सामग्री पर जाएँ
सर्वकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 65, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 65

१६ श्रीहम्मीरमहाकाव्ये [ सर्गः
कर्पूरदेवीति बभूव तस्य प्रिया [प्रिया] राधनसावधाना ।
जितं यदास्येन जले निलीया द्याप्यप्सुजं किन्न तपस्तनोति ॥ ७२ ॥
इहस्थितो ऽसौ रमणः कदाचित् विलोक्य लुब्धो भविता बतैताः ।
इतीव या नो हृदये प्रवेष्टु मेणीदृशामप्यदितावकाशं ॥ ७३ ॥
पत्या भुवो वैषयिकं विनोदं सा निर्विशंकं किल निर्विशंती ।
अमानधामानमसूत सूनुं हरेरिवाशा तुहिनांशुबिंबं ॥ ७४ ॥
अतुच्छवात्सल्यभरं दधानो वितत्य तज्जन्ममहं महांतं ॥
जगज्जनाल्हादकरस्य पृथ्वी—राजेतिनामाऽधित तस्य भूपः ॥ ७५ ॥
तनुत्विषान्निर्द्दलितांधकार—जालः स बालोऽन्वहमेधमानः ।
भृशं प्रजानां नयनांबुजानां भद्रं करो भानुरिवाजनिष्ट ॥ ७६ ॥
शस्त्रेषु शास्त्रेषु च लब्धपारं विलोक्य भूमानथ तं कुमारं ।
साम्राज्यभारं प्रवितीर्य तस्मै योगेन मार्त्तं वपुरुत्ससर्ज ॥ ७७ ॥
पित्रा प्रदत्तं समवाप्य काले राज्यं स भूभृन्नितरां चकासे ।
अहर्मुखे हर्पति नोदयाद्रि र्यथा तमोव्रातविनाशि रोचिः ॥ ७८ ॥
गुणाभिघातं प्रसभं प्रकुर्व न्नप्येष चक्रे न गुणाभिघातं ।
अपि प्रतन्वन् परलोकबाधां न च प्रतेने परलोकबाधां ॥ ७९ ॥
निषेवमाणोप्यसितांसवृत्तिं नैवासितां वृत्तिमुपादितैषः ।
तेनेति तेने परलोकपीडा न तेन तेने परलोकपीडा ॥ ८० ॥
द्विट्कुंभिकुंभतटदत्तदृढप्रहार-
प्रत्यंगलग्ननवमौक्तिककैतवेन ।
क्षमामंडलं फलितुमुन्मिषितप्रसून
राजीव यस्य युधि खड्गलता विरेजे ॥ ८१ ॥
कीर्तिर्यस्य सतीव्रतेति मृदुरप्याधत्त न प्रत्ययं
चित्ते कस्य न योज्झतिस्म तमहो कल्पांतमप्यास्थितं ।
अन्येषां तु सतीव्रतापि न सती वेश्येव तान् जीविता
वध्येवोज्झति चेन्नयास्म कतिचित्तान् जीवतोप्युज्झति ॥ ८२ ॥