गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
चूर्णाधिकारः ३.] गदनिग्रहः । २२५
शोफे अयोरजश्चूर्णम्
त्रिफलायास्तु कुडवं पिप्पलीकुडवं तथा ।
विडङ्गमरिचाभ्यां तु द्वे पले च समावपेत् ॥ ६५ ॥
पलं पलं तु कुर्वीत दन्तीचित्रकयोरपि ।
गुडूचीपिप्पलीमूलकुष्ठानां च पलं पलम् ॥ ६६ ॥
शृङ्गवेरपले द्वे तु पञ्च चव्यात्पलानि च ।
शेषाण्यर्धपलीकानि यानि वक्ष्यामि तत्वतः ॥ ६७ ॥
रास्ना स्थिरा गोक्षुरकं मधुकं देवदारु च ।
वचा चातिविषा चैव मुस्तकं कटुरोहिणी ॥ ६८ ॥
कट्फलं सारिवे द्वे च श्यामा भल्लातकानि च ।
पुनर्नवा तेजवती त्वचं पत्रं शतावरी ॥ ६९ ॥
निदिग्धिका व्याघ्रनखं मञ्जिष्ठा कूटशाल्मली ।
निचुलं त्रिवृता भार्गी कुटजस्य फलं त्वचम् ॥ ७० ॥
एतदौषधसंभारं सूक्ष्मचूर्णं तु कारयेत् ।
यावन्त्येतानि चूर्णानि द्विस्तावत्स्यादयोरजः ॥ ७१ ॥
तदेकत्र कृतं शोफी लेहयेन्मधुसर्पिषा ।
क्षीरं चानुपिबेद्युक्त्या निरन्नक्षीरसेवनः ॥ ७२ ॥
अयोरजसमित्येतत्ख्यातं सिद्धं रसायनम् ।
संवत्सरप्रयोगेण शतवर्षं च जीवति ॥ ७३ ॥
निहन्ति श्वयथुं चोग्रं वृक्षमिन्द्राशनिर्यथा ।
अर्शांसि पाण्डुरोगं च मन्दाग्निं कृमिकोष्ठताम् ॥ ७४ ॥
भगन्दरं च पामां च कुष्ठानि किटिभानि च ।
यस्मिन् यस्मिन् विकारे हि युज्यते त्वयसो रजः ।
तं तं निहन्ति वै रोगं देवारीन् केशवो यथा ॥ ७५ ॥
पाण्डुरोगे नवायसं चूर्णम् ।
किराततिक्तं सुरदारु दार्वी मुस्ता गुडूची कटुका पटोलम् ।
दुरालभा पर्पटकं सनिम्बं कटुत्रिकं वह्निफलत्रिकं च ॥ ७६ ।
२२६ आयुर्वेदियग्रन्थमाला । [परिशिष्टे
विडङ्गकं चैव समांशकानि सर्वैः समं चूर्णमथापि लौहम् ।
सर्पिर्मधुभ्यां गुटिका विधेयाः सेव्या सदा वै बदरप्रमाणाः॥७७
निहन्ति पाण्डुं श्वयथुं प्रमेहं हलीमकं संग्रहणीप्रदोषम् ।
श्वासं च कासं च सरक्तपित्तमर्शांसि चोर्ध्वग्रहमामवातम् ॥७८
प्रवाहिकायां कुटजाद्यं चूर्णम् ।
कुटजत्वगिन्द्रयवान् पाठां मुस्तं रसाञ्जनं शुण्ठीम् ।
बालं बिल्वमतिविषां कटुकं वै धातकीं समाहृत्य ॥ ७९ ॥
मधुनाऽऽलोड्य निपीतं तण्डुलपयसा प्रवाहिकां हरति ।
अर्शांसि गुदे शूलं पित्तरक्तातिसारं च ॥ ८० ॥
गुल्मे समशर्करं चूर्णम् ।
त्रिवृत्तुल्यार्धकर्षाणि हिङ्गुसौवर्चलत्वचः ।
श्रेष्ठाऽम्लवेतसव्योषं सर्वैस्तुल्या तु शर्करा ॥ ८१ ॥
समकं नाम तच्चूर्णं पिबेदुष्णेन वारिणा ।
गुल्मान् पञ्च सहृद्रोगान् कुक्षिशूलं च नाशयेत् ॥ ८२ ॥
शोषे तिलाद्यं चूर्णम् ।
तिलकर्केन्धुलाजानां चूर्णं मध्वाज्यसंयुतम् ।
क्षीरानुपानं मासेन शोषघ्नं नास्त्यतः परम् ॥ ८३ ॥
मन्दाग्नौ आमलकादिचूर्णम् ।
धात्री भागैकमुक्तं च पथ्या भागत्रयं तथा ।
कृष्णाभागत्रयं चैव द्वौ भागौ चित्रकस्य च ॥ ८४ ॥
भागैकं सैन्धवस्यैतच्चूर्णमामलकादिकम् ।
क्षुधाकरमिदं चूर्णं मन्दाग्निं विनिवारयेत् ॥ ८५ ॥
मन्दाग्नौ सौवर्चलाद्यं चूर्णम् ।
सौवर्चलं कणा शुण्ठी रामठं जीरकद्वयम् ।
अम्लसोदा च मरिचमम्लवेतसमेव च ॥ ८६ ॥
समभागमिदं चूर्णं मन्दाग्निविनिवारणम् ।
गुटिकाधिकारः ४.] गदनिग्रहः । २२७
मन्दामौ अग्निचूर्णम् ।
सौवर्चलं सैन्धवं च विडं क्षारः समांशकम् ॥ ८७ ॥
द्विगुणा च कणा शुण्ठी जीरकं षड्गुणं तथा ।
अग्निचूर्णकमेतच्च वातमन्दाग्निवारणम् ॥ ८८ ॥
मन्दामौ सिंहणचूर्णम् ।
सौवर्चलं सैन्धवं च सामुद्रं मरिचं तथा ।
दाडिमसारकं चाम्लवेतसं समभागकम् ॥ ८९ ॥
