भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
- ३४३ -
अन्तःकरणवृत्तीनां भेदतस्तस्य वै भिदा।
त्वं शृङ्गारी परानन्दरूपिणीं सहजामनु ॥ ३ ॥
प्रमोदविपने चैव चित्रकूटे मनोहरे !
कोटिकन्दर्पसुभगः क्रीडसे त्वं रमायुतः ॥ ४ ॥
एतदर्थमेव भुवि प्रकटोऽभूः सनातनः।
सहजानन्दिनी चापि प्रमोदवनसुन्दरी ॥ ५ ॥
अनेकरूपिणी भूत्वा त्वां वै रमयति प्रभो।
सोऽयं लीलारसानन्दो दृढतां समुपागतः ॥ ६ ॥
तस्य साक्षी त्वहं ब्रह्म त्वत्प्रकाशमयोऽक्षरः।
तत्र तत्र नियुक्तोऽहं त्वया रमणकोविद ॥ ७ ॥
तत्तद्रूपमुरीकृत्य लीलापरिकरोऽभवम्।
अहं रसालविपिने रसालद्रुमवाटिका ॥ ८ ॥
अशोकविपिने चाहमशोकद्रुमवाटिका।
तन्मञ्जरीमधुकराः पल्लवाश्चारुणप्रभाः ॥ ९ ॥
शीतलः सुरभिर्मन्दः समीरश्चन्दनस्पृशः।
कीरकोकिलकेक्याद्याः पक्षिणो मधुरस्वराः ॥ १० ॥
ऋतवस्ते वसन्ताद्याश्चन्द्रचन्दनचन्द्रिकाः।
अहं सर्वस्वरूपेण त्वन्नियोगादिहाभवम् ॥ ११ ॥
स कथं तव विश्लेषं सहिष्ये रघुपूङ्गवः।
पूर्वमाचान्तममृतमधुना विषमुल्वणम् ॥ १२ ॥
आत्रमिष्यामि भगवन् त्वद्विग्नोऽहं ततः प्रभो।
सर्वं जानाति भगवान् कार्याकार्यविवेचनम् ॥ १३ ॥
वीरश्चापि भवानक्षणो रददात्परमां मुदम्।
वैश्वामित्रे यज्ञवाटे तथा भार्गवसंगमे ॥ १४ ॥
सुबाहुमथने चापि सहस्ररामरूपधृक्।
लङ्कायां राक्षसहृतौ वीरो भूत्वा व्यरीरमः ॥ १५ ॥
राक्षसेन्द्रमहोद्दण्डतरङ्गगणमार्जिते ।
सिन्धोर्मध्ये दुर्गेमे त्वां न व्यमुञ्चमहं क्वचित् ॥ १६ ॥
अहं बाणाधनुश्चैव रथः पत्तिर्हयास्तथा।
कंबलः कवचं चापि तत्र तत्राभवं ह्यहं ॥ १७ ॥
स कथं मोक्तुमिच्छेयं तव सार्थं रमापते।
किमर्थं तादृशो स्वादे पूर्वमस्मि नियोजितः ॥ १८ ॥
- ३४४ -
नियोजितश्चेत्रविभुना न वियोज्योऽस्मि सम्प्रति ।
तस्मात्तद् हृदयं भ्रातः स्फुटतीव च मामकम् ॥ १९ ॥
विशीर्यन्ति ममाङ्गानि तापश्चापि प्रजायते ।
शून्या दिशः प्रपश्यामि न विन्दामि धृतिं हरे ॥ २० ॥
प्रत्यङ्गं ज्वलति वपुर्मदीयमङ्गं स्मारं स्मारमतिबिसह्यमेतदुच्चैः ।
अग्रे भाव्यं न भवन्नागतंमे कीदृग्जातं देहजं दुःखमस्तिमह्यम् ॥ २१ ॥
एतत्तेऽनुचितं राम भक्तेर्मे दुःखदंशनम् ।
तदप्यशनिपातोत्थवेदना मे दिवानिशम् ॥ २२ ॥
दूरादेव वितर्कयामि भवतः संयोगजं यत्सुखं-
यादृग्विस्तृतमस्ति निस्तुलतरं भक्तानुभूत्यास्पदम् ।
दुःखं चापि तु तादृगेव भविता विस्तारि सर्वोत्तम-
प्रेमोत्थं खलु कोटिजन्मनिबहैर्भोग्यं यदैकक्षणे ॥ २३ ॥
तदहमिह सहिष्ये नैव मत्तः कदाचित्-
परममशनिपाताच्चापि काठिन्ययुक्तम् ।
वितर रघुपते हा राम कारुण्यकोणां-
दृशमसदृशं तां पापसंघातहन्त्रीम् ॥ २४ ॥
सर्वथा दण्डनीयोऽहमपराधे महत्यथ ।
चरणाम्भोजसंसर्गादत्रापि त्वपयातु नः ॥ २५ ॥
अस्तु नाथ महान् दण्डः संगतस्यैव मे त्वया ।
असंगतस्य तु स्वामिन् महानन्दोऽपि मास्तु मे ॥ २६ ॥
पशुपक्षिलतागुल्मवृक्षादिजनिमाप्नुयाम् ।
तत्र तत्र भवेयं ते चरणाम्भोजसंगमी ॥ २७ ॥
प्रमोदवनलीला च दृष्टा संस्मर्यतेऽधुना ।
तत्रैव देहि रामेन्दो यां कांचिज्जनिमद्भुताम् ॥ २८ ॥
प्रमोदवनलीला चे दृष्टा प्रेमाङ्कुरस्पृशी ।
उच्चैर्वितर संस्थानमधो वापि प्रवेशय ॥ २९ ॥
न पुनस्तव विश्लेषो भूयान्मम मनागपि ।
वज्रादपि ह्यसह्यं यदात्मपातादपि द्रुतम् ॥ ३० ॥
सर्वमस्तु प्रभो दण्डाद् दुःखं परमदुःसहम् ।
मा ते लीलोपसंहारो भवतु श्रीरमापते ॥ ३१ ॥
लीलैवहि ममाधारो लीलैव मम जीवनम् ।
लीलैव मम सर्वस्व लीलैव मम लोचनम् ॥ ३२ ॥
मच्छरीरसुरक्षायै लीलारक्षा विधीयताम् ।
लीलाभावे महद्दुःखं मम राम भविष्यति ॥ ३३ ॥
तुलसीमालिका नाम चरणाम्भोजचिन्तनम् ।
नित्यं लीलारसानन्द एतद्भक्तस्य जीवनम् ॥ ३४ ॥
धनुर्बाणाङ्किततनू राममन्त्रं सदा जपन् ।
तव लीलारसानन्दी भूयासं नित्यमीश्वर ॥ ३५ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे
एकत्रिशोऽध्यायः ॥ ३१ ॥
द्वात्रिंशोऽध्यायः
ब्रह्मोवाच
श्रीमत्संकर्षणाख्यस्य लक्ष्मणस्य वचस्त्विदम् ।
आर्त्या विक्लवतं श्रुत्वा प्रोवाच सहजापतिः ॥ १ ॥
श्रीराम उवाच
नाभावो मम लीलानां लक्ष्मण क्वापि विद्यते ।
कालमायागुणादीनामस्पृश्योऽहं निरूपितः ॥ २ ॥
मद्रूपं नित्यमेवेदं यद्यद् भक्तैः प्रतीयते ।
तथैव मम लीलानां नित्यता विनिरूपिता ॥ ३ ॥
मया च तव विश्लेषो न कदाचन विद्यते ।
पुरुषोत्तमसंज्ञं तल्लीला वै शिष्यभोगिना ॥ ४ ॥
द्विविधा मम सा लीला ज्ञेया नित्यापि लक्ष्मण ।
प्रकटाप्रकटा चापि कालमायागुणातिगा ॥ ५ ॥
पूर्वावतारकालीना तिरोभूता परा मयि ।
अहं हि सहजानन्दी प्रमोदवनकेलिभृत् ॥ ६ ॥
निमित्तं किंचन प्राप्य भक्तसम्पालनादिमत् ।
युक्तो लीलापरिकरैः प्रादुर्भूय प्रदर्शये ॥ ७ ॥
सहजाकेलिरसिकं निजरूपं मनोहरम् ।
मय्येवाहं तिरोभूय तिष्ठामि प्रथमं सखे ॥ ८ ॥
- ३४६ -
ततो महन्महिम्नोऽहं मत्स्वरूपाच्चिदात्मनः ।
आविर्भवामि लोकानामभ्युद्धरणहेतवे ॥ ९ ॥
आत्मानाहं निजात्मानं विसृजामि निजात्मनः ।
अहमेव ममाधारो निलयश्चाहमेव हि ॥ १० ॥
मयैव मत्परिच्छेदो निश्चयेन विभाव्यते ।
तदाकालश्च देशश्च स्वरूपं च मदात्मकम् ॥ ११ ॥
कोसलाख्यं पुरं नित्यं कोटिकल्पावसानगम् ।
कालस्यापि च कालोऽहं यत्र नित्यं प्रतिष्ठितः ॥ १२ ॥
भवांश्च न स्वस्वरूपं वेद मत्प्रेममोहितः ।
मत्परोक्षे निजैश्वर्यं प्रकाशयसि लक्ष्मण ।
