सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

१०८ नामकरणविधिः । [ २ प्रपाठके-
तच्च नामधेयं प्रथमं-पूर्वं मात्रे कुमारस्य । आख्याय-कथयित्वा यथार्थम्।
तत्कर्मसमाप्तङ्कुर्यादित्यर्थः । चशब्दात्पुरुषनाम्नः स्त्रीनाम्नश्च प्रथमम्मात्रे
कथनम् । एवकारोमात्रे प्रथमनिवेदनार्थः ॥ १७ ॥
गौर्दक्षिणा ॥ १८ ॥
नामधेयकर्मणः ॥ १८ ॥
( अथ जन्मदिनादिकृत्यम् )
कुमारस्य मासि मासि संवत्सरे सावँत्सरिकेषु वा पर्वस्वग्नीन्द्रौ
द्यावापृथिवी विश्वान्देवाꣳश्च यजेत ॥ १६ ॥
जननादित्युपक्रमात् कुमारस्य जन्मतिथौ वक्ष्यमाणा देवता यजेत् । तत्र
समयविशेषमाह-मासि मासीति । प्रतिमासमित्यर्थः । तेन संवत्सरपर्यन्तं
यागः । ऊर्ध्वं संवत्सराज्जननमास एवैकस्मिन्वर्षान्ते जन्मतिथौ संवत्सरे
“वा पूर्णे” इति वाक्यशेषः । अत्रापि जन्ममासे जन्मतिथौ यजेतेति द्रष्टव्यम् ।
वा-अथवा सावँत्सरिकेषु पर्वसु । यजेत । संवत्सरस्येमानि सावँत्सरिकानि
तेषु “कालाट्ठञ्” (पा०४।३।११) इति ठञ्प्रत्येक आदिवृद्धिः । पर्वसु-त्रयाणा-
मृतूनां शरच्छिशिरग्रीष्माणा(१)मवसानतिथिषु कार्त्तिकी फाल्गुनी आषाढीषु ।
अथवा द्वावत्र कालविकल्पौ । संवत्सरपर्यन्तं मासि मासि कुमारस्य जन्म-
तिथौ यजेत । सावँत्सरिकेषु वा पर्वसूक्तरूपेषु यजेत। कतमाः पुनस्ता देवता-
उच्यन्ते-अग्नीन्द्रौ। द्यावापृथिवी द्यावापृथिव्यौ(२) एते द्वन्द्वदेवते । विश्वा-
न्देवांश्चेति । विश्वेभ्योदेवेभ्य इत्येवम् ॥ १९ ॥
दैवतामिष्ट्वा तिथिन्नक्षत्रञ्च यजेत ॥ २० ॥
जन्मतिथेर्देवतम् इष्ट्वा जन्मतिथिं, जन्मनक्षत्रस्य दैवतामिष्ट्वा जन्मन्क्षत्र-
ञ्च यजेत ॥ २० ॥
( अथ प्रोषितागतकर्म )
विप्रोष्य ज्येष्ठस्य पुत्रस्योभाभ्याम्पाणिभ्याम्मूर्द्धानम्परिगृह्य
जपेत् यदा वा पिता म इति विद्यात्, उपेतस्य वा
“अङ्गादङ्गात्सम्भवसी”ति ॥ २१ ॥
( मं० ब्रा० १।५।१६-१८ )
विप्रोष्य प्रवासादागत्य गृहम् । पिता पुत्रस्येति सम्बन्धपदोपादानात् ।
( १ ) एतच्च “त्र्यूतुः सव्ँवँत्सर” इति मतेन, बोध्यम् । यत्र च मार्गादिमासचतुष्टय-
स्यैक ऋतुरेवमग्रेऽपि बोध्यम् ॥
( २ ) द्यावापृथिवीचेत्यर्थे द्वन्द्वे “दिवोद्यावे-” ( पा० ६।३।२९ ) ति द्यावादेशः ।

८ कण्डिका ] गोभिलगृह्यसूत्रे- ३०९

मूर्द्धानमुत्तानाभ्यां पाणिभ्याम्परिगृह्य “अङ्गादङ्गादि-”ति ऋचं जपेत् । यदा वा
कुमारः । “अयम्मे पिता” इति विजानीया(ञ्ज्ञातुंशक्नुया-)त्तदा जपेत् ।
शक्त्यर्थेऽत्र लिङ् । ( पा० ३।३।७२) वा-अथवा उपेतस्य उपनीतस्य (कृतो-
पनयनस्य) कुमारस्य मूर्द्धानमुक्तदिशा परिगृह्य जपेत् । त इमे अत्र त्रयः काल-
विकल्पाः ।। ऋचो यथा—
“अङ्गादङ्गात्संस्रवसि हृदयादधिजायसे ।
प्राणन्ते प्राणेन सन्दधामि जीव मे यावदायुषम्” ।। १६ ।।
“अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे ।
वेदोवै पुत्रनामासि स जीव शरदः शतम्” ।। १७ ।।
“अश्मा भव परशुर्भव हिरण्यमस्तृतम्भव ।
आत्मासि पुत्र मा मृथा स जीव शरदःशतम्” ।। १८ ।।
इति । आसामर्थाः । ‘हेपुत्र ! यस्त्वं मम ‘अङ्गादङ्गात्’ सर्वेभ्योऽङ्गेभ्यः ।
“नित्यवीप्सयोः” ( पा० ८।१।४ ) इति द्वित्वं ‘संस्रवसि’ संस्रुतोऽसि । वर्त्त-
मानसमीपे भूते लट् । ( पा० ३।३।१३१ ) एवमग्रेऽपि । तथा ‘हृदयात्’ सर्व-
गात्रेभ्यः प्रधानभूतात् ‘अधिजायसे’ उत्पन्नोऽसि । तस्येत्थम्भूतस्य ‘ते’ तव ‘प्राणं’
प्राणवायुं ‘प्राणेन’ एव ‘सन्दधामि’ सततमविच्छिन्नं करोमि । तत्सन्धानात्
‘मे’ मम सुतस्त्वं ‘यावदायुषम्’ पुरुषायुषम् । शरदादित्वाष्टच् (पा० ५।४।१०७)
समासान्तः । ( शतवर्ष ) व्याप्य ( शतवर्षपर्यन्तं ) ‘जीव’ ।। १६ ।।
अत्र वेदशब्दोवेदाध्येतरि वर्त्तते । यथा कठशब्दः कठाध्येतरीति गुणवि-
ष्णुः । मन्त्रार्थः पूर्ववत् ।। ‘शतं शरदः’ शतवर्षाणि । “संवत्सरोवत्सरोऽब्दो-
हायनोऽस्त्री शरत्समाः” इत्यमरः । शतमित्येकत्वं “विंशत्याद्याः सदैकत्वे सर्वाः
संख्येयसंख्ययोर्”-त्यमरात् । अत्र सर्वा इति संख्यापरं प्रकरणात् । सञ्जीवेति
पाठे सुखेनजीवेत्यर्थः । समिति सुखेऽर्थेऽव्ययम् ।। १७ ।।
हेपुत्र ! ‘त्वम्’ ‘अश्मा’ पाषाणइवदृढोनिर्व्याधिश्च ‘भव’ । ‘परशुः’ कुठार
इव च्छेदकः परेषाम्भव । न तु च्छेद्यः । तथा ‘हिरण्यं’ सुवर्णमिव हितारमणञ्च
‘भव’ । यत् ‘अस्तृतम्’ अन्यैस्ताम्रादिभिरल्प(१)द्रव्यैराच्छादितं न भवति तत्
“स्तृञ्आच्छादने” ( क्र्या० उ० ) क्तः । ततोनञ्समासः ‘आत्माऽसि’ अह-
मिव त्वमतो ‘मा मृथाः’ मा म्रियस्व । किन्तु स इत्थम्भूतस्त्वम् ‘शतं शरदः’
शतवर्षाणि ‘जीव’ प्राणिहि । सञ्जीवेतिपाठे सुखेन प्राणिहीत्या(२)शास्यते
।। १८ ।। इति ।। २१ ।।


( १ ) अल्पत्वमिह ततो हीनता । अत एवापद्रव्यैरिति गुणविष्णुभाष्यम् ।
अप शब्दोऽत्र हीनार्थेः ।
( २ ) सर्वोऽपि ह्यात्मभूतञ्चिरजीविनमाशास्ते किं पुनरात्मानम् ।
२७ गो० गृ०सू०

२१० प्रोषितागतकर्मविधिः । [ २ प्रपाठके-
“पशूनान्त्वा हिङ्कारेणाभिजिघ्रामि”-इत्यभिजिघ्रद्यथार्थम् ॥२२॥
(सं० ब्रा० २।५।१९ )
पशूनां त्वेति। अत्राऽन्तेऽसाविति मन्त्रब्राह्मणे पठ्यते । अनेनाभिजिघ्रद्य
आभिमुख्येनाघ्राय । मूर्द्धानमिति प्रकृतेनाभिसम्बन्धनीयम् । यथार्थमिति च
कर्मणः परिसमाप्तिरुच्यते । तेन वामदेव्यगानमिदानीङ्कर्त्तव्यम् । अत्रापि
मन्त्रे-अन्तेऽसाविति सर्वनाम्नि सम्बोधनविभक्त्या पुत्रनाम प्रयोक्तव्यम् ॥ तदि-
दम्प्रोषितागतकर्मेत्युच्यते । मन्त्रार्थस्तु—हेपुत्र ! अहं पिता ‘त्वा’ त्वां ‘पशू-
नां’ गवां ‘हिङ्कारेण’ हिङ्कृतेन गोजात्युचितशब्देन । (तत्पूर्वकम्) प्रकृत्यादित्वात्
( पा० २।३।१८ वा० ) तृतीया ‘अभिजिघ्रामि’ चुम्बामि । यथा गावोवनादा-
गताः स्वपुत्रकानभिजिघ्रन्ति-तथाऽहमपि त्वामिति ॥ १९ ॥ २२ ॥
एवमेवापरेषाम् ॥ २३ ॥
अपरेषाम्-कनिष्ठानामप्येवमेव मूर्द्धालम्भनन्तदभिघ्राणञ्च कर्त्तव्यम् ॥२३॥
यथाज्येष्ठं यथोपलम्भं वा ॥ २४ ॥
यथाज्येष्ठम्-ज्येष्ठमनतिक्रम्य । योयोवयसा ज्येष्ठस्तस्य तस्य प्रथमं कर्त्त-
व्यम् । तदेतत्सर्वेषां युगपदुपस्थितौ । अन्यथा तु यथोपलम्भम् । उपलब्धि-
क्रमेण योयः पूर्वं सन्निधानमागच्छति तस्य तस्य वेति व्यवस्थितोविकल्पोवा-
शब्दार्थः ॥ २४ ॥
स्त्रियास्तूष्णीं मूर्द्धन्यभिजिघ्रणम्मूर्द्धन्यभिजिघ्रणम् ॥ २५ ॥
इतिश्रीमद्गोभिलीये गृह्यसूत्रे द्वितीयप्रपाठकेऽष्टमी कण्डिका ॥ २ ॥ ८ ॥ ॐ ॥
ऋजुरुत्त(१)रार्थः । अन्ते द्विर्वचनं प्रकरणसमाप्त्यर्थम् ॥ २५ ॥
इतिश्रीमद्गोभिलीयगृह्यसूत्रव्याख्याया “मृदुला” ऽऽख्यायाम्मुकुन्दशर्म्मसङ्कलि-
तायां द्वितीयप्रपाठकस्याष्टमी कण्डिका ॥ २ ॥ ८ ॥ * ॥
( १) ननु तूष्णीमभिजिघ्रणमित्युक्त्वा मूर्द्धालम्भः समन्त्रक इति कुतो न ज्ञायेतेति
चेन्न । पुत्रेति मन्त्रलिङ्गविरोधात् । तत एवाभिजिघ्रणमात्रं समन्त्रकं प्राप्तमिति तूष्णी-
मित्युकम् । एतेन न केवलं प्रोषितागतकर्मण्येव स्त्रिया। अपि तु जातकर्मादिकमपि। तेन
संस्कारपरिपाटी स्त्रीणामपि कार्या । परममन्त्रिकेति तदर्थः । तथा च मनुः-संस्कारान-
भिधाय “अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः” इति । इत्थमावृज्जातकर्मादिः । याज्ञव-
ल्क्योऽपि- “अमन्त्रिकाः क्रियास्तासां विवाहस्तु समन्त्रकः” इति । अत्र चन्द्र-
कान्तः। तस्मान्मन्त्रलिङ्गविरोधादेव मूर्द्धाऽऽलम्भोऽमन्त्रकः सिद्धः । अतोऽभिजि-
घ्राणमात्रस्य तूष्णींस्त्वंसुत्रितमातएवामन्त्रकं तूष्णीमित्यनयोरर्थभेदं द्रष्टव्य आसीत् ॥

९ कण्डिका ] गोभिलगृह्यसूत्रे- २१५
( अथ नवमी कण्डिका- )
अथातस्तृतीये वर्षे चूड़ाकरणम् ॥ १ ॥
अथेति(१) पूर्वप्रकृतार्थम् । अथ=पूर्वप्रकृताज्जन्मनस्तृतीये वर्षे प्रवर्त्तमाने
उदगयनादीनां(२) समुच्चयोपलब्धौ चूड़ायाः शिखायाः करणं स्थापनं(३)
“संस्कारविधिना कर्त्तव्यमि”ति सूत्रशेषः । “शिखाचूड़ा केशपाशी” इत्यमरः ।
कपुष्णिका कपुच्छलाख्याः केशाश्चूड़ा इति कथ्यन्त इतिभाष्यकृतः । अतः
शब्दोहेत्वर्थः । यस्मात्
“सदोपवीतिना भाव्यं सदा बद्धशिखेन च ।
विशिखोव्युपवीतश्च यत्करोति न तत्कृतम् ॥”
( १ ) अत्रनामकरणान्तेऽन्नप्राशनं संस्कारविधिना पद्धतिषु बीरेश्वरादिभिर्लिखि-
तम् । समयोऽपि-षष्ठे मासि अष्टमे वा यथाकुलाचारमित्येवंनिर्दिष्टः । यथाच नामकर-
णान्ते ब्रह्मपुराणम्-“ततोऽन्नप्राशनं कार्यं मासि षष्ठे यथाविधि । अष्टमे वापि कर्त्तव्यं
यद्देष्टं मङ्गलंफुले ॥” इति । तदत्राचार्येणालिखनन्तस्य काम्यत्वं व्यनक्ति । काम्यकर्मा-
णि चानेन पृथक्सूत्रितानि यथोपयोगन्तथाच वक्ष्यति “अथातःकाम्यमि” ( ४।५।१ )-
ति । किन्त्वेतन्मुरारिमिश्रादिभिः प्रत्युक्तम् । तथाचोक्तब्राह्मणवचनान्ते “षष्ठे मासेऽन्न-
प्राशनम्” इति पारस्करीयम् । “षष्ठेमासेऽन्नप्राशनं जातेषु दन्तेषु वे”-ति गौड़ाक्षीयञ्च-
वचनमुपन्यस्य शङ्कितम् । ननु गोभिलाचार्येणाकथनादस्मिन्कल्पेऽन्नप्राशनं कर्त्तव्यमेव
नेति चेन्न-उक्तयुक्तैरेव । ( २।७।२१ सू० ) । नचेतिकर्त्तव्यताबोधकाभावादेवाकरण-
मिति वाच्यम् । बोरेश्वरादिभिस्तस्याः प्रतिपादनात् । नच तल्लिखितान्नप्राशने “अन्नं
वा एकच्छन्दस्यमि”-त्यादिमन्त्रैर्होमे प्रमाणाभावः । मन्त्रलिङ्गस्यैव प्रमाणत्वात् ।
नच तन्मन्त्राणां सूत्रकारेणान्यत्र विनियुक्तत्वान्निराकाङ्क्षत्वेन मन्त्रलिङ्गमात्रमकिञ्चि-
त्करमिति वाच्यम् । एकमन्त्रस्यापि बहुत्र विनियोगदर्शनात् । सकलशिष्टाचाराच्चेति-
दिक् । कश्चित्तु-अस्मिन्कालेऽन्नप्राशनं न संस्कारकं नामकरणेन सह पूर्वापरक्रमानियमाद्बर्षे
नामकरणे तत्पूर्वमेवतत्करणात् । अत एव हिरण्यगर्भमहादाने सामवेदेऽन्नप्राशनं नास्ती-
त्युक्तं निबन्धिभिः । अपितु “भारद्वाजीमांसेन वाक्प्रसरण्कामस्ये”-त्याद्युक्तफलेन का-
म्यमिति । तन्न । एवं निष्क्रमणमपि संस्कारकन्नभवेत् । हिरण्यगर्भे तु षोड़शक्रियान्त-
गतञ्चेत्युक्तम् । अन्यथा यजुर्वेदिनां नामकरणस्य न संस्कारता स्यादिति ।
भाष्यकृतस्तु-सूत्रानुक्तमन्नप्राशनं परशाखोक्तक्रमेण कर्त्तव्यम् । “यन्नाम्नातं स्वशा-
खायामि-”ति कात्यायनवचनात् । “तथाप्यश्ववृयुभिर्गृह्णीयादि”-ति श्रुतेश्च । सति स-
म्भवे

२१२ चूड़ाकरणविधिः । [ २ प्रपाठके-
तथा—
"गार्भैर्होमैर्जातकर्मचौलमौञ्जीनिबन्धनैः ।
बैजिकं गार्भिकञ्चैनो द्विजानामपमृज्यते ॥"
इति मनुराह । भाष्यकृतस्तु-अत्रातः शब्दः स्मृत्यन्तरोक्तकाललाभायेत्या-
हुः(१) । तथाच मनुः—
"चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः ।
प्रथमाब्दे तृतीये वा कर्त्तव्यं श्रुतिचोदनात् ॥" इति ।
एतेन—
"ततः संवत्सरे पूर्णे चूडाकर्म विधीयते ।
द्वितीये वा तृतीये वा कर्त्तव्यं स्मृतिदर्शनात् ॥"
इति यमवचने-द्वितीये वेत्यत्र पूर्णे इत्यनुषङ्गस्तेन तृतीयाब्दलाभः । नचैवं
तृतीये वेति व्यर्थम् । तस्य तृतीयाब्दचरमावयवादिप्रशस्तपरत्वात् । अन्यथा
पक्षत्रयानुपपत्तिः । तथा च लौगाक्षिः-"तृतीये भूयिष्ठे गते चूडा कार्या"इति ॥
याज्ञवल्क्यः "चूडाकार्या यथाकुलम्"इत्याह । एवञ्चोक्तकालानां विकल्पः शा-
खाभेदाऽपेक्षया व्यवस्थित इति कल्पतरुः ॥ अस्योपनीत्या सहचरणे तु—
"आद्येऽब्दे कुर्वते केचित्पञ्चमेऽब्दे तृतीयके ।
उपनीत्या सहैवेति विकल्पाः कुलधर्मतः" ।
इति प्रयोगपारिजातोक्तं वचनमेव मानम् ॥ १ ॥
पुरस्ताच्छालाया उपलिप्तेऽग्निरुपसमाहितोभवति ॥ २ ॥
निगद्व्याख्यातमेतत् ॥ २ ॥
तत्रैतान्युपक्लृप्तानि भवन्ति ॥ ३ ॥
तत्र-तस्मिन्नुपलिप्ते भूमिभागे । एतान्यनुपदवक्ष्यमाणानि । उपसमीपे-
ऽग्नेःक्लृप्तानि आसादितानि भवन्ति । कर्तुरनियमः ॥ ३ ॥
कानि पुनस्तानि ? कस्यां वा दिश्यग्नेरासादयितव्यानीत्युच्यते—
एकविꣳशतिर्दर्भपिञ्जल्य उष्णोदककꣳस औदुम्बरः क्षुरः आदर्शो-
वा क्षुरपाणिर्नापित इति दक्षिणतः ॥ ४ ॥
दर्भपिञ्जल्यः । पवित्रलक्षणलक्षिताः पूर्वमुक्ताः ( १।७।६ ) ताः सप्त सप्त
कृत्वा स्थानत्रय आसादयितव्याः । उष्णमुदकं यस्मिन्सः कंसः कांस्यपात्रम् ।
उदुम्बरस्ताम्रम् । "उदुम्बरस्तु देहल्यां वृक्षभेदेचषण्डके ।
( १ ) अत्रारुचिबीजन्तु वक्ष्यमाणकल्पतरुकारव्याख्यानमेव । कातीयकल्पेहि 'यथा-
मङ्गलं सर्वेषाम्' इत्युक्तम् ॥ तेन सामगानान्तृतीय एव वर्षे चूडाकरणं गोभिलीयानाम-
विस्थितम् ॥

९ कण्डिका ] गोभिलगृह्यसूत्रे- २१३
कुष्ठभेदेऽपि च पुमांस्तान्ने तु स्यान्नपुंसकम्" इति मेदिनी । तस्यायमौ-
दुम्बरः । “प्रोद्घृत्य प्रच्छिन्दन्” इत्यग्रिम[१६] सूत्रे छेदनस्याशङ्क्यमानत्वात् ।
नहि काष्ठेन तत्सम्भवति । तदभावे-आदर्शो वा । आसमन्ताद्दृश्यते मुखमत्रे-
त्यधिकरणे घञ्, आदर्शो दर्पणः “आदर्शोदर्पणः प्रोक्त” इत्यमरमाला “दर्पणे
मुकुरादर्शौ” इत्यमरश्च । क्षुरेति । क्षुरं पाणौ करे यस्य स तथाविधोनापितः ।
इति-एतानि । दक्षिणतः । अर्थात्कग्नेः ॥ ४ ॥
आनडुहगोमयः । कृसरः स्थालीपाको वृथापक इत्युत्तरतः ॥ ५ ॥
आनडुहः । अच्छिन्नमुष्कवृष(१)सम्बन्धी गोमयः । कृसरश्चासम्यक्पक्वौ
तिलतण्डुलौ । “कृसरस्तु(२)तिलौदनः” इत्यमरः ॥ स्थालीपाकश्चरुः । स ख-
ल्वयं वृथापकः । अवघातादिसर्वसंस्काररहितः । कर्मण्यव्याप्रियमाणश्चेति
वृथात्वम्पाकस्य । इति एतद्द्वयम् । उत्तरतोऽग्नेरासादयितव्यम् ॥ ५ ॥
व्रीहियवैस्तिलमाषैरिति पृथक्पात्राणि पूरयित्वा पुरस्ता-
दुप(नि)दध्युः ॥ ६ ॥
व्रीहियवैरिति द्वन्द्वनिर्देशेनाभिधानान्मिलिताभ्यां व्रीहियवाभ्यामेवं तिल-
माषाभ्याम्पात्रद्वयं पूरणीयम् । पृथक् पात्राणीति बहुवचननिर्देशाच्चतुर्भिः पृथ-
ग्भूतैः पात्रचतुष्टयमित्येवं षट्पात्राणामासादनं सिध्यति । एवमेव वीरपद्ध-
तिस्वरसोऽपि । पुरस्तात्पूर्वस्यान्दिश्यग्नेः । उप(नि)दध्युः-स्थापयेयुः ॥ ६ ॥
कृसरोनापिताय सर्वबीजानि चेति ॥ ७ ॥
“दातव्यानी”ति शेषः । इतिनाऽऽ(३)द्यर्थकेनान्यदपि पारितोषिकन्देयमि-
त्युपदिशति । एतानि च प्रसङ्गादत्राऽभिहितानि प्रदानन्तु प्रतिपत्तिरूपतयाऽ-
स्य कर्मान्त एव, वेतनदानस्य तदैवोचितत्वादिति भाष्यकारादयः ॥ ७ ॥
अथ माता शुचिना वस्त्रेण कुमारमाच्छाद्य पश्चादग्नेरुदगग्रेषु दर्भेषु
प्राङ्मुखोपविशति ॥ ८ ॥
अथेत्यानन्तर्यार्थम् । आज्यसंस्कारानन्तरमित्यर्थः । माता-मातृस्थानीया-


( १ ) अनड्डान् शब्दोऽभिधाने “उक्षाभद्रोबलोवर्द” इत्येवं पर्याये वृषभनाम्नि पठि-
तः । अनः शकटं वहतीति तदर्थः । “अनः क्लीबे जले शोके मातृस्यन्दनयोरपी”ति रभ-
सः । तथाभूतश्चाच्छिन्नमुष्क एव भवतीति ॥
( २ ) वीरपद्धतौ तु-ततः सत्यनामन्यग्नौ तिलतण्डुलमुद्गसाधितं स्थालीपाकं पचे-
दित्युक्तम् ॥
( ३ ) “ज्वलितिकसन्तेभ्योनः” ( ३।१।१४० ) । इति पाणिनीये तथादर्शनात् ॥
अमरकोशेऽपि “इति हेतुप्रकरणप्रकाशादिसमाप्तिषु” इति ॥

२१४ चूड़ाकरणविधिः। [ २ प्रपाठके-
ऽन्यापि(१)। प्राची-प्राङ्मुखी ॥ ८ ॥
अथ यस्तत्करिष्यन्भवति पश्चात्प्राङवतिष्ठते ॥ ९ ॥
अथेति-किञ्चित्पूर्वप्रकृतं स्मारयति । किन्तत् ? व्याहृतिभिर्होमं, तथाच
पूर्वसूत्रम् “व्याहृतिभिर्होमोयथापाणिग्रहणे तथा चूड़ाकरणे०” इत्यादि ।
( १।२।२७।२८ ) तेनात्र पुरस्ताच्चोपरिष्टाच्च चतस्र आहुतयो भवन्ति ॥ यः
कश्चित्पित्रादिस्तत्कर्म करिष्यन्भवति स महाव्याहृतिभिर्व्यस्तसमस्ताभिश्चतस्र
आहुतीर्हुत्वाऽथानन्तरं गृहीतकुमाराया मातुः पश्चात्प्राङ्-प्राङ्मुखः । अव-
तिष्ठते-ऊर्ध्वजानुस्तिष्ठेत् ॥ ९ ॥
अथ जपत्या-“यमगात्सविता क्षुरेणे”ति सवितारं मनसा
ध्यायन्नापितम्प्रेक्षमाणः ॥ १० ॥
( मं० ब्रा० १।६।१ )
अथ-तथाविधावस्थानन्तरमेव । सवितारं-सूर्य्यम् । मनसा-श्रद्धादि-
गुणयुक्तेन । अन्यथा ध्यानस्य मानसिकत्वप्रसिद्धेर्म्मनसेत्यनर्थकं स्यात् ।
तथा च न्यायः “सिद्धस्योपन्यासोविशेषावगतिकरः” इति । ध्यायन्-चिन्त-
यन् । नापितं क्षुरपाणि प्रेक्षमाणोऽवलोकयन् “आयमगादि”-त्येतन्मन्त्रं ज-
पति-जपेत् । मन्त्रार्थस्तु-हे कुमार ! ‘अयं’ नापितः । साक्षात् ‘सविता’ सर्व-
भूतानाम्प्रसविता देवः सूर्यः । ‘क्षुरेण’ उपलक्षितः । उपलक्षणेऽत्र ( पा० २।३।
२१ ) तृतीया । ‘आगात्’ आगतः । त्वच्चूड़ाकरणाय । आङोव्यवहितप्रयोगः
( पा० १।४।८२ ) छान्दसः ॥ १ ॥ इति ॥ १० ॥
“उष्णेन वाय उदकेनैधी-”ति वायुं मनसा ध्यायन्तु-
ष्णोदककंसं प्रेक्षमाणः ॥ ११ ॥
( मं० ब्रा० १।६।२ )
जपतीत्यनुवर्त्तते । वायुं श्रद्धापूतेन मनसा चिन्तयन्नुष्णोदककंसम् । उ-
ष्णोदकयुक्तं कांस्यपात्रं प्रेक्षमाणोऽवलोकयन् “उष्णेन वायो०” इति-इमम्म-
न्त्रञ्जपेदित्यर्थः । मन्त्रार्थस्तु-हे ‘वायो’ ! ‘उष्णेनोदकेन’ गृहीतेन कुमारस्य
शिरः । प्लावयितुम् ‘एधि’ आगच्छ “अडितश्च” ( पा० ६।४।१०३ )
इति हेर्धिः ॥ २ ॥ इति ॥ ११ ॥
दक्षिणेन पाणिनाऽप आदाय दक्षिणाङ्कपुष्णिकामुन्दति
“आप उन्दन्तु जीवसे” इति ॥ १२ ॥
( मं० ब्रा० १।६।३ )
( १ ) उत्तरसूत्रे यः कश्चिदित्युक्तेरत्रापि तथाऽभ्युपगमस्याजानिकाचारपरिगृहीत-
त्वात् ॥