नागरं त्रिगुणं चैव जीरकं च चतुर्गुणम् ।
सिंहणं चूर्णमेतच्च मन्दाग्निविनिवारणम् ॥ ९० ॥
इति श्रीवैद्यसोढलग्रथिते गदनिग्रहे परिशिष्टे
चूर्णाधिकारस्तृतीयः ।
अथातो परिशिष्टो गुटिकाधिकारश्चतुर्थः ।
क्षतक्षीणे सर्पिर्गुटिका ।
त्वक्क्षीरीश्रावणीद्राक्षामूर्वर्षभकजीवकैः ।
वीरर्द्धिक्षीरकाकोलीवृहतीकपिकच्छुभिः ॥ १ ॥
खर्जूरफलमेदाभिः क्षीरपिष्टैः पलोन्मितैः ।
धात्रीविदारीक्षुरसप्रस्थैः प्रस्थं घृतातपचेत् ॥ २ ॥
शर्कराऽष्टपलं शीते क्षौद्रार्धप्रस्थमेव च ।
'दत्त्वा सर्पिर्गुडान् कुर्यात्कासहिक्काज्वरापहान् ॥ ३ ॥
यक्ष्माणं तमकं श्वासं रक्तपित्तं हलीमकम् ।
शुक्रनिद्राक्षयं तृष्णां हन्युः कार्श्यं सकामलम् ॥ ४ ॥
क्षतक्षीणे क्षीरादिलेहगुटिका ।
नीत्वा विदारिख़रसं चतुःपलमिदं भिषक् ।
प्रस्थं तित्तिरिमांसस्य रसात् प्रस्थं घृतस्य च ॥ ५ ॥
प्रस्थद्वयं गवां क्षीरं रसादिक्षोस्तथाऽऽढकम् ।
पाकार्थं प्रक्षिपेद्भाण्डे तत्र कल्कमिमं क्षिपेत् ॥ ६ ॥
२२८ आयुर्वेदियग्रन्थमाला ।
जीवन्ती चैव काकोल्यौ द्वे मेदे मधुकं तथा ।
जीवकर्षभकौ मुद्गमाषपर्ण्यौ प्रमाणतः ॥ ७ ॥
प्रत्येकं तत्पलार्धं स्यात्पियालस्य चतुःपलम् ।
चतुःपलं मधूकानां द्विपला वंशलोचना ॥ ८ ॥
मधुयष्ट्या भवेत् कर्षो अक्षमज्जापलं तथा ।
कणापलं च खर्जूरं पलानां विंशतिः स्मृतम् ॥ ९ ॥
कल्कं संपेषयेदिक्षो रसैः पूर्वद्रवे क्षिपेत् ।
मन्दाग्निपाचनाल्लेहीभूते शीते क्षिपेत्सिताम् ॥ १० ॥
विंशत्पलप्रमाणां तु मधुनोऽष्टपलं तथा ।
अजाजीमरिचानां तु पलमेकं नियोजयेत् ॥ ११ ॥
क्षीरादिलेहगुटिका कासहिक्काज्वरापहा ।
यक्ष्माणं तमकं श्वासं रक्तपित्तं हलीमकम् ॥ १२ ॥
शुक्रनिद्राक्षयं तृष्णां हन्यात्कार्श्यं सकामलम् ।
प्रभावतीवटिका ।
हरिद्रा निम्बपत्राणि पिप्पल्यो मरिचानि च ॥ १३ ॥
भद्रमुस्ता विडङ्गानि सप्तमं विश्वभेषजम् ।
सैन्धवं चित्रकं चैव कुष्ठं पाठा हरीतकी ॥ १४ ॥
एतानि समभागानि छागमूत्रेण पेषयेत् ।
कोलास्थिका गुटी छायाशुष्का नाम्ना प्रभावती ॥ १५ ॥
अग्निमुखवटी ।
हिङ्गुभागो भवेदेको वचा च द्विगुणा भवेत् ।
त्रयो भागा विडङ्गानां सैन्धवं च चतुर्गुणम् ॥ १६ ॥
अजाज्याः पञ्चभागाश्च षड्भागाश्चैव नागरात् ।
मरिचस्य सप्त भागाः पिप्पली चाष्टभागिका ॥ १७ ॥
कुष्ठं नवगुणं प्रोक्तं दशभागा हरीतकी ।
एकादश तथा वह्नेर्भागा द्वादश दीप्यकात् ॥ १८ ॥
गुटिकाधिकारः ४.] गदनिग्रहः । २२९
गुडेन द्विगुणेनैव गुटिकां कारयेद्बुधः ।
ततो वातरुजार्तानां नित्यमेव प्रयोजयेत् ॥ १९ ॥
श्वासादौ सूर्यचन्द्रप्रभागुटिका ।
त्रिकत्रयं हरिद्रे द्वे तिक्ता तिक्तं शठी वचा ।
वेल्लचित्रकतालीसभार्गीपद्मकजीरकम् ॥ २० ॥
द्वौ क्षारौ पिप्पलीमूलं पटूनि त्रीणि तुम्बरु ।
देवदारु वचा चव्यं धान्यकं गजपिप्पली ।
वत्सकातिविषादन्तीश्यामापुष्करकामृताः ॥ २१ ॥
भागोऽमीषां सूक्ष्मचूर्णीकृतानां
भागश्चार्धस्तापितरोज्द्भवस्य ।
तदर्द्धश्या, भागवृद्ध्या परे स्यु-
रभ्रं लोहं शैलजं कौशिकश्च ॥ २२ ॥
संमर्द्य गुटिका कार्या सूर्यचन्द्रप्रभाभिधा ।
पूर्वाह्ने तां प्रयुञ्जीत माक्षिकेण परिप्लुताम् ॥ २३ ॥
अनुपाने प्रयुञ्जीत तक्रं मधु रसोत्तमम् ।
क्षीरं बदरतोयं वा शर्करामिश्रितं जलम् ॥ २४ ॥
घृतं मूत्रं तथा चाम्लस्वादुदाडिमजं रसम् ।
कासं श्वासं तथा शोषमरुचिं पार्श्ववेदनाम् ॥ २५ ॥
अर्शांसि कामलां मेहं पाण्डुरोगं हलीमकम् ।
