सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

२४२ वृहत्संहिता
कीदृशान् सुरान् ? मितमुकुटरत्नान्। मितानि परिमितानि मुकुटेषु मौलिषु रत्नानि येषां
तान्। तथाभूतान्। कैः प्रत्यादेष्टुमिव? पतन्मुक्तामिश्रैः प्रवरमणिरत्नाम्बुनिबहैः। अम्बु-
निबहैः पानीयौघैः। कीदृशैः ? पतन्मुक्तामिश्रैः पतन्तीभिर्मुक्ताभिर्मिश्रास्तैः। तथा प्रवराणि
विकचानि च तानि मणिरत्नानि प्रधानरत्नानि। प्रवरमणिरत्नानि चाम्बुनिवहाश्च प्रवरमणि-
रत्नाम्बुनिवहास्तैः ।।१।।
अन्यदप्याह—
येन चाम्बुहरणेऽपि विद्रुमैर्भूधरैः समणिरत्नविद्रुमैः ।
निर्गतैस्तदुरगैश्च राजितः सागरोऽधिकतरं विराजितः ॥२॥
जिस अगस्त्य मुनि के द्वारा अपहृत जल वाला होने पर भी मणि, रत्न और प्रवालों
से युत, वृक्ष तथा पंक्ति से पृथक् स्थित सर्पों से रहित पर्वतों के कारण समुद्र अतिशय
शोभित हुआ है।।२।।
येनागस्त्यमुनिना। अम्बुहरणे जलापहरणे कृतेऽपि सति सागरः समुद्रः। अधिक-
तरमतिशयेन विराजितः शोभितः। कैः ? भूधरैः पर्वतैः। कीदृशैः? विद्रुमैः। विगता द्रुमा
वृक्षा येभ्यस्तैः। वृक्षरहितैः। जलमध्यगतत्वात्तेषु वृक्षाः क्लिन्ना यतः। तथा समणिरत्न-
विद्रुमैः। मणिरत्नैः प्रधानरत्नैर्विद्रुमेण प्रवालेन सह वर्तन्ते ये तैः। निर्गतैस्तदुरगैश्च।
तदिति भूधराणां पराशर्मः। तदुरगैः। तेभ्यः पर्वतेभ्यो ये उरगाः सर्पा निर्गता निष्क्रान्तास्तैः।
कथं च ते निर्गताः ? राजितः पङ्क्तितस्तैस्तथाभूतैः ।।२।।
अन्यदाह—
प्रस्फुरत्तिमिजलेभजिह्मगः क्षिप्तरत्ननिकरो महोदधिः ।
आपदां पदगतोऽपि यापितो येन पीतसलिलोऽमरश्रियम् ॥३॥
अगस्त्य मुनि के द्वारा अपहृत जल वाला होने के कारण विपत्तिग्रस्त होने पर भी
समुद्र ने जलाभाव के कारण चञ्चल मत्स्य, जलहस्ती, सर्प तथा इधर-उधर बिखरे हुये
रत्न और मणियों से सुशोभित होकर स्वर्गीय शोभा प्राप्त की ।।३।।
येन महोदधिः समुद्रः। आपदां पदगतोऽपि विपदां स्थानं प्राप्तोऽपि। पीतसलिलः
पीतजलोऽपि। अमरश्रियं सुरलक्ष्मीम्। यापितः प्रापितः। कीदृशः ? प्रस्फुरत्तिमिजलेभ-
जिह्मगः। प्रस्फुरन्तस्तिमयश्चलन्तो मत्स्याः। जलेभा जलहस्तिनः। जिह्मगाः सर्पा यस्मिन्।
जिह्मं कुटिलं गच्छन्तीति जिह्मगाः। एते जलप्राणिनो जलाभावात् प्रस्फुरन्ति। तथा क्षिप्त-
रत्ननिकरः क्षिप्तः परिक्षिप्तो रत्नानां मणीनां निकरः समूहो यस्मिन्। तथा सुरलोकः
प्रस्फुरत्तिमिजलेभजिह्मगः। प्रस्फुरन्तश्चलन्तो ये सुरास्तिमिजलेभजिह्मगाः। तिमिगा मत्स्य-
वाहनाः केचित्। यथा वितस्ता नदी। केचिज्जलगाः पानीयस्थाः। यथा समुद्रे भगवात्रा-
रायणः। केचिद्दिभगा हस्तिनो गताः। यथेन्द्र ऐरावतस्थः। केचिज्जिह्मं कुटिलं गच्छन्तीति
जिह्मगाः कुटिलगतयः। यथा भौमादयस्ताराग्रहा वक्रिताः। तथा क्षिप्तरत्ननिकरः सोऽपि।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

अगस्त्यचाराध्यायः २४३
अथान्यदाह—
प्रचलत्तिलिशुक्तिजशङ्खचितः सलिलेऽपहृतेऽपि पतिः सरिताम् ।
सतरङ्गसितोत्पलहंसभृतः सरसः शरदीव बिभर्ति रुचिम् ॥४॥
जल नष्ट होने पर भी चलित मत्स्य, शुक्ति और शंख से युत समुद्र शरद् ऋतु में
तरंग, श्वेत कुवलय और हंस से युत सरोवर की शोभा धारण करता है ( यहाँ पर चलित
मत्स्य = तरंग, शुक्ति = श्वेत कुवलय, शंख = हंस है ) ॥४॥
सरितां नदीनाम्। पतिः प्रभुः समुद्रः। सलिले जलेऽपहृतेऽपि सति। शरदि शरत्काले।
सरसो महोदकाधारस्य सम्बन्धिनीं रुचिं दीप्तिम्। बिभर्ति धारयति इव। कीदृशस्य
सरसः? सतरङ्गसितोत्पलहंसभृतः। सतरङ्गानि तरङ्गेण वीचिसमूहेन सहितानि सितोत्प-
लानि श्वेतकुवलयानि पुष्पविशेषान् हंसान् पक्षिविशेषांश्च बिभर्ति धारयति यत् तस्य।
समुद्रः कीदृशः? प्रचलत्तिलिशुक्तिजशङ्खचितः। प्रचलद्भिस्तिमिभिर्मत्स्यैः। शुक्तिजैः प्राणिभिः
शङ्खैश्च चितो व्याप्तः। प्रचलन्तो मत्स्यास्त एव तरङ्गाः। शुक्तिजाः सितोत्पलानि। शङ्खा
हंसा इति॥४॥
अथान्यत्—
तिमिसिताम्बुधरं मणितारकं स्फटिकचन्द्रमनम्बुशरद्द्युतिः ।
फणिफणोपलरश्मिशिखिग्रहं कुटिलगेशवियच्च चकार यः ॥५॥
मत्स्यरूप मेघ, मणिरूप तारा, स्फटिक मणिरूप चन्द्र, जलाभावरूप शारदीय द्युति
और सर्पों के फणा पर स्थित मणि ( चन्द्रकान्त, सूर्यकान्त आदि ) के किरणरूप केतु ग्रह
हैं, जिसमें ऐसे कुटिलगेश ( समुद्र ) को जिन्होंने बना दिया ॥५॥
यः कुटिलगेशं समुद्रम्। वियदाकाशम्। चकार कृतवान्। कुटिलमस्पष्टं गच्छन्तीति
कुटिलगा नद्यः। तासामीशं स्वामिनम्। तिमयो मत्स्याः। त एव सिताः शुक्ला अम्बुधरा
मेघा यस्मिन् तत्तथाभूतम्। मणयो रत्नानि तान्येव दीप्तिमत्त्वात्तारका यस्मिन्। स्फटिको
मणिविशेषः। स एव स्थूलत्वाच्चन्द्रः शशी यस्मिन्। अनम्बु जलाभावः। तदेव शरद्द्युतिः
शरत्कान्तिः। अभिव्यक्तत्वाद्यस्मिन्। फणिफणोपलरश्मिशिखिग्रहम्। फणिनः सर्पाः। तेषां
फणासु मूर्धसु यान्युपला रत्नानि चन्द्रकान्तसूर्यकान्तप्रभृतीनि। तेषु ये रश्मयः। त एव
तत्सदृश वाच्छिखिग्रहाः केतवो यस्मिन्। यत आकाश एत एव सम्भवन्तीति ॥५॥
अथ समुद्रवर्णनानन्तरं विन्ध्यवर्णनामाह—
दिनकररथमार्गविच्छित्तयेऽभ्युद्यतं यच्चलच्छृङ्ग-
मुद्भ्रान्तविद्याधरांसावासक्तप्रियाव्यग्रदत्ताङ्गदेहाव-
लम्बाम्बरात्युच्छ्रितोद्धूयमानध्वजैः शोभितम् ।
करिकटमदमिश्ररक्तावलेहानुवासानुसारि-
द्विरेफावलीनोत्तमाङ्गैः कृतन् बाणपुष्पैरिवोत्तंसकान्
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२४४ बृहत्संहिता