९ कण्डिका ] गोभिलगृह्यसूत्रे- २१५
अपः प्रकृतादुष्णोदककांस्यपात्रात् । आदाय गृहीत्वा कपुष्णिकाम् । मूर्ध्नो-
भयतः केशान् । “कपुष्णिकाऽभितः केशा(१)मूर्द्धिन, पश्चात्कपुच्छलम्” इति-
च्छन्दोगपरिशिष्टात् । उन्‍दति-उन्दयति-क्लेदयति “उन्‍दी क्लेदने” (रु० प०)
अन्तर्भावितण्यर्थः । क्वचित्तथैव पाठः । अत्र करणमन्त्रमाह-आप इति ।
अस्यार्थः । वायुनाऽऽनीताः ‘आपः’ एनं कुमारम् ‘जीवसे’ जीवितुम् ( जीवना-
यास्य ) “तुमर्थे सेऽसेनि”-( पा० ३।४।९ ) त्यादिनाऽसे प्रत्यया । “अव्य-
यकृत्तोभावे” इति महाभाष्यानुशासनात् ॥ १२ ॥
“विष्णोर्दंष्ट्रोऽसी”त्यौदुम्बरं क्षुरं प्रेक्षतेऽादर्शं वा ॥ १३ ॥
( मं० ब्रा० १।६।४ )
औदुम्बरं-ताम्रमयम् । “औदुम्बरम्भवेत्ताम्रं फलाद्यौ यज्ञशाखिनः” इत्य-
जयः । प्रेक्षते-अवलोकयति ।। अवलोकयेदितिविधिरत्र (पा०३।४।७) लेडर्थः ।
एवमग्रेऽपि । मन्त्रार्थस्तु-हेक्षुर ! त्वं ‘विष्णोः’ ‘दंष्ट्रः’ दंष्ट्रा बृहद्दन्तः ‘असि’ भ-
वसि ।। पुंस्त्वमार्षम् ॥ १३ ॥
“ओषधे त्रायस्वैनमि”-ति सप्त दर्भपिञ्जलीर्दक्षिणायां कपुष्णि-
कायामभिशिरोग्रां निदधाति ॥ १४ ॥
( मं० ब्रा० १।६।५ )
आसादितानामेकविंशतिदर्भपिञ्जलीनां ( सप्तशः पृथक् स्थापितानाम् । )
मध्यात् सप्त दर्भपिञ्जलीर्गृहीत्वा कुमारस्य दक्षिणायाम्(२) कपुष्णिकायाम् जू-
टिकायाम् “ओषधे त्रायस्वैनम्” इति मन्त्रेण निदधाति-स्थापयेत् । क-
थम् ? अभिशिरोग्राः । शिरसोऽभीत्यभिशिरः । अव्ययीभावः ( पा०२।१।१४ )
समासः । अग्राणि यासान्तान्तथाविधाः “कृत्वेति” शेषः । मन्त्रार्थस्तु-हे ‘ओष-
धे !’ कुशतृण ! ( ओषध्यधिष्ठातृदेवते ! ) ‘एनं’ कुमारं ‘त्रायस्व’ रक्ष ।
“त्रैङ्पालने” ( भ्वा० आ० ) प्रार्थनायां लोट् इति ॥ ५ ॥ १४ ॥
ता वामेन पाणिना निगृह्य दक्षिणेन पाणिनाौदुम्बरं क्षुरं
गृहीत्वाऽऽदर्शं वाऽभिनिदधाति “स्वधिते मैनँहिंसीरि”तिः॥१५॥
( मं० ब्रा० १।६।६ )
ता दर्भपिञ्जलीर्दक्षिणकपुष्णिकाञ्च निगृह्य-सर्वतोभावेन गृहीत्वा अभि-
निदधाति-संलग्नां धारयति । “स्वधिते मैनं हिं सीरि-”ति मन्त्रेण ।


( १ ) कं शिरः पुष्णाति । शीतातपादिभ्योरक्षणेनेति शेषः ॥
( २ ) अत्र दक्षिणशब्दोभागं विशिनष्टीति न सर्वनामताऽस्य । एवमग्रे ( १९ सू०)
उत्तरशब्दोऽपि न द्विवचन इति वक्ष्यते । तथाचामरः “वामे शरीरं सव्यं स्यादपसव्य-
न्तु दक्षिणम्” इति ॥

२१६ | चूडाकरणविधिः । | [ २ प्रपाठके-
मन्त्रार्थस्तु-'स्वधिते !' हे(१)ताम्रक्षुर ! त्वम् 'एनं' कुमारं 'मा हिंसीः' न हिंसि-
ष्यसि । भविष्यति माङि लुङ् ( पा० ३।३।१७५ ) "न माङ्योगे" ( पा०६।४।
७४ ) इत्यडभावः ॥ १५ ॥
निधाय च—
“येन पूषा बृहस्पते”रिति त्रिः प्राञ्चम्प्रोहत्यप्र(वि)च्छिन्दन्त्स-
कृद्यजुषा द्विस्तूष्णीम् ॥ १६ ॥
( मं० ब्रा० १।६।७ )
त्रिः-वारत्रयम् । प्रोहति-प्रेरयति क्षुरम् । अप्रच्छिन्दन्-केशच्छेदमकू-
र्वन् । क्वचिदविच्छिन्दन् इतिपाठः । अर्थतस्तौल्यमेव । तत्र प्रकारमाह-सकृदि-
ति । यजुषा-“येने”त्युक्तेनैव । द्वि-र्द्विवारं, तूष्णीम्-अमन्त्रकमेव । यजुर्यथा-
“येन पूषा बृहस्पतेर्वायोरिन्द्रस्य चावपत् ।
तेन ते वपामि ब्रह्मणा जीवात्वे जीवनाय दीर्घायुष्याय बलाय वर्चसे”॥७॥
इति । अस्यार्थः । हे कुमार ! 'येन' स्वधितिना 'पूषा' देवः 'बृहस्पतेर्वायो-
रिन्द्रस्य च' कपुष्णिकाम् 'अवपत्' भद्रङ्कृतवान्(२) । 'तेन' स्वधितिना 'ते'
तव कपुष्णिकाम । 'वपामि' भद्रङ्करोमि । किमर्थम् ? 'जीवातवे' एतदेव-
विवृणोति 'जीवनाय' अस्यैवार्थः 'दीर्घायुष्याय बलाये'ति । 'वर्चसे' तेजोवृद्ध्य-
र्थम् (३) । इति ॥ १६ ॥
अथायसेन प्रच्छिद्यानुडुहे गोमये निदधाति ॥ १७ ॥
अथेति-पूर्वप्रकृतार्थम् । यः पूर्वप्रकृतक्षुरपाणिर्नापितस्तदीयेनायसेन
लौहमयेन क्षुरेण प्रच्छिद्य-प्रकर्षेण पिञ्जलीभिः सहैव दक्षिणां कपुष्णिकां
( जूटिकां ) छित्वा । आनडुहे-गोमये । पूर्वमग्नेरुत्तरतः समासादिते । निद-
धाति-स्थापयेत् । मन्त्रानुपदेशादमन्त्रकमेव ॥ १७ ॥
एतयैवाऽऽवृता कपुच्छलम् ॥ १८ ॥
अतिदिशति-एतयैवेति । अनन्तरोक्तयैवाऽऽवृता-परिपाट्या (प्रक्रियया)
कपुच्छलम् । “संस्कुर्यादि”ति शेषः । कपुच्छलन्तु शिरः पश्चाद्भागस्थाः केशा
उक्त-( २।९।१२ ) वचनात् ॥
( १ ) यद्यपि स्वधितिशब्दो वज्रपर्याये ( निघं० २।२०।१६ ) पठ्यते । लोके तु
"द्वयोः कुठारः स्वधिति"रिति कुठारपर्यायेऽभिधाने ( अमरे ) न तु क्षुरे । तथापि ताम्र-
क्षुरस्यैव स्वधिति सञ्ज्ञा शब्दार्णवे "औदुम्बरःक्षुरः प्रोक्तः स्वधितिरि" ॥
( २ ) केशानच्छिन्दन् "क्षौरन्तु भद्राकरणम्मुण्डनं वपनं त्रिषु" इत्यमरः ॥
( ३ ) तादर्थ्ये चतुर्थी ( पा० २।३।१३ वा० ) ।

के-शिरशि ( पश्चाद्भागे ) पुच्छवल्लम्बितो यः केशपाशः स कपुच्छल
इत्याख्यायते ॥ १८ ॥
पुनरतिदिशति—
एतयैवोत्तरां कपुष्णिकाम् ॥ १९ ॥
उत्तरशब्दोवामवचनः । वामामपि कपुष्णिकामेतयैव प्रक्रियया संस्कुर्या-
दित्यर्थः ॥ १९ ॥
अत्रापि विशेषमाह—
उन्दनप्रभृत्येवाऽभिनिर्वर्त्तयेत् ॥ २० ॥
प्राक्तनं सूत्रद्वयमनेन विशिष्यते । उन्दनप्रभृति-क्लेदनप्रभृत्येवावृतम् ।
अभि सर्वतोभावेन निर्वर्त्तयेत् । आवर्त्तयेत् । न पुनः सर्वाण्यावृदावर्त्तनीया ।
तस्मा—“दक्षिणेन पाणिनाऽप आदाय” इत्येवमादिकामावृतमावर्त्तयेन्न ततः
पूर्वमपीत्यर्थः । तु शब्दोविशेषणार्थः । कथन्नाम? कपुच्छले संस्क्रियमाणे
कुमारमुदङ्मुखं धारयेद्यथा प्राञ्चं प्रोहणादिकं कर्तुं शक्येतेति ॥ २० ॥
उभाभ्यां पाणिभ्यां मूर्द्धानं परिगृह्य जपेत् “त्र्यायुषमद्मग्नेरि-”ति २१
( मं० ब्रा० १।६।८ )
मूर्द्धानं-मस्तकं, कुमारस्य । “मूर्द्धा ना मस्तकोऽस्त्रियाम्”-त्यमरः ॥
ऋड्वन्त्यत् । मन्त्रस्तु—
“त्र्यायुषञ्जमदग्नेः कश्यपस्य त्र्यायुषमगस्त्यस्य त्र्यायुषम् ।
यद्देवानान्त्र्यायुषन्तत्ते अस्तु त्र्यायुषम्” ॥ ८ ॥ इति ।
अस्यार्थः-‘जमदग्ने’र्महर्षेर्ऋचीकपुत्रस्य कश्यपस्य ‘अगस्त्यस्य’ ‘देवानाम्’
इन्द्रादीनाञ्च ‘यत्त्र्यायुष्यम्’ त्रीण्यायूंषि समाहृतानीति समाहारद्वन्द्वे “अचतुरे”
( पा० ५।४।७७ ) त्यादिनाऽच्समासान्तः । बाल्ययुवावस्थाविरत्वानि । यद्वा “शतं
वै पुरुषस्यायुरि-”ति श्रुतेः शतत्रयवर्षात्मकमायुः । ‘तत्’ त्र्यायुषम् । हेभद्रक !
( कृतचूड ! ) ‘ते’ तव ‘अस्तु’ भवतु । इत्याशास्यते ॥ ८ ॥ इति ॥ २१ ॥
एतयैवाऽऽवृता स्त्रियास्तूष्णीम् ॥ २२ ॥
एतया-प्रकृतया । आवृता-प्रक्रिययास्त्रियाः कन्यकाया अपिसर्वे-
ऽधस्तनोक्ताः संस्कारा भवन्ति । न पुनरानन्तर्याच्चूडाकरणाभिप्रायमेव । एव-
कारेण व्याप्त्यवगमात् । “अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः” इति मनु-
वचनाच्च । किन्त्वेतावान्विशेषोयदस्यास्तूष्णी(ममन्त्रक)मिति ॥ २२ ॥
अत्र प्रतिप्रसवमाह—
मन्त्रेण तु होमः ॥ २३ ॥
तुशब्दः समुच्चये भिन्नक्रमश्च । तेन वृद्धिश्राद्धमपि समन्त्रकमेव भव-
३८ गो० गृ० सू

तीत्यर्थः ॥ २३ ॥
उदगग्नेरुत्सृप्य कुशलीकारयन्ति यथागोत्र-कुल-कल्पम् ॥ २४ ॥
अग्नेः । उदङ्-उत्तरतः । उत्सृप्य-गत्वा । कुशलीकारयन्ति-नापितेन
मुण्डयन्ति । "कुमारमिति" शेषः । कर्त्तुरनियमः । कुशलभद्रशब्दयोः पर्या-
येपाठात् कुशलीकरणं भद्राकरणमित्यनर्थान्तरम् । तथाचामरः "शौरन्तु भद्रा-
करणं मुण्डनं वपनन्त्रिषु" इति । कथमित्यपेक्षायामाह-यथेति । गोत्रे यथा-
"वासिष्ठाः पञ्चचूडाः स्युस्त्रिचूडाः कुण्डपायिनः" इत्यादि । कुले यथा-"भद्रा(१)-
दित्यानां सूर्यायतनसन्निधौ" इति । कल्पे यथा-"सशिखं कौथुमादीनां वपनं
समुदाहृतम्" इत्यादि । एवञ्च कौथुमवारायणादीनां समावर्त्तनात्प्राङ्मुण्डनं
सशिखमेवेति । तथाच समावर्त्तनान्ते-"केशश्मश्रुलोमनखान्वापयतिशिखा
वर्ज्जम्" ( ३।४।२४ ) इति सूत्रम् ॥ परिशिष्टमपि-
"सशिखं वपनं कार्य्यमास्नानाद्ब्रह्मचारिणाम् ।
आशरीरविमोक्षाय ब्रह्मचर्य्यञ्च चेद्भवेत् ॥"
इति भाष्यकृतः । आशरीरेति । नैष्ठिकब्रह्मचारिणां स्नानात्प्रागपि
शिखाधर्त्तव्येत्यर्थः ॥ २४ ॥
आनडुहे गोमये केशान्कृत्वाऽरण्यं हृत्वा(२)निखनन्ति ॥२५॥
पूर्वमासादिते आनडुहे गोमये समस्तान्केशान्कृत्वा-निधाय । अरण्यं
हृत्वा-नीत्वा तत्रैव निखनन्ति । बहुवचनादनियतः कर्त्ता ॥ २५ ॥
स्तम्बे हैके निदधति ॥ २६ ॥
हेत्यैतिह्यार्थोनिपातः । एके किलाचार्याः । व्रीह्यादिस्तम्बे(३) तान्
केशान्निखनन्ति ॥ २६ ॥
यथार्थम् ॥ २७ ॥
तन्त्रसमापनङ्कर्त्तव्यमित्यर्थः । अपरे तु मन्यन्ते-यथार्थमिति-यस्य
येनार्थः प्रयोजनं स तं कुर्यात् । इति । कथन्नाम ? त्र्यायुषमित्यादिना मूर्द्ध-
परिग्रहे कृते उत्तरतोऽग्नेः कुशलीकारयन्ति । असावपि कर्मशेषं समापयेदिति
चन्द्रकान्तः ॥ २६ ॥
गौर्दक्षिणा ॥ २८ ॥
इति श्रीमद्गोभिलीयगृह्यसूत्रे द्वि०प्र०स्य नवमी कण्डिका ॥३॥९॥ॐ॥
( १ ) भद्रादित्या-मगादयः । भगाः शाकद्वीपिनः । एवमन्येऽपि ॥
( २ ) अरण्यं ( ण्य ) गत्वा इति पाठान्तरम् ॥
( ३ ) "अप्रकाण्डे स्तम्बगुल्माविति" ह्यमरः । प्रकाण्डस्त्वरोर्मूलस्कन्धयोरन्तरम् ।
तथाचामरः "अस्त्री प्रकाण्डं स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः" इति । "स्तम्वागु-
च्छस्तृणादिनः" इति च ॥

९ कण्डिका ] गोभिलगृह्यसूत्रे- २१६
चूडाकरणकर्मणः ॥ २८ ॥
अत्र सूत्रकाराऽनुक्तोऽपि कर्णवेधः (पूर्वमकृत(१)श्चेत्) आवश्यक एवेति
गार्हस्थ्यधर्मे कुण्डलधारणस्य मन्वाद्युक्तस्यान्यथाऽनुपपत्त्या कल्प्यते । तथाच
मनुः-
“वैणवीन्धारयेद्यष्टिं सोदकञ्च कमण्डलुम् ।
यज्ञोपवीतं वेदञ्च शुभे रौक्मे च कुण्डले ॥”
इति । वेदम्-कुशमुष्टिम् । तदेतद्दीक्षाकाले। श्रुतिश्च-“दीक्षायां कुण्डली
भवती-”ति । परन्तु-न संस्कारान्तर्गतः । तन्मध्येऽस्य(२)पाठाभावात् ।
क्रमस्तत्र पारस्करोक्त एव । “यन्नाम्नातं स्वशाखायाम्पारक्यमविरोधि चे”ति
कातीयपरिभाषणात् ॥
अत्र यथोचितकालाकृता नामकरणादिसंस्कारा व्याहृतिहोमानन्तरंक्रमा-
विरोधेनोपनयनात् पूर्वमनुष्ठेयाः । इति द्रष्टव्यम् । तथाच महाव्याहृतिहोमानां
सर्वप्रायश्चित्तत्वमुक्त्वा-कात्यायनः-
“संस्कारा अतिपद्येरन्स्वकालाच्चेत्कथञ्चन ।
हुत्वैतदेव कर्त्तव्या ये तूपनयनादधः ॥” इति ।
अत्रोपनयनादध इत्युक्तचोपनयनकालातिक्रमे नेदम्प्रायश्चित्तमपि तु व्रात्य-
स्तोमादीत्यनुपदं व्यक्तीभविष्यति ॥ २८ ॥
इतिश्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायां“मृदुला”ख्यायां मुकुन्दशर्म्मसङ्कलितायां
द्वितीय-पाठकस्य नवमी कण्डिका ॥ २ ॥ ९ ॥* ॥
( १ ) मुण्डनाख्योऽपि कर्मविशेषश्चूड़ाकर्मेण एवानुरूपः ( शिखाधारणाय )
कुमाराणाम्कुमारीणां वाधुनातनैः कुलीनैराजानिकाचारसिद्धतया क्रियते । तत्र कर्णवे-
धोऽपि यथाविहितकालमनुष्ठ्येति । सचेदकृतइत्यर्थः ॥
( २ ) तत्र ( संस्कारेषु ) गौतमेनचत्वारिशदभिहितास्तत्रमुख्या ( एका ) दश ।
“गर्भाधानं-पुंसुवने-सीमन्तोन्नयनं-जातकर्म-नामकरण-निष्क्रमणा-न्नप्राशन-चौलो-
पनयनं (चत्वारिवेदव्रतानि स्नानं) सहधर्मचारिणीसंयोगः” । इति । सहधर्म्मचारिणी-
संयोगोविवाहः । सुमन्तुना च “ब्राह्मणक्षत्रियांविशां वृत्तिः-“गर्भाधान-पुंसवन-सीम-
न्तोन्नयन-जातकर्म-नामकरण-निष्क्रमणा-न्नप्राशन-चौलो-पनयन-व्रतचर्या-ऽध्ययन-स-
मावर्त्तन-विवाह-सोष्यन्ती-यज्ञदानानी-”ति षोडशोक्ताः। वृत्तिः-संस्क्रिया । सोष्य-
न्ती-सुखप्रसवार्थङ्कर्म । कैश्चित्त्वन्यथैव स्मर्यते । यथा-
“गर्भाधानमतश्च पुंसवनकं सीमन्तजाताभिधे नामाख्यं सह निष्क्रमेण च तथान्नप्रा-
शनंकर्म्म च । चूड़ाख्यं व्रतबन्धकोऽप्यथ चतुर्वेद्वतानां पुरः केशान्तः सविसर्गकःपरिणयः
स्यात्षोडशी कर्मेणाम् ॥” इति । अङ्गिरसा च पञ्चविंशतिरुक्ताः। तदत्र गौतमोक्तेषु-
चत्वारिवेदव्रतानि स्नानञ्चेत्यंशः पूर्वेरेवाऽशक्यतया परिहृतः । शेषा दश पूर्वैरेव परिसं.