हृद्रोगं मूत्रकृच्छ्रं च श्वयथुं ग्रहणीगदम् ॥ २६ ॥
यकृत्प्लीहाभिवृद्धिं च कमिं ग्रन्थि भगन्दरम् ।
श्लीपदं गण्डमालां च व्रणानाडीव्रणानपि ॥ २७ ॥
अतिस्थौल्यातिकार्श्वं च विद्रधीन्पिटिकाश्चपि ।
नासानेत्राश्रितान्रोगान् शिरोरोगान् सुदारुणान् ॥ २८
मुखरोगानशेषांश्च रक्तपित्तं खरक्षयम् ।
ज्वरं च सन्निपातोत्थं विषमं चापि पैत्तिकम् ॥ २९ ॥
३०
२३० आयुर्वेदौयग्रन्थमाला । [परिशिष्टे
विंशतिं श्लैष्मिकांश्चैव संसृष्टान् सन्निपातिकान् ।
निजानृतुभवांश्चैव ये चान्ये नात्र कीर्तिताः ।
तान् तान् प्रशमयत्येषा वृक्षमन्द्राशनिर्यथा ॥ ३० ॥
मेधां स्मृतिं कान्तिमनामयत्व-
मायूःप्रकर्षं पवनानुलोम्यम् ।
स्त्रीषु प्रहर्षं बलमिन्द्रियाणा-
मग्नेश्च कुर्याद्विधिनोपयुक्ता ॥ ३१ ॥
अतीसारे विशल्या गुटिका ।
फलत्रयं त्र्यूषणजीरकं च
कुबेरसंज्ञं पलमात्रमेतत् ।
पलद्वयं नूतनधूर्तपत्न्याः
कर्षैककं चैव विषस्य योज्यम् ॥ ३२ ॥
पलार्धमात्रं करभस्य चूर्ण
ततः समेनैव गुडेन योज्यम् ।
गुटी निबद्धा चणकप्रमाणा
नियोजनीया हि सदातिसारे ॥ ३३ ॥
चतुर्विधाजीर्णभयापहर्त्री
इयं विशल्या गुटिकेति नाम्ना ॥ ३४ ॥
त्रोटहरी गुटिका ।
शुण्ठीसक्तुपुनर्नवात्रिफलिकासैरेयशेफालिका-
मुस्तावासकनिम्बपत्रकटुकाबोलाश्वगन्धावचाः ।
व्योषच्छिन्नरुहाविडङ्गसहिताः सर्वाः समांशा बुधै-
विंशांशा च महौषधी परिमिता, खण्डस्य विंशांशकाः॥३५॥
तत्तुल्येन च गोघृतेन मधुना सर्वं च संमर्दितं
बद्धा तेन शिवाप्रमाणगुटिका श्लेष्माणमुग्रं जयेत् ।
गुटिकाधिकारः ४.] गदनिग्रहः । २३१
क्षीणस्यानिलजानि हन्ति सहसा सर्वप्रमेहांस्तथा
नाम्ना त्रोटहरी गुटी च विजया लोके च या विश्रुता ॥३६॥
कासे चन्द्रप्रिया गुटिका ।
चन्द्रप्रिया लोमशगन्धवत्यौ कटुत्रिकं तिक्तकरोहिणी च ।
भूनिम्बभार्ग्यौ गिरिमल्लिका च समानभागं खलु सर्वद्रव्यम् ।
वासारसेनाथ गुटी विधेया सुदुस्तरं चाशु निहन्ति कासम् ॥३७
मुखरोगे खदिरगुटी ।
जातीफलैलादलकुङ्कुमानि
लवङ्गकङ्कोलकपष्कराणि ।
वराङ्गकर्पूरयुतान्यमूनि
समानि भागानि निशाकरस्य ॥ ३८ ॥
भागद्वयं स्यान्मृगनाभिजायाः
सपूतिकायः खलु तुर्यभागः ।
षष्टिर्विभागाः खदिरस्य सारात्
भागत्रयं तत्र वरस्य दद्यात् ॥ ३९ ॥
एकीकृतं घृष्टसुचन्दनेन
सुकामिनीहस्ततलैः प्रमर्द्य ।
सुवासितं पुष्पचयैः सुगन्धै-
र्वटी कृता स्यान्मुखरोगहन्त्री ॥ ४० ॥
स्त्रीणां प्रमोदं विपुलं ददाति
मुखं सुगन्धं विशदं करोति ।
युवातिरेतः सुभगो जनानां
घ्राणप्रियः स्याद्वतिकामिनीनाम् ॥ ४१ ॥
कण्ठं विपञ्चीनिनदेन तुल्यं
करोत्यसौ खादिरसंज्ञका वटी ॥ ४२ ॥
२३२ आयुर्वेदीयग्रन्थमाला । [परिशिष्टे
मुखरोगे द्वितीया खदिरगुटिका ।
पद्माह्ववक्रागुरुकुङ्कुमैश्च
तुल्यांशकैः श्लक्ष्णशिलाविपिष्टैः ।
सर्वैः समः स्यात्खदिरस्य सारः
सारङ्गदर्पस्फटिकाधिवासिताः ॥ ४३ ॥
वल्लप्रमाणा गुटिका विधेया-
स्ताः सेविता घ्नन्ति कफप्रमेहम् ।
हिकाग्निसादारुचिपीनसांश्च
रोगानशेषान् खलु चास्य जातान् ॥ ४४ ॥
सूताभ्रहेमसहितां पूर्वोक्तां भक्षयेत्प्रातः ।
नाम्ना खादिरवटिका कथितेयं सिंहगुप्तेन ॥ ४५ ॥
वातरोगे त्वगाद्या गुटिका ।
त्वगेला गन्धकश्चैव गुग्गुलुः समभागतः ।
कुर्याद्वातारितैलेन गुटिका वातरोगिणाम् ॥ ४६ ॥
रसायनार्थे विजयागुटिका ।
पलत्रयं हरीतक्याश्चित्रकस्य तथैव तु ।
एलात्वक्पत्रमुस्तानां भागोऽर्धपलिकः स्मृतः ॥ ४७ ॥