धारयद्भिर्मृगेन्द्रैः सनाथीकृतान्तर्दरीनिर्झरम्।
गगनतलमिवोल्लिखन्तं प्रवृद्धैर्गजाकृष्टफुल्लद्रुम-
त्रासविभ्रान्तमत्तद्विरेफावलीहृष्टमन्द्रस्वनैः
शैलकूटैस्तरक्ष्वृक्षशार्दूलशाखामृगाध्यासितैः ।
रहसि मदनसक्तया रेवया कान्तयेवोपगूढं सुराध्या-
सितोद्यानमम्भोऽशनानन्नमूलानिलाहारविप्रान्वितं
विन्ध्यमस्तम्भयद्यश्च तस्योदयः श्रूयताम् ॥६॥
सूर्य के मार्ग को रोकने के लिये उन्नत होने में कम्पायमान शृङ्ग होने से भयभीत,
विद्याधर के कन्धे में सक्त और व्यग्र विद्याधरी गण से दिये हुये विद्याधर के शरीर में लगे
हुये कम्पायमान और अत्युन्नत ध्वजरूप वस्त्र से शोभित, हस्ती के मद से युक्त रक्त के
आस्वादन से उत्पन्न सुगन्धि को खोजने में उद्यत भ्रमरगणों से युक्त शिर वाले मानो
बाणपुष्पों से रचित शिरोमाला धारण करने वाले सिंहों से युक्त गुहागत निर्झर वाला, बढ़े
हुये गजों से आकृष्ट होने पर कम्पित प्रफुल्लित वृक्षों पर चञ्चल और आनन्द से मधुर शब्द
करते हुये भ्रमरपंक्ति वाले तथा वन के अश्व, भालू, व्याघ्र और वानरों से युत पर्वतशृङ्गों से
मानो आकाश को उल्लिखित करता हुआ, निर्जन स्थान में मदनवृक्ष से युक्त होने के
कारण मानो मदनातुर प्रिया—रेवा नदी से युक्त, देवताओं से सेवित उद्यान

अगस्त्यचाराध्यायः २४५
उत्तमाङ्गेषु शिरःसु येषां तैः सिंहैः। बाणपुष्पैर्बाणकुसुमैः कृतान् रचितान्। उतंसकान्
शिरोमाला धारयद्भिरिव।
गगनतलमिति। शैलकूटैः पर्वतशृङ्गैः। गगनतलमाकाशतलम्। उल्लिखन्तमिव।
कीदृशैः शैलकूटैः? प्रवृद्धैर्वृद्धिमद्भिः। गजैर्हस्तिभिः। आकृष्ट आकर्षिताः फुल्लाः
कुसुमिता ये द्रुमा वृक्षास्तैर्यस्त्रासः कम्पः, तस्माद्ये विभ्रान्ता भ्रान्तिमापन्ना मत्तद्विरेफा
भ्रमराः, तेषामावली पङ्क्तिः। तस्या हृष्टाया ये मन्द्रा मधुराः स्वनाः शब्दाः। ते विद्यन्ते
येषां तैस्तथाभूतैः शैलकूटैः। अत्र भ्रमरपङ्क्तिर्वर्णपङ्क्तिरिव। तथा तग्क्षैर्वनश्वभिः। ऋक्षै-
र्वानरैः प्राणिविशेषैर्वा। शार्दूलैः सिंहजातिभिः। शाखामृगैर्मर्कटैः। अध्यासिताः सेविता
ये शैलकूटास्तैः।
रहसीति। कीदृशं विन्ध्यम्? रहसि निर्जने। रेवया मदनसक्तया कान्तया वल्लभया
कामिन्येवोपगूढं परिष्वक्तम्। रेवा नर्मदा। यतः सा तत्रैव बहुशो गता। सा च मदनसक्ता।
मदनवृक्षावृतत्वादिति। सुरैर्देवैरध्यासितानि निषेवितानि, उद्यानानि उपवनानि यस्मिन्।
तथाम्भोऽशनैर्जलाहारैः। अनन्नैर्निराहारैः। मूलाहारैर्मूलभक्षैः। अनिलाहारैर्वायुभक्षैश्च। विप्रै-
र्ब्राह्मणैर्मुनिभिरन्वितं संयुक्तं विन्ध्यम्।।६।।
तथाऽगस्त्योदयप्रभावमाह—
उदये च मुनेरगस्त्यनाम्नः कुसमायोगमलप्रदूषितानि।
हृदयानि सतामिव स्वभावात् पुनरम्बूनि भवन्ति निर्मलानि ॥७॥
जिस तरह खलों की सङ्गति-रूप मल से दूषित हृदय वाला मनुष्य भी सज्जनों के
दर्शन से निर्मल हृदय वाला हो जाता है, उसी तरह वर्षा ऋतु में कीचड़ मिला हुआ जल
भी अगस्त्य मुनि के दर्शन से निर्मल हो जाता है।।७।।
अगस्त्यनाम्नो मुनेरुदये उद्गमे। पुनर्भूयः। अम्बूनि पानीयानि। स्वभावात् प्रकृत्यैव।
निर्मलानि प्रसन्नानि भवन्ति। कीदृशानि? कुसमायोगमलप्रदूषितानि। कोर्भूम्याः समायोगः
संश्लेषः कुसमायोगः। तस्मात् कुसमायोगाद्यन्मलं पङ्कः। तेन प्रदूषितानि दुष्टानि यानि
तान्यगस्त्यदर्शनान्निर्मलानि भवन्ति। वर्षासु कुसमायोगस्तेषाम्। यथा सतां साधूनां
उदये दर्शने हृदयानि पुनर्निर्मलानि भवन्ति। कीदृशानि? कुसमायोगमलप्रदूषितानि।
कुत्सितैर्जनैर्योऽसौ समायोगस्तस्माद्यन्मलं पापं तेन प्रदूषितानि दुष्टानि। पुनः स्वभावदेव
निर्मलानि भवन्ति। साधुदर्शनात् पापक्षय उत्पद्यते यावत्।।७।।
अथ विन्ध्यवर्णनानन्तरं शरद्वर्णनमाह—
पार्श्वद्वयाधिष्ठितचक्रवाकामापुष्णाती सस्वनहंसपङ्क्तिम्।
ताम्बूलरक्तोत्कषिताग्रदन्ती विभाति योषेव शरत् सहासा ॥८॥
ताम्बूल से रक्त ओठों के मध्य विराजमान दन्तपंक्ति वाली, हास्ययुत स्त्री की तरह
दोनों पार्श्वों में स्थित लाल वर्ण के चक्रवाकों के मध्य शब्दायमान हंसपंक्ति से विराजमान
नदियों के द्वारा शरद् ऋतु शोभित है।।८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२४६ बृहत्संहिता
शरत् सहासा हासयुक्ता योषा स्त्रीव विभाति शोभते। कीदृशी योषा? ताम्बूल-
रक्तोत्कषिताग्रदन्ती। ताम्बूलेन रक्ता रञ्जिता ये दन्ता रदाः। तेभ्योऽग्रदन्ताः पुरोवर्तिनो रदा
उत्कषिता उद्घृष्टा यया सा तथाभूता स्त्री। शरत्कीदृशी? पार्श्वद्वयाधिष्ठितचक्रवाका-
मापुष्णाती सस्वनहंसपङ्क्तिम्। पार्श्वद्वयमधिष्ठितं संयुक्तम्। चक्रवाकैः पक्षिविशेषैर्लोहित-
वर्णैर्यस्याः सस्वनायाः शब्दयुक्ताया हंसपङ्क्तेस्तामापुष्णती आपोषयमाणा। नदीनां प्रत्यहं
जलाल्पत्वात् पुलिनानि व्यक्तानि भवन्ति। तानि च हंसैः सेव्यन्ते। अत एवोत्प्रेक्ष्यते—
ताम्बूलरक्तोत्कषिताग्रदन्ती योषा सहासेव।।८।।
अन्यदप्याह—
इन्दीवरासन्नसितोत्पलान्विता शरद् भ्रमत्षट्पदपङ्क्तिभूषिता ।
सभ्रूलताक्षेपकटाक्षवीक्षणा विदग्धयोषेव विभाति सस्मरा ॥९॥
भ्रमण करते हुये भ्रमर की पंक्तियों से भूषित, नीलकमल के निकट स्थित श्वेत
कमल से युत नदियों से शोभित शरद् मानो भ्रूलता के साथ कटाक्ष चलाने वाली मदनातुरा
स्त्री की तरह शोभित है॥९॥
शरत् सस्मरा सकामा विदग्धयोषा प्रौढाङ्गनेव विभाति शोभते। कीदृशी विदग्धयोषा?
सभ्रूलताक्षेपकटाक्षवीक्षणा। भ्रूलतयोर्योऽसावाक्षेपश्चलनम्। तेन यः कटाक्षो नयनविभ्रमः।
तेन सहितं वीक्षणमवलोकनं यस्याः। शरत् कीदृशी? इन्दीवरासन्नसितोत्पलान्विता।
इन्दीवरं नीलोत्पलम्। तस्यासन्ने उभयपार्श्वस्थे ये सितोत्पले। तथाभूतेनेन्दीवरेणान्विता
संयुक्ता। अनेन नेत्रस्य सादृश्यमुक्तम्। यतो नेत्रमपि मध्यभागात् कृष्णमुभयपार्श्वयोः सितं
भवति। तथा भ्रमन्तश्चलन्तः। ये षट्पदा भ्रमराः। तेषां या पङ्क्तिरवलिः। तया भूषिता
संयुक्ता। अनेन भ्रूसादृश्यमुक्तम्। यतो नयनस्योर्ध्वभागस्था भ्रूलता भवति। अत एवो-
त्प्रेक्ष्यते—सभ्रूलताक्षेपकटाक्षवीक्षणा विदग्धयोषा सस्मरेव।।९।।
अथान्यदाह—
इन्दोः पयोदविगमोपहतां विभूतिं
द्रष्टुं तरङ्गवलया कुमुदं निशासु ।
उन्मूलयत्यलिनिलीनदलं सुपक्ष्म
वापी विलोचनमिवासिततारकान्तम् ॥१०॥
तरङ्गरूप कङ्कण वाली वापीरूप कामिनी रात्रि में मेघ के चले जाने से बढ़ी हुई चन्द्रमा
की शोभा को देखने के लिये मानो भ्रमयुक्त कुमुदरूप कृष्ण तारा से युक्त नेत्र को खोलती है।
इन्दोश्चन्द्रमसः। पयोदानां मेघानाम्। विगमाद्विशेषोपगमात्। उपहिता वृता व्याप्ता
या विभूतिः कान्तिः। तां द्रष्टुमवलोकयितुम्। वापी नलिनी। निशासु रात्रिषु। कुमुदं
कैरवम्। विलोचनं नेत्रमिवोन्मूलयति विकासयति। कीदृशी वापी? तरङ्गवलया। तरङ्गा
ऊर्मिसमूहाः। त एव वलयः प्रकोष्ठभूषणं यस्याः। कीदृक् कुमुदम्? अलिनिलीनदलम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अगस्त्यचाराध्यायः २४७
अलिर्भ्रमरः स निलीनः संलग्नो दलेषु पत्रेषु यस्मिन्। सुपक्ष्म शोभनं पत्रम्। तदेवासितं
कृष्णम्। तारकमन्तर्मध्ये यस्मिन्। अत एवोत्प्रेक्ष्यते—नयनमिव। यतो नयनं सुपक्ष्म
भवति। शोभनानि पक्ष्माणि अक्षिलोमानि यस्य तत्तथा। असिततारकान्तं कृष्णतारकामध्यम्।
नायिका चिरदर्शनाद्वल्लभास्यं सोत्कण्ठा समुद्वीक्षत इति॥१०॥
अथ भूमेः शोभामुपवर्णयितुमाह—
नानाविचित्राम्बुजहंसकोककारण्डवापूर्णतडागहस्ता ।
रत्नैः प्रभूतैः कुसुमैः फलैश्च भूर्यच्छतीवार्घमगस्त्यनाम्ने ॥११॥
अनेक प्रकार के विचित्र कमल, हंस, चक्रवाक, कारण्डव आदि से भूषित तड़ागरूप
हस्त के द्वारा पृथ्वी मानो अनेक रत्न, पुष्प और फलों से अगस्त्य मुनि को अर्घ्य देती है।
भूर्भूमिः। अगस्त्यनाम्ने अर्घं यच्छतीव ददाति इव। कीदृशी भूः ? नानाविचित्राम्बुज-
हंसकोककारण्डवापूर्णतडागहस्ता। नानाप्रकारा विचित्रा ये अम्बुजाः पद्मादयः। तथा हंस-
कोककारण्डवाः पक्षिविशेषाः। तैर्यान्यपूर्णानि तडागानि। तान्येव हस्ता यस्याः। कैरर्घं
यच्छतीव? रत्नैः प्रभूतैः कुसुमैः फलैश्चेति। त एवाम्बुजादयो हस्तस्थिता रत्नादीन्युप-
लक्ष्यन्ते। तै रत्नैः। प्रभूतैर्बहुभिः। तथा कुसुमैः पुष्पैः फलैश्चेति। यतो भगवते रत्नादिभिरर्घो
दीयत इति॥११॥
अथ भगवतः प्राधान्यमाह—
सलिलममरपाज्ञयोज्झितं यद् घनपरिवेष्टितमूर्तिभिर्भुजङ्गैः ।
फणिजनितविषाग्निसम्प्रदुष्टं भवति शिवं तदगस्त्यदर्शनेन ॥१२॥
मेघों से परिवेष्टित मूर्ति वाले सर्पों के फणा से उत्पन्न विषरूप अग्नि से दूषित इन्द्र की
आज्ञा से पतित जल भी अगस्त्य मुनि के दर्शन से श्रेयस्कर हो जाता है॥१२॥
अमरप इन्द्रः। तदाज्ञया यत्सलिलं जलम्। उज्झितमुत्सृष्टम्। भुजङ्गैः सर्पैः। कीदृशैः?
घनपरिवेष्टितमूर्तिभिः। घनैर्मेघैः। परिवेष्टिता मूर्त्तयो देहा येषां तैः। कीदृशं जलम्? फणि-
जनितविषाग्निसम्प्रदुष्टम्। फणिनः सर्पाः। तेभ्यो जनितमुत्पादितं यद्विषम्। तदेवाग्नि-
र्वन्हिः। तेन सम्प्रदुष्टं सम्यग् दूषितम्। तदगस्त्यदर्शनेन शिवं श्रेयस्करं भवति॥१२॥
अथान्यदप्याह—
स्मरणादपि पापमपाकुरुते
किमुत स्तुतिभिर्वरुणाङ्गरुहः ।
मुनिभिः कथितोऽस्य यथार्घविधिः
कथयामि तथैव नरेन्द्रहितम् ॥१३॥
जिनका स्मरण करने से भी पाप नष्ट हो जाते हैं, उन वरुण के पुत्र अगस्त्य की स्तुति
का फल कहाँ तक कहें। गर्ग आदि मुनियों के द्वारा जिस प्रकार उनकी अर्घविधि कही गई
है, उसी प्रकार राजाओं के हित के लिये मैं कहता हूँ॥१३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२४८ बृहत्संहिता
वरुणस्याङ्गरुहः पुत्रोऽगस्त्यमुनिः स्मरणादपि स्मरणमात्रादपि नामसङ्कीर्तनमात्रात्पा-
पमेनोऽपाकुरुते निवर्तयतीति। किमुत किं पुनः स्तुतिभिः स्तोत्रैः। मुनिभिर्गर्गादिभिर्यथा
येन प्रकारेणास्यार्घविधिः कथित उक्तः। तथा तेनैव प्रकारेण नरेन्द्रस्य राज्ञो हितं कथयामि
वच्मि। तथा च समाससंहितायाम्—
भानोर्वर्त्मविघातवृद्धशिखरो विन्ध्याचलस्तम्भितो
वातापिर्मुनिकुक्षिभृत् सुररिपुर्जीर्णश्च येनासुरः।
पीतश्चाम्बुनिधिस्तपोम्बुनिधिना याम्या च दिग्भूषिता
तस्यागस्त्यमुनेः पयश्च्युतिकृतश्चारः समासादयम्।। इति।।१३।।
अथास्योदयलक्षणमाह—
संख्याविधानात् प्रतिदेशमस्य
विज्ञाय सन्दर्शनमादिशेज्ज्ञः।
तच्चोज्जयिन्यामगतस्य कन्यां
भागैः स्वराख्यैः स्फुटभास्करस्य ॥१४॥
गणित के द्वारा प्रत्येक देश में इनका दर्शन जानकर पण्डितों को कहना चाहिये। वह
दर्शन सिंह राशि के तेईस अंश पर जब स्पष्ट सूर्य जाते हैं तब होता है।।१४।।
अस्यागस्त्यमुनेः संख्याविधानाद् गणितविधानात् प्रतिदेशं देशं देशं प्रति सन्दर्शनमुदयं
विज्ञाय ज्ञात्वा ज्ञः पण्डित आदिशेद् वदेत्। तच्च दर्शनमुज्जयिन्यां स्फुटभास्करस्य