४. चतुर्थ प्रपाठक: समावर्तन, नित्य-श्राद्ध, पार्वण-श्राद्ध, वास्तु-कर्म एवं उपसंहार

( अथोपन(१)यनम् - )
अथ दशमीकण्डिका-
अत ऊर्ध्वमुपनयनलिङ्गा मन्त्रा ब्राह्मणे श्रूयन्ते तेषां विनियोगविवक्षुरिद-
माह—
गर्भाष्टमेषु ब्राह्मणमुपनयेत् ॥ १ ॥
ख्याता। यथा—
“गर्भाधानं-पुंसवनं-सीमन्तोन्नयनन्तथा ।
जातकर्म-नामकर्म-निष्क्रमोऽन्नाशनं परम् ॥
चौलकर्मोपनयनं-विवाहोदशमः स्मृतः।
संस्काराश्च दशैवैते प्राक्कागृह्येषु कर्मणाम्” ॥
इति। अत्रापिचत्वारोमुख्या इति मुरारिमिश्रादिमतमुपक्रम एव दर्शितन्तत्र द्रष्टव्यम्॥
( १ ) अथोपनयनपूर्वे प्रतिषिद्धाप्रतिषिद्धानि प्रसङ्गादुपन्यस्यन्ते-तत्रमनुः(कुमार-
मधिकृत्य)—
“नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते ।
शूद्रेण हि समस्तावद्यावद्वेदे न जायते ॥”
इति। स्वधानिनयनात् श्राद्धमन्त्रात् ऋते-विना। वेदे-वेदोदितकर्मणि। निमित्ते-
सप्तमी। यद्योग्योयावद्भवतीत्यर्थः। गौतमः-“प्रागुपनयनात्कामचार-भक्ष-काम वादः।
नास्याचमनकल्पोविधीयते” इति। कामेति त्रिषु सम्बध्यते। यथेष्टगमन-भक्षण-भाषणः
स्यादित्यर्थः । अनेन-वृथायानाश्लीलभाषण-पर्युषितान्नभक्षणादीनि न निषिद्धानि ।
इति प्रतिपादितम्। यानि पुनरत्यन्तपतनीयानि सुरापानादीनि तानि निषिद्धान्येव ।
प्रायश्चित्तोपदेशात्। कल्पग्रहणादाचमनमात्रमस्तीति गम्यते। गौतमः। “मद्यं नित्यं
ब्राह्मणोवर्जयेत्” इति। अत्र ब्राह्मणशब्दोजातिवचनः । जातिस्तु-जन्मनैवेतिस्थितम्।
तथाच भगवता महाभाष्यकारेणस्मृतम्—
“तपः श्रुतञ्च योनिश्चेत्येतद्ब्राह्मणकारकम् ।
तपःश्रुताभ्यांयोहीनो जातिब्राह्मणएवसः” ॥
वामनोऽपि “जननेन याप्राप्यते सा जातिरिति । तथा पतञ्जलिरपि-स्मरति-“सति
मूले तद्विपाकोजात्यायुर्भोगाः” । इति । मूले-पूर्वजन्मानुष्ठितकर्मशेषे प्रारब्धापरनाम-
के-इत्यर्थः। वसिष्ठः “न ह्यस्य विद्यते कर्म किञ्चिदाऽऽमौञ्जीबन्धनात्। अन्यत्रोदक-
कर्म-स्वधा-पितृसम्बन्धेभ्यः” इति। उदककर्म-पितृतर्पणम्। स्वधा श्राद्धम्। पितृ-
सम्बन्धं भूमिच्छत्रादिदानम्। दक्षः—
“जातमात्रःशिशुस्तावद्यावदष्टौ समा वयः।
स हि गर्भसमो ज्ञेयोव्यक्तिमात्रप्रदर्शकः ॥”
इति। समा वर्षाणि। व्यक्तिमात्रेण नतु कर्माधिकारित्वेन। ब्रह्मपुराणे “माता-
पित्रोरथोच्छिष्टं बालोभुञ्जीतशुची”-ति। एतेनान्यदीयोच्छिष्टभोजने दोष एव।
दक्षः—
“उपनीतस्य दोषोऽस्ति क्रियमाणैर्विगर्हितैः।
अप्राप्तव्यवहारोऽसौ बालः षोडशवार्षिकः ॥”
इति। एतेन धनप्रयोगेऽस्वातन्त्र्यमस्य दर्शितम्। न तु प्रायश्चित्ताभावः।

१७ कण्डिका ] गोभिलगृह्यसूत्रे- २२१
गर्भाष्टमेषु-गर्भत आरभ्य गणनया येऽष्टमा वर्षा(१)स्तेषु। बहुवचनव्य-
क्तिभेदाभिप्रायेण। यदोद्गय(२)नादीनां समुच्चयस्तदैव। ब्राह्मणमुपनयेत्।
उपनयनकर्म्मणा योजयेत्। उपनयनन्नामाध्ययनार्थमाचार्यसमीपे येन कर्म्मणा
नीयते-(३)तदुच्यते। तथाचाहुः—
“गृहोक्तकर्म्मणा येन समीपं नीयते गुरोः।
बालो वेदाय तद्योगाद्वालस्योपनयं विदुः॥”
इति। गर्भाष्टम इत्युपलक्षणम्। तथाच याज्ञवल्क्यः—
“गर्भाष्टमेऽष्टमे वाऽब्दे ब्राह्मणस्योपनायनम्॥”
राज्ञामेकादशे सैके विशामेके यथाकुलम्॥
इति। गर्भाष्टम इत्याधानकालापेक्षया। अष्टम इतिजननापेक्षया। पृथगु-
पादानात्। अत्रेच्छया विकल्पमाहुः। उपनयनमेवोपनायनम्। स्वार्थे णिच्।
सैके इत्येकादश इत्यनुषक्तेनान्वितम्। विशान्द्वादश इत्यर्थः। अत्रोभयत्रापि
समस्तगुणभूतोऽपि गर्भशब्दोऽनुवर्त्तनीयः। गोभिलसंवादात्। यथाकुलम्।
कुलस्थित्या(४) केचिदुपनयनमिच्छन्ति। विशेषकालमाह आपस्तम्बः “वसन्ते
ब्राह्मणमुपनयीत। ग्रीष्मे राजन्यम्। शरदि वैश्यम्।” इति। वसन्त इत्या-
द्यधिकफलार्थम्। मनुरूपनयनमुपक्रम्य—
“ब्रह्मवर्चसकामस्य कार्योविप्रस्य पञ्चमे।
राज्ञोबलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे॥”
इति। ब्रह्मवर्चसं वृत्त-स्वाध्याययोः सम्पत्तिः। इहार्थिनः। ऐहिकार्थका-
मुकस्य। एवमापस्तम्बः—“सप्तमे ब्रह्मवर्चसकामं, नवमे तेजस्कामं, दशमे-
ऽन्नाद्यकामं, मेकादश इन्द्रियकामं, द्वादशे पशुकामम्”इति। गौतमः “उपन-
यनं ब्राह्मणस्याष्टमे, नवमे पञ्चमे वा काम्यम्” इति। अत्राष्टमे नित्यमित्य-
र्थतः। अत्र विशेषः शुभकर्म्मनिर्णये—यथाह पौलस्त्यः।
“पञ्चमे षष्ठवर्षे तु सगर्भे सप्तमेऽपि वा।
गुरुशुक्रशशाङ्कानां विशुद्ध्याऽऽरम्भयेद्व्रतम्॥

(१) “वर्षोऽस्त्री भारतादौ च जम्बूद्वीपाब्दवृष्टिषु। प्रावृट् काले स्त्रियाम्भूम्नी”—ति
मेदिनी॥ “वत्सरे वर्षमस्त्रियाम्” इत्यमरश्च॥
(२) तथाचाश्वलायनः-“उदगयन आपूर्यमाणपक्षे चौलकर्म्मोपनयनविवाहाः। सा-
र्वकालिकमेके विवाहम्” इति। व्याख्यातमेतदधस्तात् (२।२।१)॥
(३) येन कर्म्मणाऽध्ययनार्होभवति। तदुपनयनम्। अत्र देवलः-प्रथमं मातापितृ-
भ्याङ्गर्भाधानादिभिः संस्कृतोगर्भाष्टमे वर्षे तूपनयनार्होभवति। तत्रोपाध्यायः पिता।
गायत्री माता। एवमुपनीतोद्विपितृको द्विजातिरि”ति। द्विपितृकः-द्विमातापितृकः।
एकशेषादुपक्रमेद्वयकीर्त्तनात्॥
(४) स्थितिर्म्मर्यादा। मर्यादा धारणा स्थितिर्”—त्यमरः।

[२२२ | उपनयनविधिः । [ २ प्रपाठके]

यदात्वभीष्टमे वर्षे शुद्धिर्नास्ति बृहस्पतेः ।
अष्टमे वा, तथाप्येवं व्रततन्त्र न कारयेत् ॥”
इत्येवं गोचरशुद्ध्यादिकमत्रोपयुक्तं बहुपपादितमेवमहामहो०हर्षनाथशर्म्म-
कृते संस्कारदीपकेऽपीति ततएवावगन्तव्यं, ग्रन्थविस्तरभिया च नेहोपन्य-
स्तम् ॥ १ ॥
गर्भेकादशेषु क्षत्रियम् ॥ २ ॥
उपनयेदित्यनुवर्त्तते ऽन्यदुक्तमधस्तात् ॥ २ ॥ एवम्—
गर्भद्वादशेषु वैश्यम् ॥ ३ ॥
स्पष्टम् ॥ ३ ॥
यथोक्तकालेषूपनयनासम्भवे त्वाह—
आषोडशाद्वर्षाद्ब्राह्मणस्यानतीतः कालोभवत्याद्वाविंशात्
क्षत्रियस्याचतुर्विंशाद्वैश्यस्य ॥ ४ ॥
अत्राभिविधावाङ् न मर्यादायाम् ॥ “तेन(१) विना मर्यादा तेन सहेत्य-
( १ ) तच्छब्देनात्रावधिरुच्यते । तेन मर्यादार्थकत्वे पञ्चदशवर्षान्तादिरेवगौणका-
लोऽवगम्येत । न चेतदिष्टम् । यच्च यमवचनम्—
“पतिता यस्य सावित्री दशवर्षाणि पञ्च च ।
ब्राह्मणस्य विशेषेण तथा राजन्यवैश्ययोः ॥
प्रायश्चित्तम्भवेदेषां प्रोवाच वदताम्वरः ।
विवस्वतः सुतःश्रीमान्यमोधर्म्मार्थतत्त्ववित् ॥
सशिखं वपनङ्कृत्वा व्रतङ्कुर्य्यात् समाहितः ।
हविष्यं भक्षयेदह्नं ब्राह्मणान्पञ्च सप्त वा ॥
एकविंशतिरात्रन्तु पिवेत्प्रसृतियावकम् ।
अतोयाचकशुद्धस्य तस्योपनयनं स्मृतम् ॥”
इति । तत्पतितसावित्रीकत्वाभावेऽपि पञ्चदशवर्षोपरि प्रायश्चित्तविशेषोपदेशार्थम् ।
न पुनः पञ्च दशवर्षोपरि पतितसावित्रीकत्वमस्यार्थः । तथाविधवचनव्यक्तेरभावात् ।
लघुनः प्रायश्चित्तस्योपदेशाच्च । पतितसावित्रीकाणां हि व्रात्यस्तोमः क्रतुःप्रायश्चित्तम्म-
न्वादिभिरुक्तम् । राजन्यवैश्ययोश्चाविशेषात् । अत्रापि तथैवेत्याह—तथाराजन्यवैश्ययो-
रिति । तस्मात्पतिता यस्य सावित्रीत्यस्य यस्य सावित्रीग्रहणन्न सम्पन्नमित्यर्थः ।
अत्र सपादधेनुप्रदानं, व्रात्यस्तोमे तु सपादनवधेनूनामिति विवेचितमन्यत्र । अत्र विशे-
षश्चन्द्रकान्तभाष्ये द्रष्टव्यः ॥ स्वतन्त्रास्त्वेवाचक्षते-ब्राह्मणादीनामष्टमादिवर्षोपरि ( गौ-
णकाले ) महाव्याहृतिहोमरूप एव प्रायश्चित्तन्तथाच छन्दोगपरिशिष्टे कात्यायनः—
“गौणेषु तेषु कालेषु कर्म्मचोदितमाचरेत् ।
प्रायश्चित्तप्रकरणप्रोक्तान्निष्कृतिमाचरेत् ॥”
इति । प्रायश्चित्तञ्च व्यस्तैः समस्तैश्च महाव्याहृतिभिर्होम एव प्रायश्चित्तप्रकरणे एवं

भिविधि” रिति परिभाषणादिह षोडशादिवर्षान्तः कालो गौणः । तथाच
“औपनायनिकः कालः परः षोडशवार्षिकः ।
द्वाविंशतिः परोऽन्यस्य स्याच्चतुर्विंशतिः परः ॥”
इति ।
“विप्रस्य षोडशाद्वर्षाद्राज्ञो द्वाविंशतेः परम् ।
वैश्यस्याष्टत्रिकाद्वत्त्सावित्रीपतनं भवेत् ॥”
इति ।
“षोडशाब्देहि विप्रस्य राजन्यस्य द्विविंशतिः ।
विंशतिः स चतुर्थीच वैश्यस्य परिकीर्त्तिता ॥
इति चैवमादि ॥ ४ ॥
अतऊर्ध्वं पतितसावित्रीका भवन्ति ॥ ५ ॥
अतएतस्मात्कालादूर्ध्वन्त्रयोऽप्येते पतितसावित्रीका भवन्ति । स्वकाले
सावित्र्या-( गायत्र्या- ) मनूच्यमानायां ये पतन्ति-प्रायश्चित्तविशेषभागिनो
भवन्ति ते पतितसावित्रीका व्रात्याश्च भण्यन्ते ॥ ५

र्धम् । तथाच स्मरणम्—
“व्रात्याचार्यस्य भुक्तान्नं कृच्छ्रपादेन शुद्धयति ।
यश्चोपनयते व्रात्यान् त्रिभिः कृच्छ्रैः स शुद्ध्यति ॥”
इति । एवमुत्तरत्रापि बोद्धव्यम् । न याजयेयुरित्यविशेषात्पाकयज्ञैरपि ।
नैभिः सह विवहेयु-र्विवाह( सम्बन्धं )कुर्युः । विवाहयेयुरिति पाठे एभिः सह
विवाहसम्बन्धं न कारयेयुरिति व्याख्येयम् । एष्वपि कालेष्वनुपनीता एते त्रयो-
प्यकृतप्रायश्चित्ता उपनयनाद्यनर्हा भवन्तीति(१) परमार्थः । उपनयनप्रतिषेधादेव
सर्वत्र प्रतिषेधे सिद्धे यद्येकेन चिल्लोभादज्ञानाद्वोपनीताः स्युस्तथापि नोत्तराणि
कर्म्माणि पतितसावित्रीकाणाङ्कुर्य्यादिति सर्वेषाम्पाठः क्रियते ॥ ६ ॥
यदहरुपेष्यन्माणवको भवति प्राग एवैनन्तदहर्भोजयन्ति
कुशलीकारयन्त्याप्लावयन्त्यलङ्कुर्वन्त्यहतेन
वाससाऽच्छादयन्ति ॥७॥
यदहर्यस्मिन्नहनि । अत्यन्तसंयोगे(२) द्वितीया ( पा० २।३।५ ) उपैष्यन्-
उपनयनं कारयिष्यन् । माणवको माणवोऽनधीतवेदः । स्वार्थेकन् । तथा च
कात्यायनः—
“अनुचोमाणवो ज्ञेय एणः कृष्णमृगः स्मृतः ।
रुरुर्गौरमृगः प्रोक्तस्तमुनिः शण उच्यते ॥”


( १ ) तथाच श्रुतिः “स्वकालेऽनुच्यमानया सावित्र्या ये पतन्ति प्रायश्चित्तिनो
भवन्ती”ति । स्मृतिः “पतितसावित्रीकेषूपपातकम्” इति । याज्ञवल्क्यः—
“आषोडशादाविंशाच्चतुर्विंशाच्च वत्सरात् ।
ब्रह्मक्षत्रविशाङ्काल औपनायनिकः स्मृतः ॥
अत ऊर्ध्वम्पतन्त्येते सर्वधर्म्मबहिष्कृताः ।
सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः ॥”
इति । मनुः—
“नैतैरपूतैर्विधिवदापद्यपि हि कर्हिचित् ।
ब्राह्मान्यौनांश्च सम्बन्धान्नाचरेद्ब्राह्मणः सह” ॥
इति । विधिवद्यथाशास्त्रम्पूतैरकृतप्रायश्चित्तैः । ब्राह्मान्वेदाध्यापनकृतान् । यौनान् ।
विवाहादीन् । एवञ्च व्रात्यस्तोमनामके यागे कृते उपनयनाद्यधिकारो नतूपनयनस्थान
एवात्र व्रात्यस्तोम इति युक्तम् । तस्य प्रायश्चित्तरूपस्य संस्कारकत्वेमानाभावादिति ।
आपस्तम्बः “अशूद्राणामदुष्टकर्मणामुपनयनम्” इति । अदुष्टकर्मणां पतनीयकर्मभिर-
दूषितानाम् ।
( २ ) कालाध्वनोरत्यन्तसंयोगे द्वितीया विधीयते । तत्र च गुणक्रियाद्रव्यैरभावेन चेति
सूत्रशेषो भाष्यादौ । तेषु गुणेन-मासङ्कल्याणी, क्रियया-मासमधीते, द्रव्येण-मास