व्योषं पिप्पलिमूलं च विषं च पलमात्रकम् ।
नागकेसरचूर्णं तु कर्षं दद्याद्विचक्षणः ॥ ४८ ॥
रेणुकार्धपलं चात्र रसस्य कर्षमेव च ।
एतत्संभृत्य संभारं सूक्ष्मचूर्णं तु कारयेत् ॥ ४९ ॥
गुडस्यार्धतुलां दत्त्वादर्व्या सम्यग्विघट्टयेत् ।
ततस्तु गुटिकाः कृत्वा तस्मात्षष्टिशतत्रयम् ॥ ५० ॥
एकैकां भक्षयेत्प्रातः कृताहारो यथाबलम् ।
मासेन पलितं हन्ति करोत्यग्निं द्वितीयके ॥ ५१ ॥
गुटिकाधिकारः ४.] गदनिग्रहः । २३३
शुक्रवृद्धिं तृतीये तु बलवर्णप्रसादनम् ।
हन्त्यष्टादश कुष्ठानि सप्त चैव महाक्षयान् ॥ ५२ ॥
प्लीहानं श्वासकासौ च अन्त्रवृद्धिमरोचकम् ।
अशीतिं वातजान्रोगान्मूत्रकृच्छ्रं भगन्दरम् ॥ ५३ ॥
प्रमेहान्विंशतिं चैव तथाऽर्शांसि गलग्रहम् ।
सर्पलूताविषं हन्ति सर्वं स्थावरजङ्गमम् ॥ ५४ ॥
योनिदोषमपस्मारमुन्मादं विषमज्वरम् ।
बलेन गजतुल्योऽसौ वेगेन तुरगोपमः ॥ ५५ ॥
मायूरस्तु भवेद्गिर्वावाराहश्रोत्र एव च ।
चटकः स्त्रीविलासेन गृध्रदृष्टिश्च जायते ॥ ५६ ॥
उपयोगात्परं जीवेन्नरो वर्षशतत्रयम् ।
न चान्ने परिहारोऽस्ति न चाध्वनि न मैथुने ॥ ५७ ॥
ग्राम्यधर्मं च कुर्वाणो भोजनं च यथेच्छया ।
विजया नाम गुटिका विख्याता रुद्रभाषिता ।
भक्षयन्ति नरा ये तु तेषां सिद्धिर्न संशयः ॥ ५८ ॥
वातरोगे योगोत्तमा गुटिका ।
त्र्यूषणं त्रिफला क्षारौ लवणान्यथ चित्रकम् ।
तालीसं चविकं शृङ्गी निशे द्वे गजपिप्पली ॥ ५९ ॥
एला त्वचं विडङ्गानि पौष्करं नागकेसरम् ।
ताप्यकं दीप्यको मुस्ता समभागानि कारयेत् ॥ ६० ॥
यावन्त्येतानि द्रव्याणि तावन्मात्रमयोरजः ।
तावच्छिलाजतुर्देयः सर्वैस्तुल्यस्तु गुग्गुलुः ॥ ६१ ॥
संक्षुद्य गुटिकां कुर्यादक्षमात्रप्रमाणतः ।
खादेच्चा मधुना युक्त्या तोयक्षीररसाशनः ॥ ६२ ॥
नियन्त्रितं सदा भोज्यं सर्वर्तुषु निरत्ययम् ।
अशीतिं वातजान्रोगांश्चत्वारिंशच्च पैत्तिकान् ॥
२३४ आयुर्वेदियग्रन्थमाला । [परिशिष्टे
विंशतिं श्लैष्मिकांश्चैव प्रमेहांश्चैव विंशतिम् ।
उदराणि तथा चाष्टौ श्वयथुं पवनात्मकम् ॥ ६४ ॥
विंशतिं मूत्रकृच्छ्राणि दुष्टनाडीव्रणानि च ।
हन्त्यष्टादश कुष्ठानि सप्त चैव महाक्षयान् ॥ ६५ ॥
कासं श्वासं तथा हिक्कां हृच्छूलं छर्द्यरोचकम् ।
गुल्मांश्च पाण्डुरोगं च जयेत्पञ्च प्रकारजम् ॥ ६६ ॥
चत्वारो ग्रहणीदोषाः षडर्शांसि तथैव च ।
सर्वांस्तान्नाशयत्याशु तमः सूर्योदयो यथा ॥ ६७ ॥
तथाऽर्बुदं गण्डमालां विद्रधिं सभगन्दरम् ।
हरते सर्वरोगांश्च वृक्षमिन्द्राशनिर्यथा ।
योगोत्तमेति विख्याता गुटिका वैद्यपूजिता ॥ ६८ ॥
प्रमेहे कर्पूरादिगुटिका ।
कर्पूरशृङ्गीमनुमत्तबीजं जातीफलं लोहमृताभ्रकं च ।
रसोऽथ गन्धं त्रपु नागशुल्बे एला विषं धान्यकटुत्रिकं च ॥६९॥
तालीसपत्रं त्वथ नागपुष्पं तमालपत्रं कपिकच्छुबीजम् ।
सत्त्वंगुडूच्याः क्षुरकस्य बीजं वटी विधेया सितया समेता ॥७०॥
वातप्रमेहं सकफं सपित्तं श्वासं च कासं बहुसन्निपातान्
बलं च हीनं खरमङ्कजाख्यं निहन्ति कामं खलु दीपयत्यपि ॥७१
गुल्मे गुडवटकाः ।
गुडविश्वौषधपथ्यामागधिकादाडिमैः कृता गुटिकाः ।
विनिहन्ति भक्ष्यमाणा गुल्मार्शोवह्निसादगदान् ॥ ७२ ॥
पाण्डुरोगे क्षारवटकाः ।
शृङ्गवेरविडङ्गानि पिप्पली मरिचानि च ।
नीलीपत्रं पृथकपर्णी हरिद्राद्वयमेव च ॥ ७३ ॥
मञ्जिष्ठा भद्रमुस्तं च शिग्रुबीजानि चित्रकम् ।
देवदारुं वचा दन्ती त्रिफला हस्तिपिप्पली ॥ ७४ ॥