मयि स्थिते मम प्रेमसुधासिन्धौ निमज्जसि ॥ १३ ॥
भवांश्च हनुमान् वीरो लक्ष्मीः प्रद्युम्न एव च ।
अनिरुद्धश्च भगवान् अमी ईशाः पृथक् पृथक् ॥ १४ ॥
मयि स्थिते न वः शक्तिरभ्युपैति प्रकाशताम् ।
पुरुषोत्तम ता सेयं मम सर्वोत्तमाकृतेः ॥ १५ ॥
अक्षरं चापि यद्ब्रह्म कालमायातिगं बृहत् ।
तदेतन्मत्प्रकाशत्वान्न स्वातन्त्र्यमिहार्हति ॥ १६ ॥
लीला सृष्टिविलासित्वं स्वातन्त्र्यं नाम कीर्तितम् ।
अक्षरस्य द्विधा भावः प्रकृतिः पुरुषश्च सः ॥ १७ ॥
ज्ञानमार्गं उपास्यं यत् स्वरूपं तन्निगद्यते ।
न तस्यलीलाकारित्वं मदावेशेन तु स्फुटम् ॥ १८ ॥
अहं च त्वामधिष्ठाय क्रीडामि पुरुषोत्तमः ।
प्रकाशश्च सूर्यश्च यथैवाव्यभिचारिणौ ॥ १९ ॥
त्वयैवाव्यभिचारेण तथैवाहं प्रतिष्ठितः ।
दृश्यसे मदभिन्नोऽपि त्वं भिन्नइवलक्ष्मण ॥ २० ॥
सेयं लीलाश्रया शक्तिर्ममैव विनिरूप्यताम् ।
अयमज्ञानजो मोह इतरेषु विभाव्यते ॥ २१ ॥
ये जीवा ˚ मम मायाभिर्मोहिता अज्ञसंज्ञकाः ।
न तु त्वयि महाप्राज्ञ देवदेवे जगद्गुरौ ॥ २२ ॥
मत्स्वरूपान्यूनकक्षे श्रीविष्णौ परमेश्वरे ।
अवतारास्तु वै चैते मत्स्यकूर्मादयोऽखिलाः ॥ २३ ॥
- ३४७ -
अवतारी त्वमेवैकोऽस्यवतारी तथाप्यहम् ।
भ्रातस्त्वमेव शेषोऽसि मम धाम सनातनम् ॥ २४ ॥
यस्यांशो धरणीं सर्वां शिरस्यादाय तिष्ठति ।
कल्पान्ते त्वन्मुखोद्गीर्णो महावह्निः प्रचण्डभाः ॥ २५ ॥
तापयिष्यंस्त्रिभुवनं समिधोऽग्निरिन्धनः ।
शोषयित्वा जगत्सर्वं ज्वालयत्येव निश्चितम् ॥ २६ ॥
ततः कालघनो भूत्वा वर्षिष्यति महज्जलम् ।
एकार्णवां भुवं कृत्वा रुद्रग्रासादितां सखे ॥ २७ ॥
शमं यास्यसि मे तल्पो भूत्वा निद्रासुखं महत् ।
मह्यं दास्यसि भोगेन कोमलेन स्ववष्मंणा ॥ २८ ॥
इदं ते परमं रूपं मम लीलासुखाय च ।
लीलापरिकरः सर्वस्त्वमेव विनिरूपितः ॥ २९ ॥
१त्वमेवोपादानरूपश्च सर्वस्य जगतः प्रभो ।
तस्मादेवं मनोमोहं न त्वं कर्तुमिहार्हसि ॥ ३० ॥ ,
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे
द्वात्रिंशोऽध्यायः ॥ ३२ ॥
❖
त्रयस्त्रिंशोऽध्यायः
लक्ष्मण उवाच
परब्रह्मस्वरूपस्त्वं राम राजीवलोचन ।
त्वमेव परमं धाम जीवानां त्वं परा गतिः ॥ १ ॥
न हि ते भगवंस्तत्त्वं विदन्ति विबुधा अपि ।
न वेदा नापि योगाङ्गैः साधितात्मान ईश्वराः ॥ २ ॥
त्वमेव ते परं तत्त्वं जानासिदितिजार्दन ।
तव भक्त्या त्वत्स्वरूपं भक्ताः केचन जानते ॥ ३ ॥
१. पादेऽस्मिन्नक्षराधिक्यमार्षः ।
- ३४८ -
तवैवानुग्रहे हेतुर्विद्वत्ता नोपयुज्यते ।
शब्दः खलु भवद्रूपमुपदेष्टुमथार्हति ॥ ४ ॥
सोऽपि ताटस्थ्यभावेन न स्वरूपेण कर्हिचित् ।
लक्षणं तव नास्त्येव लक्ष्यरूपात् परं प्रभो ॥ ५ ॥