इति । अनृचो वेदशून्यः । प्रग एव प्रातरेव । “सायं साये प्रगे प्रातरि”-
त्यमरः । एनं-माणवकं, भोजयन्ति-इत्युक्त्याऽत्र शङ्का न कार्येत्युपदिशति ।
भोजनञ्चात्र गोदुग्धादेरेव । तथा च श्रुतिः “पयोव्रतो ब्राह्मणो भवति यवागू-
व्रतो राजन्य आमिक्षाव्रतोवैश्य.” इति । व्रतमाहारः । तथा च गृह्यान्तरम्-
“पयोयवाग्वामिक्षाहाराः क्रमशोद्विजातीनाम्” इति । यवागूक्ता ( १-७-२०)
आमिक्षा शृतोष्णे क्षीरे दधियोगेन कठिनं द्रव्यम् । तथा च श्रुतिः “तप्ते पय-
सि दध्यानयति सा वैश्वदेव्यामिक्षा भवति वाजिभ्योवाजिनम्” इति । अभि-
धानञ्च “आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः” इति ( अमरः )
वाजिनमतिरिच्यमानं तत्पय उच्यते ॥ कुशलीकारयन्ति मुण्डयन्ति “क्षौरन्तु
भद्राकरणम्मुण्डन वपनन्त्रिषु” इत्यमरः । भद्राकरणं कुशलीकरणमित्यनर्था-
न्तरम् । अत्र शिखा न धार्या-
“एते लूनशिखास्तस्थु कोमलैर्दन्तकुड्मलैः ।
कुशकाशा विराजन्ते वटवः सामगा इव ॥”
इति विष्णुपुराणपर्यालोचनात् । समावर्त्तने “शिखाववर्ज्जमि”ति विशेषोप-
देशाच्च । आप्लावयन्ति-स्नापयन्ति । आप्लावनञ्चेदं घटत्रयाम्बुना । तथा च
गृह्यासङ्ग्रहः “स्नानञ्चतुर्भिः कलशैः प्लावनन्तु त्रिभिर्घटैरि”ति । अलङ्कु-
र्वन्तिकेयूरकटककुण्डलादिभिर्यथालाभम् । अहतेनेति । अत्र गृह्यासङ्ग्रहः-
“सकृद्धौतं नवं श्वेतं सदशं यन्न धारितम् ।
अहन्तन्तद्विजानीयाद्दैवे पैत्रे च पावनम्” ॥
इति । वाससेत्येकवचनादिदमधरीयमिति द्रष्टव्यम् । उत्तरीयन्तु उपरि-
ष्टाद्यदजिनं सूत्रयिष्यति तदेव स्यात् । सर्वत्र बहुवचननिर्देशात्कर्त्तुरनियमः ।
अत्र भाष्यकृतः-“अग्निहोत्रञ्जुहोति यवागूंम्पचती”ति वत् अत्राप्यार्थक्र-
मेण शाब्दक्रमोल्लङ्घनमिति प्रथमं वपनमनन्तरं स्नानमथभोजनमिति क्रमः ।
ज्योतिषे भोजनानन्तरं वपननिषेधात् । तथाहि-
“न स्नानमात्रगमनोन्मुखभूषितानामभ्यक्तभुक्तरणकालविवासनानाम् ।
सन्ध्या निशाकुजदिने च तिथौ च रिक्ते क्षौरं हितं न नवमेऽह्नि न चापि षष्ठ्या-
म्” इत्याहुस्तन्न-अदृष्टार्थक्रमस्य ज्योतिश्शास्त्रविरोधेनानपवादात् । दृष्टान्ते
त्वन्यथाऽनुपपत्त्या तथा कल्प्यते । प्रकृते निषेधस्यान्यक्षौरविषयत्वेनाप्युपपत्ते-
रन्यथा रोहिण्यादौ नववस्त्रधारणनिषेधात्तत्र विवाहविधेरानर्थक्यं स्यान्न स्या-
च्च रविवारादौ उपनयनन्तत्र क्षौरनिषेधात् । अत एव “ब्राह्मणान् भोजयेत्तं च
पर्युप्तशिरसमलङ्कृतमानयन्ती”ति पारस्करेऽपि भोजनानन्तरमेव मुण्डनन्द-
र्शितमिति । धीरपद्धतिस्वरसोऽप्येवमेवेति महामहो० मुरारिमिश्राः प्राहुः ॥७॥
२६ गो० गृ०सू०

:
म - रो - मृ - गाः
Look at the characters:
म (ma)
रो (ro)
मृ (mṛ) - 'म' with 'ऋ' matra!
गाः (gāḥ) - 'ग' with 'आ' matra and visarga!
Yes, "मरोमृगाः" (maromṛgāḥ)!
Amarakosha says: "रोहिताश्चमरो मृगाः" !
So in L31: "रोहिताश्चमरोमृगाः" इति ।
Not 'ष्ट्राः'! It is definitely "रोहिताश्चमरोमृगाः" इति ।!

Now check L31 continued:
तत्र एणश्चारुनेत्र इत्येवं जातिभेदख्यापकन्तद्व्याख्यानञ्चा-
मरविवेके महेश्वरेण कृतम् ॥
Wait, let's read carefully:
"तत्र एणश्चारुनेत्र इत्येवं जातिभेदख्यापकन्तद्व्याख्यानञ्चा-"
मरविवेके महेश्वरेण कृतम् ॥
Wait: जातिभेदख्यापकन्तद्व्याख्यानञ्चा-
मरविवेके महेश्वरेण कृतम् ॥
Let's check every character:
त (ta) त्र (tra)
ए (e) ण (ṇa) श्चा (ścā) रु (ru) ने (ne) त्र (tra)
इ (i) त्ये (tye) वं (va

इति । विकल्पः शक्त्यपेक्षया कुलकल्पापेक्षया वा ॥ ९ ॥
मुञ्ज-काश-तामुन्योरशनाः ॥ १० ॥
तमुनिः शणः । रशना मेखला । “रशना मेखला काञ्ची”त्यमरः ।
अन्यत्पूर्ववत् । मनुः—
“मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला ।
क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥
मुञ्जालाभे तु कर्त्तव्या कुशाश्मन्तकबल्वजैः ।
त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥”
इति । त्रिवृत् नवगुणीकृता त्रिवृतेति प्रथमान्तम् “आपश्चैव हलन्ता-
नाम्” इति टाप् । एकेन ग्रन्थिनेत्यादीच्छया विकल्पः । उपलक्षणे तृतीया
( पा० २।३।२१ ) अत्र श्लक्ष्णा-मसृणस्पर्शा। मूर्वा-वल्लीविशेष. “दुग्ध (ध)
मरुरि”ति प्रसिद्धा । तेन निर्मिता मौर्वी ज्या । [धनुर्गुणः ] तस्यैव सतो मेख-
लायां विनियोगः । मुञ्जालाभे-मुञ्जाद्यभावे । अश्मन्तकः कुशसदृशतृणविशे-
षः । बल्वजाः “शावय” इति प्रसिद्धाः । ग्रन्थौ प्रवरसाम्येन व्यवस्थितोविकल्प
इति सुरारिमिश्राः (१) प्राहुः ॥ १० ॥
पार्ण-बैल्वा-ऽऽश्वत्था दण्डाः ॥ ११ ॥
पार्णः पालाशः “पलाशे किंशुकः पर्णोवातपोत” इत्यमरः । बिल्वाश्वत्थौ
प्रसिद्धौ । पालाशादयः क्रमेण ब्राह्मणादीनान्दण्डाः प्रशस्ता इत्यर्थः । तथा च
पारस्करः “पालाशो ब्राह्मणस्य दण्डो बैल्वो राजन्यस्यौदुम्बरो वैश्यस्य सर्वे
वा सर्वेषाम्” । इति । एषामभावे सर्वेषां सर्वे यज्ञियाः । औदुम्बर इति कुल-
कल्पभेदेन । स्मृतिः—
“धारयेद्वैल्वपालाशौ दण्डौ केशान्तिकौ द्विजः ।
यज्ञार्हवृक्षजं वाऽथ सौम्यमव्रणमेव च ॥”
इति । मनुः—
“केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः ।
ललाटसम्मितो राज्ञः स्यान्नासासम्मितो विशः ॥”
इति । केशस्य ललाटोर्ध्वकेशजन्मस्थानस्यान्तः केशान्तः। एवञ्चोर्ध्वस्थित-
स्य पुरुषस्य भूमितस्तत्पर्यन्तपरिमाणंतो ब्राह्मणस्य दण्डः कार्यः । भ्रमध्य
सम्मितो राज्ञः । नासाग्रसम्मितो वैश्यस्येत्यर्थः । यत्तु-केशान्तिकः कर्णसमीप-
( १ ) अत्र कुल्लूकभट्टः । अत्र च वाशब्दनिर्देशाद्ग्रन्थीनां न विप्रादिभिः क्रमेण
सम्बन्धः । किन्तु सर्वत्र यथाकुलाचारं विकल्पः । ग्रन्थिभेदश्चायं मुख्यामुख्यापेक्षासम्भ-
वाद्गृहीतव्यः ॥ इति ॥