गुटिकाधिकारः ४.] गदनिग्रहः । २३५
शालिपर्णी मधुरसा द्राक्षा कटुकरोहिणी ।
भल्लातकानीन्द्रयवा बृहत्यौ द्वे दुरालभा ॥ ७५ ॥
शतावरी विशल्या च पाठा भार्गी हरेणुका ।
एतानि समभागानि सर्वाण्येकत कारयेत् ॥ ७६ ॥
यावन्त्येतानि चूर्णानि द्विस्तावत्स्यादयोरजः ।
क्षारं च यावशूकानां ततो द्विगुणमावपेत् ॥ ७७ ॥
गोमूत्रयुक्तांस्तान्कुर्याद्वटकानक्षसंमितान् ।
खादेदेकं ततो द्वौ वा सुखं चानु पिबेज्जलम् ॥ ७८ ॥
अर्शांसि ग्रहणीदोषं पाण्डुरोगं भगन्दरम् ।
श्वयथुं श्वासकासौ च कृमिदोषांश्च नाशयेत् ॥ ७९ ॥
व्याधितस्य बलं ज्ञात्वा गवां मूत्रेण दापयेत् ।
पाण्डुरोगं निहन्त्याशु ब्रह्मदण्ड इवोद्धतम् ॥ ८० ॥
विश्रुताः क्षारवटकाः प्रयोज्याः सिद्धिमिच्छता ।
एष शङ्करणो योगो वैद्यानामर्थकृत्तथा ॥ ८१ ॥
कुष्ठे पथ्यावटकाः ।
पथ्यां सेन्द्रयवां सर्किंशुकफलां सार्की तथाऽऽवर्त्तकीं
व्याधिघ्नेन तु योजितां हुतभुजा सारुष्करां बाकुचीम् ।
तद्वच्च क्रिमिशत्रुणाप्युपगतामेकैकवृद्धानिमान्
गोमूत्रेण विमृद्य तुल्यतुवरान्कुष्ठी वटान्भक्षयेत् ॥ ८२ ॥
निहन्ति हतनासिकाकरजकर्णपादाङ्गुलि-
क्षरद्रुधिरपूतिपूयपरिजग्धजन्तुव्रणान् ।
प्रभिन्नचिरलक्षितखरमशेषकुष्ठं मह-
न्निहन्ति कुरुतेऽरुणावर्कवपुषं नरं योगतः ॥ ८३ ॥
ज्वरे फलत्रिकाद्यो मोदकः ।
फलत्रिकगुडव्योषशर्करात्रिवृतादिकम् ।
मोदकं भक्षयित्वाऽनुपिबेत्कोष्णं जलं पुनः ।
पार्श्वशूलेऽरुचौ कासे ज्वरे चानिलसंभवे ॥ ८४ ॥
२३६ आयुर्वेदीयग्रन्थमाला । [ परिशिष्टे
रसायने त्रिफलाद्या वटकाः ।
त्रैफलस्य तु चूर्णस्य पलानि दश संहरेत् ।
सप्त चैव विडङ्गानां लोहचूर्णं पलत्रयम् ॥ ८५ ॥
शतं भल्लातकानां च पलानि दश बाकुची ।
शिलाजतु पले द्वे च गुग्गुलोस्तु पलद्वयम् ॥ ८६ ॥
पलं पुष्करमूलस्य पलार्धं फलमेव च ।
ग्रन्थिकाग्नि समरिचं पिप्पल्यो विश्वभेषजम् ॥ ८७ ॥
त्वक्पत्रं कुङ्कुमं मुस्ता नागकेसरमेव च ।
यष्टीमधुकरोध्रं च कार्षिकान्युपकल्पयेत् ॥ ८८ ॥
यावन्त्येतानि सर्वाणि तावत्खण्डं प्रदापयेत् ।
पलिकान्वटकान्कुर्यात्सर्वव्याधिविनाशनन् ॥ ८९ ॥
एकैकं भक्षयेत्प्रातर्यथेष्टं चात्र भोजनम् ।
प्लीहमर्शास्यतीसारं वातगुल्मं भगन्दरम् ॥ ९० ॥
कुष्ठानि चैव सर्वाणि सप्तरात्रान्न्यपोहति ।
एतत्सर्वं प्रयुञ्जानो जीवेद्वर्षशतत्रयम् ॥ ९१ ॥
अरुचौ लाजाद्यो मोदकः ।
द्वादशाष्टचतुस्त्रिंशत्येकार्धार्धसमायुतैः ।
लाजैस्तुगातिन्तिडीककोलव्योषत्रिजातकैः ।
सचन्द्रा मोदका रुच्याः क्रमाद्विगुणशर्कराः ॥ ९२ ॥
त्रिफलाया गुटिका ।
त्रिफलाबदराणां स्याद्व्योषस्य च पलद्वयम् ।
कर्पूरकर्षो लाजानां पलद्वादशकं भवेत् ॥ ९३ ॥
'एलात्वक्पत्रकानां तु पलं स्याद्वंशरोचना ।
पलाष्टिका, वेतसश्च चतुष्पल उदाहृतः ॥ ९४ ॥
चूर्णाद्द्विगुणखण्डं स्याद्गुद्या वमिहरा परम् ।
यक्ष्माणं रक्तपित्तं च ज्वरं कासं च नाशयेत् ॥ ९५ ॥
गुटिकाधिकारः ४.] गदनिग्रहः । २३७
अर्शसि चित्रकगुटिकाः ।
चित्रकस्य पलं दत्त्वा पलं चार्धं त्रिवृत्तथा ।
कणाकर्षो गुडस्याष्टौ पलानि समुपाहरेत् ॥ ९६ ॥
विंशतिश्च हरीतक्यो गुटिका दश कारयेत् ।
दशमे दशमे चाह्नि त्वेकैकां भक्षयेत् सुधीः ।
मण्डलानि च कण्डूंश्च अर्शांसि ग्रहणीं जयेत् ॥ ९७ ॥
प्रमेहे वामदेवेन कथिता गुटिका ।
कटुत्रिकं वचा मुस्ता विडङ्गं चित्रकं विषम् ।
एतानि समभागानि पथ्या च द्विगुणा विषात् ॥ ९८ ॥