स्फुटादित्यस्य कन्यां कुमारीं स्वराख्यैर्भागैः सप्तभिरंशैरगतस्याप्राप्तस्य भवति। सिंहस्य
भागत्रयोविंशतिं भुक्त्वेत्यर्थः। तथा च समाससंहितायाम्—
सप्तभिरंशैः कन्यामप्राप्ते रोमके तु दिवसकरे।
दृश्योऽगस्त्योऽवन्त्यां तत्समपूर्वापरेऽप्येवम्।। इति।।१४।।
अथार्घदानलक्षणमाह—
ईषत्प्रभिन्नेऽरुणरश्मिजालैर्नैशेऽन्धकारे दिशि दक्षिणस्याम्।
सांवत्सरावेदितदिग्विभागे भूपोऽर्घमुर्व्यां प्रयतः प्रयच्छेत् ॥१५॥
सूर्य के किरणों से रात्रि के अन्धकार के कुछ नष्ट होने पर ज्योतिषी से बताई हुई
दक्षिण दिशा में पृथ्वी पर संयत होकर राजा को पृथ्वी पर अगस्त्य मुनि के लिये अर्घ देना
चाहिये।।१५।।
भूपो राजा प्रयतः संयत उर्व्यां भूम्यामर्घं प्रयच्छेद् दद्यात्। कस्मिन् काले? अरुण-
रश्मिजालैररुणकरनिकरैर्नैशे रात्रिभवेऽन्धकारे तमसि ईषत् किञ्चित् प्रभिन्ने नष्टे। कस्यां
दिश्यर्घं दद्यात्? दक्षिणस्यां याम्यायां दिशि। कीदृशो राजा? सांवत्सरावेदितदिग्विभागः।
सांवत्सरेण कालविदा आवेदितः प्रदर्शितो दिग्विभागो यस्य स तथाभूतः। यथेयं दक्षिण-
दिगस्यां भगवतो दर्शनमिति।।१५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अगस्त्यचाराध्यायः २४९
कैरर्घं प्रयच्छेदित्याह—
कालोद्भवैः सुरभिभिः कुसुमैः फलैश्च
रत्नैश्च सागरभवैः कनकाम्बरैश्च ।
धेन्वा वृषेण परमान्नयुतैश्च भक्ष्यै-
र्दध्यक्षतैः सुरभिधूपविलेपनैश्च ॥१६॥
शारदीय सुगन्धित पुष्प, फल, समुद्र से उत्पन्न रत्न, सुवर्ण, वस्त्र, धेनु, वृष, पायसयुत
भोजन, द्रव्य, दधि, सुगन्धित धूप और चन्दनयुत अर्घ देना चाहिये ॥१६॥
कालोद्भवैः सुकालजातैः। सुरभिभिः सुगन्धैः। कुसुमैः पुष्पैः। फलैश्च जातीफला-
दिभिः। तथा रत्नैर्मणिभिः। सागरभवैः समुद्रजातैः। कनकेन सुवर्णेनाम्बरैर्वस्त्रैः। तथा
धेन्वा पयस्विन्या गवा वृषेण दान्तेन। परमान्नेन पायसेन युतैश्च भक्ष्यैरपूपादिभिस्तथा दध्ना
क्षीरविकारेण। अक्षतैर्यवैः। सुरभिधूपैः सुगन्धधूपैर्विलेपनैरनुलेपनैः सुगन्धिभिश्च ॥१६॥
अथार्घ दातुर्नृपस्य फलमाह—
नरपतिरिममर्घं श्रद्दधानो दधानः
प्रविगतगददोषो निर्जितारातिपक्षः ।
भवति यदि च दद्यात्सप्तवर्षाणि सम्यग्
जलनिधिरशनायाः स्वामितां याति भूमेः ॥१७॥
यदि श्रद्धावान् राजा इस प्रकार अर्घ देने की विधि को धारण करे तो नीरोग होता है
और शत्रुओं को जीतता है। यदि इस प्रकार सात वर्ष तक भक्तिपूर्वक अर्घ देता रहे तो
समुद्रपर्यन्त पृथ्वी का स्वामी ( चक्रवर्ती राजा ) होता है॥१७॥
नरपति राजा श्रद्दधानः श्रद्धावानिममर्घं दधानः प्रयच्छमाणः। प्रविगतगददोषो
निर्जितारातिपक्षो भवति। प्रविगताः प्रनष्टा गदा रोगा दोषाश्च यस्य। तथा निर्जितोऽराति-
पक्षः शत्रुपक्षो येन। यदि चानेन विधिना सम्यगविच्छिन्नं सप्त वर्षाणि दद्यात्तदा जल-
निधिरशनाया भूमेः समुद्रमेखलाया उर्व्याः स्वामितां प्रभुतां याति गच्छति॥१७॥
अथ ब्राह्मणविट्शूद्राणां फलमाह—
द्विजो यथालाभमुपाहतार्घः प्राप्नोति वेदान् प्रमदाश्च पुत्रान् ।
वैश्यश्च गां भूरि धनं च शूद्रो रोगक्षयं धर्मफलं च सर्वे ॥१८॥
यदि अपनी शक्ति के अनुसार लब्ध वस्तु से अर्घ दे तो ब्राह्मण वेदों को, स्त्री पुत्रों को,
वैश्य गौओं को एवं शूद्र बहुत धनों को प्राप्त करता है तथा ब्राह्मणादि सभी वर्ण रोगक्षय
और धार्मिक फल को प्राप्त करते हैं॥१८॥
द्विजो ब्राह्मणो यथालाभं यथासम्भवमुपाहतार्घो दत्तार्घः प्राप्नोति लभते वेदान्। प्रमदाः
स्त्रीः। पुत्रानपत्यानि च। तथा वैश्यो यथालाभमुपहृतार्घो गां लभते। शूद्रो भूरि बहु धनं वित्तं
प्राप्नोति। सर्वे ब्राह्मणवैश्यशूद्रा रोगक्षयं गदोपशमं धर्मफलं च प्राप्नुवन्ति॥१८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२५० बृहत्संहिता
अथोदितस्य लक्षणमाह—
रोगान् करोति परुषः कपिलस्त्ववृष्टिं
धूम्रो गवामशुभकृत् स्फुरणो भयाय ।
माञ्जिष्ठरागसदृशः क्षुधमाहवांश्च
कुर्यादणुश्च पुररोधमगस्त्यनामा ॥१९॥
यदि अगस्त्य रूक्ष हो तो रोग, कपिल हो तो अवृष्टि, धूम्रवर्ण हो तो गौओं के लिये
अनिष्ट फल, कम्पमान हो तो भय, लोहित वर्ण हो तो दुर्भिक्ष और युद्ध तथा सूक्ष्म हो तो
नगर का अवरोध करते हैं॥१९॥
अगस्त्यनामा अगस्त्यमुनिः परुषो रूक्षो रोगान् करोति। कपिलः कपिलवर्णोऽवृष्टि-
मवर्षणं करोति। धूम्रो धूम्रवर्णो गवामशुभकृदनिष्टफलं करोति। स्फुरणः चलनो भयाय
भवति। माञ्जिष्ठरागसदृशो लोहितवर्णः क्षुधं दुर्भिक्षं करोति। आहवान् संग्रामांश्च करोति।
अणुः सूक्ष्मः पुररोधं नगरवेष्टनं करोति॥१९॥
अथ वर्णलक्षणमाह—
शातकुम्भसदृशः स्फटिकाभास्तर्पयन्निव महीं किरणाग्रैः ।
दृश्यते यदि तदा प्रचुरान्ना भूर्भवत्यभयरोगजनाढ्या ॥२०॥
सुवर्ण, रजत या स्फटिक के समान अपने किरणों से पृथ्वी को तृप्त करते हुये अगस्त्य
मुनि दिखाई दें तो पृथ्वी अधिक धान्य, निर्भीक तथा रोगरहित मनुष्यों से युत होती है।
यदि शातकुम्भसदृशो रूप्यसदृशाभो दृश्यते। शातकुम्भशब्दः सुवर्णरजतयोर्द्वयोरपि
वाचकः। अथवा स्फटिकाभः स्फटिककान्तिः। महीं भूमिं किरणाग्रै रश्मिप्रान्तैस्तर्पयन्निव
दृश्यते। केचित् किरणौघैरिति पठन्ति। किरणौधै रश्मिसमूहैः। तदा भूर्मही प्रचुरान्ना
प्रभूतसस्या। तथा अभयरोगजनाढ्या अभयैर्भयरहितैररोगैर्विगतगदैर्जनैर्जन्तुभिराढ्या बहुला
भवति। तथा च गर्गः—
शङ्खकुन्देन्दुगोक्षीरमृणालरजतप्रभः ।
