गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
चूर्णाधिकारः ३.] गदनिग्रहः । २१९
रक्ता निम्बं सुरतरु वचा पञ्चमूल्यौ च चूर्णं .
पीत्वा मासं जयति मितभुक् गव्यमूत्रेण कुष्ठम् ॥ ४ ॥
ग्रहण्यां पञ्चामृतरसः ।
कर्षे रसाद्गन्धकतस्तथैव विमर्द्य खल्वेऽभ्रकमेव तावत् ।
दद्यात्तथा ताप्यमयोरजश्च गव्येन चाज्येन विमृश्य किञ्चित् ५
पात्रे मन्दं वह्निना ज्वालयेत्तद्ध्यान्मात्रां रक्तिकैकप्रवृद्ध्या ।
यावन्माषो नाधिकं मानवेभ्यः कृत्वा वह्नेर्दीपनं हन्ति रोगान् ६
पाण्डुप्रीहोन्माददुर्नाममेहान् पित्तं साम्लं सातिसारं ज्वरं च ।
सद्यः शूलान् त्वग्ग्रहण्यामयं च तथैव रोगान् खलु सूतिकायाः७
अयं हि पञ्चामृतनामधेयो रसेन्द्रराजः क्षयरोगहारी ।
वातास्रमग्रं श्वयथुं च हन्यात्स्वयोग्ययुक्तः सकलान्विकारान् ८
पञ्चसमं चूर्णम् ।
पथ्यानागरजीरकारुय्यरुचकैः श्यामान्वितैः पञ्चभि-
श्चूर्णं पञ्चसमं समस्तरुजहृत्कायाग्निसंदीपनम् ।
घ्राणोत्साहविवर्धनं रुचिकरं गुल्मप्लीहापहं
प्रत्याध्मानकरादिशमनं सामानिले पूजितम् ॥ ९ ॥
छर्द्यां बदराद्यं चूर्णम् ।
बदरत्रिफलानां च व्योषस्य च पलद्वयम् ।
कर्पूरकर्षो लाजानां पलद्वादशकं भवेत् ॥ १० ॥
एलात्वक्पत्रकाणां तु पलं स्याद्वंशरोचना ।
पलाष्टका, वेतसाम्लश्चतुष्पलमुदाहृतः ॥ ११ ॥
चूर्णं द्विगुणखण्डं तु हृद्यं वमिहरं परम् ।
यक्ष्माणं रक्तपित्तं च ज्वरं कासं च नाशयेत् ॥ १२ ॥
उदरे नवक्षारकं चूर्णम् ।
तुवरीटङ्गणव्योषसामुद्रं सैन्धवं बिडम् ।
काचं सौवर्चलं चव्यं क्षारश्चेशुरकोद्भवः ॥ १३ ॥
२२० आयुर्वेदीयग्रन्थमाला । [परिशिष्टे
एतानि समभागानि चूर्णीकृत्य प्रयोजयेत् ।
रक्तवातारुचिप्लीहोदररोगापनुत्तये ॥ १४ ॥
मन्दाग्नावजमोदाद्यं चूर्णम् ।
साजमोदलवणा हरीतकी शृङ्गवेरसहिता च पिप्पली ।
मद्येन तक्रेण तथोष्णवारिणा चूर्णपानमुदराग्निदीपनम् ॥१५॥
दन्तरोगे जातीपत्राद्यं चूर्णम् ।
जातीपत्रपुनर्नवातिलकणाकोरण्टपुष्पं वचा ।
शुण्ठीदीप्यकपध्यकाः समधृतं चूर्णं मुखे धारयेत् ॥
वातघ्नं कफनाशनं कृमिहरं दुर्गन्धिनिर्नाशनं
शूलं शोफहरं च रक्तशमनं दतांश्च वज्रायते ॥ १६ ॥
कासे जातीफलाद्यं चूर्णम् ।
जातीफलं विडङ्गं च चित्रकस्तगरस्तिलाः ।
तालीसं चन्दनं शुण्ठी लवङ्गं चोपकुञ्चिका ॥ १७ ॥
कर्पूरं चाभया धात्री मरिचं पिप्पली शुभा ।
एषामक्षसमान् भागान् चातुर्जातकसंयुतान् ॥ १८ ॥
पलानि त्रीणि भृङ्गायाः शर्करा समयोजिता ।
एतच्चूर्णं तु मधुना कर्षार्धं लेहयेत्तथा ॥ १९ ॥
जयेत्कासं क्षयं श्वासं ग्रहणीमग्निमार्दवम् ।
वातश्लेष्मोद्भवांश्चान्यान् प्रतिश्यायमरोचकम् ॥ २० ॥
एताः सर्वा रुजो हन्ति वृक्षमिन्द्राशनिर्यथा ।
दाडिमाद्यं चूर्णम् ।
दाडिमस्य पलान्यष्टौ शृङ्गवेरपलत्रयम् ॥ २१ ॥
पलद्वयं पिप्पली च कोलचूर्णं पलद्वयम् ।
यवानी चाजमोदा च मिशिश्चैवाम्लवेतसम् ॥ २२ ॥
वृक्षाम्लं चविका चात्र अभया च पलोन्मिता ।
सौवर्चलं धान्यकं च सूक्ष्मैला त्वक्तथैव च ॥ २३ ॥
चूर्णाधिकारः ३.] गदनिग्रहः । २२१
ग्रन्थिकं मरिचं चात्र पत्रकं सतुगाह्वयम् ।
एषामर्धपलान् भागान् सर्वैस्तुल्या सिता भवेत् ॥ २४ ॥
एतन्माकू भोजनाच्चूर्णं दीपनं गुल्मनाशनम् ।
अर्शांसि ग्रहणीदोषमतीसारं प्रवाहिकाम् ।
पार्श्वशूलमथानाहं प्रमेहांश्च प्रणाशयेत् ॥ २५ ॥
मन्दाग्नावामलक्यादिचूर्णम् ।
आमलकवह्निपथ्यामागधिकांसैन्धवैः कृतं चूर्णम् ।
विनिहन्ति कण्ठरोगं मन्दाग्निं रक्तपित्तमपि ॥ २६ ॥
स्त्रीरोगे मेथिकाद्यं चूर्णम् ।
मेथिका शतपुष्पा च यवानी मधुयष्टिका ।
