गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
केशमूलपर्यन्त इति कस्यचिद्व्याख्यानन्तन्न तथासति ब्राह्मणक्षत्रिययोस्तस्य
तुल्यपरिमाणत्वेन पृथगुपदेशानर्थक्यापत्तेरिति बोध्यम् । तथा—
“ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः ।
अनुद्वेगकरा नॄणां सत्वचानाग्निदूषिताः ॥”
इति । ऋजव इति—अम्रादन्यत्र । “यूपवक्रा” इति गौतमेन नताग्रत्वस्य
विधानात् । अव्रणा अच्छिद्राः । सौम्यदर्शनाः । अतिस्थौल्यादिनाऽभयानकाः ।
अनुद्वेगकारा स्वरूपेणाभीषणा इति मुरारिः । अदुःखदाः परेषामघातुकाना-
मिति वयम् ॥ ११ ॥
इदानीमुक्तानां वसनानां व्यवस्थामुपदिशति—
क्षौमंꣳशाणं वा वसनं ब्राह्मणस्य,
कार्पाशं क्षत्रियस्याऽऽविकं वैश्यस्य ॥ १२ ॥
ऋज्वर्थं सूत्रम् ॥ १२ ॥
एतेनैवेतराणि द्रव्याणि व्याख्यातानि ॥ १३ ॥
एतेनैवानुसारेण । इतराणि अजिन-वसन-दण्डाख्यानि । व्याख्यातानि
त्रयाणां यथाक्रमेणोक्तानि ॥ तथाच-ऐणेयमजिनं, मौञ्जी रशना, पार्णोदण्डश्च
ब्राह्मणस्य, रौरवमजिनं, काशी रशना, वैल्वोदण्डश्च क्षत्रियस्य, आजमजिनं,
शाणी रशना, आश्वत्थोदण्डश्च वैश्यस्येति सिद्धम् ॥ १३ ॥
अलाभे वा सर्वाणि सर्वेषाम् ॥ १४ ॥
अलाभे—स्वस्वजात्युक्तवसनादीनामसम्पत्तौ । सर्वाणि क्षौमादीनि वस-
नादीनि सर्वेषां भवन्ति यथालाभम् । अत एव वसिष्ठः “सर्वेषान्तान्तवमर-
क्तम्” इति । अरक्तं विकृतरक्तरहितं, कौशुम्भन्तुप्रशस्तं, तथाच गौतमः “स-
र्वेषां कार्पासमविकृतं, काषायमप्येके” इति ॥ १४ ॥
पुरस्ताच्छालाया उपलिप्तेऽग्निरुपसमाहितोभवति ॥ १५ ॥
निगद्व्याख्यातमेतत् ॥ १५ ॥
“अग्ने व्रतपत” इति हुत्वा पश्चादग्नेरुदगग्रेषु दर्भेषु
प्राङाचार्योऽवतिष्ठते ॥ १६ ॥
( मं० ब्रा० १।६।९—१३ )
“यथा पाणिग्रहणे तथा चूडाकरणे चोपनयने” (१।९।२८) इत्यतिदेशा-
दुपनयनकर्म्मणः पुरस्ताच्चोपरिष्टाच्च महाव्याहृतिभिश्चतस्र आहुतयो भवन्ति,
तदाहुतिचतुष्टयं कृत्वा “अग्ने व्रतपत” इत्येवमादिभिः पञ्चभिर्म्मन्त्रैः [ अ-
नादेशादाज्येन ] पञ्चाहुतीश्च हुत्वा आचार्यः पश्चादग्नेरुदगग्रेषु दर्भेषु प्राङ्
प्राङ्मुखः अवतिष्ठते-ऊर्ध्वस्थितोभवेत् । “हुत्वाऽऽचार्योऽवतिष्ठते”इति क्त्वा
श्रवणात् कर्तृन्तरानुपदेशाच्च होमोऽयमाचार्यकर्तृक एव । मन्त्रास्तु माणव-
कपठनीया “व्रतञ्चरिष्यामी”ति मन्त्रलिङ्गात् । नचेदानीं वेदपाठे तस्यानधि-
कारः । उपनयनकर्मणः पूर्वमेव तथा स्यान्न तूपनयनकर्म्मण्यपि । मेखलामन्त्रे
तत्कर्तृकपाठस्य सर्वसम्मतत्वात् । अन्यपठितमन्त्रेणान्यकर्तृकक्रियायाश्चाश्मा-
रोहादौ बहुत्र दर्शनान्न किञ्चिदेतत् । कौमुदी—नारायण—शूलपाणि—हार-
लताप्रभृतयोऽप्येवम् [१] ॥ १६ ॥
अन्तरेणाग्न्याचार्यौ माणवकोऽञ्जलिकृतोऽभिमुख
आचार्यमुदगग्रेषु दर्भेषु ॥ १७ ॥
अत्रावतिष्ठत इत्यनुषञ्जनीयम् । अन्तरेणेति मध्यार्थेऽव्ययम् । तथाचा-
मरः
: there is a 'ज', is there a dot? No dot. It's printed as "अनुषजनार्थश्चकारः" or "अनुषञ्जनार्थश्चकारः").
Let's check line 16:
"मङ्गल्ये दक्षिणाभिमुखेन क्रियापत्तेरिति भाष्यकृतः । अवस्था य । ऊर्ध्वःस्थित्वा ।"
Wait, "क्रियापत्तेरिति" or "क्रियाप्रवृत्तेरिति"?
Look at L16:
"मङ्गल्ये दक्षिणाभिमुखेन क्रियापत्तेरिति" ->
क्री (kri)
या (yā)
प (pa)
त्ते (tte)
रि (ri)
ति (ti)
Yes, "क्रियापत्तेरिति" (kriyā-āpatteḥ iti = because the action would fall/occur facing south, which is inauspicious). "मङ्गल्ये दक्षिणाभिमुखेन क्रियापत्तेरिति भाष्यकृतः" - brilliant Sanskrit logic! Facing south in an auspicious rite would be an āpatti (undesirable occurrence).
Line 16-17:
"अवस्था य । ऊर्ध्वःस्थित्वा । मन्त्रवान्-अध्ययनयुक्तः ।"
Wait, "ऊर्ध्वःस्थित्वा" or "ऊर्ध्वं स्थित्वा"?
Look at L16: "ऊर्ध्वःस्थित्वा" -> "ऊ र्ध्वः स्थि त्वा" (there
(द् + ग) or द् with virama?
Look at: आ ङ् प ू र् व ा द् ग म े स ्
Wait, it has a horizontal-ish stroke below द्, which in some fonts is just virama! But does it look like 'दू'? In many Nirnaya Sagar / Chowkhamba fonts, virama under द curves down-right like a little tail, often transcribed as द् or दू. But grammatically it is आङ्पूर्वाद् गमेः (ablative of आङ्पूर्व + गम्). It's clearly a virama on द! Wait, look at:
आङ्पूर्वाद्गमेस्ताच्छीलिकस्तृन्प्रत्ययः
Let's write आङ्पूर्वाद्गमेस्ताच्छीलिकस्तृन्प्रत्ययः (or if it's printed as दू, wait, is there an actual standalone ू? No, it's attached to द: द्). It is definitely द्गमेस्!
Wait, look at Note 2:
अत्राङ्पूर्वाद्गमेलिङर्थे
Same ligature द्ग!
Let's check L2:
न्त्रा' आगमनशीलेन(१) ब्रह्मचारिणा । वयं 'समगन्महि' सङ्गच्छेमहि(२) ।
Wait, look at the beginning of L2:
न्त्रा' आगमनशीलेन(१)
Before न्त्रा, is there something?
It starts with: न्त्रा' आगमनशीलेन(१)
२३२ उपनयनविधिः । २ प्रपाठके-
पृच्छति । अत्र क इति नामविषयकः प्रश्नः । नामेति प्रसिद्धार्थकम् अव्ययम् ।
तथा च प्रसिद्धं नाम पृच्छति । कोऽसीति सूत्रार्थः ॥ २२ ॥
किं कृत्वा—
अभिवादनीयं नामधेयङ्कल्पयित्वा ॥ २३ ॥
अभिवादनं-पादोपसङ्ग्रहणम् । सम्भाषणं वेति चन्द्रकान्तः । “समे तु
पादग्रहणमभिवादनमित्युभे” इत्यमरः । तदर्थमभिवादनीयम् । नामधेयत्वेन
( पा० १।१।७५ वा० ) वृद्धत्वाच्छः ( पा० ४।२।११४ ) तस्यानीयर् ( पा०
४।४।२ ) कल्पयित्वेति वचनात्तदानीमेवाचार्येण तत्कल्पनमायाति । अभिवा-
दनीयमितिकरणात्सर्वत्रैवाभिवादने ब्रह्मचारिणाऽऽचार्यकल्पितेनैव नाम्ना
व्यवहरणीयमिति बोधयति ॥ २३ ॥
अभिवादनीयनाम विशिनष्टि—
देवताश्रयं वा नक्षत्राश्रयं वा ॥ २४ ॥
आद्यं यथा—“विष्णुशर्म्मनामा(१)सी”ति । द्वितीयं यथा—“फाल्गुनश(२)-
र्म्मनामासीः'ति ॥ २४ ॥
गोत्राश्रयमप्येके ॥ २५ ॥
तद्यथा “कौशिकशर्म्मनामासी-”ति ॥ २५ ॥
ततो माणव(३)केन “ॐ अमुकनामाऽस्मी—”त्याचार्यकल्पिते नाम्नि
कथिते—
उत्सृज्यापामञ्जलिमाचार्योदक्षिणेन पाणिना दक्षिणं पाणिं
साङ्गुष्ठं गृह्णाति—“देवस्यते सवितुः प्रसवेऽश्विनोर्बा-
हुभ्याम्पूष्णोहस्ताभ्याꣳहस्तं गृह्णाम्यसा(४)-
वि”—ति ॥ २६ ॥
( मं० ब्रा० १।६।१८ )
( १ ) अत्र नामधेये “शर्म्मान्तं ब्राह्मणस्ये”ति मानवं वचनं मानं, विशेषविचारस्तु-
नामद्वैतप्रकरणे द्वैतनिर्णये द्रष्टव्यः ।
( २ ) नक्षत्रपदेन यन्मास्युपनयनन्तत्समाख्यापकमेवेति केचिदाचक्षते ॥ केचित्तु
शतपदचक्रानुसारिजन्मनक्षत्राश्रयन्नामाहुस्तत्तुच्छं तस्यगुह्यत्वस्यागमेऽप्यभिधानात् ।
तथाचशारदातिलकटोकायां राघवभट्टोद्धृतम् “जन्मनक्षत्रयोन्या नौ मारणानि यथातथम् ।
कृतानि न चिरेणैव सिद्धिदानि महेश्वरी” तिवचनम् ॥
( ३ ) अत्र “कोनामासि”? “असौनामास्मी”त्येवं ब्राह्मणे सहैव द्वयं पठ्यते ।
विनियोगोऽपि पृथगेव बौद्धेश्वरादिपद्धतिषु पठ्यते । “ॐ विष्णुशर्म्मनामास्मी”त्येवं
वाक्याभिलापश्च । सूत्रकृता तूत्तरवाक्यस्यानभिधाने कारणं मृग्यम् ॥
( ४ ) अस्य ह्रस्य अश्छान्दसः ( पा० ८।२।३३ वा० ) ॥
An exact, line-by-line transcription of the provided page:
पाणिं "माणवकस्ये"ति शेषः । ग्रहणमन्त्रमाह "देवस्यत" इति । अत्रा-
साविति स्थाने माणवकस्य स्वकल्पितन्नाम सम्बोधनान्तं प्रयोक्तव्यम् । एवमग्रेऽपि ।
नारायणवीरेश्वरादयोऽप्येवम् । अत्र माणवकस्यापि जलाञ्जल्युत्सर्ग आचा-
र्यस्यैवावगन्तव्योऽविशेषेणोपदेशात् । मन्त्रार्थस्तु—हे 'असौ ! विष्णुशर्म्मन् !
'तव' हस्तं 'सवितुर्देवस्य' 'प्रसवे' अभ्यनुज्ञाने (१)सति । "अश्विनो"र्देवभि-
षजोः । 'बाहुभ्यां' 'पूष्णः' पूषापिष्टाद(२)इत्येवं ख्यातस्य देवविशेषस्य 'हस्ता-
भ्याम्' अहम् आचार्यस्तव 'हस्तं' करं 'प्रतिगृह्णामि' । अत्र सर्वत्र स्वत्वं ३()-
षष्ठ्यर्थस्तत्प्रत्ताभ्यामित्यर्थः ॥ १८ ॥ इति ॥ अत्र मन्त्रपाठानन्तरं हस्तग्रहणं
बोद्धव्यमिति (४)भा
२३४ उपनयनविधिः। [ २ प्रपाठके
णावकस्य नाम गृह्णीयात् । एवमग्रेऽपि (३२सू०) असावित्यत्र प्रथमान्तमिति
विशेषः । मन्त्रोयथा— “प्राणानाङ्ग्रन्थिरसि माविस्रसोऽन्तक इदन्ते परिददा-
म्यमुम्” इति ॥ २० ॥ अस्यार्थः ।
हेनाभे ! अस्य ब्रह्मचारिणस्त्वं ‘मा विस्रसः’(१) मा विस्रंसिष्यसि । स्व-
स्थानान्न चलिष्यसि । यस्त्वं ‘प्राणानां’ देहधारकवायूनां ‘ग्रन्थिः’ प्रतिबन्धः ।
‘असि’ भवसि । तथा हे ‘अन्तक !’ यम ! ‘इदम्’ अस्य ब्रह्मचारिणः शरीरम्
‘अमुम्’ ब्रह्मचारिणञ्च ‘ते’ तुभ्यं ‘परिददामि’ समर्पयामि । त्वयि समर्पित
एष रोगजरामरणादिकन्नानुप्राप्नुयादिति ॥ २० ॥ २८ ॥
उत्सृप्य नाभिदेश-‘‘महुर’’ इति ॥ २९ ॥
( मं० ब्रा० १।६।२१ )
उत्सृप्य—नाभेरूर्ध्वङ्करन्नीत्वा नाभिदेशं-तत्समीपदेशम्(२) । जठरमिति
तदर्थः । मन्त्रलिङ्गात् । अहुरशब्दस्य जठराग्निवाचकत्वाम्नानात्तमभिमृशेदित्य-
नुवर्त्तते । एवमग्रेऽपि । मन्त्रस्तु—
‘‘अहुर इदन्ते परिददाम्यमुम्’’ ॥ २१ ॥ इति । अस्यार्थः । हे ‘अहुर’
जठराग्ने ! इदमित्यादिपूर्ववत् । गुणविष्णुस्तु-अहुरिर्नाम वायुः । तस्यामन्त्रणे
हे अहुरे ! इत्येवं व्याख्यातं(३) ॥ २१ ॥ २९ ॥
उत्सृप्य हृदयदेशं ‘‘कृशन’’ इति ॥ ३० ॥
( मं० ब्रा० १।६।२२ )
कृशनोहृच्छयः पुरुषः । तथाच श्रुतिः । ‘‘स चापर आत्मा हृदी-”ति ।
मन्त्रस्तु-‘‘कृशन इदन्ते परिददाम्यमुम्” इति ॥ २२ ॥ अर्थः पूर्ववत् ॥३०॥
दक्षिणेन पाणिना दक्षिणमंसमन्वालभ्य “प्रजापतये त्वा
परिददाम्यसावि”-ति ॥ ३१ ॥
( मं० ब्रा० १।६।२३ )
असाविति-सम्बोधनान्तनामग्रहणम् । एवमग्रेऽपि । मन्त्रार्थः स्पष्ट एव ३१
सव्येन सव्यं “देवाय त्वा सावित्रे परिदाम्यसावि-”ति ॥ ३२ ॥
( मं० ब्रा० १।६।२४ )
( १ ) ‘‘स्रंसुअधः पतने” ( भ्वा०आ० ) द्युतादिः । ‘‘माकि लुङ्-” ( पा० ३।३।
१७५ ) सर्वलकारापवादः । ‘‘द्युभ्यो लुङि” ( पा० १ । ३ । ९३ ) इति परस्मैपदे द्युतादि-
त्वात् ( पा० ३।१।५५ ) चलेरङि नलोपः ( पा० ६।४।२४ ) ।
( २ ) सामीप्यलक्षणया ‘‘वटे गावः सुशेरत” इति वत्प्रयोगोऽयम् । तेन नाभ्युपरि-
देश उक्तो भवति मध्यमपदलोपिसमासात् ।
( ३ ) अत्र षष्ठ्यादेशे यलोपः । ( पा० ८।३।१९ ) ।
सव्यमित्यत्रांसमित्यनुषज्यते । स्पष्टमन्यत् ॥ मन्त्रार्थोऽपि स्पष्ट एव ॥३२॥
अथैनँ सम्प्रेष्यति-“ब्रह्मचार्यस्यसावि-”ति ॥ ३३ ॥
( मं० ब्रा० १।७।२५ )
अथेति पूर्वप्रकृतार्थम् । अथ पूर्वकृतमंसयोर्गृहीतमेवैनं माणवकं सम्प्रेष्यति
समादिशत्याचार्यः । कि ? “ब्रह्मचार्यस्यसावि”ति । अस्यार्थः हे असौ !
माणवक ! इतः प्रभृति त्वं 'ब्रह्मचारी' तन्नामानुरूपकर्मा(१) ‘असि’ भवसि ।
अतोब्रह्मचर्यनियमं मधुमांसवर्जनादिकं त्वया आ ब्रह्मचर्यपरिसमाप्तेः पाल-
नीयमिति ॥ ३३ ॥
अथापरमतिदिशति—
समिधमाधेह्य-पोऽशान-कर्म्मकुरु-मा दिवा स्वाप्सीरिति ॥ ३४ ॥
( मं० ब्रा० १।६।२६ )
यत्तु वक्ष्यति अस्तमिते समिधमादधातीति । तां समिधं सायं प्रातराधेहि।
अग्नयेऽर्पय । यच्च श्रुतावभिहितं “तस्माद्वा-एतदन्नमशिष्यन्पुरस्ताच्चोपरिष्टा-
च्चाद्भिः परिदधा(२)ति” इति । तदिदमादिशति “अपोऽशाने”ति । अप-
उदकम् । अशान-भक्षय । भोजनात्पुरस्तादुपरिष्टाच्चेत्यर्थः । मन्त्रौ तु-शाखा-
न्तरादुपादेयौ “अमृतोपस्तरणमसि स्वाहे”ति पुरस्तात् । “अमृताऽपिधान-
मसि स्वाहे” त्युपरिष्टात् । अन्यच्च-यत्किञ्चिद्विदितं गुरुशुश्रूषादि कर्म्मत्त-
त्कुरु । इत्यपर आदेशः । दिवा-दिवसे । मा स्वाप्सीः । शयनम्मा कार्षीरिति ।
गुरुणा ह्येवमादिष्टो ब्रह्मचारी सर्वत्रैव “बाढमि”ति “ओमि”ति वा ब्रूयात् ।
एवञ्चादेशमनुपालयेदाब्रह्मचर्य्यम् । तदाहकर्म्मप्रदीपः—
“ब्रह्मचारी समादिष्टोगुरुणा वृतकर्म्मणि ।
बाढमोमिति वा ब्रूयात्तत्तथैवानुपालयेत् ॥” इति ॥ ३४ ॥
उदगग्नेरुत्सृप्य प्राङाचार्य उपविशत्युदगग्रेषु दर्भेषु ॥३५॥
उदक्-उत्तरस्यान्दिशि । प्राङ्-प्राङ्मुखः । एवमग्रेऽपि ॥ ३५॥
प्रत्यङ् माणवकोदक्षिणजान्वक्तोऽभिमुख आचार्य्यमुदगग्रे-
ष्वेव दर्भेषु ॥ ३६ ॥
माणवकस्तु-दक्षिणजान्वक्तः । दक्षिणं जानु अक्तं भूमिगतं यस्य स
तथाभूतः । “अञ्जूव्यक्तिम्रक्षणकान्तिगतिषु” ( रु० प० ) गत्यर्थत्वात्क्त-
( १ ) ब्रह्मवेदस्तदध्ययनार्थं व्रतमपि लक्षणया ब्रह्मोच्यते । तच्चरत्यनुतिष्ठतीति
ब्रह्मचारी । ताच्छील्यार्थे ( पा०३।२।७८ ) णिनिप्रत्ययः । उपधावृद्धिः ( पा०७।२।११६ )
सततकरणञ्च ताच्छील्यम् ।
( २ ) परिधानमिहोपस्तरणमावरणञ्च मन्त्रलिङ्गादेव ।
रिक्तः (पा० ३।४।१२) भूगतदक्षिणजानुः । आचार्याभिमुखः । प्रत्यङ्मुखः ।
उदगग्रेषु दर्भेषूपविशति । उदङ्-अग्नेरुत्तरत एव ॥ ३६ ॥
अथैनं त्रिः प्रदक्षिणं मुञ्जमेखलां परिहरन् वाचयति- "यं दुरु-
त्परिबाधमाने-"ति । "ऋतस्य गोप्त्रीति च ॥३७॥
( मं० ब्रा० १।६।२७-२८ )
अथ-अनन्तरमेव । उपविष्टमेव । एनं-माणवकं परिहरन्-परिवेष्टयन्
कटिप्रदेशे प्रादाक्षिण्येन त्रिवेष्टयन्(१)। परिवेष्टनावृत्तावपि मन्त्रवाचनं सकृदेव
"एकद्रव्ये कर्मावृत्तौ सकृन्मन्त्रवाचनमि"-त्युपनिदर्शनान् । मन्त्रौ यथा-
"इयन्दुरुक्तात्परिबाधमाना वर्णं पवित्रं पुनतीम आगात् ।
प्राणापानाभ्यां बलमाहरन्ती स्वसा देवी सुभगा मेखलेयम् ॥३७॥
ऋतस्य गोप्त्री तपसः परस्वी घ्नती रक्षः सहमाना अरातीः ।
सा मा समन्तमभिपर्येहि भद्रे ! धर्त्तारस्ते मेखले मा रिषाम" ॥२८॥
इति । अनयोरर्थः-ब्रह्मचारी ब्रूते-'इयं' प्रत्यक्षा मेखला मौञ्जी(२) 'नः'
अस्मान् । 'आगात्' आगता । किङ्कुर्वती ? 'दुरुक्तात्' असम्बद्धप्रलापादितः
बाल्यकृतात् 'परि' सर्वतो 'बाधमाना' निवारयन्ती । 'पवित्रम्' अपि 'वर्णं'
ब्राह्मणादिकं 'पुनती' द्विजत्वसम्पादनेन पावयन्ती । तथाच स्मृतिः-"मातुर्य-
दग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात्" इति । पुनश्च प्राणापनाभ्यां' प्राणापा-
( १ ) अत्र 'मेखलां बध्नीते" ( पा० २।२।८।१० ) इत्यादि परशाखीयगृह्यसूत्र-
व्याख्यायां हरिहरमिश्राः । "ततोमेखलाम्मौञ्जीयादिकां वक्ष्यमाणलक्षणां बध्नीते (आ-
चार्यः) कटिप्रदेशे त्रिवृतां प्रवरसंख्याग्रन्थियुतां प्रादक्षिण्येन परिवेष्टयति । इयमित्यादि-
मन्त्रेण माणवकपठितेन । ( मन्त्रलिङ्गात् ) एवं गदाधरभाष्येऽपि-तत अचार्य्योमाणवक-
कट्यां मेखलां रसनां बध्नीते । अत्रैवं बन्धनम् । आचार्य्यस्त्रिगुणाम्मेखलामादाय माणव-
कस्य वटोः कटिप्रदेशे प्रादक्षिण्येन त्रिवेष्टयति । तृतीये वेष्टने ग्रन्थयस्त्रयः पञ्च सप्त वा का-
र्याः । तदुक्तम्- "त्रिवृता मेखला कार्या त्रिवारं स्यात्समावृता । तद्ग्रन्थयस्त्रयः कार्याः
पञ्च वा सप्त वा पुनः॥" इति । अत्र प्रवरसंख्यायां नियमः । त्र्यार्षेयस्य ग्रन्थित्रयं, पञ्चा-
र्षेयस्य पञ्च । सप्तार्षेयस्य सप्तेति गर्गपद्धतौ । वृद्धाचारोऽप्येवमेव । आचार्य्यकर्तृकं
मेखलाबन्धनं, कुमारस्य मन्त्रपाठः इति वासुदेव-मुरारिमिश्र-जयराम-हरिहराः । इत्या-
दि ॥ तदित्थं कटिशब्दस्य स्कन्धपरत्वं व्यवस्थापयन्तस्तदर्थं सुधा क्लिश्यन्तः प्रति-
समाहिता वेदितव्याः ।
( २ ) उपलक्षणमेषा यथावर्णं मौर्व्यादेः । मेखलेति कटिप्रदेशस्थाया रसनाया नाम
तथाच हेमः "मेखलाऽद्रिनितम्बे स्याद्रशनाखड्गबन्धयोरि"ति । "स्त्री कट्यां मेखला
काञ्ची'त्यमरश्च । स्त्री-स्त्रीलिङ्गाभिधायि । तथाच कटिबन्धनं मेखलेति सर्वसम्मतम्॥ तत्र
तच्च सप्तेति समाख्यया सप्तहस्ता सा भवति माणवकहस्तेनेति बोध्यम् । तथाच स्मर-
न्त्यपि-"मेखला सप्तहस्ता स्यात्" इति ।
भ्यः(१) । 'बलम्' वीर्यम् 'आहरन्ती' आनयन्ती । ( आहृत्य स्थापयन्ती )
स्वसा' स्वसृवद्धिता(२) । 'देवी' दीप्तिमती । अत एव 'सुभगा' सौभाग्यप्रदा ।
सर्वलोककाम्येति गुणविष्णुः ॥ २७ ॥
हे 'भद्रे !' शोभने ! 'मेखले !' या त्वं ब्रह्मचारिसम्बन्धिनः 'ऋतस्य'
सत्यस्य यज्ञस्य(३) वा 'गोप्त्री' पालयित्री 'तपसः' ब्रह्मचर्यस्य 'परस्वी' सर्व-
स्वभूता(४) 'रक्षः' रक्षांसि । जातावेकवचनम् । 'घ्नती' विनाशयन्ती ।
अराती:(५) शत्रून् । 'सहमानाः' (६)अभिभवन्ती । सा एवम्भूतात्वं 'मा'
मां 'समन्तम्' समन्तात्(७) ( सर्वतः ) 'अभिपर्येहि' आभिमुख्येनागच्छ(८) ।
वेष्टयेत्यर्थः। यथा 'ते' तव 'धर्त्तारः' कटौ धारयितारोवयम् केनचित् 'मा रिषाम'
(९)मा हिंसिष्महि । ( हिंसिता मा भवेम ) इति ॥ २८ ॥
अथ कौपीनपरिधानं तज्ञोपवीतधारणञ्च । तत्र प्रथममाचम्य-ब्राह्मणेभ्यः
सपूगयज्ञोपवीतभाण्डाष्टतयदानमाजानिकाचारात् अत्र मानमुपनिषत्सु “अष्टौ
ब्राह्मणान्ग्राहयित्वा विद्या सिद्धिर्भवति” त्यसनुदाम्नायते । तदेतदत्रापि ब्राह्म-
णेभ्यः पूर्वम्प्रदाय विद्यासिद्ध्यै यज्ञोपवीतधारणमिति मम प्रतिभाति । एतच्च
यज्ञोपवीतधारणं सूत्रानुक्तकालमपि(१०) इदानीमेव । अन्यत्र तथादर्शनात् ।
तथाच मेखलाबन्धनानन्तरं जातकर्णः—“पवित्रञ्चास्मै प्रयच्छति ।
( १ ) षष्ठ्यर्थे चतुर्थी ( पा० २।३।६२ ) ।
( २ ) परार्थे प्रयुज्यमानाः शब्दाः सादृश्यङ्गमयन्तीति गुणविष्णुः ।
( ३ ) तथाच निरुक्तम् “ऋतमिति सत्यं वा यज्ञं वे”ति ( ४।१९ ) ।
( ४ ) “गौरादित्वात्” ( पा० ४।१।४१ ) ङीष् ॥
( ५ ) तथाच श्रुतिः “या नोदूरे तदितो या अरातयोऽभिसन्ति जम्भया ता अन-
नसः” ( ऋ० सं० २।६।३० ) इति । अत्रारातयः शात्रवीः सेना इति दुर्गाचार्याः ।
कोशे तु पुल्लिङ्गोऽपि “रिपौ वैरियसत्त्वारि…………अभिघातिपराशतिप्रत्यर्थिपरिपन्थिन”
इत्यमरः ।
( ६ ) “षहमर्षणे” ( भ्वा० आ० ) लटः शानच् । मर्षणं क्षमा अभिभवनचेति
( सि० कौ० ) दीक्षितचरणाः प्राहुः ।
( ७ ) त्सोऽत्राऽमादेशः । ( पा०
२३८ उपनयनविधिः। [ २ प्रपाठके
“यज्ञोपवीतम्परमं पवित्रमिति” इति । अपि च-“सदा मन्त्रवदाधार्यमुपवीत-
न्द्विजातिभिः”।ति देवलवाक्याद् द्विजत्वसम्पत्त्यनन्तरमेवोपवीतधारणमायाति।
अत्राङ्मर्यादार्थः । मर्यादयेति तदर्थः । मर्यादा तूक्ता प्राक् (२।२।१-३) द्विज-
त्वञ्च मेखलाबन्धनादनन्तरमेव । तथाच याज्ञवल्क्यः—
“मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् ।
ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजातयः ॥”
इति । अत्रोक्तदेवलवचने मनौ च—
“मेखलामजिनन्दण्डमुपवीतंङ्कमण्डलुम् ।
अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥”
इत्येवं समन्त्रकत्वन्तद्ग्रहणे स्मर्यते । तदत्रानुपदेशा(१)च्छाखान्तरोक्त-
मन्त्रमुपादद्यात् । यथा-
“यज्ञोपवीतमसि यज्ञस्य त्वोपवीतेनोपनह्यामी”ति ! अस्यार्थः । हे उपवीत
त्वं ‘यज्ञोपवीतम्’ तन्नाम ‘असि’ भवसि । अतः ‘त्वा’ त्वाम् ‘यज्ञस्य’
यज्ञसम्बन्धिना । तृतीयार्थे षष्ठी ( पा० ३।२।८५ ) ‘उपवीतेन’ ब्रह्म(२)सूत्रेण
‘उपनह्यामि’ परिदधामि । यज्ञोपवीतलक्षणमुक्तमधस्तात् । ( १।२।१-३ )
अथोक्तम् ( २।१०।९ ) अजिनमपोदानीमेव । “मित्रस्य चक्षुरि”ति तैत्ति-
रीयशाखीयमन्त्रेण परिधापयेत् । तदेतत्सर्वम् “यन्नाम्नातं स्वशाखायामि”-
ति कातीयपरिभाषणाद्बोध्यम् । तथाचाश्वलायनः “यज्ञोपवीतमजिनञ्चे”ति ।
एवञ्च द्रव्यकथनसूत्रक्रमेण नैतद्धारणम् । तत्र क्र
hyphen!
And before that: कर्त्तरि क्तान्तम् or कर्तृ क्तान्तम्?
Look at कर्तृ: क र् on तृ? No, it's कर्तृ (or कर्त्तरि).
Wait, क र् तृ क ा न् त म् -> कर्तृक्तान्तम्?
Wait, is there a ल? No.
Look at: कर्तृ - wait, does it say कर्तृ? Yes, क with र् on त and ृ under it: कर्तृ!
Wait, and then क्तान्तम्? It is क्तान्तम् without the loop? It looks like कान्तम् with a small ् or क्तान्तम्.
Wait, in line 26:
( १ ) अत्रोपसत्तिर्नाम पादोपसङ्ग्रहणम् । उपसन्न इति कर्तृक्तान्तम् । सीदतेर्गत्य-
Line 27:
र्थत्वात् "गत्यर्थाकर्मके" ( पा० ३।४।७२ ) त्यादिना क्तः ।
Footnote (२):
Line 28:
( २ ) वस्तुतस्त्वध्यापनं वेदस्य पुरःस्वयमधीत्य पश्चादन्तेवासिना सह पठने वदि-
Line 29:
ग्रह्णाय । सहानुवर्तनम् । तृतीयवारे माणवकेन सह पठन् । एतच्च शक्त्यपे-
क्षयाभिधानम् । यदि माणवकोमन्दमेधस्त्वार्थ(१)थावदध्येतुन्न शक्नुयात्तदा
यथाशक्त्यस्याध्यापयेत् । तथाचाश्वलायनगृह्यम् "सावित्री मन्वाह पच्छो-
ऽर्द्धर्चशः सर्वशँयथाशक्ति वाचयीते"ति । अत्रेतिशब्दः क्रमप्रकार-
ज्ञापनार्थः ॥ ३९ ॥
महाव्याहृतीश्च विहृता ॐकारान्ताः ॥ ४० ॥
[ मं० ब्रा० १।६।३० ]
विहृताः । विकृष्य हृताः पृथक्कृताः । विहिता इतिपाठे प्रयुक्ता इत्यर्थः ।
विहृता इति पाठे पृथग्भूता न संहता इति यावत् । केचिद्विकृता इति पठन्ति ।
तत्रापि पृथग्भाव एवविकार इति तुल्योऽर्थः । ओंकारान्ताः । ओंकारः अन्ते
यासान्ताः । तेन विहृतानामेवौकारान्तत्वम् । एवञ्च भूरों भुवरों स्वरों । इति
प्रयोगः सिध्यति । इति नारायण-मुरारिमिश्रादयः । भवदेवभट्टस्तु ॐभूरित्ये-
वम्प्रायुङ्क्त । तस्य मतेऽन्तशब्द आद्यर्थः । "पर्युक्षणान्तान्यतिहरन्" १।३।५
इत्यत्रय यथा । वीरेश्वरस्तु तदुभयमनुसरन् ॐभूरों, ॐभुवरों, ॐस्वरों, इत्येवं
स्वपद्धतौ प्रायुङ्क्त । तत्र मन्त्रादौ प्रणवदानं सम्प्रदायसिद्धमन्ते च सूत्र(२)वि-
हितमिति बोध्यम् ॥ ४० ॥
वार्क्षञ्चास्मै दण्डम्प्रयच्छन्वाचयति "सुश्रवः सुश्रवसम्मा
कुर्वि"-ति ॥ ४१ ॥
( मं० ब्रा० १।६।३१ )
वृक्षस्येदं वार्क्षम् । प्राप्तदण्डानुवादेन प्रदानमात्रविधानात्पार्णा(३)दिरूपमित्यर्थः ।
अत्र चन्द्रकान्तः । वार्क्षञ्चेतिशब्दादजिनमपीदानीमेवप्रयच्छतीतिव्याचष्टा-
( १ ) सकृन्मात्रोपदेशेन ।
( २ ) यत्तु - "ब्रह्मणः प्रणवङ्कुर्यादादावन्ते च सर्वदा । क्षरत्यनोङ्कृतम्पूर्वम्परस्ताच्च
विशोर्यते" इति मनुवचनन्तद्वेदपारायणविषयन्न तु महाव्याहृतेः सावित्र्या वा प्रदान-
विषयम् । जपविषये तु गायत्र्या एव योगियाज्ञवल्क्येनाद्यन्तयोः प्रणवयोग उक्तः "ॐ
कारः पूर्वमुच्चार्योभूर्भुवः स्वस्ततः परम् । गायत्री प्रणवश्चान्ते जप्येह्येवमु
णाद्दण्डधारणोत्तरमजिनधारणमभिप्रेति तदाचारविरुद्धम् । मनुनाऽपि “मेखला-
मजिनन्दण्डम्” इति क्रमएवाभ्यधायि । एवमाश्वलायनेनापि मेखलामुपक्रम्य
“यज्ञोपवीतमजिनं चे”त्युक्तमित्युक्तमनुपदम् । तमिमन्दण्डमस्मै ब्रह्मचारिणे ।
प्रयच्छन् — ददत् “सुश्रवः” इत्यादिमन्त्रं वाचयति ब्रह्मचारिणमेव ।
मन्त्रोयथा—
“सुश्रवः सुश्रवसं मा कुरु । यथा त्वमग्ने सुश्रवःसुश्रवा देवे-
ष्बेवमहं सुश्रवः सुश्रवा ब्राह्मणेषु भूयासम्” ॥ ३१ ॥ इति ।
अस्यार्थः—दण्डं गृह्णन्ब्रह्मचारी तमग्निञ्चप्रार्थयते—हे सुश्रवः ? शोभनं
श्रवोयशःप्रशंसा(१)यस्य ससुश्रवात्तत्संबोधने । हे शोभनकीर्ते दण्ड ! यथात्वं
वेदधारणार्थज्ञानादिना(२) लोके प्रख्यातयशाः । एवं 'मा'माम् अपि 'सुश्रवसं'
सुयशसं 'कुरु' । एवन्दण्डं प्रार्थ्याग्निमपि प्रार्थयते-हे अग्ने ! 'सुश्रवः शोभन-
कीर्ते !' 'यथात्वं' 'देवेषु' देवमध्ये 'सुश्रवाः' शोभनयशाः' [ सुयशाः ] असि ।
'एवमहम्' अपि 'हेसुश्रवः(३) !' शोभनकीर्ते । 'ब्राह्मणेषु' मनुष्येषु(४)'सुश्रवाः'
सुयशाः 'भूयासम्' भवेम । प्रशंसायामाशिषि लिङ् ॥ ३१ ॥ इति ॥ ४१ ॥
अथ भैक्षञ्चरति ॥ ४२ ॥
अथ शब्दोऽयं विशिष्टमानन्तर्यं द्योतयति—यद्दण्डमजिनञ्च प्रतिगृह्या-
देशञ्च गुरोरङ्गीकृत्य भास्करमुपस्थायाग्निं प्रदक्षिणीकृत्य अथ-अनन्तरं भैक्षं
भिक्षासमूहम् । “भिक्षादिभ्योऽण्” ( पा० ४।२।३८ ) इति सामूहि कोऽणादि-
वृद्धिः । “भैक्षं भिक्षाकदम्बकम्” इत्यमरः । चरति-चरेत्-आहरेदित्यर्थः ।
तथाच मनुः—
“प्रतिगृह्येप्सितन्दण्डमुपस्थाय च भास्करम् ।
प्रदक्षिणं परीत्याग्निञ्चरेद्भैक्षं यथाविधि ॥”
इति । उपस्थाय-अभिमुखमवस्थाय ॥ ४२ ॥
मातरमेवाग्रे, द्वे चान्ये सुहृदौ, यावत्योवा सन्निहिताः स्युः ॥४३॥
मातरम्—स्वजननीमेवाग्रे-प्रथमं, “प्रार्थयेदि”ति शेषः । सुहृदौ-स्निग्धहृ-
दये । यावत्योवा योषितः । सन्निहिताः । सन्निधौ स्थिताः । स्यु-र्भवेयुः । नचैनं
( १ ) शृणोतेः कर्मण्यसुन् ( उ०४।८८) श्रूयेमहीति श्रवः । यशः प्रशंसा वा ।
“श्रवश्वाच्छा पशुमच्च यूथम्”। ( ऋ० सं० ३।७।११।६ ) इति । “प्रशंसाश्व यूथञ्च”ति
( ४।२४ ) निरुक्तम् ।
(२) दण्डस्यार्थज्ञानहेतुता व्रतसम्पादनद्वारा सौकर्यातिशयं द्योतयितुं श्रुत्याऽभिहिता।
( ३ ) पुनरामन्त्रणेन दण्डादग्नेः सुश्रवस्त्वातिशयःख्याप्यते ।
( ४ ) अत्र विशेषाभिधायिनोऽपि सामान्यपरत्वं गुणविष्ण्वादिभिरुक्तम् ।
३१ गो० गृ०सू०
२४२ उपनयनविधिः । [ २ प्रपाठके-
विमानयेयुस्तावतीर्वा प्रार्थयेत् । तथाच मनुः-
“मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ।
भिक्षेत भिक्षां प्रथमं याचैनं न विमानयेत् ॥”
इति । भविष्यपुराणे चोक्तमनुवचनान्ते-“सुवर्णं रजतं रत्नं सा पात्रेऽस्य
विनिक्षिपेत्” इति पठ्यते । सा-भिक्षादात्री मात्रादिः । निजां-सोदर्याम् ।
प्रथम-मुपनयनकालिक (१) भिक्षायाम् ॥ सन्निहिता इत्युक्त्या तत्रस्था एव
भिक्षेत न पुनः स्थानान्तरं गत्वेति बोद्धव्यम् । तत्प्रकारमाह-मनुः-
“भवत्पूर्वञ्चरेद्भैक्षमुपनीतो द्विजोत्तमः ।
भवन्मध्यन्तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥”
इति । एवञ्च “भवति ! भिक्षान्देहि”-ति वाक्येन ब्राह्मणेन, “भिक्षां
भवति ! देहि-”ति क्षत्रियेण । “भिक्षां देहि भवती”-ति वैश्येन भिक्षाचरण-
ङ्कर्त्तव्यमित्यायाति । हारीतः-
“सप्ताक्षराञ्चरेद्भिक्षां क्षाञ्च हिञ्च न वर्जयेद्”-ति ।
क्षाञ्च हिञ्चेत्यनेन भिक्षान्देहीति पदयोःप्रयोगोऽप्यावश्यक एवेति कल्प-
तरुः । गौतमः-“आदिमध्यान्तेषु भवच्छब्दः प्रयोऽग्योवर्णाऽनुपूर्व्येण”-ति ।
यमः-
“हस्तदत्ता च या भिक्षा सलितं व्यञ्जनानि च ।
भोक्ता त्वशुचितां याति दाता स्वर्गन्न गच्छति ॥” इति ॥ ४३ ॥
आचार्य्याय भैक्षं निवेदयति ॥ ४४ ॥
आचार्यायोपनेत्रे । भैक्षं-लब्धभिक्षानिचयम् । “भिक्षादिभ्योऽण्” (पा०४।
२।३८) इति सामूहिकेऽणि आदिवृद्धिः । “भैक्षं भिक्षाकदम्बकम्”त्यमरः ।
( १ ) शौनकः । “अप्रत्याख्यायिनमग्रेभिक्षेत् । अप्रत्यख्यायिनीं वा” इति । मनुः
“गुरोःकुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।
अलाभे त्वन्यगेहानां पूर्वपूर्वविवर्जयेत् ॥”
इति । पारस्करः “तिस्रोऽ
१० कण्डिका ] गोभिलगृह्यसूत्रे- २४३
निवेदयति । निवेदये-दर्पयेत् । निवेदनप्रकारश्च “भैक्षमभोः” इत्याचार्याय
निवेद्य तद्दत्तं प्रतिगृह्णीयात् इति । आचार्येण तदानञ्च “भुङ्क्ष्वे”त्यनुज्ञान-
रूपम् । अत्राचार्यः प्रथमां भिक्षां गृहीत्वा द्वितीयादिकां “भुङ्क्ष्वै”त्यभिधाय
ब्रह्मचारिण एव दद्यात् । स च तामादाय धारयेत्(१) ।। ४४ ।।
स्वयञ्च तद्दिने—
तिष्ठत्यहः शेषं वाग्यतः ॥ ४५ ॥
अहश्शेषमासायम्मौनी तिष्ठेदित्यर्थः । वक्ष्यमाणकर्मार्थमेतत् । तेनान्य-
दिने-मनुः—
“समाहृत्य तु तद्भैक्षं यावदर्थममायया ।
निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः ॥”
इति ॥ यावदिति । यावद्(२)र्थजातमुपात्तन्तदनपह्ववेन । एवञ्चाचार्या-
याहृतार्थमिदन्निवेदन(३)मात्रन्न तु दानमेवेति द्रष्टव्यम् ॥ ४५ ॥
अस्तमिते समिधमादधाति “अग्नये समिधमाहार्षम्” इति ॥ ४६ ॥
( मं० ब्रा० १।६।३२ )
अस्तमिते-अस्तङ्गते सवितरि । “अग्नये समिधम्”-ति मन्त्रेण समिध-
मुक्तलक्षणम् ( १।१।७ ) आदधाति-आदध्यादग्नौ प्रक्षिपेत् । मन्त्रोयथा—
“अग्नये समिधमाहार्षं बृहते जातवेदसे । यथात्वमग्ने ! समिधा समिध्य-
स्येवमहमायुषा मेधया वर्चसा प्रजया पशुभिर्ब्रह्मवर्चसेन धनेनान्नाद्येन समे-
धिषीय स्वाहा” ॥ ३२ ॥ इति ॥
अस्यार्थः—ब्रह्मचारीब्रूते—अहम् ‘अग्नये’ ‘समिधम्’ उक्तलक्षणम् ।
( १ ) आचार्य्यश्च कर्मशेषं समापयेत् । अत्र चन्द्रकान्तभाष्ये हेतुरुक्तः । “परतोब्र-
ह्मचारिण एव कर्मोपदेशाद्विदानीमाचार्यकर्मणोऽवसानावगते”रिति । अतः परञ्चाग्रिम-
सूत्रमवतारयंस्तत्रैवाह-अवसितमुपनयनकर्म, प्रासङ्गिकमिदानीं ब्रह्मचारिणः कर्त्तव्य-
मनुवर्त्तामहे-स खल्वयं ब्रह्मचारी-”त्यादि ॥
( २ ) अर्थजात इति पूर्व्वव्याख्यातृभिरुक्तन्तु “जातिर्जातञ्च सामान्यमि”त्यभिधा-
नविरुद्धं प्रतिभाति । अर्थशब्दोऽत्र वस्तुवचनः “अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु”
इत्यमरात् । “यावदवधारणे” ( पा० २।१।८ ) इत्यव्ययीभावः समास इति च पूर्व्वैर्व्या-
ख्यातं, वस्तुतस्तु प्रयोजनवचनत्वेऽपि न क्षतिः । यावता गुरोः प्रयोजनन्तावत्तस्मै निवे-
दनीयमकपटवृत्त्या । अवशिष्टञ्च “भुङ्क्ष्वे”-ति तेनाभ्यनुज्ञातं स्वयममक्षयेत्तथालब्धमिति
तदर्थः । अत्र नान्ययीभावः किन्तु तृतीयासमासः । अत्र “यावदन्नममायये”ति पाठः
कुल्लूकेन धृतः । व्याख्यातश्च तद्भैक्ष्यं बहुभ्य आहृत्य यावदन्नं तृप्तिमात्रोचितं गुरवे
निवेद्य-निवेदनङ्कृत्वा अमायया न कदन्नेन सदन्नं प्रच्छाद्येवमेतद्गुरुर्ग्रहीष्यतीत्यादि-
मायाव्यतिरेकेण तदनुज्ञात आचमनं कृत्वा शुचिः सम्भुञ्जीत प्राङ्मुख इति ॥
( ३ ) निवेदनफलन्तु हितमितपथ्यालोचनं, येनास्य ब्रह्म
२४४ उपनयनावधिः। [ २ प्रपाठके-
‘आहार्षम्’ आहृतवान्। किम्भूताय? ‘बृहते’ महते ( निघं० ३।३।४ ) ‘जात-
वेदसे’ जातप्रज्ञानाय—जातधनाय(१) वा। इति परोक्षमुक्त्वा प्रत्यक्षमाह—हे
‘अग्ने!’ ‘यथा त्वम्’ अनया मदाहृतया ‘समिधा’ ‘समिध्यसि’(२) दीप्यसे। ‘ए-
वमहम्’ ‘आयुषा’ जीवितकालेन(३)। ‘मेधया’ धारणावत्या बुद्ध्या ‘वर्चसा’
तेजसा(४) ‘प्रजया’ पुत्रपौत्रादिरूपया सन्तत्या(५)। ‘पशुभिः’ गवादिभिः
‘ब्रह्मवर्चसेन’ ब्राह्मणतेजसा(६) ‘धनेन’ व्रीहियवादिना ‘समेधिषीय’ वृद्धि-
माप्नुयाम् इति॥ ३२॥
अत्र मनुः--
“अग्न्याधानं भैक्षचर्यामधः शय्यां गुरोर्हितम्।
आसमावर्त्तनात्कुर्यात्कृतोपनयन
१० कण्डिका ] गोभिलगृह्यसूत्रे- २४५
चोपरिष्टाच्चेन्धनार्थं समिद्भवतीति कात्यायनःस्मरति--
“समिदादिषु होमेषु मन्त्रदैवतवर्जिता ।
पुरस्ताच्चोपरिष्टाच्च इन्धनार्थं समिद्भवेत् ॥”
इति । क्षिप्रहोमोऽयमिति न न्यञ्चकरणादाति भाष्यकृतोनारायणभट्टाः
प्राहुः ॥ इदञ्च समिदाधानं सन्ध्ययोः सन्ध्योपासनानन्तरमेव । तथाच का-
त्यायनः-
“ततः परं प्रवक्ष्यामि सन्ध्योपासनिकं विधम् ।
अनर्हः कर्मणां विप्रः सन्ध्याहीनोयतः स्मृतः ॥”
इति । विप्र इति कर्तृमात्रोपलक्षणम् ॥ दक्षः-
“सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत् ॥
इति । तदनन्तरं सन्ध्ययोरग्निमभिवाद्य गुरुमप्यभिवादयेत् । तथा च
गृह्यान्तरम्-“उभयत्राग्निं समिध्य गोत्रनामनी प्रोच्याभिवाद्याचार्यमभिवाद-
येद्”ति ॥ ४६ ॥
अथेदानीं ब्रह्मचारिणो भोजनकालः ।
“कृताग्निकार्यो भुञ्जीत वाग्यतोगुरुर्व्नुज्ञया ॥”
इति स्मरणात् । स खल्वयं ब्रह्मचारी--उपनयनकर्म्मण ऊर्ध्वम्--
त्रिरात्रमक्षारलवणाशी भवति ॥ ४७ ॥
उपनीतश्चाहोरात्रत्रयमक्षारलवणं भुञ्जीतेत्यर्थः । अक्षारलवणं यथाप-