दृश्यते यद्यगस्त्यः स्यात् सुभिक्षक्षेमकारकः।।
वैश्वानराचिप्रतिमैर्मांसशोणितकर्दमैः ।
रणैर्भयैश्च विविधैः किञ्चिच्छेषायते प्रजा।। इति।।२०।।
अथोदयास्तमयलक्षणं शुभाशुभं चाह—
उल्कया विनिहतः शिखिना वा क्षुद्भयं मरकमेव विधत्ते ।
दृश्यते स किल हस्तगतेऽर्के रोहिणीमुपगतेऽस्तमुपैति ॥२१॥
इति श्रीवराहमिहिरकृतौ बृहत्संहिताया-
मगस्त्यचाराध्यायः द्वादशः ॥१२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अगस्त्यचार, कूर्मविभाग एवं नक्षत्रव्यूह (अध्याय १३-२०)

अगस्त्यचाराध्यायः २५१

यदि अगस्त्य मुनि उल्का या केतु से आहत हों तो पृथ्वी पर दुर्भिक्ष और मरी पड़ती
है। अगस्त्य मुनि सूर्य-हस्तगत हों तो उदित और रोहिणीगत हों तो अस्त होते हैं।।२१।।
इति ‘विमला’हिन्दीटीकायामगस्त्यचाराध्यायो द्वादशः ॥१२॥
उल्कया विनिहतोऽभिताडितः शिखिना केतुना वा विनिहतः। तदा क्षुद्भयं दुर्भिक्षम्।
मरकं जनक्षयं च विधत्ते ददाति। किलेत्यागमसूचने। सोऽगस्त्यमुनिः हस्तगतेऽर्के हस्त-
स्थे सूर्ये दृश्यते उदयं याति। तथा रोहिणीमुपगते रोहिण्यां संस्थितेऽर्केऽस्तमुपैति अदर्श-
नमायाति। यद्यप्यत्र गणितसाम्यं न भवति, तथाप्याऽऽचार्येण पूर्वशास्त्रदृष्टत्वात् कृतम्।
तथा च पञ्चसिद्धान्तिकायाम्—
विषुवच्छायार्द्धगुणा पञ्चकृतिस्तत्कलास्ततश्चापम्।
छायात्रिसप्तकयुतं दशभिर्गुणितं विनाड्यस्ताः।।
ताभिः कर्कटकाद्याद्यल्लग्नं तादृशे सहस्रांशौ।
याम्याशावनितामुखविशेषतिलको मुनिरगस्त्यः।।
एवं पूर्वशास्त्रदृष्टत्वादाचार्येणोक्तम्। तथा च पराशरः—
हस्तस्थे सवितर्युदेति रोहिणीसंस्थे प्रविशति।
अथास्य त्रिविधश्चारोदयकालो दृष्टः—आश्वयुग्बहुलाष्टमीपञ्चदश्योः कार्तिकाष्टम्यां
वा। तत्राश्वयुग्बहुलोदितः सुवृष्टिक्षेमान्नसम्पत्करः। वर्णैश्चावेदयति। अग्निपरुषरूक्षाभो
रोगाय कपिलो वृष्टिनिग्रहाय। धूमाभो गवामभावाय। माञ्जिष्ठः कुङ्कुमच्छविः क्षुच्छस्त्रदः।
नीलोऽतिवर्षाय। संवृतः पुरोधाय। स्पन्दनो भयाय। अपि च—
हन्यादुल्का यदागस्त्यं केतुर्वाप्युपधूपयेत्।
दुर्भिक्षं जनमारश्च तदा जगति जायते।।
सुस्निग्धवर्णः श्वेतश्च शातकुम्भसमप्रभः।
मुनिः क्षेमसुभिक्षाय प्रजानामभयाय च।। इति।।२१।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृता-
वगस्त्यचारोनाम द्वादशोऽध्यायः ॥१२॥

CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ सप्तर्षिचाराध्यायः
अथ सप्तर्षिचारो व्याख्यायते। तत्रादावेव तेषां मुनीनां दिक्संस्थानलक्षणमाह—
सैकावलीव राजति ससितोत्पलमालिनी सहासेव ।
नाथवतीव च दिग् यैः कौवेरी सप्तभिर्मुनिभिः ॥१॥
एकावली ( भूषणविशेष ) से शोभित, श्वेत कमल की माला से भूषित, मुस्कानयुत
और स्वामी-सहित कामिनी की तरह सात मुनियों से युत उत्तर दिशा शोभित है। ( यहाँ
मुनिपंक्तियों के कुटिल होने के कारण इनमें पूर्वोक्त सभी विशेषण उत्पन्न होते हैं ) ॥१॥
यैः सप्तभिर्मुनिभिः कौवेरी उत्तरा दिग् नाथवतीव च विराजते शोभते। यथा नाथ-
वती प्रभुणा युक्ता नायिका विराजते तद्वत् कौवेरीति। नाथवती कीदृशी भवति? सैकाव-
लीव। सह एकावल्या वर्तते या। एकावलीत्याभरणविशेषस्य संज्ञा। एवं ससितोत्पलमालिनी
सहासेव। सह सितया श्वेतयोत्पलमालया वर्तते सह हासेन च। मुनिपङ्क्तेः कुटिलत्वादेतानि
विशेषणान्युपपद्यन्त इति।। १।।
ध्रुववशाद् भ्रमद्भिरैर्यैरुत्तरा दिगेवंविधा लक्ष्यते तेषां चारं वक्ष्यामीत्याह—
ध्रुवनायकोपदेशात्ररिनर्त्तीवोत्तरा भ्रमद्भिश्च ।
यैश्चारमहं तेषां कथयिष्ये वृद्धगर्गमतात् ॥२॥
ध्रुव नक्षत्ररूप नायक के उपदेश से भ्रमण करने वाले सप्तर्षियों से उत्तर दिशा मानो
बारम्बार नाचती है। अब वृद्ध गर्ग के मत से उनका सञ्चार कहता हूँ॥२॥
यैर्मुनिभिर्भ्रमद्भिरुत्तरा कौवेरी दिक् नरिनर्तीव। अत्यर्थं नृत्यति नरिनर्ति। कथं ध्रुव-
नायकोपदेशात्। ध्रुव एव नायको ध्रुवनायकस्तदुपदेशात्। यतो नर्तक्या उपदेशो नायक
आचार्यो भवति। तस्या ध्रुवनायकोपदेशः। यस्मात् सकलज्योतिश्चक्रस्य ध्रुव एव भ्रामकः।
तथा च भट्टब्रह्मगुप्तः—
ध्रुवयोर्बद्धं सव्यगममराणां क्षितिजसंस्थमुडुचक्रम्।
अपसव्यगमसुराणां भ्रमति प्रवहानिलक्षिप्तम्।। इति।
तेषां मुनीनां चारमहं वृद्धगर्गमतात् कथयिष्ये। वृद्धगर्गो नाम महामुनिस्तन्मता-
तत्कृताच्छास्त्रादिति।।२।।
अधुनैतेषां चारनक्षत्रानयनमाह—
आसन् मघासु मुनयः शासति पृथ्वीं युधिष्ठिरे नृपतौ ।
षड्द्विकपञ्चद्वियुतः शककालस्तस्य राज्ञश्च ॥३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

सप्तर्षिचाराध्यायः २५३
जब राजा युधिष्ठिर पृथ्वी पर राज्य करते थे, उस समय मघा नक्षत्र में सप्तर्षि थे।
शकाब्द में २५२६ मिलाने से युधिष्ठिर का गताब्द काल होता है।
१८७५ शकाब्द में नक्षत्र लाने का उदाहरण—एक नक्षत्र में सप्तर्षि सौ ( १०० )
वर्ष रहते हैं; अतः २५२६+१८७५/१०० = ४४०१/१००, लब्धि ४४ शेष १।
अतः गत नक्षत्र उत्तराभाद्रपदा और वर्तमान नक्षत्र रेवती का १ वर्ष भुक्त और ९९
वर्ष भोग्य हैं।।३।।
मुनयो मरीच्यादयः सप्तर्षयो युधिष्ठिरे पाण्डुतनये नृपतौ राजनि पृथ्वीं महीं शासति
परिपालयति मघासु मघानक्षत्रेष्वासन्नध्यतिष्ठन्। तथा च वृद्धगर्गः—
कलिद्वापरसन्धौ तु स्थितास्ते पितृदैवतम्।
मुनयो धर्मनिरताः प्रजानां पालने रताः।।
