गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 243, कुल 332 में से
संदर्भ में पढ़ें२१२ चूड़ाकरणविधिः । [ २ प्रपाठके-
तथा—
"गार्भैर्होमैर्जातकर्मचौलमौञ्जीनिबन्धनैः ।
बैजिकं गार्भिकञ्चैनो द्विजानामपमृज्यते ॥"
इति मनुराह । भाष्यकृतस्तु-अत्रातः शब्दः स्मृत्यन्तरोक्तकाललाभायेत्या-
हुः(१) । तथाच मनुः—
"चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः ।
प्रथमाब्दे तृतीये वा कर्त्तव्यं श्रुतिचोदनात् ॥" इति ।
एतेन—
"ततः संवत्सरे पूर्णे चूडाकर्म विधीयते ।
द्वितीये वा तृतीये वा कर्त्तव्यं स्मृतिदर्शनात् ॥"
इति यमवचने-द्वितीये वेत्यत्र पूर्णे इत्यनुषङ्गस्तेन तृतीयाब्दलाभः । नचैवं
तृतीये वेति व्यर्थम् । तस्य तृतीयाब्दचरमावयवादिप्रशस्तपरत्वात् । अन्यथा
पक्षत्रयानुपपत्तिः । तथा च लौगाक्षिः-"तृतीये भूयिष्ठे गते चूडा कार्या"इति ॥
याज्ञवल्क्यः "चूडाकार्या यथाकुलम्"इत्याह । एवञ्चोक्तकालानां विकल्पः शा-
खाभेदाऽपेक्षया व्यवस्थित इति कल्पतरुः ॥ अस्योपनीत्या सहचरणे तु—
"आद्येऽब्दे कुर्वते केचित्पञ्चमेऽब्दे तृतीयके ।
उपनीत्या सहैवेति विकल्पाः कुलधर्मतः" ।
इति प्रयोगपारिजातोक्तं वचनमेव मानम् ॥ १ ॥
पुरस्ताच्छालाया उपलिप्तेऽग्निरुपसमाहितोभवति ॥ २ ॥
निगद्व्याख्यातमेतत् ॥ २ ॥
तत्रैतान्युपक्लृप्तानि भवन्ति ॥ ३ ॥
तत्र-तस्मिन्नुपलिप्ते भूमिभागे । एतान्यनुपदवक्ष्यमाणानि । उपसमीपे-
ऽग्नेःक्लृप्तानि आसादितानि भवन्ति । कर्तुरनियमः ॥ ३ ॥
कानि पुनस्तानि ? कस्यां वा दिश्यग्नेरासादयितव्यानीत्युच्यते—
एकविꣳशतिर्दर्भपिञ्जल्य उष्णोदककꣳस औदुम्बरः क्षुरः आदर्शो-
वा क्षुरपाणिर्नापित इति दक्षिणतः ॥ ४ ॥
दर्भपिञ्जल्यः । पवित्रलक्षणलक्षिताः पूर्वमुक्ताः ( १।७।६ ) ताः सप्त सप्त
कृत्वा स्थानत्रय आसादयितव्याः । उष्णमुदकं यस्मिन्सः कंसः कांस्यपात्रम् ।
उदुम्बरस्ताम्रम् । "उदुम्बरस्तु देहल्यां वृक्षभेदेचषण्डके ।
( १ ) अत्रारुचिबीजन्तु वक्ष्यमाणकल्पतरुकारव्याख्यानमेव । कातीयकल्पेहि 'यथा-
मङ्गलं सर्वेषाम्' इत्युक्तम् ॥ तेन सामगानान्तृतीय एव वर्षे चूडाकरणं गोभिलीयानाम-
विस्थितम् ॥