त्रिकटु त्रिफला मुस्ता त्रिजातं च पुनर्नवा ॥ २७ ॥
ऋष्यप्रोक्ता समङ्गा च चन्दनं रक्तचन्दनम् ।
द्राक्षापुष्करमञ्जिष्ठाः समं चूर्णं प्रकल्पयेत् ॥ २८ ॥
घृतखण्डेन पक्तव्यं काले स्त्रीणां च दापयेत् ।
वन्ध्यानां गर्भजननं स्त्रीणां बलविवर्धनम् ॥ २९ ॥
रक्तवातप्रशमनं पित्तोपद्रवनाशनम् ।
त्रिदोषे रुद्धगर्भे च परमं सुखकारकम् ॥ ३० ॥
कामवृद्धौ राजयोगः ।
अहिफेनं वत्सनागः केशरं चव्यचित्रकम् ।
धत्तूरभृङ्गशिग्रूणां बीजानि सितजीरकम् ॥ ३१ ॥
कपिकच्छुश्चाश्वगन्धा कलिङ्गकलवङ्गकम् ।
अजमोदार्ककरभो मुशली च शतावरी ॥ ३२ ॥
पिप्पली पिप्पलीमूलं चातुर्जातकसंयुक्तम् ।
कटाहे मधुना पक्त्वा कुर्यात्पूगोपमा वटीः ॥ ३३ ॥
भोजनानन्तरं वक्त्रे गुटी धार्या घटीद्वयम् ।
जातीपत्री विशेषेण धारणीया मुखे सदा ॥ ३४ ॥
६३२ आयुर्वेदौयग्रन्थमाला ।
क्षाराम्लदधिवर्जं च कार्यं भोजनमुत्तमम् ।
कुष्ठत्वं स्वल्पवीर्यत्वं हन्याच्छीतमिवानलः ॥ ३५ ॥
अतिसारे प्रमेहे च मन्दाग्नौ राजयक्ष्मणि ।
आमवाते पाण्डुरोगे महावाते शिरोगदे ॥ ३६ ॥
प्लीह्नि पानीयजे रोगे सर्वाङ्गवात इष्यते ।
ईश्वरेण भगवता कार्तिकेयाय सुन्दरः ॥ ३७ ॥
एष द्वात्रिंशको नाम योगराजः प्रकीर्तितः ।
क्षये आभाद्यं चूर्णम् ।
आभा च धातुमाक्षीकं गिरिजं च त्रिजातकम् ॥ ३८ ॥
जीवर्षभकौ मेदा काकोली पुण्डरीयकम् ।
व्योषं च वालकं चैव पृथ्वी कालेयकं बिडम् ॥ ३९ ॥
एतानि समभागानि आयसं द्विगुणं क्षिपेत् ।
शर्करा च समा देया मधुना सह लेहयेत् ॥ ४० ॥
क्षयमेकादशाकारं श्वासं कासं तथैव च ।
स्वरभेदं पार्श्वशूलं ज्वरं कम्पं च दारुणम् ॥ ४१ ॥
रक्तनिष्ठीवनं तृष्णां पीनसं च हनुग्रहम् ।
हिध्मां च कण्ठरोगांश्च नाशयेन्नात्र संशयः ॥ ४२ ॥
पिप्पल्याद्यं चूर्णम् ।
चत्वारि पिप्पलीनां तु पञ्च सौवर्चलोद्भवाः ।
जीरकस्य त्रयो भागाः शुण्ठ्या भागत्रयं तथा ॥ ४३ ॥
सप्त सप्त स्मृता भागास्तीक्ष्णदाडिमसारयोः ।
द्वौ भागौ तिन्तिडीकस्य चत्वारश्चाम्लवेतसात् ॥ ४४ ॥
पञ्चागाः सैन्धवस्योक्तास्तथाऽर्धो हिङ्गुतः स्मृतः ।
निस्तुषानां विडङ्गानामेको भागः प्रकीर्तितः ॥ ४५ ॥
तत्सर्वमेकतः कृत्वा सूक्ष्मचूर्णं तु कारयेत् ।
लवणं दीपनमिदं वातश्लेष्मविकारनुत् ।
रुच्यमम्लेन संयुक्तं केवलं वा हितं तथा ॥ ४६
चूर्णाधिकारः ३.] गदनिग्रहः । २२३
मन्दाग्नौ रुचकाद्यं चूर्णम् ।
रुचकमरिचशुण्ठीजीरकैर्भागवृद्धै-
र्बिडलवणविभागः सैन्धवं चापि सार्धम् ।
कफपवनविकारे शस्यते वातगुल्मे
जनयति जठराग्निं भोजने चेत्सतक्रम् ॥ ४७ ॥
मन्दाग्नौ सिंहचूर्णम् ।
अर्धं हिङ्गुपलं पलं सुविमलं सौवर्चलं द्वे पले
प्रत्येकं मरिचाम्लदीप्यलवणाम्भोराशिजातान् क्षिपेत् ।
शुण्ठ्याश्च त्रिपलं चतुष्पलमपि स्याद्दाडिमं जीरकं
श्रीमत्सिंहणभूमिपालकथितं सेव्यं सदेदं बुधैः ॥ ४८ ॥
अर्शसि सूरणाद्यं चूर्णम् ।
सूरणं दहनं क्षारो मरिचं नागरं क्रमात् ।
अर्धार्धकमिदं चूर्ण क्षाराम्लार्द्रकभावितम् ॥ ४९ ॥
हन्यादर्शांसि शूलं च गुल्मप्लीहोदरकृमीन् ।
भुक्तं भुक्तं पचत्याशु शान्तमग्निं च दीपयेत् ॥ ५० ॥
वातरोगे हरीतकीयोगः ।
धान्यकाञ्जिकयुता हरीतकी हिङ्गुसैन्धवकणासुपूरिता ।
भक्षिता भवति वातरोगहा हन्त्यजीर्णमथ च क्षुधाकरी ॥ ५१ ॥
विद्रधौ भूनिम्बाद्यं चूर्णम् ।
भूनिम्बार्धपलं निशापलयुतं दार्व्याः पले द्वे तथा
दार्व्यर्धेन पुनर्नवां कुरु समां दार्वीसमः प्रग्रहः ।
सार्धे दुःस्पर्शया तु कटुका योज्या तदर्धेन वै
अश्माहं निशया समानममृता पादाधिकं खात्यलम्॥५२॥
एतद्वत्सकसप्तपर्णसहितं सुश्लक्ष्णचूर्णीकृतं
वासायाः स्वरसेन भावितमिदं त्रीन् सप्त वा वासरान् ।
भूयस्तण्डुलवारिणा प्रमुदितं पेयं पुरःस्थे रवौ
एतद्विद्रधिरोगिणां विजयकृत् चूर्णं तु गुह्योत्तमम् ॥ ५३ ॥
२२४ आयुर्वेदीयग्रन्थमाला । [परिशिष्टे
ज्वरे किराततिक्ताद्यं चूर्णम् ।
किराततिक्तं त्रिफलापटोलं तिक्तेन्द्रबीजं सुरदारु दार्वीं ।
व्योषं शठीचन्दनयुग्मनिम्बं दुरालभाचन्दनपद्मकं च ॥ ५४॥
पुनर्नवोशीरविषागुडूचीत्रायन्तिकापिप्पलिमूलतुल्यम् ।
चूर्णं विलिह्यान्मधुनाऽथ वारिणा तथाऽनुपानं त्वमृतारसेन ५५
ज्वरं पुराणं विनिहन्ति शीघ्रं तृतीयकं वा वमिदाहयुक्तम् ।
चातुर्थकं चाक्षगतांश्च रोगान् सपीनसं कामलमाशु हन्ति ५६
कासे दुरालभाद्यं चूर्णम्।
दुरालभां शृङ्गवेरं शठीं द्राक्षां सितोपलाम् ।
लिह्यात्कर्कटशृङ्गीं च कासे तैलेन वातजे ॥ ५७ ॥
ग्रहण्यां पिप्पलीमूलाद्यं चूर्णम् ।
समूला पिप्पली क्षारौ द्वौ पञ्चलवणानि च ।
मातुलुङ्गाभयारास्नाशठीमरिचनागरम् ॥ ५८ ॥
कृत्वा समांशं तच्चूर्णं पिबेत्यातः सुखाम्बुना ।
श्लेष्मके ग्रहणीदोषे बलवर्णाग्निवर्धनम् ॥ ५९ ॥
ग्रहण्यां कुठेरकाद्यं चूर्णम्।
कुठेरकश्चामलकी यवानी फलत्रिकं चैव कटुत्रिकं च ।
वृन्ताकगण्डीरवृषं सनिम्बं कुष्ठं तथा चेन्द्रयवा विडङ्गम् ६०
बीजानि दद्यान्निचुलस्य दार्वी दुरालभा तिक्तकरोहिणी च ।
दुर्वाग्रगन्धाऽतिविषा गुडूची किराततिक्तं गजपिप्पली च ६१
सर्वाण्युपाहृत्य तु चूर्णमेषां भागांशयुक्तं लवणं द्विरंशम् ।
अयोरजः स्यात्त्रिगुणं च युक्तं फलत्रिकं स्याच्चतुरंशयुक्तम् ६२
चूर्णीकृतं तद्धृतभाजनस्थं पिबेच्च मद्येन सुखोदकेन ।
चूर्णं यथासात्म्यबलानुरूपं प्लीहाग्निसादारुचिपार्श्वशूलम्॥६३॥
प्रमेहकुष्ठानथ पाण्डुरोगं हृद्रोगगुल्मं विषमज्वरं च ।
भगन्दरं श्वासगदांश्च हन्यात् सुदुस्तरान् वातकफोद्भवांस्तु ।
एतद्धि चूर्णं बलमांसकारि ओजस्करं रोगगणापहारि ॥ ६४॥
चूर्णाधिकारः ३.] गदनिग्रहः । २२५
शोफे अयोरजश्चूर्णम्
त्रिफलायास्तु कुडवं पिप्पलीकुडवं तथा ।
विडङ्गमरिचाभ्यां तु द्वे पले च समावपेत् ॥ ६५ ॥
पलं पलं तु कुर्वीत दन्तीचित्रकयोरपि ।
गुडूचीपिप्पलीमूलकुष्ठानां च पलं पलम् ॥ ६६ ॥
शृङ्गवेरपले द्वे तु पञ्च चव्यात्पलानि च ।
शेषाण्यर्धपलीकानि यानि वक्ष्यामि तत्वतः ॥ ६७ ॥
रास्ना स्थिरा गोक्षुरकं मधुकं देवदारु च ।
वचा चातिविषा चैव मुस्तकं कटुरोहिणी ॥ ६८ ॥
कट्फलं सारिवे द्वे च श्यामा भल्लातकानि च ।
पुनर्नवा तेजवती त्वचं पत्रं शतावरी ॥ ६९ ॥
निदिग्धिका व्याघ्रनखं मञ्जिष्ठा कूटशाल्मली ।
निचुलं त्रिवृता भार्गी कुटजस्य फलं त्वचम् ॥ ७० ॥
एतदौषधसंभारं सूक्ष्मचूर्णं तु कारयेत् ।
यावन्त्येतानि चूर्णानि द्विस्तावत्स्यादयोरजः ॥ ७१ ॥
तदेकत्र कृतं शोफी लेहयेन्मधुसर्पिषा ।
क्षीरं चानुपिबेद्युक्त्या निरन्नक्षीरसेवनः ॥ ७२ ॥
अयोरजसमित्येतत्ख्यातं सिद्धं रसायनम् ।
संवत्सरप्रयोगेण शतवर्षं च जीवति ॥ ७३ ॥
निहन्ति श्वयथुं चोग्रं वृक्षमिन्द्राशनिर्यथा ।
अर्शांसि पाण्डुरोगं च मन्दाग्निं कृमिकोष्ठताम् ॥ ७४ ॥
भगन्दरं च पामां च कुष्ठानि किटिभानि च ।
यस्मिन् यस्मिन् विकारे हि युज्यते त्वयसो रजः ।
तं तं निहन्ति वै रोगं देवारीन् केशवो यथा ॥ ७५ ॥
पाण्डुरोगे नवायसं चूर्णम् ।
किराततिक्तं सुरदारु दार्वी मुस्ता गुडूची कटुका पटोलम् ।
दुरालभा पर्पटकं सनिम्बं कटुत्रिकं वह्निफलत्रिकं च ॥ ७६ ।
२२६ आयुर्वेदियग्रन्थमाला । [परिशिष्टे
विडङ्गकं चैव समांशकानि सर्वैः समं चूर्णमथापि लौहम् ।
सर्पिर्मधुभ्यां गुटिका विधेयाः सेव्या सदा वै बदरप्रमाणाः॥७७
निहन्ति पाण्डुं श्वयथुं प्रमेहं हलीमकं संग्रहणीप्रदोषम् ।
श्वासं च कासं च सरक्तपित्तमर्शांसि चोर्ध्वग्रहमामवातम् ॥७८
प्रवाहिकायां कुटजाद्यं चूर्णम् ।
कुटजत्वगिन्द्रयवान् पाठां मुस्तं रसाञ्जनं शुण्ठीम् ।
बालं बिल्वमतिविषां कटुकं वै धातकीं समाहृत्य ॥ ७९ ॥
मधुनाऽऽलोड्य निपीतं तण्डुलपयसा प्रवाहिकां हरति ।
अर्शांसि गुदे शूलं पित्तरक्तातिसारं च ॥ ८० ॥
गुल्मे समशर्करं चूर्णम् ।
त्रिवृत्तुल्यार्धकर्षाणि हिङ्गुसौवर्चलत्वचः ।
श्रेष्ठाऽम्लवेतसव्योषं सर्वैस्तुल्या तु शर्करा ॥ ८१ ॥
समकं नाम तच्चूर्णं पिबेदुष्णेन वारिणा ।
गुल्मान् पञ्च सहृद्रोगान् कुक्षिशूलं च नाशयेत् ॥ ८२ ॥
शोषे तिलाद्यं चूर्णम् ।
तिलकर्केन्धुलाजानां चूर्णं मध्वाज्यसंयुतम् ।
क्षीरानुपानं मासेन शोषघ्नं नास्त्यतः परम् ॥ ८३ ॥
मन्दाग्नौ आमलकादिचूर्णम् ।
धात्री भागैकमुक्तं च पथ्या भागत्रयं तथा ।
कृष्णाभागत्रयं चैव द्वौ भागौ चित्रकस्य च ॥ ८४ ॥
भागैकं सैन्धवस्यैतच्चूर्णमामलकादिकम् ।
क्षुधाकरमिदं चूर्णं मन्दाग्निं विनिवारयेत् ॥ ८५ ॥
मन्दाग्नौ सौवर्चलाद्यं चूर्णम् ।
सौवर्चलं कणा शुण्ठी रामठं जीरकद्वयम् ।
अम्लसोदा च मरिचमम्लवेतसमेव च ॥ ८६ ॥
समभागमिदं चूर्णं मन्दाग्निविनिवारणम् ।
गुटिकाधिकारः ४.] गदनिग्रहः । २२७
मन्दामौ अग्निचूर्णम् ।
सौवर्चलं सैन्धवं च विडं क्षारः समांशकम् ॥ ८७ ॥
द्विगुणा च कणा शुण्ठी जीरकं षड्गुणं तथा ।
अग्निचूर्णकमेतच्च वातमन्दाग्निवारणम् ॥ ८८ ॥
मन्दामौ सिंहणचूर्णम् ।
सौवर्चलं सैन्धवं च सामुद्रं मरिचं तथा ।
दाडिमसारकं चाम्लवेतसं समभागकम् ॥ ८९ ॥
नागरं त्रिगुणं चैव जीरकं च चतुर्गुणम् ।
सिंहणं चूर्णमेतच्च मन्दाग्निविनिवारणम् ॥ ९० ॥
इति श्रीवैद्यसोढलग्रथिते गदनिग्रहे परिशिष्टे
चूर्णाधिकारस्तृतीयः ।
अथातो परिशिष्टो गुटिकाधिकारश्चतुर्थः ।
क्षतक्षीणे सर्पिर्गुटिका ।
त्वक्क्षीरीश्रावणीद्राक्षामूर्वर्षभकजीवकैः ।
वीरर्द्धिक्षीरकाकोलीवृहतीकपिकच्छुभिः ॥ १ ॥
खर्जूरफलमेदाभिः क्षीरपिष्टैः पलोन्मितैः ।
धात्रीविदारीक्षुरसप्रस्थैः प्रस्थं घृतातपचेत् ॥ २ ॥
शर्कराऽष्टपलं शीते क्षौद्रार्धप्रस्थमेव च ।
'दत्त्वा सर्पिर्गुडान् कुर्यात्कासहिक्काज्वरापहान् ॥ ३ ॥
यक्ष्माणं तमकं श्वासं रक्तपित्तं हलीमकम् ।
शुक्रनिद्राक्षयं तृष्णां हन्युः कार्श्यं सकामलम् ॥ ४ ॥
क्षतक्षीणे क्षीरादिलेहगुटिका ।
नीत्वा विदारिख़रसं चतुःपलमिदं भिषक् ।
प्रस्थं तित्तिरिमांसस्य रसात् प्रस्थं घृतस्य च ॥ ५ ॥
प्रस्थद्वयं गवां क्षीरं रसादिक्षोस्तथाऽऽढकम् ।
पाकार्थं प्रक्षिपेद्भाण्डे तत्र कल्कमिमं क्षिपेत् ॥ ६ ॥
२२८ आयुर्वेदियग्रन्थमाला ।
जीवन्ती चैव काकोल्यौ द्वे मेदे मधुकं तथा ।
जीवकर्षभकौ मुद्गमाषपर्ण्यौ प्रमाणतः ॥ ७ ॥
प्रत्येकं तत्पलार्धं स्यात्पियालस्य चतुःपलम् ।
चतुःपलं मधूकानां द्विपला वंशलोचना ॥ ८ ॥
मधुयष्ट्या भवेत् कर्षो अक्षमज्जापलं तथा ।
कणापलं च खर्जूरं पलानां विंशतिः स्मृतम् ॥ ९ ॥
कल्कं संपेषयेदिक्षो रसैः पूर्वद्रवे क्षिपेत् ।
मन्दाग्निपाचनाल्लेहीभूते शीते क्षिपेत्सिताम् ॥ १० ॥
विंशत्पलप्रमाणां तु मधुनोऽष्टपलं तथा ।
अजाजीमरिचानां तु पलमेकं नियोजयेत् ॥ ११ ॥
क्षीरादिलेहगुटिका कासहिक्काज्वरापहा ।
यक्ष्माणं तमकं श्वासं रक्तपित्तं हलीमकम् ॥ १२ ॥
शुक्रनिद्राक्षयं तृष्णां हन्यात्कार्श्यं सकामलम् ।
प्रभावतीवटिका ।
हरिद्रा निम्बपत्राणि पिप्पल्यो मरिचानि च ॥ १३ ॥
भद्रमुस्ता विडङ्गानि सप्तमं विश्वभेषजम् ।
सैन्धवं चित्रकं चैव कुष्ठं पाठा हरीतकी ॥ १४ ॥
एतानि समभागानि छागमूत्रेण पेषयेत् ।
कोलास्थिका गुटी छायाशुष्का नाम्ना प्रभावती ॥ १५ ॥
अग्निमुखवटी ।
हिङ्गुभागो भवेदेको वचा च द्विगुणा भवेत् ।
त्रयो भागा विडङ्गानां सैन्धवं च चतुर्गुणम् ॥ १६ ॥
अजाज्याः पञ्चभागाश्च षड्भागाश्चैव नागरात् ।
मरिचस्य सप्त भागाः पिप्पली चाष्टभागिका ॥ १७ ॥
कुष्ठं नवगुणं प्रोक्तं दशभागा हरीतकी ।
एकादश तथा वह्नेर्भागा द्वादश दीप्यकात् ॥ १८ ॥
गुटिकाधिकारः ४.] गदनिग्रहः । २२९
गुडेन द्विगुणेनैव गुटिकां कारयेद्बुधः ।
ततो वातरुजार्तानां नित्यमेव प्रयोजयेत् ॥ १९ ॥
श्वासादौ सूर्यचन्द्रप्रभागुटिका ।
त्रिकत्रयं हरिद्रे द्वे तिक्ता तिक्तं शठी वचा ।
वेल्लचित्रकतालीसभार्गीपद्मकजीरकम् ॥ २० ॥
द्वौ क्षारौ पिप्पलीमूलं पटूनि त्रीणि तुम्बरु ।
देवदारु वचा चव्यं धान्यकं गजपिप्पली ।
वत्सकातिविषादन्तीश्यामापुष्करकामृताः ॥ २१ ॥
भागोऽमीषां सूक्ष्मचूर्णीकृतानां
भागश्चार्धस्तापितरोज्द्भवस्य ।
तदर्द्धश्या, भागवृद्ध्या परे स्यु-
रभ्रं लोहं शैलजं कौशिकश्च ॥ २२ ॥
संमर्द्य गुटिका कार्या सूर्यचन्द्रप्रभाभिधा ।
पूर्वाह्ने तां प्रयुञ्जीत माक्षिकेण परिप्लुताम् ॥ २३ ॥
अनुपाने प्रयुञ्जीत तक्रं मधु रसोत्तमम् ।
क्षीरं बदरतोयं वा शर्करामिश्रितं जलम् ॥ २४ ॥
घृतं मूत्रं तथा चाम्लस्वादुदाडिमजं रसम् ।
कासं श्वासं तथा शोषमरुचिं पार्श्ववेदनाम् ॥ २५ ॥
अर्शांसि कामलां मेहं पाण्डुरोगं हलीमकम् ।
हृद्रोगं मूत्रकृच्छ्रं च श्वयथुं ग्रहणीगदम् ॥ २६ ॥
यकृत्प्लीहाभिवृद्धिं च कमिं ग्रन्थि भगन्दरम् ।
श्लीपदं गण्डमालां च व्रणानाडीव्रणानपि ॥ २७ ॥
अतिस्थौल्यातिकार्श्वं च विद्रधीन्पिटिकाश्चपि ।
नासानेत्राश्रितान्रोगान् शिरोरोगान् सुदारुणान् ॥ २८
मुखरोगानशेषांश्च रक्तपित्तं खरक्षयम् ।
ज्वरं च सन्निपातोत्थं विषमं चापि पैत्तिकम् ॥ २९ ॥
३०
२३० आयुर्वेदौयग्रन्थमाला । [परिशिष्टे
विंशतिं श्लैष्मिकांश्चैव संसृष्टान् सन्निपातिकान् ।
निजानृतुभवांश्चैव ये चान्ये नात्र कीर्तिताः ।
तान् तान् प्रशमयत्येषा वृक्षमन्द्राशनिर्यथा ॥ ३० ॥
मेधां स्मृतिं कान्तिमनामयत्व-
मायूःप्रकर्षं पवनानुलोम्यम् ।
स्त्रीषु प्रहर्षं बलमिन्द्रियाणा-
मग्नेश्च कुर्याद्विधिनोपयुक्ता ॥ ३१ ॥
अतीसारे विशल्या गुटिका ।
फलत्रयं त्र्यूषणजीरकं च
कुबेरसंज्ञं पलमात्रमेतत् ।
पलद्वयं नूतनधूर्तपत्न्याः
कर्षैककं चैव विषस्य योज्यम् ॥ ३२ ॥
पलार्धमात्रं करभस्य चूर्ण
ततः समेनैव गुडेन योज्यम् ।
गुटी निबद्धा चणकप्रमाणा
नियोजनीया हि सदातिसारे ॥ ३३ ॥
चतुर्विधाजीर्णभयापहर्त्री
इयं विशल्या गुटिकेति नाम्ना ॥ ३४ ॥
त्रोटहरी गुटिका ।
शुण्ठीसक्तुपुनर्नवात्रिफलिकासैरेयशेफालिका-
मुस्तावासकनिम्बपत्रकटुकाबोलाश्वगन्धावचाः ।
व्योषच्छिन्नरुहाविडङ्गसहिताः सर्वाः समांशा बुधै-
विंशांशा च महौषधी परिमिता, खण्डस्य विंशांशकाः॥३५॥
तत्तुल्येन च गोघृतेन मधुना सर्वं च संमर्दितं
बद्धा तेन शिवाप्रमाणगुटिका श्लेष्माणमुग्रं जयेत् ।
गुटिकाधिकारः ४.] गदनिग्रहः । २३१
क्षीणस्यानिलजानि हन्ति सहसा सर्वप्रमेहांस्तथा
नाम्ना त्रोटहरी गुटी च विजया लोके च या विश्रुता ॥३६॥
कासे चन्द्रप्रिया गुटिका ।
चन्द्रप्रिया लोमशगन्धवत्यौ कटुत्रिकं तिक्तकरोहिणी च ।
भूनिम्बभार्ग्यौ गिरिमल्लिका च समानभागं खलु सर्वद्रव्यम् ।
वासारसेनाथ गुटी विधेया सुदुस्तरं चाशु निहन्ति कासम् ॥३७
मुखरोगे खदिरगुटी ।
जातीफलैलादलकुङ्कुमानि
लवङ्गकङ्कोलकपष्कराणि ।
वराङ्गकर्पूरयुतान्यमूनि
समानि भागानि निशाकरस्य ॥ ३८ ॥
भागद्वयं स्यान्मृगनाभिजायाः
सपूतिकायः खलु तुर्यभागः ।
षष्टिर्विभागाः खदिरस्य सारात्
भागत्रयं तत्र वरस्य दद्यात् ॥ ३९ ॥
एकीकृतं घृष्टसुचन्दनेन
सुकामिनीहस्ततलैः प्रमर्द्य ।
सुवासितं पुष्पचयैः सुगन्धै-
र्वटी कृता स्यान्मुखरोगहन्त्री ॥ ४० ॥
स्त्रीणां प्रमोदं विपुलं ददाति
मुखं सुगन्धं विशदं करोति ।
युवातिरेतः सुभगो जनानां
घ्राणप्रियः स्याद्वतिकामिनीनाम् ॥ ४१ ॥
कण्ठं विपञ्चीनिनदेन तुल्यं
करोत्यसौ खादिरसंज्ञका वटी ॥ ४२ ॥
२३२ आयुर्वेदीयग्रन्थमाला । [परिशिष्टे
मुखरोगे द्वितीया खदिरगुटिका ।
पद्माह्ववक्रागुरुकुङ्कुमैश्च
तुल्यांशकैः श्लक्ष्णशिलाविपिष्टैः ।
सर्वैः समः स्यात्खदिरस्य सारः
सारङ्गदर्पस्फटिकाधिवासिताः ॥ ४३ ॥
वल्लप्रमाणा गुटिका विधेया-
स्ताः सेविता घ्नन्ति कफप्रमेहम् ।
हिकाग्निसादारुचिपीनसांश्च
रोगानशेषान् खलु चास्य जातान् ॥ ४४ ॥
सूताभ्रहेमसहितां पूर्वोक्तां भक्षयेत्प्रातः ।
नाम्ना खादिरवटिका कथितेयं सिंहगुप्तेन ॥ ४५ ॥
वातरोगे त्वगाद्या गुटिका ।
त्वगेला गन्धकश्चैव गुग्गुलुः समभागतः ।
कुर्याद्वातारितैलेन गुटिका वातरोगिणाम् ॥ ४६ ॥
रसायनार्थे विजयागुटिका ।
पलत्रयं हरीतक्याश्चित्रकस्य तथैव तु ।
एलात्वक्पत्रमुस्तानां भागोऽर्धपलिकः स्मृतः ॥ ४७ ॥
व्योषं पिप्पलिमूलं च विषं च पलमात्रकम् ।
नागकेसरचूर्णं तु कर्षं दद्याद्विचक्षणः ॥ ४८ ॥
रेणुकार्धपलं चात्र रसस्य कर्षमेव च ।
एतत्संभृत्य संभारं सूक्ष्मचूर्णं तु कारयेत् ॥ ४९ ॥
गुडस्यार्धतुलां दत्त्वादर्व्या सम्यग्विघट्टयेत् ।
ततस्तु गुटिकाः कृत्वा तस्मात्षष्टिशतत्रयम् ॥ ५० ॥
एकैकां भक्षयेत्प्रातः कृताहारो यथाबलम् ।
मासेन पलितं हन्ति करोत्यग्निं द्वितीयके ॥ ५१ ॥
गुटिकाधिकारः ४.] गदनिग्रहः । २३३
शुक्रवृद्धिं तृतीये तु बलवर्णप्रसादनम् ।
हन्त्यष्टादश कुष्ठानि सप्त चैव महाक्षयान् ॥ ५२ ॥
प्लीहानं श्वासकासौ च अन्त्रवृद्धिमरोचकम् ।
अशीतिं वातजान्रोगान्मूत्रकृच्छ्रं भगन्दरम् ॥ ५३ ॥
प्रमेहान्विंशतिं चैव तथाऽर्शांसि गलग्रहम् ।
सर्पलूताविषं हन्ति सर्वं स्थावरजङ्गमम् ॥ ५४ ॥
योनिदोषमपस्मारमुन्मादं विषमज्वरम् ।
बलेन गजतुल्योऽसौ वेगेन तुरगोपमः ॥ ५५ ॥
मायूरस्तु भवेद्गिर्वावाराहश्रोत्र एव च ।
चटकः स्त्रीविलासेन गृध्रदृष्टिश्च जायते ॥ ५६ ॥
उपयोगात्परं जीवेन्नरो वर्षशतत्रयम् ।
न चान्ने परिहारोऽस्ति न चाध्वनि न मैथुने ॥ ५७ ॥
ग्राम्यधर्मं च कुर्वाणो भोजनं च यथेच्छया ।
विजया नाम गुटिका विख्याता रुद्रभाषिता ।
भक्षयन्ति नरा ये तु तेषां सिद्धिर्न संशयः ॥ ५८ ॥
वातरोगे योगोत्तमा गुटिका ।
त्र्यूषणं त्रिफला क्षारौ लवणान्यथ चित्रकम् ।
तालीसं चविकं शृङ्गी निशे द्वे गजपिप्पली ॥ ५९ ॥
एला त्वचं विडङ्गानि पौष्करं नागकेसरम् ।
ताप्यकं दीप्यको मुस्ता समभागानि कारयेत् ॥ ६० ॥
यावन्त्येतानि द्रव्याणि तावन्मात्रमयोरजः ।
तावच्छिलाजतुर्देयः सर्वैस्तुल्यस्तु गुग्गुलुः ॥ ६१ ॥
संक्षुद्य गुटिकां कुर्यादक्षमात्रप्रमाणतः ।
खादेच्चा मधुना युक्त्या तोयक्षीररसाशनः ॥ ६२ ॥
नियन्त्रितं सदा भोज्यं सर्वर्तुषु निरत्ययम् ।
अशीतिं वातजान्रोगांश्चत्वारिंशच्च पैत्तिकान् ॥
२३४ आयुर्वेदियग्रन्थमाला । [परिशिष्टे
विंशतिं श्लैष्मिकांश्चैव प्रमेहांश्चैव विंशतिम् ।
उदराणि तथा चाष्टौ श्वयथुं पवनात्मकम् ॥ ६४ ॥
विंशतिं मूत्रकृच्छ्राणि दुष्टनाडीव्रणानि च ।
हन्त्यष्टादश कुष्ठानि सप्त चैव महाक्षयान् ॥ ६५ ॥
कासं श्वासं तथा हिक्कां हृच्छूलं छर्द्यरोचकम् ।
गुल्मांश्च पाण्डुरोगं च जयेत्पञ्च प्रकारजम् ॥ ६६ ॥
चत्वारो ग्रहणीदोषाः षडर्शांसि तथैव च ।
सर्वांस्तान्नाशयत्याशु तमः सूर्योदयो यथा ॥ ६७ ॥
तथाऽर्बुदं गण्डमालां विद्रधिं सभगन्दरम् ।
हरते सर्वरोगांश्च वृक्षमिन्द्राशनिर्यथा ।
योगोत्तमेति विख्याता गुटिका वैद्यपूजिता ॥ ६८ ॥
प्रमेहे कर्पूरादिगुटिका ।
कर्पूरशृङ्गीमनुमत्तबीजं जातीफलं लोहमृताभ्रकं च ।
रसोऽथ गन्धं त्रपु नागशुल्बे एला विषं धान्यकटुत्रिकं च ॥६९॥
तालीसपत्रं त्वथ नागपुष्पं तमालपत्रं कपिकच्छुबीजम् ।
सत्त्वंगुडूच्याः क्षुरकस्य बीजं वटी विधेया सितया समेता ॥७०॥
वातप्रमेहं सकफं सपित्तं श्वासं च कासं बहुसन्निपातान्
बलं च हीनं खरमङ्कजाख्यं निहन्ति कामं खलु दीपयत्यपि ॥७१
गुल्मे गुडवटकाः ।
गुडविश्वौषधपथ्यामागधिकादाडिमैः कृता गुटिकाः ।
विनिहन्ति भक्ष्यमाणा गुल्मार्शोवह्निसादगदान् ॥ ७२ ॥
पाण्डुरोगे क्षारवटकाः ।
शृङ्गवेरविडङ्गानि पिप्पली मरिचानि च ।
नीलीपत्रं पृथकपर्णी हरिद्राद्वयमेव च ॥ ७३ ॥
मञ्जिष्ठा भद्रमुस्तं च शिग्रुबीजानि चित्रकम् ।
देवदारुं वचा दन्ती त्रिफला हस्तिपिप्पली ॥ ७४ ॥
गुटिकाधिकारः ४.] गदनिग्रहः । २३५
शालिपर्णी मधुरसा द्राक्षा कटुकरोहिणी ।
भल्लातकानीन्द्रयवा बृहत्यौ द्वे दुरालभा ॥ ७५ ॥
शतावरी विशल्या च पाठा भार्गी हरेणुका ।
एतानि समभागानि सर्वाण्येकत कारयेत् ॥ ७६ ॥
यावन्त्येतानि चूर्णानि द्विस्तावत्स्यादयोरजः ।
क्षारं च यावशूकानां ततो द्विगुणमावपेत् ॥ ७७ ॥
गोमूत्रयुक्तांस्तान्कुर्याद्वटकानक्षसंमितान् ।
खादेदेकं ततो द्वौ वा सुखं चानु पिबेज्जलम् ॥ ७८ ॥
अर्शांसि ग्रहणीदोषं पाण्डुरोगं भगन्दरम् ।
श्वयथुं श्वासकासौ च कृमिदोषांश्च नाशयेत् ॥ ७९ ॥
व्याधितस्य बलं ज्ञात्वा गवां मूत्रेण दापयेत् ।
पाण्डुरोगं निहन्त्याशु ब्रह्मदण्ड इवोद्धतम् ॥ ८० ॥
विश्रुताः क्षारवटकाः प्रयोज्याः सिद्धिमिच्छता ।
एष शङ्करणो योगो वैद्यानामर्थकृत्तथा ॥ ८१ ॥
कुष्ठे पथ्यावटकाः ।
पथ्यां सेन्द्रयवां सर्किंशुकफलां सार्की तथाऽऽवर्त्तकीं
व्याधिघ्नेन तु योजितां हुतभुजा सारुष्करां बाकुचीम् ।
तद्वच्च क्रिमिशत्रुणाप्युपगतामेकैकवृद्धानिमान्
गोमूत्रेण विमृद्य तुल्यतुवरान्कुष्ठी वटान्भक्षयेत् ॥ ८२ ॥
निहन्ति हतनासिकाकरजकर्णपादाङ्गुलि-
क्षरद्रुधिरपूतिपूयपरिजग्धजन्तुव्रणान् ।
प्रभिन्नचिरलक्षितखरमशेषकुष्ठं मह-
न्निहन्ति कुरुतेऽरुणावर्कवपुषं नरं योगतः ॥ ८३ ॥
ज्वरे फलत्रिकाद्यो मोदकः ।
फलत्रिकगुडव्योषशर्करात्रिवृतादिकम् ।
मोदकं भक्षयित्वाऽनुपिबेत्कोष्णं जलं पुनः ।
पार्श्वशूलेऽरुचौ कासे ज्वरे चानिलसंभवे ॥ ८४ ॥
२३६ आयुर्वेदीयग्रन्थमाला । [ परिशिष्टे
रसायने त्रिफलाद्या वटकाः ।
त्रैफलस्य तु चूर्णस्य पलानि दश संहरेत् ।
सप्त चैव विडङ्गानां लोहचूर्णं पलत्रयम् ॥ ८५ ॥
शतं भल्लातकानां च पलानि दश बाकुची ।
शिलाजतु पले द्वे च गुग्गुलोस्तु पलद्वयम् ॥ ८६ ॥
पलं पुष्करमूलस्य पलार्धं फलमेव च ।
ग्रन्थिकाग्नि समरिचं पिप्पल्यो विश्वभेषजम् ॥ ८७ ॥
त्वक्पत्रं कुङ्कुमं मुस्ता नागकेसरमेव च ।
यष्टीमधुकरोध्रं च कार्षिकान्युपकल्पयेत् ॥ ८८ ॥
यावन्त्येतानि सर्वाणि तावत्खण्डं प्रदापयेत् ।
पलिकान्वटकान्कुर्यात्सर्वव्याधिविनाशनन् ॥ ८९ ॥
एकैकं भक्षयेत्प्रातर्यथेष्टं चात्र भोजनम् ।
प्लीहमर्शास्यतीसारं वातगुल्मं भगन्दरम् ॥ ९० ॥
कुष्ठानि चैव सर्वाणि सप्तरात्रान्न्यपोहति ।
एतत्सर्वं प्रयुञ्जानो जीवेद्वर्षशतत्रयम् ॥ ९१ ॥
अरुचौ लाजाद्यो मोदकः ।
द्वादशाष्टचतुस्त्रिंशत्येकार्धार्धसमायुतैः ।
लाजैस्तुगातिन्तिडीककोलव्योषत्रिजातकैः ।
सचन्द्रा मोदका रुच्याः क्रमाद्विगुणशर्कराः ॥ ९२ ॥
त्रिफलाया गुटिका ।
त्रिफलाबदराणां स्याद्व्योषस्य च पलद्वयम् ।
कर्पूरकर्षो लाजानां पलद्वादशकं भवेत् ॥ ९३ ॥
'एलात्वक्पत्रकानां तु पलं स्याद्वंशरोचना ।
पलाष्टिका, वेतसश्च चतुष्पल उदाहृतः ॥ ९४ ॥
चूर्णाद्द्विगुणखण्डं स्याद्गुद्या वमिहरा परम् ।
यक्ष्माणं रक्तपित्तं च ज्वरं कासं च नाशयेत् ॥ ९५ ॥
गुटिकाधिकारः ४.] गदनिग्रहः । २३७
अर्शसि चित्रकगुटिकाः ।
चित्रकस्य पलं दत्त्वा पलं चार्धं त्रिवृत्तथा ।
कणाकर्षो गुडस्याष्टौ पलानि समुपाहरेत् ॥ ९६ ॥
विंशतिश्च हरीतक्यो गुटिका दश कारयेत् ।
दशमे दशमे चाह्नि त्वेकैकां भक्षयेत् सुधीः ।
मण्डलानि च कण्डूंश्च अर्शांसि ग्रहणीं जयेत् ॥ ९७ ॥
प्रमेहे वामदेवेन कथिता गुटिका ।
कटुत्रिकं वचा मुस्ता विडङ्गं चित्रकं विषम् ।
एतानि समभागानि पथ्या च द्विगुणा विषात् ॥ ९८ ॥
पञ्चत्रिंशद्गुडाद्भागाः क्वाथयेन्मृदुनाग्निना ।
बदरसमाश्च गुटिका कार्या, एषा गुटिका प्रमेहं, आमवातं,
गुल्मं, मन्दाग्निं, हन्ति; विशेषतश्च लालामेहम् ॥
गुग्गुलुगुटिका ।
गुग्गुलु कुडवादद्धं ककुभत्वगयोरजोविडङ्गानि ।
भल्लातकगोक्षुरकौ त्रिवृता त्रिफला द्वितीयार्धम् ॥ ९९ ॥
भुक्त्वैनां गुटिकां यथेष्टचरितः षण्मासयोगात्पुमान्
सव्याधीन्सभगन्दरान्सपिटिकानर्शांसि दुष्टव्रणान् ।
खालित्यं पलितं जरामपि तनोर्जित्वा प्रदीप्तानलः
सौभाग्याप्तसुखो निरामयतनुर्जीवेत्समानां शतम् ॥ १०० ॥
शोफे लघुत्रिफलागुग्गुलुगुटिका ।
गुग्गुलुस्त्रिफला कृष्णा पञ्चनेत्रत्रिभागिकाः ।
गुटिकाः शोषगुल्मार्शो भगन्दरवतां हिताः ॥ १०१ ॥
वातव्याधौ पृथुत्रिफलाद्या गुग्गुलुगुटिका ।
त्रिफला हपुषा मुस्तं चविका चित्रकः शठी ।
यवानीग्रन्थिकव्योषसौवर्चलदुरालभाः ॥ १०२ ॥
अजमोदा विडङ्गं च दाडिमं साम्लवेतसम् ।
बाष्पिका पौष्करं दारु त्वगेलापत्रकेसरम् ॥ १०३ ॥
२३८ आयुर्वेदियग्रन्थमाला । [परिशिष्टे
एषामर्धपलैर्भागैः पलानि दश गुग्गुलोः ।
संमिश्र्य सर्पिषा सार्धं गुटिकां कारयेद्बुधः ॥ १०४ ॥
भक्षयित्वा ससर्पिष्कां जीर्णे च प्रमिताशनम् ।
वातश्लेष्मविकारेषु नाडीदुष्टव्रणेषु च ॥ १०५ ॥
श्लेष्मकासे च शोफे च योगमेनं प्रयोजयेत् ।
जठरे योनिशूलेषु त्वन्तर्भूतं च विद्रधिम् ॥ १०६ ॥
पार्श्वशूलं कृमीन् गुल्मान्प्रमेहान् छर्द्यरोचकौ ।
केवलानिलजात्रोगानशीतिं श्लैष्मिकानपि ।
विंशतिं नाशयत्याशु रसायनमनुत्तमम् ॥ १०७ ॥
गुल्मे त्रिवृताद्या गुटिका ।
त्रिवृत्पलं हिङ्गुकर्षस्त्रिक्षारस्य पलत्रयम् ।
यवान्यजाजीमरिचं धान्यकं शितिवारकम् ॥ १०८ ॥
उपकुञ्चीविडङ्गाजमोदाश्चार्धपलोन्मिताः ।
पृथक्पलद्वयं दद्यादम्लवेतसजं रजः ॥ १०९ ॥
मातुलुङ्गरसैनेषां गुटिकां कारयेद्भिषक् ।
सुखाम्बुनाम्लैर्मन्थैर्वा पिबेत्क्षीरेण सर्पिषा ॥ ११० ॥
काङ्कायनोक्तगुटिका वातगुल्मविनाशिनी ।
गोमूत्रयुक्ता कफजं पयसा पित्तसंभवम् ॥ १११ ॥
त्रिफलारसमूत्रैस्तु निहन्यात्सान्निपातिकम् ।
रक्तगुल्मे तु नारीणामुष्ट्रीदुग्धेन वा पिबेत् ॥ ११२ ॥
कृष्णाद्या गुटिका ।
कृष्णाशताह्वाशुण्ठीनां साभयानां पलं पलम् ।
गुडस्य षट्पलान्येषा गुटिका भ्रमनाशिनी ॥ ११३ ॥
इति श्रीवैद्यसोढलग्रथिते गदनिग्रहे परिशिष्टे गुटिकाधिकारश्चतुर्थः समाप्तः ।