हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 73, कुल 185 में से
संदर्भ में पढ़ें२४ . श्रीहम्मीरमहाकाव्ये [ सर्ग :
धर्मोचितामपि तदेति तद्गिरं श्रुत्वा भृशं स कुपितो नृशंसधीः ।
उच्चैत एत इत एव विद्रव—द्राजज्ञकोपनिषदस्तिमित्यवक् ॥ ७० ॥
वीरेंद्रेष्वथ दत्तदृष्टिषु धरापीठे ह्रिया स्वाक् सतां
सांद्राश्रुस्रुतिसिक्तशोकलतिकाकंदेषु वृंदेषु च ।
आनीयैष नृपं तमुग्रतररुट् दुर्गांतरे चीचय-
त्कार्याकार्यविचारणांधबधिरा हाहाऽधमाः सर्वतः ॥ ७१ ॥
शैवा यं “चिच्छव” मामनंति “सुगतं” बौद्धा यदाचक्षते
“सर्वज्ञं” यदुदाहरंति नितमामर्हन्मते छेकिलाः ।
तद्ब्रह्माद्रुतचिन्मयं स्थिरमनास्तत्र स्थितोऽसौ स्मरन्
पृथ्वीराजनृपो नृपालितिलको लेभे शिवं शाश्वतं ॥ ७२ ॥
पृथ्वीपतेरिति विनाशगतिं निशम्य
दूनः स गौडकुलपंकजबालसूर्यः ।
स्थानं निजं तदुपगम्य बलं स्वयं च
युध्वा दिवस्पतिपदं तरसाससाद ॥ ७३ ॥
अधिगत्य भूपतिविपत्तिमिति स्रवदश्रुमिश्रनयनस्तदनु ।
विहितौर्ध्वदैहिक इलामखिलां स्वकरे चकार हरिराजनृपः ॥ ७४ ॥
यन्नामप्रतिवर्णसंश्रुतसुधापूरापतद्यद्यशः
कर्पूरोरुरजोभरप्रसृमराविर्भाविपंकाकुले ।
वाणीनां पथि नाभजंत पथिकीभावं यदीया गुणा
औदार्यप्रमुखाः किमद्भुतमहो तत्तत्कवीनामपि ॥ ७५ ॥
यत्पाणि सरसीरुहं किल रमा भेजेऽसिदंभाच्च तां
रागादन्वगमत्स्वयं हरिरभूत्सूनुः प्रतापस्तयोः ।
यः श्रुत्वाऽग्रजवैरिणं स्मररिपुं कोपांत्तथाऽतीतपत्
नालं दूरयितुं यथा क्षणमपि स्वस्मात्स गंगामभूत् ॥ ७६ ॥
भूचक्रे स्वयशोऽद्रितुंगशिखरादभ्युद्गतैरंशुभि-
र्ब्रह्मांडादहतिभ्रमवेगविधुरैः पश्चान्निवृत्तैः पुनः ।