तस्य च युधिष्ठिरस्य राज्ञः षड्द्विकपञ्चद्वियुतः शककालो गतः। सहस्रद्वयेन पञ्चभिः
शतैः षड्विंशत्यधिकैः २५२६ शकनृपकालो युक्तः कार्यः। एवं कृते यद्भवति तावद्वर्षवृन्दं
वर्तमानकालं यावद् गतम्। तस्य च शतेन भागमाहृत्य यदवाप्यते तानि नक्षत्राणि मघा-
दीनि भुक्तानि यच्छेषं तानि वर्षाणि भुज्यमाने नक्षत्रे तेषां प्रविष्टानां गतानि। तानि च
शताद्विशोध्य यदवशिष्यते तावन्त्येव वर्षाणि तस्मिन्नक्षत्रे स्थितानीति। लब्धनक्षत्राणामपि
सप्तविंशत्या भागमपहृत्यावशेषाङ्कसमं मघादिनक्षत्रं भुक्तमिति वाच्यम्।।३।।
अथ तेषां नक्षत्रभोगप्रमाणकालं नक्षत्रावस्थितिं चाह—
एकैकस्मिन्नृक्षे शतं शतं ते चरन्ति वर्षाणाम्।
प्रागुदयतोऽप्यविवरादृजूनयति तत्र संयुक्ताः ॥४॥
एक-एक नक्षत्र में सौ-सौ वर्ष सप्तर्षि रहते हैं। जिस नक्षत्र के पूर्व दिशा में उदय
होने पर सप्तर्षि-मण्डल स्पष्ट दिखाई दे, उसी नक्षत्र में उनकी स्थिति समझनी चाहिये।
'प्रागुत्तरश्चैते सदोदयन्ते ससाध्वीकाः।' ऐसा पाठ होने के फलस्वरूप ईशान कोण में सदा
साध्वी अरुन्धती के साथ सप्तर्षि उदित होते हैं—ऐसा अर्थ समझना चाहिये।।४।।
ते मुनय एकैकस्मिन्नृक्षे नक्षत्रे शतं शतं वर्षाणां चरन्ति। तथा च कश्यपः—
शतं शतं तु वर्षाणामेकैकस्मिन् महर्षयः।
नक्षत्रे निवसन्त्येते ससाध्वीका महातपाः।।
अविवरात्निरन्तरं प्रागुदयतः प्राक् पूर्वस्यां दिशि उदयतो यन्नक्षत्रं तेषामृजून्नयति
स्पष्टतां सप्तर्षिपङ्क्त्या नयति तत्र तस्मिन्नक्षत्रे ते संयुक्ताः स्थिता इति। एतदुक्तं भवति—
यस्य नक्षत्रस्य प्रागुदयतः सप्तर्षिपङ्क्तिः स्पष्टा भवति तस्मिन्नेव स्थिता इति। केचित्
प्रागुत्तरतश्चैते सदोदयन्ते ससाध्वीका इति पठन्ति। ते च प्रागुत्तरतश्चैशान्यां दिशि सदा
सर्वकालं ससाध्वीकाः सारुन्धतिका उदयन्ते।।४।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२५४ बृहत्संहिता
अथ संस्थानलक्षणमाह—
पूर्वे भागे भगवान् मरीचिरपरे स्थितो वसिष्ठोऽस्मात् ।
तस्याङ्गिरास्ततोऽत्रिस्तस्यासन्नः पुलस्त्यश्च ॥५॥
पुलहः क्रतुरिति भगवानासन्ना अनुक्रमेण पूर्वाद्यात् ।
तत्र वसिष्ठं मुनिवरमुपाश्रितारुन्धती साध्वी ॥६॥
पूर्व दिशा में भगवान् मरीचि, उनसे पश्चिम में वशिष्ठ, वशिष्ठ से पश्चिम में अङ्गिरा,
अङ्गिरा के बाद अत्रि, अत्रि के समीप पुलस्त्य, इनके बाद पुलह, पुलह के बाद क्रतु—
इस तरह पूर्व दिशा से लेकर क्रम से सप्तर्षियों की स्थिति रहती है और इनके मध्य में
अरुन्धती वसिष्ठ के आश्रित है।।५-६।।
पूर्वे भागे पूर्वस्यां दिशि भगवान् मरीचिर्नाम महर्षिः स्थितः। अस्मान्मरीचेरपरे
पश्चिमे भागे वसिष्ठः स्थितः। तस्य वसिष्ठस्यापरे अङ्गिराः स्थितः। ततस्तस्मादङ्गिरसोऽत्रिः
स्थितः। तस्यात्रेरासन्नो निकटवर्ती पुलस्त्यश्च।
ततः पुलहस्ततः क्रतुरिति भगवान्। अनुक्रमेण परिपाट्या पूर्वाद्यात् पूर्वांदित
आसन्ना निकटस्थिताः। तत्र च तन्मध्ये अरुन्धती साध्वी सच्छीला मुनिवरं मुनिप्रधानं
वसिष्ठमुपाश्रिता संश्रितेत्यर्थः।।५-६।।
अथैतैः शुभाशुभफलमाह—
उल्काशनिधूमाद्यैर्हता विवर्णा विरश्मयो ह्रस्वाः ।
हन्युः स्वं स्वं वर्गं विपुलाः स्निग्धाश्च तद्वृद्ध्यै ॥७॥
उल्का, वज्र या धूम आदि से हत, विवर्ण, ज्योतिरहित या स्वल्प बिम्ब वाला सप्तर्षि
मण्डल हो तो अपने-अपने वर्ग का नाश करता है तथा विपुल और निर्मल बिम्ब वाला हो
तो अपने वर्ग की वृद्धि करता है।।७।।
एते मुनय उल्कया अशन्या धूमेन वा। आदिग्रहणाद्रजोनीहारपांशुभिर्हताः। तथा
विवर्णाः कलुषाः। विरश्मयो विगतकिरणाः। ह्रस्वाः स्वल्पबिम्बाः स्वं स्वमात्मीयवर्गं
वक्ष्यमाणं हन्युर्नाशयेयुः। तथा विपुला विस्तीर्णाः। स्निग्धा निर्मलाश्च तद्वृद्ध्यै स्ववर्गसिद्धये
भवन्ति। तथा च वृद्धगर्गः—
उल्कया केतुना वापि धूमेन रजसापि वा।
हता विवर्णाः स्वल्पा वा किरणैः परिवर्जिताः।।
स्वं स्वं वर्गं तदा हन्युर्मुनयः सर्व एव ते।
विपुलाः स्निग्धवर्णाश्च स्ववर्गपरिपोषकाः।। इति।।७।।
अथैतेषां स्ववर्गमाह—
गन्धर्वदेवदानवमन्त्रौषधिसिद्धयक्षनागपनाम् ।
पीडाकरो मरीचिर्ज्ञेयो विद्याधराणां च ॥८॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

सप्तर्षिचाराध्यायः २५५
शकयवनदरदपारतकाम्बोजांस्तापसान् वनोपेतान्।
हन्ति वसिष्ठोऽभिहतो विवृद्धिदो रश्मिसम्पन्नः॥९॥
अङ्गिरसो ज्ञानयुता धीमन्तो ब्राह्मणाश्च निर्दिष्टाः।
अत्रेः कान्तारभवा जलजान्यम्भोनिधिः सरितः॥१०॥
रक्षःपिशाचदानवदैत्यभुजङ्गाः स्मृताः पुलस्त्यस्य।
पुलहस्य तु मूलफलं क्रतोस्तु यज्ञाः सयज्ञभृतः॥११॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां
सप्तर्षिचाराध्यायस्त्रयोदशः ॥१३॥
यदि मरीचि पीड़ित हों तो गन्धर्व, देव, राक्षस, मन्त्र, ओषधि, सिद्ध, यक्ष, नाग और
विद्याधरों को पीड़ित करते हैं तथा निर्मल और विपुल हों तो उनकी वृद्धि करते हैं। यदि
वसिष्ठ पीड़ित हों तो शक, यवन, दरद, पारत, काम्बोज, तपस्वी और वनवासियों को
पीड़ित करते हैं तथा किरणों से सम्पन्न हों तो उनकी वृद्धि करते हैं। यदि अङ्गिरा पीड़ित
हों तो ज्ञानी, बुद्धिमान् और ब्राह्मणों को पीड़ित करते हैं तथा निर्मल और विपुल हों तो
उनकी वृद्धि करते हैं। यदि अत्रि पीड़ित हों तो वन तथा जल में उत्पन्न होने वाले द्रव्य,
समुद्र और नदियों को पीड़ित करते हैं तथा विपुल और स्निग्ध हों तो उनकी वृद्धि करते
हैं। यदि पुलस्त्य पीड़ित हों तो राक्षस, पिशाच, दानव, दैत्य और सर्पों को पीड़ित करते हैं
तथा स्निग्ध और विपुल हों तो उनकी वृद्धि करते हैं। यदि पुलह पीड़ित हों तो मूल और
फलों को पीड़ित करते हैं तथा स्निग्ध और विपुल हों तो उनकी वृद्धि करते हैं। यदि क्रतु
पीड़ित हों तो यज्ञ और यज्ञकर्ताओं को पीड़ित करते हैं तथा स्निग्ध और विपुल हों तो
उनकी वृद्धि करते हैं॥८-११॥
इति 'विमला' हिन्दीटीकायां सप्तर्षिचाराध्यायस्त्रयोदशः ॥१३॥
गन्धर्वा अश्वमुखा नरदेवयोनयः। देवाः सुराः। दानवा दनुपुत्राः। मन्त्राः। औषधयः।
सिद्धा देवयोनयः। यक्षाः। नागा एतेषां सर्वेषाम्। तथा विद्याधराणां देवयोनीनां मरीचिरुप-
तप्तः पीडाकरः। स्निग्धो विपुलश्च वृद्धिप्रदः।
शकयवनेति। शका जनाः। यवनाः। दरदाः। पारताः। काम्बोजाः। तापसाः
तपोनिरताः। वनोपेता वनस्था एतान् वसिष्ठोऽभिहत उपतप्तो हन्ति। रश्मिसम्पन्नो
निरुपहतो विवृद्धिदो वृद्धिप्रदः।
अङ्गिरस इति। ज्ञानयुता ज्ञानोपेताः। धीमन्तो बुद्धिमन्तः। ब्राह्मणा द्विजा। एते
अङ्गिरसो विनिर्दिष्टाः कथिताः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२५६ बृहत्संहिता
अत्रेरिति । कान्तारमटवी। तत्र भवो जन्म येषां ते कान्तारभवाः। जलजानि। जले
यानि द्रव्याणि जायन्ते। अम्भोनिधिः समुद्रः। सरितो नद्यः। एते अत्रेः।
राक्षसाः। पिशाचाः। दानवाः। दैत्याः। भुजङ्गाः सर्पाः। एते पुलस्त्यस्य स्मृताः
कथिताः। मूलफलं यत्किञ्चित्तत् पुलहस्य। यज्ञा मखाः। यज्ञभृतो यज्ञकर्तारः। तैः सह
यज्ञाः क्रतोरिति। तथा च वृद्धगर्गः—
देवदानवगन्धर्वाः सिद्धपन्नगराक्षसाः।
नागा विद्याधराः सर्वे मरीचेः परिकीर्तिताः ।।
यवनाः पारताश्चैव काम्बोजा दरदाः शकाः।
वसिष्ठस्य विनिर्दिष्टास्तापसा वनमाश्रिताः ।।
धीमन्तो ब्राह्मणा ये च ज्ञानविज्ञानपारगाः।
रूपलावण्यसंयुक्ता मुनेरङ्गिरसः स्मृताः ।।
कान्तारजास्तथाम्भोजा अत्रेर्ये सरिदाश्रिताः ।
पिशाचा दानवा दैत्या भुजङ्गा राक्षसास्तथा ।।
पुलस्त्यस्य विनिर्दिष्टाः पुष्पं मूलं फलं च यत्।
तत्सर्वं पुलहस्योक्तं यज्ञा यज्ञभृतश्च ये।।
क्रतोरेव विनिर्दिष्टा वेदज्ञा ब्राह्मणास्तथा ।। इति ।। ८-११ ।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ सप्तर्षि-
चारो नाम त्रयोदशोऽध्यायः ॥ १३ ॥
वराहमिहिराचार्यग्रहचारोदधौ कृते ।
अर्थिनामुत्पलश्चक्रे स्वार्थाय विवृतिप्लवम् ।।
इति ग्रहचाराः समाप्ताः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ नक्षत्रकूर्मविभागाध्यायः
अथ नक्षत्रकूर्माध्यायो व्याख्यायते। तत्रादावेव तत्प्रविभागमाह—
नक्षत्रत्रयवर्गैराग्नेयाद्यैर्व्यवस्थितैर्नवधा ।
भारतवर्षे मध्यप्रागादिविभाजिता देशाः ॥१॥
कृत्तिका आदि तीन नक्षत्रों के एक-एक वर्ग द्वारा मेरु के दक्षिण भाग में स्थित
भारतवर्ष को मध्यस्थित कल्पना करके तथा अन्य देशों को पूर्व आदि क्रम से रखकर नव
भाग किये गये हैं॥१॥
नक्षत्रत्रयेण नववर्गास्तैर्नक्षत्रवर्गैः। आग्नेयाद्यैः कृत्तिकाद्यैर्नवधा नवभिः प्रकारैर्व्य-
वस्थितैः। क्व भारतवर्षे। मेरोर्दक्षिणभागो भारतवर्षं तत्र व्यवस्थितैः। तत्र च मध्यप्रागा-
दिविभाजिता देशाः। मध्यदेशे मध्यभागे भारतवर्षेऽन्ये देशाः प्रागादिना पूर्वांदिक्रमेण
विभाजिता विभागेन स्थापिता वक्ष्यमाणविधानेनेति। तथा च गर्गः—
कृत्तिकाद्यैस्त्रिनक्षत्रैर्भवर्गैर्नवभिः क्षितिः।
कल्पिता मध्यदेशादौ प्रागादिक्रमयोगतः॥
कृत्तिकाद्यैस्त्रिनक्षत्रो मध्यदेशे गणो यदा।
पापैरुपहतो हन्ति मध्यदेशाऽखिलांस्तदा॥
रौद्रादिको हन्ति पूर्वां सार्पाद्यः पूर्वदक्षिणम्।
आर्यम्णाद्यस्तथा याम्यां स्वात्याद्यो दक्षिणापराम्॥
ज्येष्ठाद्यः पश्चिमामाशां वैश्वाद्यश्चापरोत्तराम्।
वारुण्याद्यो हन्ति सौम्यां पौष्णाद्यः शूलिनो दिशम्॥ इति॥१॥
अथ मध्यदेशप्रविभागमाह—
भद्रारिमेदमाण्डव्यसाल्वनीपोज्जिहानसंख्याताः ।
मरुवत्सघोषयामुनसारस्वतमत्स्यमाध्यमिकाः ॥२॥
माथुरकोपज्योतिषधर्मारण्यानि शूरसेनाश्च।
गौरग्रीवोद्देहिकपाण्डुगुडाश्वत्थपाञ्चालाः ॥३॥
साकेतकङ्ककुरुकालकोटिकुकुराश्च पारियात्रनगः।
औदुम्बरकापिष्ठलगजाह्वयाश्चेति मध्यमिदम् ॥४॥
भद्र, अरिमेद, माण्डव्य, साल्व, नीप, उज्जहिान, संख्यात, मरु, वत्स, घोष, यामुन,
सारस्वत, मत्स्य, माध्यमिक, माथुर, उपज्योतिष, धर्मारण्य, शूरसेन, शौरग्रीव, उद्देहिक,
बृ० भ० प्र०-१७
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

(backwards 3) shape?
NO! It is a single rounded curve with a tail to the right: it is IDENTICAL to रु!
Wait, but could it be ध where the top loop filled in?
No, it has a tail going down-right, exactly like रु in कुरु right next to it!
Wait, why would it be रुर्मारण्य?
Wait, is it कुरुक्षेत्रधर्माण्य?
Wait, let's look at the letter between क्षेत्र and सारस्वताः:
Let's read the whole sequence:
कुरुक्षेत्र (ku-ru-kṣe-tra)
Then: रु (ru)
Then: र्मा (rmā)
Then: र (ra)
Then: ण्य (ṇya)
Wait, is it कुरुक्षेत्ररुर्मारण्य?
Wait! In line 8, it says: धर्मारण्यं पुण्यक्षेत्रम्।
So the place is indeed Dharmāraṇya.
