बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
( १५ )
विषयाः पृष्ठाङ्काः | विषयाः पृष्ठाङ्काः
पूर्वस्यां द्वितीय तृतीयभागस्थ- | हारीतभारद्वाज्यो रुतलक्षणं
दीप्तशाकुनफलम् ४१९ | तत्फलञ्च ४२९
पूर्वस्यां चतुर्थभागस्थदीप्त- | करायिकरुतलक्षणं तत्फलञ्च ४२९
शाकुनफलम् ४२० | दिव्यकचेष्टा तत्फलञ्च ४२९
आग्नेय्यां तृतीयचतुर्थभागस्थ- | सर्पचेष्टितं तत्फलञ्च ४३०
दीप्तशाकुनफलम् ४२० | खञ्जनकचेष्टितं तत्फलञ्च ४३०
आग्नेय्यात्पञ्चमषष्ठभागस्थ- | तित्तिरशशकयोश्चेष्टितं तत्फलञ्च ४३०
दीप्तशाकुनफलम् ४२० | कपिकुलालकुक्कुटयो रुतं फलञ्च ४३१
आग्नेय्यात्सप्तमाष्टमस्थदीप्त- | चाषविरुतचेष्टितं फलञ्च ४३१
शाकुनफलम् ४२० | चाषकाकयुद्धफलम् ४३१
नैर्ऋत्यकोणस्थदीप्तशाकुनफलम् ४२१ | चाषस्यान्यरुतम् ४३२
पश्चिमायां द्वितीयतृतीयचतुर्थपञ्चम- | अण्डरीकफेण्टकयोश्चेष्टितम् ४३२
भागस्थदीप्तशाकुनफलम् ४२१ | श्रीकर्णरुतम् ४३२
पश्चिमायां षष्ठादिभागस्थदीप्त- | दुर्बलिविरुतम् ४३३
शाकुनफलम् ४२१ | सारिकारुतम् ४३३
वायव्यात्तृतीयचतुर्थभागस्थ- | फेण्टकरुतम् ४३४
दीप्तशाकुनफलम् ४२२ | गर्दभरुतम् ४३४
उत्तरस्थदीप्तशाकुनफलम् ४२२ | कुरङ्ग-मृगपृषतरुतम् ४३४
ऐशानस्थदीप्तशाकुनफलम् ४२२ | कुक्कुटरुतम् ४३४
ऐशान्याद् द्वितीयतृतीयभागस्थ- | छिप्पिकाविडालविरुतं गोक्षुरञ्च ४३५
दीप्तशाकुनफलम् ४२३ | उलूकविरुतम् ४३५
दिक्चक्रान्तस्थदीप्तशाकुनफलम् ४२३ | सारसविरुतम् ४३६
आग्नेय्यादिदिक्स्थदीप्त- | पिङ्गलारुतम् ४३६
शाकुनफलम् ४२३ | कार्यसिद्धिविधिः ४३६
| कार्यसिद्धिमन्त्रः ४३७
८८. विरुताध्यायः | पिङ्गलाचेष्टितम् ४३८
दिनचरजन्तूनां नामानि ४२५ |
निशाचरजन्तूनां नामानि ४२५ | ८९. श्वचक्राध्यायः
उभयचरजन्तूनां नामानि ४२५ | श्वचेष्टितम् ४४०
व्यवहारार्थन्तेषां संज्ञा ४२६ | दिग्विभागेन शुनो क्रन्दनफलम् ४४२
वञ्जुलश्येनशुकगृध्ररुतलक्षणम् ४२८ | अन्यत् श्वचेष्टितम् ४४४
कपोतचेष्टा तत्फलञ्च ४२८ | ९०. शिवारुताध्यायः
श्यामारुतलक्षणं तत्फलञ्च ४२८ | श्ववच्छिवारुतफलादेशः ४५०
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
( १६ )
विषया: पृष्ठाङ्काः
लोमाशिकायाश्चेष्टितम् ४५०
शिवाचेष्टितम् ४५०
दिगीशाः ४५१
शिवाया अशुभफलम् ४५१
शब्दविशेषेण शिवायाः फलम् ४५१
शिवाफले मतान्तराणि ४५२
शिवाप्रतिशब्दफलम् ४५२
शब्दवशेन शिवायाः फलम् ४५२
अशुभशिवालक्षणम् ४५३
शुभशिवालक्षणम् ४५३
शिवायाः शुभशब्दाः ४५४
९१. मृगचेष्टिताध्यायः
मृगचेष्टाप्रदर्शनम् ४५६
वनवासिजन्तूनां फलानि ४५६
९२. गवेङ्गिताध्यायः
गोचेष्टितम् ४५८
गोचेष्टाफलम् ४५८
९३. अश्वेङ्गिताध्यायः
अश्वचेष्टितम् ४६०
अश्वानां प्रदीप्तलिङ्गादेः फलम् ४६०
अश्वानां प्रदीप्तांसादेः फलम् ४६१
अश्वानां प्रदीप्तनासारन्ध्रादेः फलम् ४६१
अश्वस्याशुभचेष्टितम् ४६२
अश्वहेषितलक्षणं फलञ्च ४६३
अश्वस्यान्यशुभचेष्टितम् ४६३
अश्वस्याशुभचेष्टितम् ४६४
अश्वस्य शुभनिमित्तानि ४६४
अश्वस्याशुभनिमित्तानि ४६५
अध्यायोपसंहारः ४६६
९४. हस्तिचेष्टिताध्यायः
गजदन्तकल्पनविधानम् ४६७
विषयाः पृष्ठाङ्काः
कल्पितगजदन्तलक्षणफलञ्च ४६७
गजदन्ते शुभच्छेदलक्षणम् ४६९
करिणामन्यच्छुभाशुभफलम् ४६९
भग्नगजदन्तफलम् ४७०
दन्तभङ्गस्य विशेषफलम् ४७१
गजेङ्गितम् ४७१
गजस्य शुभचेष्टितम् ४७१
गजस्यान्यचेष्टितम् ४७२
९५. वायसविरुताध्यायः
वायसविरुते विभागप्रदर्शनम् ४७३
वायसचेष्टितं फलञ्च ४७३
वायसनीडवशेन वृष्टिज्ञानम् ४७३
वायसान्यचेष्टितम् ४७४
काकानां वैशिष्ट्यम् ४७५
दीप्तदिग्वशेन काकशब्दफलम् ४७९
शान्तपूर्वदिग्वशेन काकशब्दफलम् ४७९
शान्ताग्नेयदक्षिणदिग्वशेन
काकशब्दफलम् ४८०
शान्तनैर्ऋत्यपश्चिमदिग्वशेन
काकशब्दफलम् ४८०
शान्तवायव्योत्तरदिग्वशेन
काकशब्दफलम् ४८०
शान्तेशानदिग्वशेन काकरुतफलम् ४८१
कर्णसमकाकफलम् ४८१
दक्षिणवामभागवशकाकरुतफलम् ४८१
वामदक्षिणभागस्थकाकफलम् ४८२
काकद्वारा प्रधानपुरुषवधसूचनम् ४८३
धान्यसहितभूलाभः कष्टकरयोगश्च ४८३
स्निग्धपत्रादावुपरिस्थितकाकफलम् ४८४
निष्पत्रसस्यस्थकाकशब्दफलम् ४८४
गोपुच्छस्थकाकशब्दफलम् ४८४
तृणराशिस्थकाकशब्दफलम् ४८४
CC-0. JK Sanskrit Academy, Jammmmu. Digitized by S3 Foundation USA
( १७ )
विषयाः पृष्ठाङ्काः विषयाः पृष्ठाङ्काः
सकण्टकवृक्षस्थकाकफलम् ४८५ राश्यादिक्रमेण नामाक्षराणि ५०८
छिन्नाग्रवृक्षस्थकाकफलम् ४८५ द्विस्वभावराशिक्रमेण नामाक्षरवर्णाः ५१५
मृतपुरुषाङ्गस्थकाकशब्दफलम् ४८५ नामाक्षरे विभागप्रदर्शनम् ५१८
चेष्टावशेन काकस्यान्यफलानि ४८६ नामानयने प्रकारान्तरकथनम् ५१८
काकरुतलक्षणं फलञ्च ४८९ नामानयने व्याप्तिप्रदर्शनम् ५२०
अन्यप्राणिनां चेष्टितम् ४९२ अक्षरकोषवशेनोगतस्य प्रश्नकर्तुश्च
पिपीलिकाचेष्टितम् ४९२ नामानयनम् ५२१
शकुननिश्चयः ४९२ नामवर्णानयनम् ५२१
शकुनप्रशंसा ४९३ आगतनाम्नां वयोज्ञानम् ५२२
अशुभशकुने कर्तव्यम् ४९३ ९७. पाकाध्यायः
९६. शाकुनोत्तराध्यायः ग्रहचारोक्तफलपाककालज्ञानम् ५२४
