहाकाव्ये [ सर्गः
दौःशल्येन सुतस्यास्य सशल्य इव वाग्भटः ।
मंदमंदमथाचख्यौ मन्युगद्गदया गिरा ॥ ७६ ॥
भवितव्यं तु न स्वामिन्निरोद्धुं कोपि सासहिः ।
त्वामिवैनं पुरोपासे सावधानः परं सदा ॥ ७७ ॥
उक्तेति वाग्भटे तूष्णीं तस्थुषि क्षितिपाग्रणीः ।
चिकीर्षयात्मनीनस्य सस्मार परमात्मनः ॥ ७८ ॥
राज्यथास्तमिते तस्मिन् वीरनारायणो विभुः ।
भास्वानिवासील्लोकानां कमलोल्लासकोविदः ॥ ७९ ॥
स्वतेजसैव यस्याशु द्विषतः पिंषतः सतः ।
वृथा मत्प्रतिकर्मेति किमसिः श्यामतामधात् ॥ ८० ॥
विस्फूर्जद्भुजशांडीर्य—फणभृद्दृष्टवैरिणां ।
यस्य खड्गलता नाग—दमनौषधिवद्बभौ ॥ ८१ ॥
सोन्यदा प्रमदानेत्र—पावनं यौवनं श्रितः ।
परिणेतुं सुतां कत्स—त्राहस्याऽन्नपुरीमगात् ॥ ८२ ॥
तत्राभिषेणितो जल्ला—लदीनशकभूभुजा ।
पलाय्यागाद्रणस्तंभं पृष्ठतः सोप्युपागमत् ॥ ८३ ॥
तत्र युध्वा चिरं जल्ला—लदीनः प्रौढपौरुषः ।
विज्ञाय तं छलग्राह्यं निवृत्यागान्निजां पुरीं ॥ ८४ ॥
कियत्यथगते काले ततः स शकभूपतिः ।
विजिगीषुच्छलेनामुं दूतेनेत्थमचीकथत् ॥ ८५ ॥
ज्योतिश्चक्रेषु सर्वेषु सूर्याचंद्रमसौ यथा ।
तथावां सार्वभौमा वो भूभृत्सु निखिलेष्वपि ॥ ८६ ॥
तन्नौ युक्ता मिथः प्रीतिः पचेलिमफलोदया ।
न च विग्रहविस्फूर्ति र्भिदेलिम तमायतिः ॥ ८७ ॥
सहायं त्वादृशं लब्ध्वा समीरमिव पावकः ।
दंदह्येय क्षणेनैव वैरिवंशान् दृढानपि ॥ ८८ ॥

४ ] तज्जन्मवर्णनम् ३३
प्रीतोस्मि तव शौर्येण त्वं मे भ्राताऽतः परं ।
द्रुह्यामि यद्यहं तुभ्यं तर्हि शपे ध्रुवं ॥ ८९ ॥
एकवेलं समेतव्यं मिलनाय परं त्वया ।
न चेदहं समाकार्य स्वदादेशवशंवदः ॥ ९० ॥
वक्षःस्थलपुरेशेन विग्रहाख्येन विग्रहैः ।
सुतरां विगृहीतस्य सिसाधयिषतोय तं ॥ ९१ ॥
ताभिर्द्वूतोक्तिभंगीभि भृंगीभिरिव वारिजं ।
चुंबितं चाहमानस्य हृदयं व्यश्वसीत्तमां ॥ ९२ ॥ युग्मं ०
ततोवनीपतिं वीक्ष्य शकसंगमनोत्सुकं ।
रहः संवादयामास वाग्भटः प्रतिभाभटः ॥ ९३ ॥
नयशास्त्रांबुधेः पार-दृश्वनः का तवौचिती ।
क्रियते दुष्टहृन्म्लेछ-संगमाय यदुद्यमः ॥ ९४ ॥
शत्रुर्न मित्रतां गच्छे च्छतशः सेवितोपि सन् ।
दीपः स्नेहेन सिक्तोपि शीतात्मत्वमियार्ति किं ॥ ९५ ॥
प्रचिकीर्षसि चेद्राज्यं जिजीविषसि चोचिरं ।
तदा मद्युक्तिभृंगीयं नीयतां हृदयांबुजं ॥ ९६ ॥
गुरवो यदि वा संतो हितवाक्योपदेशिनः ।
हेयोपादेयतां तस्या-भव्यभव्यौ चिकीर्षतः ॥ ९७ ॥
इत्युक्त्वा तत्र तूष्णीके सर्वांगीणक्रुधांधलः ।
घटयन् भ्रकुटीं भीमां पार्थिवो जगिवानिति ॥ ९८ ॥
अकार्यं यदि वा कार्यं यन्मे रोचिष्यतेतमां ।
करिष्ये तदहं स्वैरं चिंतयात्र कृतं तव ॥ ९९ ॥
वाग्भटस्तेन वाक्येन प्रासेनेव हतो हृदि ।
ययौ तद्राज्यमुत्सृज्य मालवे सपरिच्छदः ॥ १०० ॥
परमप्रीतिगौराणां पौराणामपि भाषितं ।
उपेक्ष्य गर्वादुर्वशो ययिवान् योगिनीपुरं ॥ १०१ ॥
5 A

३४ श्रीहम्मीरमहाकाव्ये [ सर्गः
अंतर्दुष्टो मुखे मिष्टः शकेंद्रोभ्येत्य सन्मुखं ।
महेन महतानैषी दंतःपुरि नरेश्वरं ॥ १०२ ॥
प्रियालपनसारखं वनंवद्दर्शयन्मुहुः ।
चिरं चकार चेतोस्य चित्रप्रचयचुंबितं ॥ १०३ ॥
अन्येद्युर्विषयोगेन शकान्तृपममीमरत् ।
काप्यकृत्यं प्रकुर्वंतः पापा मुह्यंति हंत किं ॥ १०४ ॥
हतेत्रान्यच्छक्रो बोधि जितमेवाशु राजकं ।
मूले छिन्ने हि सुग्राहं फलागुच्चैस्तरोरपि ॥ १०५ ॥
ततो वाग्भटभूपाल-सूर्येण परिवर्जितं ।
रणस्तंभपुरव्योम व्यानशे शकतारकैः ॥ १०६ ॥
शकप्रेरणयेहापि जिघांसुं मालवेश्वरं ।
विज्ञाय वाग्भटो हत्वा ललौ तद्राज्यमूर्जितं ॥ १०७ ॥
शकातंकपरित्रस्तै र्बहुजैः शरणागतैः ।
तद्राज्यं प्राज्यलीलाभृ दवर्धिष्ट दिने दिने ॥ १०८ ॥
शके जल्लालदीनेय षर्प्परैरभिषेणिते ॥
वाग्भटोप्यमिलत्सैन्यं रणस्तंभांधिधीर्षया ॥ १०९ ॥
पुंनागसंगसुभगाः प्रक्षरन्मदनिर्झराः ।
जंगमावनिभृल्लीलां कलयांचक्रिरे द्विपाः ॥ ११० ॥
खुरोत्खातरजःपुंजै र्विश्वमप्येकरूपतां ।
नयंतो वाजिनां व्यूहा रेजिरेऽद्वैतवादिवत् ॥ १११ ॥
संचरद्रथचक्राणां दिशां कूलंकषैः स्वनैः ।
शब्दाद्वैतमयीवासी दखिलाप्यब्धिमेखला ॥ ११२ ॥
धृतिहेतिततिस्फीत-द्युतियोतितदिङ्मुखाः ।
बभुः पदातयो द्वेधा-प्यरिप्राणापहारिणः ॥ ११३ ॥
चलद्दलभरैर्भोगि-विभुना दुर्धरां धरां ।
सृजन्नधो रणस्तंभं शिविरं संन्यवेशयत् ॥ ११४ ॥