रिभाषितमुक्तमधस्तात् ( २।३।१५ ) ॥ ४७ ॥
तस्यान्ते सावित्रश्चरुः ॥४८॥
तस्य--व्रतस्य । न पुनरुपनयनकर्म्मणः न वा सन्निधानात् त्रिरात्रस्य । “अ-
व्यक्तं प्रधानगामी”ति न्यायात् । अन्यथा-अस्यान्त इति ब्रूयात् । तथा च
गृह्यान्तरम्--
“व्रतान्ते सावित्रश्चरुर्गोदानादीन्यनुप्रवचनीयानि व्रतान्यैन्द्रस्थालीपाका-
न्तानि भवन्ती”-ति । सविता देवताऽस्येति सावित्रः । (२)तेन “सवित्रे त्वा
जुष्टं निर्वपामि” इति निर्धापः । “सवित्रे स्वाहे”ति प्रधानहोमः ॥ ४८ ॥
( १ ) अत्र वीरपद्धतौ आचार्याय भैक्षसमर्पणानन्तरम्-“अथ समिदाधानं यदि
तस्मिन्नेव क्षणे क्रियते तदा तत्रैवाभावाचारात्कर्तव्यम् । अथ सन्ध्यामुपास्यास्तङ्गते
सवितरि यदा क्रियते तदा कुशण्डिकामनुसन्धाय व्याहृतिहोमङ्कृत्वा प्रयोग इति ।
तत्र प्रथमं समन्त्रां समिधमाधाय अपराँ समिधममन्त्रां क्षिपेत्ततोवामदेव्यगानन्तं तन्त्रं
समापयेदिति चोक्तम् ॥
( २ ) एतत्प्रकारश्चोक्तोऽधस्तात् । “अथोखलमुशले” इत्यादि ( १।७।१ ) तन्ना-
२४६ उपनयनविधिः। [ २ प्रपाठके-
अवसिता प्रासङ्गिकी कथा प्रकृतमिदानीमुच्यते--
यथार्थम् ॥ ४९ ॥
उपनयनकर्म्मणः परिसमाप्तिरनेनोच्यते ॥ ४९ ॥
गौर्दक्षिणा ॥ ५० ॥
इति श्रीमद्गोभिलीये गृह्यसूत्रे द्वि·प्र·स्य दशमी कण्डिका ॥ २ ॥१०॥ ❀ ॥
उपनयनकर्म्मण एव। नोपनयनतन्त्रस्य। उपनयनकर्म्मणोऽनन्तरमा-“चा-
र्याय वरोदक्षिणा” इति गृह्यान्तरसूत्रात्(१) “गौर्वरोब्राह्मणस्य”-( )
ति च वक्ष्यति। (२)मुरारिमिश्रास्तु-यथार्थङ्गौर्दक्षिणेत्येकमेव सूत्रं लिखन्ति-
स्म। व्याचक्षत च-इयञ्चोपनयनकर्म्मदक्षिणा, न तु व्रतान्तदक्षिणा। यथा-
र्थशब्दस्यानन्तरोक्तकर्म्मशेषसमापनार्थत्वात्। “कर्म्मशेषसमाप्तौ गौराचार्याय-
देया ब्रह्मणे पूर्णपात्रादीनी”-ति गृह्यान्तरवचनाच्च। नारायण-शूलपाणि-प्रभृ-
तयोऽप्येवम्। इति। अत्रान्ते यथार्थमित्यादेरभ्यासः प्रपाठकसमाप्तिद्योतकः
पठ्यतेऽन्यत्र(३) ॥ ५० ॥
इति श्री मद्गोभिलीयगृह्यसूत्रव्याख्यामृदुलाख्यायां मुकुन्दशर्म्मकृतसङ्कलितायां
द्वि·प्र·स्य दशमी कण्डिका। प्रपाठकश्चायं समाप्तः ॥ २ ॥ १० ॥
( इत्युपनयनम् )
श्रेयोवेतिस्थाने ऊह इहाभिहितः। एवमुक्तसूत्रादष्टसूत्री। ततः पुनः “यद्युवा ( १।८।३ )
इत्यारभ्य “महाव्याहृतिभिराज्येनाभिजुहुयात्” ( १।८।१९ ) इत्यन्तम्। पुनः “हुत्वैतत्”
( १।८।१९ ) इत्यादिसूत्रद्वयं सावित्रग्रहहोमसूत्रतया मुरारिमिश्रैर्योजितम्। एतदन्ते च
ततस्तन्त्रसमापनम्। व्रतान्तविहितस्याप्यस्य व्रताशक्तस्योपनयनदिन एव समावर्त्तनपक्षे
तत्पूर्व्वक्षुरणं, समावर्त्तनपूर्व्वकालविहितत्वादिति द्रष्टव्यम्। पद्धतिरप्येवमित्युक्तम् ॥
( १) अत्र चन्द्रकान्तभाष्ये-तस्माच्च गृह्यान्तराद्दक्षिणेयमाचार्याय दातव्या। त-
स्माद्ब्रह्मचारिणे भैक्षदानान्तरमेवाचार्यः कर्मशेषं समापयेदिति भट्टनारायणाद्यनुमतं
समीचीनमवोचाम। समिदाधानस्य प्रधानकर्म्मान्तरतयोपनयनकर्म्मानङ्गत्वत्। अहः
शेषस्थितेस्तादर्थ्याच्चेत्युक्तम् ॥
( २ ) तथाचोक्तम् “गौर्विशिष्टतमा विप्रेर्वेदेष्वपि निगद्यते। न ततोऽन्यद्वरं यस्मा-
त्तस्माद्गौर्वरमुच्यते” इति।
( ३ ) चन्द्रकान्तभाष्यादौ। तत्र द्वितीयस्यार्थान्तरयोजना च क्रियते। अन्ते च-
प्सन्तु सावित्रचरोः कर्म्मक्रमस्यासूत्रणाद्यथार्थमित्यस्य कर्मापवर्गपरत्वावगतेश्च पूर्वेव
योजना समीचीनेति प्रतिपद्यामहे। अतिक्रान्तसम्बन्धश्चाचार्यानुमत इति चेति ततउपर-
तमस्माभिः।
४. कण्डिका ] गोभिलगृह्यसूत्रे- २४७
( अथ समावर्त्तनम् )
तृतीयप्रपाठकस्य चतुर्थीकण्डिका-
ब्रह्मचारी वेदमधीत्य ॥ १ ॥
वेदमित्यावश्यकत्वाभिप्रायेण । तथा च मनुः-
“वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।
अविप्लुतब्रह्मचर्य्यो गृहस्थाश्रममाविशेत् ॥”
इति । वेदशब्दोऽयं साङ्गस्य वेदस्याभिधायकोऽङ्गानामेव वेति स्वभाष्ये
चन्द्रकान्त आहान्यमतोपन्यासेन ॥ १ ॥
उपन्याहृत्य गुरवे ॥ २ ॥
उप--गुरुसमीपे । निभृतं विनीतं (१)यथास्यात्तथा । गुरवे-गुर्वर्थम् ।
तादर्थ्ये चतुर्थी(२) । ( पा० १।४।४४ ) आहृत्य-आनीय । “दक्षिणाम्”-ति
शेषः । अस्योत्तरेण ( दारान्कुर्वीतेत्यनेन ) सम्बन्धः ॥
अत्र मनुः-
न पूर्वङ्गुरवे किञ्चिदुपकु