फलकथननियमाः ४९५ शीतोष्णविपर्ययादेर्फलपाक-
एकदेशस्थपुरुषे भेदप्रदर्शनम् ४९५ कालज्ञानम् ५२५
स्थिरचराणां ज्ञानम् ४९६ अक्रियमाणककरणे फलपाक-
स्थिरचरयोर्लक्षणम् ४९६ कालज्ञानम् ५२५
वर्षज्ञानम् ४९७ स्तम्भादिसम्भाषणफलपाक-
आग्नेयभयदोषज्ञानम् ४९७ कालज्ञानम् ५२५
कलहज्ञानम् ४९७ कीटादिशब्दफलपाककालज्ञानम् ५२६
स्त्रीसमागमयोगः ४९८ वने कुक्कुरप्रसवादिफलपाक-
पुंनपुंसकयोः समागमयोगः ४९८ कालज्ञानम् ५२६
प्रधानपुरुषागमने हेतुः ४९९ शृगालादिफलपाककालज्ञानम् ५२६
प्रकारान्तरेण कर्मणां विधानम् ४९९ अहुताशप्रज्ज्वलनफल-
आगतस्याकृतिज्ञानम् ४९९ पाककालज्ञानम् ५२७
केन्द्रवशेन विभागीकृतनामकथनम् ५०१ छत्रादिविकारे फलपाककालज्ञानम् ५२७
क्रमज्ञानम् ५०१ अतिविरुद्धानां स्नेहे शब्दे च
ग्रहाणां वर्गाः ५०१ फलपाककालज्ञानम् ५२७
राशि-द्रेष्काणवशेन नामाक्षर- गन्धर्वनगरफलपाककालज्ञानम् ५२७
सङ्ख्याज्ञानम् ५०२ अश्विन्यादिनक्षत्रफलपाककालज्ञानम् ५२८
नवांशकवशेन नामाक्षरसङ्ख्याज्ञानम् ५०२ मघादिनक्षत्रफलपाककालज्ञानम् ५२८
संयुक्ताक्षरज्ञानम् ५०३ श्रवणादिनक्षत्रफलपाककालज्ञानम् ५२८
नामाक्षरेऽनिश्चयीकरणम् ५०७ दृष्टेऽप्यद्भुते शान्तिविरहिते सति
अंशकक्रमेण राशीनामक्षराणि ५०८ फलपाककालज्ञानम् ५२९
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
( १८ )
विषयाः पृष्ठाङ्काः | विषयाः पृष्ठाङ्काः
९८. नक्षत्रकर्मगुणाध्यायः | संक्षिप्तविवाहपटलम् ५५१
अश्विन्यादिनक्षत्राणां तारका- | १०१. नक्षत्रजातकाध्यायः
प्रमाणज्ञानम् ५३० | अश्विनीभरण्योर्जातस्य स्वरूपम् ५५५
नक्षत्रदेवताः ५३१ | कृत्तिकारोहिण्योर्जातस्य स्वरूपम् ५५५
ध्रुवसंज्ञकनक्षत्राणि तत्र | मृगशिराऽऽर्द्रेयोर्जातस्य स्वरूपम् ५५६
विहितकर्माणि च ५३१ | पुनर्वसुजातस्य स्वरूपम् ५५६
तीक्ष्णसंज्ञकनक्षत्राणि तत्र | तिष्याऽऽश्लेषयोर्जातस्य स्वरूपम् ५५७
विहितकर्माणि च ५३२ | मघापूर्वफल्गुन्योर्जातस्य स्वरूपम् ५५७
उग्रसंज्ञकनक्षत्राणि तत्र | उत्तरफल्गुनीहस्तयोर्जातस्वरूपम् ५५८
विहितकर्माणि च ५३२ | चित्रास्वात्योर्जातस्य स्वरूपम् ५५८
लघुसंज्ञकनक्षत्राणि तत्र | विशाखानुराधयोर्जातस्य स्वरूपम् ५५९
विहितकर्माणि च ५३३ | ज्येष्ठामूलयोर्जातस्य स्वरूपम् ५५९
मृदुसंज्ञकनक्षत्राणि तत्र | पूर्वाषाढोत्तराषाढयोर्जातस्वरूपम् ५६०
विहितकर्माणि च ५३३ | श्रवणधनिष्ठयोर्जातस्य स्वरूपम् ५६०
मृदुतीक्ष्णचरसंज्ञकनक्षत्राणि तत्र | शतभिषकपूर्वभद्रपदयोर्जातस्वरूपम् ५६१
विहितकर्माणि च ५३४ | उत्तरभद्रपदारेवत्योर्जातस्वरूपम् ५६१
क्षौरनक्षत्राणि ५३५ | १०२. राशिभागाध्यायः
क्षौरनिषेधकालः ५३६ | मेषवृषयोर्नक्षत्रप्रविभागकथनम् ५६४
सर्वनक्षत्रेषु क्षुरकर्मकथनम् ५३७ | मिथुनकर्कटयोर्नक्षत्रप्रविभागकथनम् ५६४
पुरुषसंज्ञककार्ये नक्षत्राणि ५३८ | सिंहकन्ययोर्नक्षत्रप्रविभागकथनम् ५६५
संस्कारनक्षत्राणि ५३८ | तुलावृश्चिकयोर्नक्षत्रप्रविभागकथनम् ५६५
सर्वकर्मणां लग्नशुद्धिकथनम् ५३८ | धन्विमकरयोर्नक्षत्रप्रविभागकथनम् ५६५
९९. तिथिकर्मगुणाध्यायः | कुम्भमीनयोर्नक्षत्रप्रविभागकथनम् ५६५
तिथिस्वामिनः तत्र क्रियमाणानि | १०३. विवाहपटलाध्यायः
कार्याणि च ५४० | लग्नस्थितसर्वग्रहाणां फलानि ५६७
१००. करणगुणाध्यायः | द्वितीयभावस्थसर्वग्रहाणां फलानि ५६७
सप्तचलकरणनामान्यधिपतींश्च ५४७ | तृतीयभावस्थसर्वग्रहाणां फलानि ५६७
चतुःस्थितकरणनामान्यधिपतींश्च ५४७ | चतुर्थभावस्थसर्वग्रहाणां फलानि ५६८
चलकरणे कर्तव्यानि ५४८ | पञ्चमभावस्थसर्वग्रहाणां फलानि ५६८
स्थिरकरणे कर्तव्यानि ५४८ | षष्ठभावस्थसर्वग्रहाणां फलानि ५६९
कर्णवेधनक्षत्राणि ५५० | सप्तमभावस्थसर्वग्रहाणां फलानि ५६९
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
( १९ )
विषयाः पृष्ठाङ्काः विषयाः पृष्ठाङ्काः
अष्टमभावस्थसर्वग्रहाणां फलानि ५७० सप्तमाष्टमनवमस्थभौमफल
नवमभावस्थसर्वग्रहाणां फलानि ५७० विलम्बितलक्षणञ्च ५८६
दशमभावस्थसर्वग्रहाणां फलानि ५७० दशमैकादशस्थभौमफलं
एकाशभावस्थसर्वग्रहाणां फलानि ५७१ पुष्पिताग्रालक्षणञ्च ५८६
द्वादशभावस्थसर्वग्रहाणां फलानि ५७१ द्वादशस्थभौमफलमिन्द्र-
गोधूलिप्रशंसा ५७२ वंशालक्षणञ्च ५८७
१०४. ग्रहगोचराध्यायः जन्मराशिस्थबुधफलं
वर्णच्छन्दे गुरुलघुप्रदर्शनम् ५७३ स्वागतालक्षणञ्च ५८८
गुरुलघुप्रयोजनप्रदर्शनम् ५७३ द्वितीयतृतीयस्थबुधफलं
गोचरकारणं मुखचपलालक्षणञ्च ५७४ द्रुतपदलक्षणञ्च ५८८
स्वनम्रताप्रदर्शनं जघनचपला- चतुर्थपञ्चमस्थबुधफलं
लक्षणञ्च ५७६ रुचिरालक्षणञ्च ५८९
सर्वग्रहगोचरफलं शार्दूलविक्री- षष्ठसप्तमाष्टमस्थबुधफलं
डितलक्षणञ्च ५७७ प्रहर्षिणीलक्षणञ्च ५८९
जन्मद्वितीयतृतीयचतुर्थस्थानेष्वर्क- नवमदशमस्थबुधफलं
गोचरफलं स्रग्धरालक्षणञ्च ५७७ दोधकलक्षणञ्च ५९०
पञ्चमषष्ठसप्तमाष्टमेष्वर्कगोचर- एकादशद्वादशस्थबुधफलं
फलं सुवदनालक्षणञ्च ५७८ मालिनीलक्षणञ्च ५९०
नवमदशमैकादशद्वादशेष्वर्क- जन्मराशिगतद्वितीयस्थगुरुफलं
गोचरफलं सुवृत्तलक्षणञ्च ५७९ भ्रमरविलसितलक्षणञ्च ५९२
