सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 296, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 296

२५६ बृहत्संहिता
अत्रेरिति । कान्तारमटवी। तत्र भवो जन्म येषां ते कान्तारभवाः। जलजानि। जले
यानि द्रव्याणि जायन्ते। अम्भोनिधिः समुद्रः। सरितो नद्यः। एते अत्रेः।
राक्षसाः। पिशाचाः। दानवाः। दैत्याः। भुजङ्गाः सर्पाः। एते पुलस्त्यस्य स्मृताः
कथिताः। मूलफलं यत्किञ्चित्तत् पुलहस्य। यज्ञा मखाः। यज्ञभृतो यज्ञकर्तारः। तैः सह
यज्ञाः क्रतोरिति। तथा च वृद्धगर्गः—
देवदानवगन्धर्वाः सिद्धपन्नगराक्षसाः।
नागा विद्याधराः सर्वे मरीचेः परिकीर्तिताः ।।
यवनाः पारताश्चैव काम्बोजा दरदाः शकाः।
वसिष्ठस्य विनिर्दिष्टास्तापसा वनमाश्रिताः ।।
धीमन्तो ब्राह्मणा ये च ज्ञानविज्ञानपारगाः।
रूपलावण्यसंयुक्ता मुनेरङ्गिरसः स्मृताः ।।
कान्तारजास्तथाम्भोजा अत्रेर्ये सरिदाश्रिताः ।
पिशाचा दानवा दैत्या भुजङ्गा राक्षसास्तथा ।।
पुलस्त्यस्य विनिर्दिष्टाः पुष्पं मूलं फलं च यत्।
तत्सर्वं पुलहस्योक्तं यज्ञा यज्ञभृतश्च ये।।
क्रतोरेव विनिर्दिष्टा वेदज्ञा ब्राह्मणास्तथा ।। इति ।। ८-११ ।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ सप्तर्षि-
चारो नाम त्रयोदशोऽध्यायः ॥ १३ ॥
वराहमिहिराचार्यग्रहचारोदधौ कृते ।
अर्थिनामुत्पलश्चक्रे स्वार्थाय विवृतिप्लवम् ।।
इति ग्रहचाराः समाप्ताः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA