हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 68, कुल 185 में से
संदर्भ में पढ़ें२ ] पृथ्वीराजसंग्रामवर्णनम् १९
देशानशेषान् जहि नागराणां हरेणनेत्रा दह मंदिराणि ।
विगृह्य यो बाहुजराजराजेः कुलानि चक्रे विपदाकुलानि ॥ ८ ॥
अशेषभूपालविशेषकाभ के नाम ते क्षोणिभुजः क्षमायां ।
स स्वौजसा त्रासितबाहुजानां वृंदैर्दर्रीः पूरितवान्न येषां ॥ ९ ॥
यः संगरे संगररंगवेदी क्षात्रं क्षणाद्द्वेषम नयन् यमस्य ।
किं भार्गवोयं पुनरेव जात इत्याकुलैर्वीरकुलैर्न्यतर्कि ॥ १० ॥
अयं समागादयमः समागाज्जना इति स्फारितलोचनाब्जं ।
दिशो दशापि प्रविलोकयंतो यतो भयेनानिमिषीबभूवुः ॥ ११ ॥
उद्वास्य शस्यान्यपि भूपतीनां यस्त्रैपुराणीव पुराणि शंभुः ।
अतिष्ठिपत् द्विट्कुलशूल मूल—स्थाने प्रधाने निजराजधानीं ॥ १२ ॥
निःकारणं दारुणवैरभाजा तेनाभिभूता नृपभूभुजोमी ।
समैयुरुस्त्वां शरणं शरण्य मतो भवानेव परं प्रमाणं ॥ १३ ॥
इत्येतदीयां विनिशम्य वाचं वाच्यंमानामापि कोपरूचीं ।
आकृप्य कूर्चं तरवारिमुष्टि—पट्टिष्टनाभात्करवारिजेन ॥ १४ ॥
मयूरबंधेन निबंध्य नैनं पादारविंदे यदि वः क्षिपामि ।
जातोन्वये तर्हि न चाहमाने इति प्रतिज्ञामकरोन्नरेशः ॥ १५ ॥
ततस्ततः श्रीः शुभकारिसर्व—ग्रहे विलग्ने विजये च योगे ।
चचाल चंचन् प्रतिपंधिमथ चिकीर्षया व्याकुलचित्तवृत्तिः ॥ १६ ॥
पौरैणपोताभदृशः प्रयांतं प्रक्षिप्तिक्षितुस्तं प्रति यान् कटाक्षान् ।
मांगत्यहेतोः स्म भवंति तस्य त एव दूर्वाक्षतकांतिभाजः ॥ १७ ॥
निरंतरप्राप्तमहाप्रसाद—विशुद्धये शुद्धधियः प्रकामं ।
करस्फुरत्स्फारतरासिदंड-स्फुराः प्रचेलुर्बरवीरवाराः ॥ १८ ॥
द्यावापृथिव्योरुदरंभरीणि प्रोत्तुंगरंगद्गजगर्जितानि ।
अपि द्वयानां धरणीधराणां सत्त्वानि चक्रुर्विधुताधृतीनि ॥ १९ ॥
प्रतापसूर्येऽभ्युदितेऽस्र्यये साध्यं किमेतेन बतोद्यतेन ।
इतीव तीव्रद्युतिमुद्यतश्चि-सैन्योत्थरेणुस्तिरयांबभूव ॥ २० ॥