In the verse/prose quoted from Parāśara (line 21-24):
Let's search Parāśara's text:
"शूरसेनोद्देहिकपाण्डुगुडाश्वत्थनीपकाञ्चनकौरवोत्तमज्योतिषभद्रारिमेदमाध्यमिकसाल्वसाकेतमत्स्यकपिष्ठलचक्रदौलेपमाण

नक्षत्रकूर्मविभागाध्यायः २५९

शूर्पकर्ण, खस, मगध, शिबिरगिरि, मिथिला, समतट, ओड्र ( उड़ीसा ), अश्ववदन,
दन्तुरक, प्राग्ज्योतिष, लौहित्य नद, क्षीरोद समुद्र, पुरुषाद, उदयगिरि, भद्र, गौडक, पौण्ड्र,
उत्कल, काशी, मेकल, अम्बष्ठ, एकपद, ताम्रलिप्तक, कोशलक, वर्धमान—ये देश
आर्द्रा आदि तीन नक्षत्रों के वर्ग ( पूर्व दिशा ) में स्थित हैं।।५-७।।
अथानन्तरं पूर्वस्यां दिशि देशप्रविभागः। तद्यथा—अञ्जनम्। वृषभध्वजः। पद्मम्।
माल्यवान्। एते सर्व एव गिरयः पर्वताः। तथा व्याघ्रमुखा जनाः। सुह्माः। कर्वटाः।
चन्द्रपुरं पत्तनं तत्र भवाश्चान्द्रपुराः। शूर्पकर्णा जनाः।
खसाः। मगधाख्यो देशः। शिबिरो गिरिः पर्वतः। मिथिलाख्यो देशः। समतटो
देशः। उड्रा जनाः। अश्ववदनाः। दन्तुरकाः। प्राग्ज्योतिषः। लौहित्याख्यो नदः। क्षीरोदसमुद्रः।
पुरुषादाः पुरुषभक्षा जनाः।
उदयगिरिः पर्वतः। भद्रा जनाः। गौडकाः। पौण्ड्रा जनाः। उत्कलाः। काशयः।
मेकलाः। अम्बष्ठाः। एकपदाः। ताम्रलिप्तकाः। कोशलकाः। वर्धमानाश्चेति। एते आर्द्रादिके
नक्षत्रत्रये देशाः। तथा च पराशरः—
'अथ पूर्वस्यां माल्यवच्छिबिराञ्जनपद्मवृषभध्वजोदयशिखरिदन्तुरकाः काशिकोशल-
मिथिलमेकलोत्कलपुण्ड्रकर्वटसमतटोड्रगौडकभद्रद्रविडसुह्मताम्रलिप्तप्राग्ज्योतिषवर्द्धमान-
वाजिमुखाम्बष्ठपुरुषादकर्णिकोष्ठाधिश्रोत्रव्याघ्रमुखलौहित्यार्णवक्षीरोदार्णवमीनाशनकिरात-
सौवीरमहीध्रराविवसनैकपादोद्यानुवासिनश्चे'ति।।५-७।।
अथाग्नेय्यां दिशि देशान् जनपदांश्चाह—
आग्नेय्यां दिशि कोशलकलिङ्गवङ्गोपवङ्गजठराङ्गाः ।
शौलिकविदर्भवात्सान्ध्रचेदिकाश्चोर्ध्वकण्ठाश्च ॥८॥
वृषनालिकेरचर्मद्वीपा विन्ध्यान्तवासिनस्त्रिपुरी ।
श्मश्रुधरहेमकुड्यव्यालग्रीवा महाग्रीवाः ॥९॥
किष्किन्धकण्टकस्थलनिषादराष्ट्राणि पुरिकदाशार्णाः ।
सह नग्नपर्णशबरैराश्लेषाद्ये त्रिके देशाः ॥१०॥
कोशल, कलिङ्ग, वंग, उपवंग, जठरांग, शौलिक, विदर्भ, वत्स, आन्ध्र, चेदिक,
ऊर्ध्वकण्ठ, वृष, नालिकेर, चर्मद्वीप, विन्ध्याचल के समीप, त्रिपुरी, श्मश्रुधर, हेमकूट,
व्यालग्रीव, महाग्रीव, किष्किन्धा, कण्टकस्थल, निषादराष्ट्र, पुरिक, दाशार्ण, नग्नशबर,
पर्णशबर—ये देश आश्लेषादि तीन नक्षत्रों के वर्ग ( आग्नेय ) में स्थित हैं।।८-१०।।
आग्नेय्यां पूर्वदक्षिणस्यां दिशि देशप्रविभागः। तद्यथा—कोशला जनाः। कलिङ्गाः।
वङ्गाः। उपवङ्गाः। जठराङ्गाः। शूलिकाः। विदर्भाः। वत्साः। अन्ध्राः। चेदिकाश्च।
ऊर्ध्वकण्ठाश्च।

CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२६० बृहत्संहिता
वृषः वृषस्थानम्। नालिकेरः। चर्मद्वीपः। विन्ध्यान्तवासिनः। विन्ध्यपर्वते ये निव-
सन्ति। त्रिपुरी नगरी। श्मश्रुधरा जनाः। हेमकूड्यं स्थानम्। व्यालग्रीवा जनाः। महाग्रीवाः।
किष्किन्धो देशः। कण्टकस्थलम्। निषादराष्ट्रम्। पुरिकाः। दाशार्णाः। नग्नशबराः।
पर्णशबराः। एते प्रागुक्ताः सह नग्नपर्णशबरैः। एते देशा आश्लेषाद्ये नक्षत्रत्रिके ज्ञेयाः।
तथा च पराशरः—
'अथ प्राग्दक्षिणस्यां विन्ध्यान्तवासिनश्चैदिवत्सदाशार्णाङ्गवङ्गोपवङ्गकलिङ्ग जठरपुण्ड्र-
शूलिकविदर्भनग्नपर्णशबरविन्ध्यक्षेत्रपुरपुरिककण्टकस्थलवृषद्वीपकौशलोर्ध्वककाम्बोज-
वर्मलूतककाककाचहेमकूड्यव्यालग्रीवश्मश्रुधरनालिकेरद्वीपकिष्किन्ध्याधिवासिनः'।।८-१०।।
अथ दक्षिणस्यां दिशि देशजनपदप्रविभागमाह—
अथ दक्षिणेन लङ्काकालाजिनसौरिकीर्णतालिकटाः ।
गिरिनगरमलयदर्दुरमहेन्द्रमालिन्यभरुकच्छाः ।।११।।
कङ्कटकङ्कणवनवासिशिबिकफणिकारकोङ्कणाभीराः ।
आकरवेणावर्तकदशपुरगोनर्दकेरलकाः ।।१२।।
कर्णाटमहाटविचित्रकूटनासिक्यकोल्लगिरिचोलाः ।
क्रौञ्चद्वीपजटाधरकावेर्यो रिष्यमूकश्च ।।१३।।
वैदूर्यशङ्खमुक्तात्रिवारिचरधर्मपट्टनद्वीपाः ।
गणराज्यकृष्णवेल्लूरपिशिकशूर्पाद्रिकुसुमनगाः ।।१४।।
तुम्बवनकार्मणयकयास्योदधितापसाश्रमा ऋषिकाः।
काञ्चीमरुचीपट्टनचेर्यार्यकसिंहला ऋषभाः।।१५।।
बलदेवपट्टनं दण्डकावनतिमिङ्गिलाशना भद्राः।
कच्छोऽथ कुञ्जरदरी सताम्रपर्णीति विज्ञेयाः ।।१६।।
लंका, कालाजिन, सौरिकीर्ण, तालिकट, गिरिनगर, मलय पर्वत, दर्दुर, महेन्द्र, मालिन्य,
भरुकच्छ, कंकट, कंकण, वनवासी, शिबिक, फणिकार, कोङ्कण, आभीर, आकर, वेण,
आवर्तक, दशपुर, गोनर्द, केरल, कर्णाट, महाटवी, चित्रकूट पर्वत, नासिक्य देश, कोल्लगिरि,
चोल, क्रौञ्चद्वीप, जटाधर, कावेरी नदी, ऋष्यमूक पर्वत, वैदूर्य, शंखमुक्ताकर देश, अत्र्याश्रम,
वारिचर, धर्मपुर द्वीप, गणराज्य, कृष्णवेल्लूर, पिशिक, शूर्पाद्रि, कुसुम नग, तुम्बवन,
कार्मणेयक, दक्षिण समुद्र, तापसाश्रम, ऋषिक, काञ्ची, मरुचीपट्टन, चेर्य, आर्यक, सिंहल,
ऋषभ, बलदेव, पट्टन, दण्डकावन, तिमिङ्गिलाशन, भद्र, कच्छ, कुञ्जरदरी, ताम्रपर्णी—
ये उत्तरफाल्गुनी आदि तीन नक्षत्रों के वर्ग (दक्षिण) में स्थित हैं।।११-१६।।
अथानन्तरं दक्षिणेन दक्षिणस्यां दिशि देशाः। तद्यथा—लङ्का। कालाजिनम्।
सौरिकीर्णाः। तालिकटाः। गिरिनगरम्। मलयः पर्वतः। दर्दुरः। महेन्द्रः। मालिन्यः।
एते पर्वताः। भरुकच्छा जनाः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

'?
Let's look REALLY closely at line 21:
'साराश्रमाः'
Next is single quote? No, closing quote is on 'साराश्रमाः':
Look: after माः there is an apostrophe / single quote: ’
Then two dandas: ।।
Then two 1s? Wait, there are THREE 1-like glyphs:
Look: ।। ११-१६ ।। or ।। १ १ १ - १ ६ ।।?
Let's count:
Glyph 1: ।
Glyph 2: ।
Glyph 3: १
Glyph 4: १
Wait, between Glyph 2 and '-' there are TWO digits!
Wait, look at:
।। १ १ - १ ६ ।।
Wait, why did I think three?
Ah, because in my first quick glance I wondered. But looking closely:
। (danda 1)
। (danda 2)
१ (one)
१ (one)

  • (hyphen)
    १ (one)
    ६ (six)
    । (danda 1)
    । (danda 2)
    Yes, it is: ।। ११-१६ ।।
    Wait, look at the space between ।। and ११:
    They are slightly spaced: "।। ११-१६ ।।"
    Wait, look:
    'साराश्रमाः' ।।११-१६।। or 'साराश्रमाः' ।। ११ - १६ ।।
    It's clearly verses 11 to 16