जन्मद्वितीयतृतीयचतुर्थस्थचन्द्र- तृतीयचतुर्थस्थगुरुफलं
गोचरफलं शिखरिणीलक्षणञ्च ५८० मत्तमयूरलक्षणञ्च ५९२
पञ्चमषष्ठसप्तमाष्टमस्थचन्द्रगोचर- पञ्चमस्थगुरुफलं मणिगुण-
फलं मन्दाक्रान्तालक्षणञ्च ५८१ निकरलक्षणञ्च ५९३
नवमदशमैकादशद्वादशस्थचन्द्र- षष्ठस्थगुरुफलं हरिणी-
गोचरफलं वृषभचरितलक्षणञ्च ५८२ प्लुतालक्षणञ्च ५९३
जन्मद्वितीयगतभौमफलमुपेन्द्र- सप्तमस्थगुरुफलं ललित-
वज्रालक्षणञ्च ५८३ पदलक्षणञ्च ५९४
तृतीयस्थभौमफलमुपजातिलक्षणञ्च ५८३ अष्टमनवमस्थगुरुफलं
तुर्यस्थभौमफलं प्रसभलक्षणञ्च ५८४ शालिनीलक्षणञ्च ५९४
पञ्चमस्थभौमफलं मालतीलक्षणञ्च ५८४ दशमैकादशद्वादशस्थगुरुफलं
षष्ठस्थभौमफलमपरवक्त्रलक्षणञ्च ५८५ रथोद्धतालक्षणञ्च ५९५
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
( २० )
विषयाः | पृष्ठाङ्काः | विषयाः | पृष्ठाङ्काः
जन्मस्थशुक्रफलं विलासिनी- | | बुधफलप्रदानसमयः उपगीत्या- |
लक्षणञ्च | ५९६ | ऽऽर्यालक्षणञ्च | ६०७
द्वितीयस्थशुक्रफलं वसन्त- | | गुरुगोचरफलोपदेश आर्यालक्षणञ्च | ६०८
तिलकालक्षणञ्च | ५९६ | शुभाशुभग्रहयोरन्योन्यदर्शनात्तयोः |
तृतीयचतुर्थस्थशुक्रफलमिन्द्र- | | निष्फलत्वं नर्कुटकलक्षणञ्च | ६०९
वज्रालक्षणञ्च | ५९७ | विबलग्रहस्य शुभगोचरफले नैष्फल्यं |
पञ्चमस्थशुक्रफलमनवसिता- | | विलासलक्षणञ्च | ६१०
लक्षणञ्च | ५९८ | आर्यासमगाथाप्रदर्शनम् | ६१०
षष्ठसप्तमाष्टमस्थशुक्रफलं | | अस्तमितशनेरतिशयेनाशुभफलं |
लक्ष्मीलक्षणञ्च | ५९८ | पथ्यालक्षणञ्च | ६१२
नवमदशमस्थशुक्रफलं | | ग्रहयुक्तचन्द्रस्य विशेषफलं |
प्रमिताक्षरालक्षणञ्च | ५९९ | वक्त्रलक्षणञ्च | ६१३
एकादशद्वादशस्थशुक्रफलं | | दुःस्थितग्रहनरस्य लघुताप्रदर्शनं |
स्थिरलक्षणञ्च | ५९९ | श्लोकलक्षणञ्च | ६१३
जन्मस्थशनिफलं तोटकलक्षणञ्च | ६०० | सुस्थितग्रहपुरुषस्य सुस्थितत्व- |
द्वितीयस्थशनिफलं वंशपत्र- | | मनुष्टुब्लक्षणञ्च | ६१४
पतितलक्षणञ्च | ६०० | असुस्थिते ग्रहे क्रियमाणं कर्म |
तृतीयस्थशनिफलं ललितालक्षणञ्च | ६०१ | कर्तुः घातकः वैतालीयलक्षणञ्च | ६१४
चतुर्थस्थशनिफलं भुजङ्ग- | | सुस्थिते ग्रहे स्वल्पायासेन कार्य- |
प्रयातलक्षणञ्च | ६०२ | सिद्धिरौपच्छन्दसिकलक्षणञ्च | ६१५
पञ्चमषष्ठस्थशनिफलं पुटालक्षणञ्च | ६०२ | आदित्यवासरे विहितकर्माणि |
सप्तमाष्टमनवमस्थशनिफलं | | दण्डकपादलक्षणञ्च | ६१६
वैश्वदेवीलक्षणञ्च | ६०३ | चन्द्रवासरे विहितकर्माणि |
दशमैकादशद्वादशस्थशनिफल- | | दण्डकद्वितीयपादलक्षणञ्च | ६१७
मूर्म्मिमालालक्षणञ्च | ६०३ | भौमवासरे विहितकर्माणि दण्डक- |
मनुष्येषु गोचरफलभेदकारणं | | तृतीयपादलक्षणञ्च | ६१७
वितानलक्षणञ्च | ६०४ | सौम्यवासरे विहितकर्माणि दण्डक- |
अशुभस्थानस्थितग्रहपूजनं | | तुर्यपादलक्षणञ्च | ६१९
भुजङ्गविजृम्भितलक्षणञ्च | ६०५ | गुरुवासरे विहितकर्माणि वर्ण- |
ग्रहपूजाप्रशंसा उद्गतालक्षणञ्च | ६०६ | दण्डकलक्षणञ्च | ६२१
रविभौमचन्द्रशनिफलप्रदानसमयः | | शुक्रवासरे विहितकर्माणि समुद्र- |
गीत्युपगीतिलक्षणञ्च | ६०७ | दण्डकप्रथमाङ्घ्रिलक्षणञ्च | ६२३
( २१ )
विषयाः पृष्ठाङ्काः
सौरवासरे विहितकर्माणि समुद्र-
दण्डकापरार्द्धलक्षणञ्च ६२३
प्रशंसावचनं विपुलाऽऽर्यालक्षणञ्च ६२५
१०५. रूपसत्राध्यायः
नक्षत्रपुरुषस्याङ्गविभागं तत्र
नक्षत्रावस्थितिश्च ६२६
रूपसत्राख्यव्रतारम्भसमयः ६२७
रूपसत्रव्रतसमाप्तौ कर्तव्यम् ६२७
चरितव्रतपुरुषस्यान्यजन्मस्वरूपम् ६२८
चरितव्रतस्त्रियोऽन्यजन्मस्वरूपम् ६२८
रूपसत्राचरितस्य प्रशंसा ६२९
१०६. द्वादशमासनामाध्यायः
द्वादशमासानां नामानि ६३१
विषयाः पृष्ठाङ्काः
द्वादशीप्रशंसा ६३१
१०७. उपसंहाराध्यायः
शास्त्रमत्योर्माहात्म्यकथनम् ६३३
सज्जनानां दुर्जनानाञ्च चेष्टितम् ६३३
दुर्जनं प्रत्यभिनवकाव्यप्रदर्शनम् ६३४
विद्वांसं प्रति ग्रन्थकर्तृप्रार्थना ६३४
पूर्वाचार्याणां प्रति नमनम् ६३४
१०८. शास्त्रानुक्रमण्यध्यायः
अध्यायसंग्रहः ६३६
अध्यायसंग्रहविधिः ६३८
ग्रन्थेऽध्यायसङ्ख्या श्लोकसङ्ख्या च ६३८
ग्रन्थोपसंहारः ६३९
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वराहमिहिरकृता
बृहत्संहिता
( उत्तरार्द्धा )
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
॥ श्रीः ॥
वराहमिहिरकृता
बृहत्संहिता
‘भट्टोत्पलविवृति’समन्वित‘विमला’हिन्दीव्याख्यायुता
( उत्तरार्द्धा )
अथ वास्तुविद्याध्यायः
अथ वास्तुविद्या व्याख्यायते। तत्रादावेवागमप्रदर्शनार्थमाह—
वास्तुज्ञानमथातः कमलभवान्मुनिपरम्परायातम्।
क्रियतेऽधुना मयेदं विदग्धसांवत्सरप्रीत्यै ॥१॥
❁ विमला ❁
अब इसके बाद ब्रह्माजी के पास से मुनिपरम्परागत इस वास्तुज्ञान को चतुर दैवज्ञों
की प्रसन्नता के लिये मैं कहता हूँ॥१॥
❁ भट्टोत्पलविवृति ❁
अथानन्तरमतोऽस्मात् पिटकलक्षणादधुना इदानीं विदग्धसांवत्सराणां पण्डितदैवज्ञानां
प्रीत्यै प्रीत्यर्थं वास्तुज्ञानं मया क्रियते। अथवा विदग्धसांवत्सरप्रीत्या हेतुभूतया। कीदृशम्?
कमलभवाद् ब्रह्मणः सकाशाद् मुनीनां गर्गादीनां यत् पारम्पर्येण यातं प्राप्तमिति॥१॥
अथ वास्तुज्ञानस्योत्पत्तिप्रदर्शनार्थं श्लोकद्वयमाह—
किमपि किल भूतमभवद्रुन्धानं रोदसी शरीरेण।
तदमरगणेन सहसा विनिगृह्याधोमुखं न्यस्तम् ॥२॥
यत्र च येन गृहीतं विबुधेनाधिष्ठितः स तत्रैव।
तदमरमयं विधाता वास्तुनरं कल्पयामास ॥३॥
प्राचीन काल में अपने शरीर से पृथ्वी और आकाश को आच्छादित करने वाला
कोई अपरिचित व्यक्ति उत्पन्न हुआ। उसको सहसा देवताओं ने पकड़कर नीचे मुख
करके पृथ्वी पर स्थापित कर दिया। उस समय उस अपरिचित पुरुष के जिस अङ्ग को
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२ बृहत्संहिता
जिस देवता ने पकड़ रक्खा था, उन्होंने उस अङ्ग में ही अपना स्थान बना लिया। उस
देवमय अपरिचित व्यक्ति को ब्रह्मा जी ने 'वास्तुपुरुष' नाम से कल्पित किया।।२-३।।
किलेत्यागमसूचने। किमपि भूतमभवत् सत्त्वमासीत्। किमपीत्यनिर्दिष्टनामाऽपरिज्ञात-
स्वरूपम्। रोदसी द्यावापृथिव्यौ शरीरेण वपुषा रुन्धानं व्याप्यमानम्। तद्भूतममरगणेन
देवसमूहेन सहसा झटित्येव विनिगृह्य गृहीत्वा अधोमुखमवाग्वदनं न्यस्तं क्षिप्तम्।
यत्र च यस्मिन्नङ्गे स्थित्वा येन च विबुधेन देवेन गृहीतम्, स तत्रैवाधिष्ठितो व्यवस्थित
इत्यर्थः। तं भूतं विधाता प्रजापतिरमरमयं देवमयं वास्तुनरं वास्तुपुरुषं कल्पयामास कल्पित-
वानिति। तथा च बृहस्पतिः-
पुरा कृतयुगे ह्यासीद् महद्भूतं समुत्थितम्।
व्याप्यमानं शरीरेण सकलं भुवनं ततः।।
तद्दृष्ट्वा विस्मयं देवा गताः सेन्द्रा भयावृताः।
ततस्तैः क्रोधसन्तप्तैर्गृहीत्वा तमथासुरम्।।
विनिक्षिप्तमधोवक्त्रं स्थितास्तत्रैव ते सुराः।
तमेव वास्तुपुरुषं ब्रह्मा समभिकल्पयत्।। इति।।२-३।।
अथ नृपादिब्राह्मणान्तानां सर्वेषां पञ्च पञ्च गृहाणि प्रत्येकस्य वक्ष्यति। तत्रादावेव
नृपगृहाणां प्रमाणमाह-
उत्तममष्टाभ्यधिकं हस्तशतं नृपगृहं पृथुत्वेन।
अष्टाष्टोनान्येवं पञ्च सपादानि दैर्घ्येण ॥४॥
राजगृह में १०८ हाथ का विस्तार उत्तम होता है और चारगृह में आठ-आठ हाथ
कम करके विस्तार होना चाहिये तथा सपाद विस्तार दैर्घ्य होना चाहिये। जैसे उत्तम गृह
में १०८ हाथ विस्तार एवं १३७ हाथ दैर्घ्य, द्वितीय में १०० हाथ विस्तार एवं १२५
हाथ दैर्घ्य, तृतीय गृह में ९२ हाथ विस्तार एवं ११५ हाथ दैर्घ्य, चतुर्थ गृह में ८४ हाथ
विस्तार एवं ११५ हाथ दैर्घ्य और पाँचवें गृह में ७३ हाथ विस्तार एवं ९५ हाथ दैर्घ्य.
होना चाहिये।।४।।
राजवेश्मोत्तमं प्रधानमष्टाभ्यधिकमष्टोत्तरं हस्तशतं पृथुत्वेन विस्तारेण कार्यम्। अन्यानि
चत्वारि गृहाण्यष्टाष्टोनानि, अष्टभिरष्टभिर्हस्तैरूनानि कार्याणि। एतदुक्तं भवति-प्रथमं
नृपगृहमष्टाधिकं हस्तशतं विस्तीर्णम्, द्वितीयं शतम्, तृतीयं द्विनवतिः, चतुर्थं चतुरशीतिः,
पञ्चमं षट्सप्ततिरिति। प्रत्येकस्य गृहस्य यत् पृथुत्वमुक्तं तत् सपादं चतुर्भागेनाधिकं तस्य
दैर्घ्यं कार्यमित्यर्थः। यथा प्रथमगृहे पञ्चत्रिंशदधिकं शतम्, द्वितीयं पञ्चविंशत्यधिकम्, तृतीयं
पञ्चदशाधिकम्, चतुर्थं पञ्चोत्तरं शतम्, पञ्चमं पञ्चनवतिरितयेवं ज्ञेयमिति। तथा च काश्यपः-
अष्टोत्तरं हस्तशतं विस्तारात्नृपमन्दिरम्।
कार्यं प्रधानमन्यानि तथाष्टाष्टोनितानि तु।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वास्तुविद्याध्यायः ३
विस्तारं पादसंयुक्तं दैर्घ्यं तेषां प्रकल्पयेत्।
एवं पञ्च नृपः कुर्याद् गृहाणां च पृथक् पृथक्।। इति।
एवं पञ्च गृहाणि प्रत्येकस्याचार्येणाभिहितानि। अत ऊनाधिकता न शोभनेति।।४।।
अथेदानीं सेनापतिगृहाणां प्रमाणमाह—
षड्भिः षड्भिर्हीना सेनापतिसद्मनां चतुःषष्टिः ।
एवं पञ्च गृहाणि षड्भागसमन्विता दैर्घ्यम् ।।५।।
सेनापति के प्रथम गृह का विस्तार ६४ हाथ का बनाना चाहिये। शेष चार मकानों
में छः-छः हाथ कम करके विस्तार रखना चाहिये और विस्तार से षष्ठांश अधिक दैर्घ्य
बनाना चाहिये। जैसे कि प्रथम गृह का विस्तार ६४ एवं दैर्घ्य ७४ हाथ १६ अंगुल,
द्वितीय गृह का विस्तार ५८ हाथ एवं दैर्घ्य ६७ हाथ १६ अंगुल, तृतीय गृह का विस्तार
५२ हाथ एवं दैर्घ्य ६० हाथ १६ अंगुल, चौथे गृह का विस्तार ४६ हाथ एवं दैर्घ्य ५३
हाथ १६ अंगुल तथा पाँचवें गृह का विस्तार ४० हाथ एवं दैर्घ्य ४६ हाथ १६ अंगुल
होना चाहिये।।५।।
चतुःषष्टिर्हस्ताः षड्भिः षड्भिर्हीना पृथुत्वम्। तद्यथा—प्रथमगृहस्य चतुःषष्टिः,
द्वितीयस्याष्टपञ्चाशत्, तृतीयस्य द्वापञ्चाशत्, चतुर्थस्य षट्चत्वारिंशत्, पञ्चमस्य चत्वारिंश-
दिति। एवमनेन प्रकारेण पञ्च गृहाणि। विस्ताराः षड्भागसमन्विता दैर्घ्यमिति। प्रत्येकस्य
गृहस्य यो विस्तार उक्तः, स एव षड्भागाधिको दैर्घ्यं भवति। अत्रेयं परिभाषा—भाग-
हारेण भागमपहृत्य हस्ता लभ्यन्ते, शेषाच्चतुर्विंशतिगुणितादङ्गुलानि, तच्छेषात् षष्टि-
गुणाद्व्यङ्गुलानीति सर्वत्र।।५।।
अथ सचिवगृहाणां प्रमाणमाह—
षष्टिश्चतुश्चतुर्भिर्हीना वेश्मानि पञ्च सचिवस्य ।
स्वाष्टांशयुतो दैर्घ्यं तदर्धतो राजमहिषीणाम् ।।६।।
मन्त्री के गृह में पहले गृह का विस्तार ६० हाथ होता है। शेष चार मकानों को
चार-चार हाथ कम करके बनाना चाहिये। जैसे पहले घर का विस्तार ६० हाथ एवं
दैर्घ्य ६६ हाथ १२ अंगुल। दूसरे घर का विस्तार ५६ हाथ, दैर्घ्य ६३। तीसरे घर का
विस्तार ५२ हाथ एवं दैर्घ्य ५८ हाथ १२ अंगुल। चौथे घर का विस्तार ४८ हाथ एवं
दैर्घ्य ५४ हाथ और पाँचवें घर का विस्तार ४४ हाथ एवं दैर्घ्य ४९ हाथ १२ अंगुल
होना चाहिये। इसके आधे विस्तार-दैर्घ्य में राजमहिषी का गृह-निर्माण करना चाहिये;
जैसे—प्रथम गृह का विस्तार ३० हाथ एवं दैर्घ्य ३३ हाथ ६ अंगुल। द्वितीय गृह का
विस्तार २८ हाथ.एवं दैर्घ्य ३१ हाथ १२ अंगुल। तृतीय गृह का विस्तार २६ हाथ एवं
दैर्घ्य २९ हाथ ६ अंगुल। चतुर्थ गृह का विस्तार २४ हाथ एवं दैर्घ्य २७ हाथ। पञ्चम
गृह का विस्तार २२ हाथ एवं दैर्घ्य २६ हाथ १८ अंगुल होना चाहिये।।६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४ बृहत्संहिता
सचिवस्य मन्त्रिणः पञ्च वेश्मानि गृहाणि यानि तेषां षष्टिश्चतुश्चतुर्भिर्हीना पृथुत्वम्।
तद्यथा—प्रथमगृहस्य षष्टिः, द्वितीयस्य षट्पञ्चाशत्, तृतीयस्य द्वापञ्चाशत्, चतुर्थस्याष्ट-
चत्वारिंशत्, पञ्चमस्य चतुश्चत्वारिंशदिति। प्रत्येकस्य गृहस्य यो विस्तारः स एव स्वाष्टांश-
युतोऽष्टभागसंयुक्तस्तस्य दैर्घ्यम्। तदर्धतो राजमहिषीणाम्, महिष्यः प्रधानस्त्रियः, तासां
नृपमहिषीणां तदर्धतः सचिवप्रमाणार्धेन गृहाणि कार्याणीति। एतदुक्तं भवति—सचिवस्य
यानि पञ्च गृहाण्युक्तानि तेषां यो विस्तारो यच्च दैर्घ्यम्, तदर्धेन राजमहिषीणां गृहाणि
कार्याणीत्यर्थः। तद्यथा—प्रथमगृहस्य पृथुत्वं त्रिंशत्, द्वितीयस्याष्टाविंशतिः, तृतीयस्य
षड्विंशतिः, चतुर्थस्य चतुर्विंशतिः, पञ्चमस्य द्वाविंशतिरिति। स्वाष्टांशयुतो दैर्घ्यं सर्वेषां
कार्यमिति।।६।।
अथ युवराजगृहाणां लक्षणमाह—
षड्भिः षड्भिश्चैवं युवराजस्यापवर्जिताऽशीतिः।
त्र्यंशान्विता च दैर्घ्यं पञ्च तदर्धैस्तदनुजानाम्॥७॥
इसी प्रकार युवराज के लिये पाँच घर बनाना चाहिये। जिसमें प्रथम गृह का
विस्तार ८० हाथ और बाकी चार मकानों में ६-६ हाथ कम करके विस्तार की
कल्पना करनी चाहिये। जैसे दूसरे घर का विस्तार ७४, तीसरे का ६८, चौथे का ६२
और पाँचवें का ५६ हाथ होना चाहिये। विस्तार में विस्तार का तीसरा भाग जोड़ कर
दैर्घ्य क्रम से १०६।१६, ९८।१६, ९०।१६, ८२।१६ और ७४।१६, कल्पना
करनी चाहिये। इसी तरह युवराज के गृह का आधा विस्तार और दैर्घ्य युवराज के छोटे
भाई और भृत्यों का होना चाहिये। यथा युवराजानुज का विस्तार ४०, ३७, ३४, ३१,
२८ दैर्घ्य ५३।८, ४९।८, ४५।८, ४१।८, ३७।८ होनी चाहिये॥७॥
एवमनेन प्रकारेण युवराजस्याशीतिः षड्भिः षड्भिरपवर्जिता पञ्चानां गृहाणां पृथुत्वम्।
तद्यथा—प्रथमस्याशीतिर्हस्तो विस्तारः, द्वितीयस्य चतुःसप्ततिः, तृतीयस्याष्टषष्टिः, चतुर्थस्य
द्विषष्टिः, पञ्चमस्य षट्पञ्चाशत्। प्रत्येकस्य गृहस्य विस्तारः स्वस्वत्र्यंश आत्मीयत्रिभागेन
युतो दैर्घ्यं भवति। एवं पञ्च गृहाणि तदनुजानामिति। तस्य युवराजस्यानुजानां पश्चाज्जातानां
कनीयसां भृत्यानां तदर्धैः पृथुत्वदैर्घ्यात् पञ्च गृहाणि कार्याणि। तद्यथा—प्रथमस्य पृथुत्वं
चत्वारिंशत्, द्वितीयस्य सप्तत्रिंशत्, तृतीयस्य चतुस्त्रिंशत्, चतुर्थस्यैकत्रिंशत्, पञ्चम-
स्याष्टाविंशतिः, त्र्यंशान्वितं सर्वेषां दैर्घ्यमिति।।७।।
अधुना सामन्तप्रवरराजपुरुष कञ्चुकिवेश्याकलाज्ञानां गृहलक्षणान्याह—
नृपसचिवान्तरतुल्यं सामन्तप्रवरराजपुरुषाणाम्।
नृपयुवराजविशेषः कञ्चुकिवेश्याकलाज्ञानाम्॥८॥
पूर्वोक्त राजा के पाँच गृह और मन्त्री के पाँच गृह जो कहे गये हैं, उन दोनों के
विस्तार के अन्तर तुल्य विस्तार और दैर्घ्य के अन्तरतुल्य दैर्घ्य लेकर माण्डलिक राजा
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वास्तुविद्याध्यायः ५
और प्रधान राजपुरुष का घर बनाना चाहिये। साथ ही राजा और युवराज के गृह के
अन्तरतुल्य कञ्चुकी, वेश्या और कलाज्ञाता का घर बनाना चाहिये।।८।।
नृपगृहाणां पञ्चानां सचिवगृहैः पञ्चभिः सह यदन्तरं तत्सामन्तानां माण्डलिकानां
नृपाणां प्रवराणां प्रधानानां राजपुरुषाणां च कार्यम्। एतदुक्तं भवति—नृपसचिवयोः परस्परं
विस्तारस्य विस्तारेण सहान्तरे कृते दैर्घ्यस्य दैर्घ्येण च सहान्तरे कृते यद् भवति तत्पृथुत्वं
दैर्घ्यं सामन्तप्रवरराजपुरुषाणां च कार्यम्। तथा नृपमानस्य युवराजस्य मानेन सह यो
विशेषोऽन्तरं भवति तत्कञ्चुकिनां महत्तरकपतीनां वेश्यानां साधारणस्त्रीणां कलाज्ञानां
कलाप्रवीणानां गेयवाद्यनृत्यचित्रपुस्तकपत्राच्छेदकर्मविदां च कार्यमिति।।८।।
अथाध्यक्षाधिकृतकर्मान्ताध्यक्षदूतानां पञ्च गृहाण्याह—
अध्यक्षाधिकृतानां सर्वेषां कोशरतिसुल्यम्।
युवराजमन्त्रिविवरं कर्मान्ताध्यक्षदूतानाम् ॥९॥
अश्वशाला, गजशाला और गोशाला के अधिकारियों तथा और कार्यों के जो स्वामी
होते हैं, उन सबके लिये कोश या रतिगृह के बराबर गृह बनाना चाहिये। साथ ही कर्म-
शाला के जो स्वामी होते हैं, उनका और दूतों का गृह युवराज और मन्त्री के गृह के
दैर्घ्य-विस्तार का जो अन्तर हो, उसके बराबर दैर्घ्य-विस्तार लेकर बनाना चाहिये।।९।।
स्फुटार्थ चक्र
| ज्ञातयः | हस्त | अङ्गुल | हस्त | अङ्गुल | हस्त | अङ्गुल | हस्त | अङ्गुल | हस्त | अङ्गुल | प्रमाणम् |
|---|---|---|---|---|---|---|---|---|---|---|---|
| राज्ञः | १०८ | ० | १०० | ० | ९२ | ० | ८४ | ० | ७६ | ० | विस्तारः |
| १३५ | ० | १२५ | ० | ११५ | ० | १०५ | ० | ९५ | ० | दैर्घ्यम् | |
| सेनापतेः | ६४ | ० | ५८ | ० | ५२ | ० | ४६ | ० | ४० | ० | विस्तारः |
| ७४ | १६ | ६७ | १६ | ६० | १६ | ५३ | १६ | ४६ | १६ | दैर्घ्यम् | |
| मन्त्रिणः | ६० | ० | ५६ | ० | ५२ | ० | ४८ | ० | ४४ | ० | विस्तारः |
| ६७ | १२ | ६३ | ० | ५८ | १२ | ५४ | ० | ४९ | १२ | दैर्घ्यम् | |
| राजमहि- | ३० | ० | २८ | ० | २६ | ० | २४ | ० | २२ | ० | विस्तारः |
| षीणाम् | ३३ | १८ | ३१ | १२ | २९ | ६ | २७ | ० | २४ | १२ | दैर्घ्यम् |
| युव- | ८० | ० | ७४ | ० | ६८ | ० | ६२ | ० | ५६ | ० | विस्तारः |
| राजस्य | १०६ | १६ | ९८ | १६ | ९० | १६ | ८२ | १६ | ७४ | १६ | दैर्घ्यम् |
| युवराजा- | ४० | ० | ३७ | ० | ३४ | ० | ३१ | ० | २८ | ० | विस्तारः |
| नुजस्य | ५३ | ८ | ४९ | ८ | ४५ | ८ | ४१ | ८ | ३७ | ८ | दैर्घ्यम् |
| साम- | ४८ | ० | ४४ | ० | ४० | ० | ३६ | ० | ३२ | ० | विस्तारः |
| न्तस्य | ६७ | १२ | ६२ | ० | ५६ | १२ | ५१ | ० | ४५ | १२ | दैर्घ्यम् |
| CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA |
-त.
Actually, let's look at the letter: द्वि-गु-णि-तं or द्वि-गु-णी-तं?
In many Indian prints, 'णितं' often has the 'i' curve joining from the left of ण or right. Here it looks like 'द्विगुणीतं'. Let's look very carefully: the curve goes to the right of ण, so it is printed as 'द्विगुणीतं'.
Let's check the Hindi translation for verse 11:
गृह में विस्तार के तुल्य ही उसकी ऊँचाई होनी चाहिये तथा एक शाल वाले गृह
में विस्तार से द्विगुणित दैर्घ्य होना चाहिये।।११।।
Commentary:
वास्तुनि गृहे यो विस्तार उक्तः स एवोच्छ्रायनिश्चय औच्च्यप्रमाणं शुभद इति।
Footer:
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
- Final Polish:
- Verify every line prefix format:
,, etc. - Check table formatting: clean, clear representation.
- Check exact spellings:
- "कञ्चुकिवेश्याकलाज्ञानाम्"
- "कर्माध्यक्षस्य"
- "ज्योतिषिपुरोहितवैद्यानाम्"
- "कोशरतितुल्यम्
- Verify every line prefix format:
वास्तुविद्याध्यायः ७
यथा नृपस्य प्रथमगृहमुष्टाधिकं हस्तशतं विस्तारादुक्तम्, तथाष्टाधिकं हस्तशतमेवोच्छ्रितं
कार्यमिति। एकशालगृहेषु च विस्ताराद् द्विगुणं दैर्घ्यं कार्यमिति। तथा च काश्यपः—
चतुःशालगृहेष्वेवमुच्छ्रायो व्याससम्मितः।
विस्तारं द्विगुणं दैर्घ्यमेकशालयुतस्य च।। इति।। ११।।
अथ ब्राह्मणादिवर्णचतुष्टयस्य गृहप्रमाणमाह—
चातुर्वर्ण्यव्यासो द्वात्रिंशत् सा चतुश्चतुर्हीना।
आषोडशादिति परं न्यूनतरमतीव हीनानाम् ।। १२।।
सदशांशं विप्राणां क्षत्रस्याष्टांशसंयुतं दैर्घ्यम्।
षड्भागयुतं वैश्यस्य भवति शूद्रस्य पादयुतम् ।।१३।।
ब्राह्मण आदि चारो वर्णों के गृहों का विस्तार क्रम से ३२ हाथ में चार-चार हाथ
कम करके १६ हाथ पर्यन्त बनाना चाहिये। जैसे—३२, २८, २४, २० या १६ हाथ
ब्राह्मणों के गृह का; २८, २४, २० या १६ हाथ क्षत्रियों के गृह का; २४, २० या
१६ हाथ वैश्यों के गृह का तथा २० या १६ हाथ शूद्रों के गृह का विस्तार बनाना
चाहिये। इससे कम विस्तार का गृह नीच जातियों के लिये बनाना चाहिये। ब्राह्मणों के
गृह का दैर्घ्य विस्तार से दशमांश अधिक, क्षत्रियों का अष्टमांश, वैश्यों का षष्ठांश और
शूद्रों के गृह का दैर्घ्य विस्तार से चतुर्थांश अधिक होना चाहिये ।।१२-१३।।
चातुर्वर्ण्य इति। चतुर्वर्णानां भावश्चातुर्वर्ण्यम्। चत्वारो वर्णाः—ब्राह्मणक्षत्रिय-
वैश्यशूद्राः। तस्मिंश्चातुर्वर्ण्ये ब्राह्मणादिके व्यासो विस्तार द्वात्रिंशत्, सा चतुश्चतुर्हीना।
आषोडशादिति, षोडशं यावदिति। द्वात्रिंशच्चतुश्चतुर्भिर्हीना तावत् कार्या यावत् षोडशेति।
एतदुक्तं भवति—ब्राह्मणस्य प्रथमगृहव्यासो द्वात्रिंशद्धस्ताः, अन्यानि चत्वारि चतुर्भि-
श्चतुर्भिर्हीनानि। क्षत्रियस्य प्रथमगृहव्यासो हस्ता अष्टाविंशतिः, अन्यानि त्रीणि चतुर्भि-
श्चतुर्भिर्हीनानि। वैश्यस्य प्रथमगृहं चतुर्विंशतिः, अन्ये द्वे चतुर्भिंश्चतुर्भिर्हीने। शूद्रस्य प्रधानं
गृहं विंशतिर्हस्ताः, अपरं षोडशेति। एवं ब्राह्मणस्य पञ्च गृहाणि, क्षत्रियस्य चत्वारि,
वैश्यस्य त्रीणि, शूद्रस्य द्वे। अतः परं निकृष्टं न्यूनतरमल्पतरमतीव हीनानां चाण्डालश्वपाका-
दीनां कार्यमिति।
विप्राणां ब्राह्मणानां व्यासो यद्विस्तारमानमुक्तं तदेव सदशांशं स्वदशभागयुतं दैर्घ्यं
कार्यम्, पञ्चस्वपि गृहेषु। एवं क्षत्रियस्याष्टांशयुतमष्टभागाधिकम्। वैश्यस्य स्वषड्भागयुतम्।
शूद्रस्य पादयुतं चतुर्भागाधिकमित्यर्थः। तथा च किरणाख्ये तन्त्रे—
हस्तद्वात्रिंशता युक्तो विस्तारः स्याद् द्विजालये।
विस्तारं सदशांशं तु दैर्घ्यं तस्य प्रकल्पयेत् ।।
त्रयाणां क्षत्रियादीनां मानं यत्पूर्वचोदितम्।
तच्चतुर्भिः करैस्तार्क्ष्य ह्रासयेदनुपूर्वशः।।
एषामष्टांशषड्भागपाददैर्घ्यं क्रमाद् भवेत् ।। इति ।। १२-१३ ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
८ बृहत्संहिता
अथ कोशरतिभवनयोः प्रमाणं राजपुरुषाणां च गृहप्रमाणान्याह—
नृपसेनापतिगृहयोरन्तरमानेन कोशरतिभवने ।
सेनापतिचातुर्वर्ण्यविवरतो राजपुरुषाणाम् ॥१४॥
राजा और सेनापति के गृह के अन्तरतुल्य कोश ( खजाना ) का घर और रतिभवन
( क्रीडागृह ) बनाना चाहिये तथा सेनापति और चारो वर्णों के गृह के अन्तरतुल्य
राजपुरुषों का घर बनाना चाहिये । जैसे कि सेनापति और ब्राह्मण के गृह के अन्तरतुल्य
ब्राह्मण राजपुरुषों का, सेनापति और क्षत्रिय के गृह के अन्तरतुल्य क्षत्रिय राजपुरुषों का,
सेनापति और वैश्य के गृह के अन्तरतुल्य वैश्य राजपुरुषों का तथा सेनापति और शूद्र
के गृह के अन्तरतुल्य शूद्र राजपुरुषों का घर बनाना चाहिये ॥१४॥
स्फुटार्थ चक्रम्
| ज्ञातयः | हस्त | अङ्गुल | हस्त | अङ्गुल | हस्त | अङ्गुल | हस्त | अङ्गुल | हस्त | अङ्गुल | प्रमाणम् |
|---|---|---|---|---|---|---|---|---|---|---|---|
| ब्राह्मणस्य | ३२ | ० | २८ | ० | २४ | ० | २० | ० | १६ | ० | विस्तारः |
| ३५ | ५ | ३० | १९ | २६ | १० | २२ | ० | १७ | १४ | दैर्घ्यम् | |
| क्षत्रियस्य | २८ | ० | २४ | ० | २० | ० | १६ | ० | × | × | विस्तारः |
| ३१ | १२ | २७ | ० | २२ | १२ | १८ | ० | × | × | दैर्घ्यम् | |
| वैश्यस्य | २४ | ० | २० | ० | १६ | ० | × | × | × | × | विस्तारः |
| २८ | ० | २३ | ८ | १८ | १६ | × | × | × | × | दैर्घ्यम् | |
| शूद्रस्य | २० | ० | १६ | ० | × | × | × | × | × | × | विस्तारः |
| २५ | ० | २० | ० | × | × | × | × | × | × | दैर्घ्यम् | |
| कोशरति- | ४४ | ० | ४२ | ० | ४० | ० | ३८ | ० | ३६ | ० | विस्तारः |
| भवनस्य | ६० | ८ | ५७ | ८ | ५४ | ८ | ५१ | ८ | ४८ | ८ | दैर्घ्यम् |
| राजपुरुषा- | ३२ | ० | ३० | ० | २८ | ० | २६ | ० | २४ | ० | विस्तारः |
| णाम | ३९ | ११ | ३६ | २१ | ३४ | ६ | ३१ | १६ | २९ | २ | दैर्घ्यम् |
| नृपस्य गृहमानस्य प्रागुक्तस्य सेनापतिगृहमानेन प्रागुक्तेनैव सह यदन्तरं तेन मानेन | |||||||||||
| कोशभवनं च कार्यम्। कोशभवनं गञ्जः, रतिभवनं क्रीडागृहम्, अनयोस्तुल्यं प्रमाणम्। | |||||||||||
| सेनापतेश्चातुर्वर्ण्यस्य च यद्विवरमन्तरं तेन मानेन राजपुरुषाणां कार्यम्। अत्र यदा ब्राह्मणो | |||||||||||
| राजपुरुषो भवति, तदा ब्राह्मणवास्तुमानं सेनापतिवास्तुमानादपास्य यदवशिष्यते तेन | |||||||||||
| मानेन गृहपञ्चकं कार्यम्। एवं क्षत्रियादीनां विज्ञेयम्, किन्तु सेनापतिगृहस्य द्वितीयस्य | |||||||||||
| क्षत्रियवास्तुमानेन सहान्तरं कृत्वा शेषं क्षत्रियराजपुरुषस्य प्रधानगृहम्। एवं तृतीयस्य | |||||||||||
| द्वितीयेन, चतुर्थस्य तृतीयेन, पञ्चमस्य चतुर्थेनेति। एवं तृतीयेन सेनापतिगृहेण सहान्तरं | |||||||||||
| वैश्यस्य प्रधानगृहम्, चतुर्थेन शूद्रस्येति॥१४॥ | |||||||||||
| CC-0. JK Sanskrit Academy, Jammmmu. Digitized by S3 Foundation USA |
वास्तुविद्याध्यायः ९
अथ पारशवादीनां वास्तुप्रमाणं हीनाधिकस्य वास्तुनश्चाशुभत्वमाह—
अथ पारशवादीनां स्वमानसंयोगदलसमं भवनम् ।
हीनाधिकं स्वमानादशुभकरं वास्तु सर्वेषाम् ॥१५॥
पारशव ( ब्राह्मण के वीर्य और शूद्रा के रज से उत्पन्न ), आदि ( भूर्जकण्टक = ब्राह्मण
के वीर्य और वेश्या के रज से उत्पन्न ), मूर्धावसिक्त ( ब्राह्मण के वीर्य और क्षत्रिया के
रज से उत्पन्न ) को माता और पिता के वर्णजनित पूर्वोक्त मान के योगार्ध समान विस्तार
दैर्घ्य लेकर गृह बनाना चाहिये। कथित मान से न्यूनाधिक मान वाला गृह सबके लिये
अशुभ होता है ॥१५॥
अथानन्तरं ये ब्राह्मणेन शूद्रायां जाताः पारशवाः। एवं वैश्यायां जातो भूर्जकण्टकः।
क्षत्रियायां जातो मूर्धावसिक्तः । एतेषां पारशवादीनां स्वमानसंयोगदलसमं भवनं कार्यम्।
स्वमानस्यात्मीयमानस्य द्वयोरेव मातापित्रोः संयोगादैक्यं कृत्वा तस्य दलमर्धं तत्तुल्यं
पारशवादेर्भवनं गृहं कार्यम्। एतदुक्तं भवति—ब्राह्मणस्य यन्मानं यच्च शूद्रस्य तयोरैक्यं
कृत्वा अर्धीकार्यम् । तन्मानं पारशवगृहस्य । वैश्यायाः क्षत्रियायाः पुत्राणामेवमपि। सर्वेषां
नृपादीनां पारशवान्तानां स्वमानादात्मीयमानाद्धीनमधिकं वास्तु न शुभकरमिति ॥१५॥
अथ पश्चाश्रमिणां धान्यायुधवह्निरतिगृहाणां च परमतेनोच्छ्रायप्रमाणं चाह—
पश्चाश्रमिणाममितं धान्यायुधवह्निरतिगृहाणां च ।
नेच्छन्ति शास्त्रकारा हस्तशतादुच्छ्रितं परतः ॥१६॥
पशु, आश्रमी ( संन्यासी ) के गृह, धान्यगृह, आयुधगृह, अग्निगृह और क्रीड़ागृह
को अमित ( परिमाणरहित ) बनाना चाहिये अर्थात् जैसी इच्छा हो, वैसा निर्मित करना
चाहिये। सौ हाथ से अधिक ऊँचा गृह बनाने की इच्छा वास्तुशास्त्रकार नहीं करते
अर्थात् सौ हाथ से अधिक ऊँचा गृह बनाना अशुभ होता है ॥१६॥
पशूनां चतुष्पदानाम्। आश्रमिणां च प्रव्राजकानाममितमपरिमितं यथेष्टप्रमाणं गृहस्य।
तथा धान्यगृहस्य धान्यानि यत्र स्थाप्यन्ते, आयुधगृहस्यायुधानि यत्र स्थाप्यन्ते, वह्निगृहस्य
चाग्निशालायाः, रतिगृहस्य च क्रीडावेश्मनः। एषाममितमपरिमितं प्रमाणम्। शास्त्रकारा
वास्तुज्ञानविदो हस्तशतात् परत उच्छ्रितं नेच्छन्ति। हस्तशतादूर्ध्वमुच्छ्रितं गृहं न कार्यम्।
‘वास्तुनि यो विस्तारः स एव चोच्छ्रायनिश्चयः शुभदः' इत्यस्यायमपवादः। तथा च गर्गः—
शतहस्तोच्छ्रितं कार्यं चतुःशालगृहं बुधैः।
अपि तच्चैकशालं तु शुभदं तत्प्रकीर्तितम्॥ इति ॥१६॥
अथ सेनापतिनृपद्वारेण सर्ववास्तूनां शालाऽलिन्दयोः प्रमाणमाह—
सेनापतिनृपतीनां सप्ततिसहिते द्विधाकृते व्यासे ।
शाला चतुर्दशहृते पञ्चत्रिंशद्धृतेऽलिन्दः ॥१७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१० बृहत्संहिता
सेनापति और राजा के गृह के व्यासमान के योग में सत्तर मिला कर दो जगह रख
कर एक जगह चौदह का भाग देने से शाला ( गृहाभ्यन्तर भाग ) और दूसरी जगह
पन्द्रह का भाग देने से अलिन्द ( शाला की भित्ति के बाहर सोपान मार्ग ) का प्रमाण
होता है।।१७।।
सेनापतेर्नृपतेर्वास्तुनि व्यासस्य वा चातुर्वर्ण्यविवर्जितस्यान्यस्य वा यस्य कस्यचित्
सप्ततिसहितस्य सप्तत्या युक्तस्य तथाभूतस्य द्विधाकृतस्य द्विष्ठस्यैकत्र चतुर्दशभिर्भागमपहृत्य
यल्लभ्यते हस्ता अङ्गुलानि च तेन प्रमाणेन शाला कार्या। शालाशब्देन गृहाभ्यन्तरमुच्यते।
अन्यत्र पञ्चत्रिंशता भागे हृते यल्लभ्यते हस्तादिकं तेन प्रमाणेनालिन्दः कार्यः। अलिन्दशब्देन
शालाभित्तेर्बाह्या या गमनिका जालकावृताङ्गणसम्मुखा क्रियते सा ज्ञेयेति। पूर्वमुक्तमुत्तम-
मष्टाभ्यधिकं हस्तशतमित्यादि क्षेत्रप्रमाणं तत्र चायं निर्माणविधिरिति।।१७।।
अथ चातुर्वर्ण्यस्य शालालिन्दयोः प्रमाणमाह—
हस्तद्वात्रिंशादिषु चतुश्चतुस्त्रित्रिकत्रिकाः शालाः।
सप्तदशत्रितयतिथिस्त्रयोदशकृताङ्गुलाभ्यधिकाः॥१८॥
त्रित्रिद्विद्विसमाः क्षयक्रमादङ्गुलानि चैतेषाम्।
व्येका विंशतिरष्टौ विंशतिरष्टादश त्रितयम्॥१९॥
पूर्वोक्त ब्राह्मण आदि के क्रम से ३२, २८, २४, २० और १६ हाथ विस्तार वाले
गृह में क्रम से ४ हाथ १७ अङ्गुल, ४ हाथ ३ अङ्गुल, ३ हाथ १५ अङ्गुल, ३ हाथ
१३ अङ्गुल और ३ हाथ ४ अङ्गुल प्रमाण की शाला तथा क्रम से ३ हाथ १९ अङ्गुल,
३ हाथ ८ अङ्गुल, २ हाथ २० अङ्गुल, २ हाथ १८ अङ्गुल और २ हाथ ३ अङ्गुल प्रमाण
का अलिन्द बनाना चाहिये।।१८-१९।।
हस्तद्वात्रिंशादिषु। द्वात्रिंशादादौ ब्राह्मणादीनां वर्णानामित्यर्थः। तेषां चतुश्चतुस्त्रित्रिकत्रिका
हस्ताः शालाः कार्याः। किम्भूताश्च ते हस्ताः? सप्तदशत्रितयतिथिस्त्रयोदशकृताङ्गुलाभ्यधिका
इति। तद्यथा—चातुर्वर्ण्यस्य प्रथमगृहे प्रधाने शाला चतुर्हस्ता सप्तदशाङ्गुलाभ्यधिका
कार्या, द्वितीये चतुर्हस्ताङ्गुलत्रितयेनाधिका, तृतीये त्रिहस्ता तिथिभिः पञ्चदशभिरङ्गुलैरधिका,
चतुर्थे त्रिहस्ता त्रयोदशभिरङ्गुलैरधिका, पञ्चमे त्रिहस्ता कृतैश्चतुर्भिरङ्गुलैरधिका कार्येति।
एवं यद् गृहं ब्राह्मणस्य द्वितीयं तत् क्षत्रियस्य प्रधानम्, यत् क्षत्रियस्य द्वितीयं तद्वैश्यस्य
प्रधानम्, यद्वैश्यस्य द्वितीयं तच्छूद्रस्य प्रधानम्। अनेनैव प्रकारेण शालाप्रमाणं सिद्धम्।
त्रित्रिद्विद्विसमा इति। त्र्यादयश्च हस्ता व्येकविंशतिप्रभृतिभिरङ्गुलैर्युक्ताः। चातुर्वर्ण्य-
वास्तुष्वलिन्दप्रमाणमनुक्तमपि ज्ञायते। तद्यथा—ब्राह्मणस्य प्रथमगृहेऽलिन्दप्रमाणं हस्तत्रितय-
मेकोनविंशत्यङ्गुलैरधिकम्। व्येका विंशतिः। विगत एको विंशतेः। द्वितीये हस्तत्रिकमष्टाभि-
रङ्गुलैरधिकम्। तृतीये हस्तद्वयं विंशत्यङ्गुलैरधिकम्। चतुर्थे हस्तद्वितयमष्टादशभिरङ्गुलै-
रधिकम्। पञ्चमे हस्तद्वितयं त्रिभिरङ्गुलैरधिकम्। एवमेतेषां हस्तानां क्षयक्रमाद् गृहक्रमेणै-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA