सामग्री पर जाएँ
सर्वकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 250, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 250

९ कण्डिका ] गोभिलगृह्यसूत्रे- २१६
चूडाकरणकर्मणः ॥ २८ ॥
अत्र सूत्रकाराऽनुक्तोऽपि कर्णवेधः (पूर्वमकृत(१)श्चेत्) आवश्यक एवेति
गार्हस्थ्यधर्मे कुण्डलधारणस्य मन्वाद्युक्तस्यान्यथाऽनुपपत्त्या कल्प्यते । तथाच
मनुः-
“वैणवीन्धारयेद्यष्टिं सोदकञ्च कमण्डलुम् ।
यज्ञोपवीतं वेदञ्च शुभे रौक्मे च कुण्डले ॥”
इति । वेदम्-कुशमुष्टिम् । तदेतद्दीक्षाकाले। श्रुतिश्च-“दीक्षायां कुण्डली
भवती-”ति । परन्तु-न संस्कारान्तर्गतः । तन्मध्येऽस्य(२)पाठाभावात् ।
क्रमस्तत्र पारस्करोक्त एव । “यन्नाम्नातं स्वशाखायाम्पारक्यमविरोधि चे”ति
कातीयपरिभाषणात् ॥
अत्र यथोचितकालाकृता नामकरणादिसंस्कारा व्याहृतिहोमानन्तरंक्रमा-
विरोधेनोपनयनात् पूर्वमनुष्ठेयाः । इति द्रष्टव्यम् । तथाच महाव्याहृतिहोमानां
सर्वप्रायश्चित्तत्वमुक्त्वा-कात्यायनः-
“संस्कारा अतिपद्येरन्स्वकालाच्चेत्कथञ्चन ।
हुत्वैतदेव कर्त्तव्या ये तूपनयनादधः ॥” इति ।
अत्रोपनयनादध इत्युक्तचोपनयनकालातिक्रमे नेदम्प्रायश्चित्तमपि तु व्रात्य-
स्तोमादीत्यनुपदं व्यक्तीभविष्यति ॥ २८ ॥
इतिश्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायां“मृदुला”ख्यायां मुकुन्दशर्म्मसङ्कलितायां
द्वितीय-पाठकस्य नवमी कण्डिका ॥ २ ॥ ९ ॥* ॥
( १ ) मुण्डनाख्योऽपि कर्मविशेषश्चूड़ाकर्मेण एवानुरूपः ( शिखाधारणाय )
कुमाराणाम्कुमारीणां वाधुनातनैः कुलीनैराजानिकाचारसिद्धतया क्रियते । तत्र कर्णवे-
धोऽपि यथाविहितकालमनुष्ठ्येति । सचेदकृतइत्यर्थः ॥
( २ ) तत्र ( संस्कारेषु ) गौतमेनचत्वारिशदभिहितास्तत्रमुख्या ( एका ) दश ।
“गर्भाधानं-पुंसुवने-सीमन्तोन्नयनं-जातकर्म-नामकरण-निष्क्रमणा-न्नप्राशन-चौलो-
पनयनं (चत्वारिवेदव्रतानि स्नानं) सहधर्मचारिणीसंयोगः” । इति । सहधर्म्मचारिणी-
संयोगोविवाहः । सुमन्तुना च “ब्राह्मणक्षत्रियांविशां वृत्तिः-“गर्भाधान-पुंसवन-सीम-
न्तोन्नयन-जातकर्म-नामकरण-निष्क्रमणा-न्नप्राशन-चौलो-पनयन-व्रतचर्या-ऽध्ययन-स-
मावर्त्तन-विवाह-सोष्यन्ती-यज्ञदानानी-”ति षोडशोक्ताः। वृत्तिः-संस्क्रिया । सोष्य-
न्ती-सुखप्रसवार्थङ्कर्म । कैश्चित्त्वन्यथैव स्मर्यते । यथा-
“गर्भाधानमतश्च पुंसवनकं सीमन्तजाताभिधे नामाख्यं सह निष्क्रमेण च तथान्नप्रा-
शनंकर्म्म च । चूड़ाख्यं व्रतबन्धकोऽप्यथ चतुर्वेद्वतानां पुरः केशान्तः सविसर्गकःपरिणयः
स्यात्षोडशी कर्मेणाम् ॥” इति । अङ्गिरसा च पञ्चविंशतिरुक्ताः। तदत्र गौतमोक्तेषु-
चत्वारिवेदव्रतानि स्नानञ्चेत्यंशः पूर्वेरेवाऽशक्यतया परिहृतः । शेषा दश पूर्वैरेव परिसं.