पञ्चत्रिंशद्गुडाद्भागाः क्वाथयेन्मृदुनाग्निना ।
बदरसमाश्च गुटिका कार्या, एषा गुटिका प्रमेहं, आमवातं,
गुल्मं, मन्दाग्निं, हन्ति; विशेषतश्च लालामेहम् ॥
गुग्गुलुगुटिका ।
गुग्गुलु कुडवादद्धं ककुभत्वगयोरजोविडङ्गानि ।
भल्लातकगोक्षुरकौ त्रिवृता त्रिफला द्वितीयार्धम् ॥ ९९ ॥
भुक्त्वैनां गुटिकां यथेष्टचरितः षण्मासयोगात्पुमान्
सव्याधीन्सभगन्दरान्सपिटिकानर्शांसि दुष्टव्रणान् ।
खालित्यं पलितं जरामपि तनोर्जित्वा प्रदीप्तानलः
सौभाग्याप्तसुखो निरामयतनुर्जीवेत्समानां शतम् ॥ १०० ॥
शोफे लघुत्रिफलागुग्गुलुगुटिका ।
गुग्गुलुस्त्रिफला कृष्णा पञ्चनेत्रत्रिभागिकाः ।
गुटिकाः शोषगुल्मार्शो भगन्दरवतां हिताः ॥ १०१ ॥
वातव्याधौ पृथुत्रिफलाद्या गुग्गुलुगुटिका ।
त्रिफला हपुषा मुस्तं चविका चित्रकः शठी ।
यवानीग्रन्थिकव्योषसौवर्चलदुरालभाः ॥ १०२ ॥
अजमोदा विडङ्गं च दाडिमं साम्लवेतसम् ।
बाष्पिका पौष्करं दारु त्वगेलापत्रकेसरम् ॥ १०३ ॥
२३८ आयुर्वेदियग्रन्थमाला । [परिशिष्टे
एषामर्धपलैर्भागैः पलानि दश गुग्गुलोः ।
संमिश्र्य सर्पिषा सार्धं गुटिकां कारयेद्बुधः ॥ १०४ ॥
भक्षयित्वा ससर्पिष्कां जीर्णे च प्रमिताशनम् ।
वातश्लेष्मविकारेषु नाडीदुष्टव्रणेषु च ॥ १०५ ॥
श्लेष्मकासे च शोफे च योगमेनं प्रयोजयेत् ।
जठरे योनिशूलेषु त्वन्तर्भूतं च विद्रधिम् ॥ १०६ ॥
पार्श्वशूलं कृमीन् गुल्मान्प्रमेहान् छर्द्यरोचकौ ।
केवलानिलजात्रोगानशीतिं श्लैष्मिकानपि ।
विंशतिं नाशयत्याशु रसायनमनुत्तमम् ॥ १०७ ॥
गुल्मे त्रिवृताद्या गुटिका ।
त्रिवृत्पलं हिङ्गुकर्षस्त्रिक्षारस्य पलत्रयम् ।
यवान्यजाजीमरिचं धान्यकं शितिवारकम् ॥ १०८ ॥
उपकुञ्चीविडङ्गाजमोदाश्चार्धपलोन्मिताः ।
पृथक्पलद्वयं दद्यादम्लवेतसजं रजः ॥ १०९ ॥
मातुलुङ्गरसैनेषां गुटिकां कारयेद्भिषक् ।
सुखाम्बुनाम्लैर्मन्थैर्वा पिबेत्क्षीरेण सर्पिषा ॥ ११० ॥
काङ्कायनोक्तगुटिका वातगुल्मविनाशिनी ।
गोमूत्रयुक्ता कफजं पयसा पित्तसंभवम् ॥ १११ ॥
त्रिफलारसमूत्रैस्तु निहन्यात्सान्निपातिकम् ।
रक्तगुल्मे तु नारीणामुष्ट्रीदुग्धेन वा पिबेत् ॥ ११२ ॥
कृष्णाद्या गुटिका ।
कृष्णाशताह्वाशुण्ठीनां साभयानां पलं पलम् ।
गुडस्य षट्पलान्येषा गुटिका भ्रमनाशिनी ॥ ११३ ॥
इति श्रीवैद्यसोढलग्रथिते गदनिग्रहे परिशिष्टे गुटिकाधिकारश्चतुर्थः समाप्तः ।
अवलेहाधिकारः ५.] गदनिग्रहः । २३९
अथ परिशिष्टे पञ्चमोऽवलेहाधिकारः।
शोषे पिप्पल्याद्योऽवलेहः ।
कृष्णाचूर्णं क्षिपेत्प्रस्थं सिताप्रस्थद्वयं तथा ।
प्रस्थार्धं गोघृतं चैव कुडवं माक्षिकं तथा ॥ १ ॥
दुग्धाढकोनसंयुक्तं यथोक्तं विपचेद्भिषक् ।
चातुर्जातपलं चैकं चूर्णमेतद्विनिक्षिपेत् ॥ २ ॥
प्रत्युषे भक्षयेन्नित्यं ततः कार्यं समाचरेत् ।
हन्त्यष्टादश कुष्ठानि क्षयमेकादशात्मकम् ॥ ३ ॥
पञ्चकासान् तथा श्वासान् पाण्डुं प्लीहमपंस्मृतिम् ।
मूत्रकृच्छ्रं तथा रक्तं शुक्रदोषं तथा जराम् ॥ ४ ॥
धातुक्षयं च मन्दाग्निं व्याधिं परमदुस्तरम् ।
सर्वांस्तानाश्यत्याशु तमः सूर्योदयो यथा ॥ ५ ॥
सुभगो दर्शनीयश्च स गच्छेदप्रमदाशतम् ।
रसायनमिदं श्रेष्ठमश्विभ्यां परिकीर्तितम् ॥ ६ ॥
शोषे द्वितीयो पिप्पल्याद्यवलेहः ।
प्रस्थं पिप्पलीमादाय क्षीरं चैव चतुर्गुणम् ।
अर्धाढकं घृतं गव्यं शुद्धखण्डात्तथाऽऽढकम् ॥ ७ ॥
पचेन्मृद्वग्निना तावद्यावत्पाकमुपागतम् ।
शीतीभूते क्षिपेत्तस्मिंश्चातुर्जातपलत्रयम् ॥ ८ ॥
योजयेन्मात्रया दोषधात्वग्निबलसात्म्यतः ।
बल्यो वृष्यस्तथा हृद्यो धातुपुष्टिकरः परः ॥ ९ ॥
जीर्णज्वरहरश्चैव स्त्रियं चैव तु बृंहयेत् ।
छर्दितृणारुचिश्वासशोषहिक्काः सकामलाः ॥ १० ॥
हृद्रोगं पाण्डुगुल्मं च प्रदरं च त्रिदोषजम् ।
शोणितानिलकार्श्यं च रक्तपित्तं नियच्छति ॥ ११ ॥
सक्ताभ्यासयोगेन वलीपलितवर्जितः ।
२४० आयुर्वेदौयग्रन्थमाला ।
क्षयादिरोगे रसाङ्गहरीतक्यवलेहः ।
हरीतक्याः शतं द्रोणे पयसि परिसाधयेत् ॥ १२ ॥
घृतावशेषमुत्तार्य निष्कुलीकृत्य च क्रमात् ।
रसगन्धकलोहानां चूर्णेनापूर्य वेष्टयेत् ॥ १३ ॥
सूत्रेण मासमेकं तु मधुमध्ये निधापयेत् ।
पथ्याशी भक्षयेदेकां सर्वरोगविमुक्तये ॥ १४ ॥
खण्डार्द्रकावलेहः ।
सुस्विन्नाच्छृङ्गवेरात्पलशतमिनवं निस्तुषं संविधाय
प्रस्थे चाज्यस्य पक्त्वा पलशतसहितं शुद्धमत्स्यण्डिकायाः ।
कौराङ्गी देवपुष्पं मधुदलकणानागकिञ्जल्कभृङ्गं
शुक्लाजाजी सघनमरिचतुगा सार्धकर्षद्वयाः स्युः ॥ १५ ॥
तस्मिन्क्षीरं विदित्वा ज्वलनमुखगतं पात्रमुत्तार्य यत्ना-
त्कृत्वा चेष्ममदशशिसुरभितं चूर्णितेनावचूर्ण्य ।
प्रातः शीतेऽतिमात्रं मधुकुडवयुगं सार्धमावाप्य सान्द्रं
तल्लीढं हन्ति जीर्णज्वरमथ कसनं राजयक्ष्माणमेव ॥ १६ ॥
अतीसारेऽङ्कोलमूलावलेहः ।
पलमङ्कोलमूलस्य दशांशं बिल्वमेव च ।
तद्भागो राजवृक्षस्य क्वाथयमष्टगुणे जले ॥ १७ ॥
तेन पादावशेषेण फाणितं कारयेद्भिषक् ।
शीतीभूते प्रदातव्यं मस्तुना सहितं बुधैः ॥ १८ ॥
फाणिते दीयमाने तु सत्वरं छर्दयेद्यदा ।
शीतलं भोजनं देयं दध्यन्नं भक्तमेव च ॥ १९ ॥
पक्वापकमतीसारं नानावर्णं सवेदनम् ।
दुर्वारं ग्रहणीदोषं जयेच्चैव प्रवाहिकाम् ॥ २० ॥
अर्शसि भल्लातकावलेहः ।
पर्पटावल्गुजानन्तात्वचाखंदिरचन्दनम् ।
पाठाशुण्ठीशठीमार्थीवासाभूनिम्बवत्सकम् ॥ २१ ॥
अवलेहाधिकारः ५.] गदनिग्रहः । २४१
श्यामेन्द्रवारुणीमूर्वाविडङ्गेन्द्रयवं जलम् ।
हस्तिकर्ण्यमृताद्राक्षापटोलरजनीद्वयम् ॥ २२ ॥
कणारग्वधसप्ता बिल्वश्योनाकपाटलाः ।
एषां द्विपलिकान् भागान् जलद्रोणे विपाचयेत् ॥ २३ ॥
अष्टभागावशेषं तु कषायमवतारयेत् ।
भल्लातकसहस्राणि छित्त्वा द्रोणमितेऽम्भसि ॥ २४ ॥
चतुर्भागावशेषं तु कषायं परिकल्पयेत् ।
तौ कषायौ समादाय वस्त्रपूतौ तु कारयेत् ॥ २५ ॥
गुडस्य च तुलां दत्त्वा लेहवत्साधयेद्भिषक् ।
भल्लातकसहस्राणां मज्जानं तत्र दापयेत् ॥ २६ ॥
त्रिकटुत्रिफलामुस्तसैन्धवानां पलं पलम् ।
सौगन्धिकस्य दातव्यं चूर्णं पलचतुष्टयम् ॥ २७ ॥
दीप्यकस्य पलं चैव चातुर्जातं पलांशकम् ।
संचूर्ण्य प्रक्षिपेत्कोष्णे घृतभाण्डे निधापयेत् ॥ २८ ॥
महाभल्लातको ह्येष महादेवेन निर्मितः ।
प्राणिनां च हितार्थं वै जयेच्छीघ्रं निषेवितः ॥ २९ ॥
श्वित्रमौडुम्बरं सिध्मं रुक्षजिह्वं च काकणम् ।
पुण्डरीकं च चर्माख्यं विस्फोटं रक्तमण्डलम् ॥ ३० ॥
कृच्छ्रं कापालिकं कृष्णं पामां चैव विपादिकाम् ।
वातरक्तमुदावर्तं पाण्डुरोगं वमिं कृमिम् ॥ ३१ ॥
अर्शांसि षट्प्रकाराणि कासं श्वासं भगन्दरम् ।
समाभ्यासेन पलितमामवातं सुदुर्जयम् ॥ ३२ ॥
कुरुते च परां कान्तिं प्रदीप्तं जठरानलम् ।
अनुपाने प्रयोक्तव्यं छिन्नातोयं पयोऽथवा ।
भोजने च सदा त्याज्यमुष्णं चाम्लं विशेषतः ॥ ३३ ॥
३१
२४२ आयुर्वेदीयग्रन्थमाला ।
अतीसारे कुटजाष्टकावलेहः ।
तुलामथार्द्रां गिरिमल्लिकायाः
