गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 258, कुल 332 में से
संदर्भ में पढ़ेंइति । विकल्पः शक्त्यपेक्षया कुलकल्पापेक्षया वा ॥ ९ ॥
मुञ्ज-काश-तामुन्योरशनाः ॥ १० ॥
तमुनिः शणः । रशना मेखला । “रशना मेखला काञ्ची”त्यमरः ।
अन्यत्पूर्ववत् । मनुः—
“मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला ।
क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥
मुञ्जालाभे तु कर्त्तव्या कुशाश्मन्तकबल्वजैः ।
त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥”
इति । त्रिवृत् नवगुणीकृता त्रिवृतेति प्रथमान्तम् “आपश्चैव हलन्ता-
नाम्” इति टाप् । एकेन ग्रन्थिनेत्यादीच्छया विकल्पः । उपलक्षणे तृतीया
( पा० २।३।२१ ) अत्र श्लक्ष्णा-मसृणस्पर्शा। मूर्वा-वल्लीविशेष. “दुग्ध (ध)
मरुरि”ति प्रसिद्धा । तेन निर्मिता मौर्वी ज्या । [धनुर्गुणः ] तस्यैव सतो मेख-
लायां विनियोगः । मुञ्जालाभे-मुञ्जाद्यभावे । अश्मन्तकः कुशसदृशतृणविशे-
षः । बल्वजाः “शावय” इति प्रसिद्धाः । ग्रन्थौ प्रवरसाम्येन व्यवस्थितोविकल्प
इति सुरारिमिश्राः (१) प्राहुः ॥ १० ॥
पार्ण-बैल्वा-ऽऽश्वत्था दण्डाः ॥ ११ ॥
पार्णः पालाशः “पलाशे किंशुकः पर्णोवातपोत” इत्यमरः । बिल्वाश्वत्थौ
प्रसिद्धौ । पालाशादयः क्रमेण ब्राह्मणादीनान्दण्डाः प्रशस्ता इत्यर्थः । तथा च
पारस्करः “पालाशो ब्राह्मणस्य दण्डो बैल्वो राजन्यस्यौदुम्बरो वैश्यस्य सर्वे
वा सर्वेषाम्” । इति । एषामभावे सर्वेषां सर्वे यज्ञियाः । औदुम्बर इति कुल-
कल्पभेदेन । स्मृतिः—
“धारयेद्वैल्वपालाशौ दण्डौ केशान्तिकौ द्विजः ।
यज्ञार्हवृक्षजं वाऽथ सौम्यमव्रणमेव च ॥”
इति । मनुः—
“केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः ।
ललाटसम्मितो राज्ञः स्यान्नासासम्मितो विशः ॥”
इति । केशस्य ललाटोर्ध्वकेशजन्मस्थानस्यान्तः केशान्तः। एवञ्चोर्ध्वस्थित-
स्य पुरुषस्य भूमितस्तत्पर्यन्तपरिमाणंतो ब्राह्मणस्य दण्डः कार्यः । भ्रमध्य
सम्मितो राज्ञः । नासाग्रसम्मितो वैश्यस्येत्यर्थः । यत्तु-केशान्तिकः कर्णसमीप-
( १ ) अत्र कुल्लूकभट्टः । अत्र च वाशब्दनिर्देशाद्ग्रन्थीनां न विप्रादिभिः क्रमेण
सम्बन्धः । किन्तु सर्वत्र यथाकुलाचारं विकल्पः । ग्रन्थिभेदश्चायं मुख्यामुख्यापेक्षासम्भ-
वाद्गृहीतव्यः ॥ इति ॥