संक्षुद्य पक्त्वा रसमाददीत ।
तस्मिन् सुपूते पलसंमितानि
श्लक्ष्णानि पिष्ट्वा सह शाल्मलेन ॥ ३४ ॥
पाठासमङ्गातिविषाः समस्ता
बिल्वं च पुष्पाणि च धातकीनाम् ।
प्रक्षिप्य भूयो विपचेत्तु ताव-
दर्वीप्रलेपं सुरसं च यावत् ॥ ३५ ॥
पीतस्त्वसौ कालविदा जलेन
मण्डेन वाऽजापयसाऽथवाऽपि ।
निहन्ति सर्वं त्वतिसारमुग्रं
कृष्णसितं लोहितपीतकं वा ॥ ३६ ॥
दोषं ग्रहण्या विविधं च रक्त-
पित्तं तथाऽर्शांसि सशोणितानि ।
असृग्दरं चैवमसाध्यरूपं
निहन्त्यवश्यं कुटजाष्टकोऽयम् ॥ ३७ ॥
धातुक्षये मधुपकामलकी ।
धात्रीफलानि भव्यानि तीक्ष्णलोहेन वेधयेत् ।
विश्वावरणपत्रैश्च फलैश्च खेदयेद्दृशम् ॥ ३८ ॥
उष्णोदकेन संस्वेद्य पानीयेन ततः परम् ।
मधुमध्ये क्षिपेद्भाण्डे स्थापयेद्दिनविंशतिम् ॥ ३९ ॥
ततो मधु संत्यज्य मधुमध्ये पुनः क्षिपेत् ।
शर्करां धात्रीफलान्युपरि च न्यसेत् ॥ ४० ॥
...... मुखोपरि धारयेत् ।
...... पुंसां बलक्षये ॥ ४१ ॥
अवलेहाधिकारः ५.] गदनिग्रहः । २४३
वाजीकरणमत्युग्रं फलानां सेवनं सदा ।
वीर्यवृद्धिकराण्याहुर्बुद्धिवृद्धिकराणि च ॥ ४२ ॥
त्वग्दोषं पित्तकोपं च शमयन्ति न संशयः ।
स्वरभङ्गे कुलिञ्जनाद्योऽवलेहः ।
कुलिञ्जनं समानीय नवीनं पलविंशतिम् ।
तुलाद्वये जले क्वाथ्यं तुलार्धमवशेषयेत् ॥ ४३ ॥
वस्त्रपूते जले तस्मिन् चूर्णान्येतानि दापयेत् ।
कट्फलं पौष्करं भार्गी पञ्चकोलं कटुत्रिकम् ॥ ४४ ॥
त्रिफला च विडङ्गं च धान्यकं जीरकद्वयम् ।
वासा करञ्जः शिखरी प्रत्येकं च पलद्वयम् ॥ ४५ ॥
सवार्धां प्रक्षिपेच्छुद्धां शर्करां गुडमेव च ।
हन्त्ययं पञ्चकासांश्च हिक्का अपि सवेदनाः ॥ ४६ ॥
स्वरभङ्गं महाघोरं कण्ठरोगं मुखामयम् ।
मन्दाग्निं च प्रतिश्यायं स्वरभङ्गं विशेषतः ॥ ४७ ॥
कासे भार्ग्याद्यवलेहः ।
भार्गी हरीतकीं वासां कण्टकारीं तथैव च ।
प्रत्येकं प्रस्थमादाय द्रोणेऽपां साधयेद्भिषक् ॥ ४८ ॥
क्वाथे पादावशेषे तु गुडं प्रस्थमितं क्षिपेत् ।
ततः पाकघनीभूते शीतेऽर्धकुडवं मधु ॥ ४९ ॥
पिप्पलीं कट्फलं शृङ्गीं मधुयष्टिं लवङ्गकम् ।
त्वक्क्षीरीं रजनीं चैव पलार्धप्रमितां क्षिपेत् ॥ ५० ॥
एषोऽवलेहः शमेत् पञ्च कासान् सुदारुणान् ।
हृद्रोगे चन्दनावलेहः ।
मातुलुङ्गरसप्रस्थं प्रस्थार्धं दाडिमाद्रसः ॥ ५१ ॥
तत्तुल्यं नारिकेलाम्बु शर्करा कुडवद्वयम् ।
पाकं कृत्वा यथान्यायं सिद्धे शीते समावपेत् ॥ ५२ ॥
२४४ आयुर्वेदौयग्रन्थमाला । [परिशिष्टे
चन्दनं च तुगाक्षीरीं धान्यकं सारिवां तथा ।
कङ्कोलकमुशीरं च कुङ्कुमं शतपत्रिकाम् ॥ ५३ ॥
सत्त्वं गुडूच्याश्च तथा कर्षमानं पृथक् पृथक् ।
एषोऽवलेहो हृद्रोगं भ्रमं मूर्च्छा वमिं तथा ॥ ५४ ॥
दाहं च सुमहाघोरं शमयेन्नात्र संशयः ।
धातुक्षयेऽश्वगन्धाद्यवलेहः ।
अश्वगन्धा गोक्षुरश्च शतवीर्या विदारिका ॥ ५५ ॥
बलाबीजानि यष्ट्याह्वं बीजानिक्षुरकस्य च ।
कपिकच्छोश्च बीजानि शाल्मलीमूलकं तथा ॥ ५६ ॥
वृद्धदारुकबीजानि लवङ्गं जातिपत्रिका ।
जातीफलं केशरं च त्वक् पत्रं वंशरोचना ॥ ५७ ॥
एलाद्वयं कुङ्कुमं च गुडूचीसत्त्वमेव च ।
एतेषां कर्षमादाय मधुनः कुडवत्रयम् ॥ ५८ ॥
कृत्वा लेहं ततो मात्रां यथायोग्यां प्रदापयेत् ।
धातुक्षयं तथा वातं ध्वजभङ्गं नियच्छति ।
अनेनाशीतिवर्षोऽपि युवेव च वृषायते ॥ ५९ ॥
इति श्रीवैद्यसोढलग्रथिते गदनिग्रहे परिशिष्टे पञ्चमोऽवलेहाधिकारः ।
समाप्तं चेदं प्रयोगखण्डपरिशिष्टम् ।