लक्ष्यलक्षणयोरैक्यं त्वत्स्वरूपनिरूपणे ।
मयि लीलारसानन्दोभूयान् विस्तारितस्त्वया ॥ ६ ॥
तेनैव प्रसृतं प्रेम विश्लेषणभयवर्द्धनम् ।
स्वरूपाकलनेनैतत्स्थिरंमयि विधेहि भोः ॥ ७ ॥
अपि नाम यदानाथ तव लीला रसात्मिका ।
प्राकट्यमभ्युपैत्येषा तदा संस्थास्ति कालतः ॥ ८ ॥
अप्राकट्यं यदा नाथ प्रयासि लीलया सह ।
तदा चकास्ति संस्थानो रामैतत्प्रतिबोधय ॥ ९ ॥
नहि नो भगवन् राम वासनान्या विजृम्भते ।
ऋते त्वच्चरणाम्भोजधूलिधूसरतां तनोः ॥ १० ॥
एतावदेव नः प्रार्थ्यं नाथ जन्मनि जन्मनि ।
श्रीराम तव पादाब्जतललग्ना वयं सदा ॥ ११ ॥
श्रीश्च शेषश्च ब्रह्मा च रुद्रश्चेन्द्रश्चयत्स्पृहाम् ।
नित्यं कलयते राम तादृशं नेतरत्सुखम् ।
मुक्त्यानन्दादिकं सर्वमिहैवान्तर्विशत्यहो ॥ १२ ॥
१एतस्मादतिरिक्तं यत्पारमेष्ठ्यं महेन्द्रताम् ।
सार्वभौमपदं वापि न वयं स्प
- ३४९ -
लीलापरिकराश्चान्य इत्येते भवदादयः।
सर्वत्र माययाच्छन्नः स्वेच्छामात्रेण तां पुनः॥ १८॥
^१विभिद्य भित्त्याद्यावरणमपसार्य यथा नभः।
प्रादुर्भूतः सर्वमुक्तिस्तिरोधाय नराकृतिः॥ १९॥
यावदिच्छाप्रसारो मे तावन्मायाप्रसारणम्।
तदा सर्वे प्रपश्यन्ति मां सच्चित्सुखरूपिणम्॥ २०॥
दितिजा दनुजाश्चापि राक्षसास्तामसा जनाः।
पशवः पक्षिणः कीटा अन्ये च विविधा जनाः॥ २१॥
तेषु येषामहं स्वेच्छामात्रेण परमोहिनीम्।
दूरीकरोमि तां मायां लोके मामुपयान्ति ते॥ २२॥
मदिच्छामात्रमाश्रित्य न भवेन्मुक्तिसाधनः।
अव्यक्तत्वात्सखे तस्याः प्रयतेत्किल्विषैरिह॥ २३॥
एतत्कार्यं बुद्धिमता प्रशस्तं कर्म यद्भवेत्।
वैराग्यं
- ३५० -
वशीभूते मयि पुंसां किमशक्य नु विद्यते ।
साधनावधिसंजाता साधनेऽप्यूनवृत्तिका ।
अनुद्भीषेति सा प्रोक्ता नित्यमेव फलोन्मुखी ॥ ३१ ॥
किं तु कर्मध्वंसकरी ज्ञानमार्गाद्गरीयसी ।
साधनानां च सर्वेषामेका मुख्यतमा त्वियम् ॥ ३२ ॥
सर्वाण्येव च कर्माणि भस्मीकुर्यादियं तथा ।
हित्वा प्रारब्धकर्मैकं भोगनाश्यं यतोहितत् ॥ ३३ ॥
इदं ते सर्वमाख्यातं मत्प्राकट्यप्रयोजनम् ।
प्राकट्यान्ते तथैवाहमप्राकट्यं व्रजामि च ॥ ३४ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे
त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
✤
चतुस्त्रिंशोऽध्यायः
श्रीराम उवाच
यत्र¹ पूर्वं स्थितश्चान्तर्हितो लीलाप्रवर्त्तकः ।
यत एवोपगच्छामि जनदृग्गोचरत्वकम् ॥ १ ॥
तत्रैवाहं पुनर्यामिव्यापके निजधामनि ।
इह तत्रामुत्र सदा सर्वत्र प्रतिभाति सत् ॥ २ ॥
ज्ञानिनां चापि भक्तानां नित्यलीलारसात्मकम् ।
आदाय² परिकरं सर्वं कार्यान्ते प्रविशाम्यहम् ॥ ३ ॥
आत्मन्येव वियोगेन चात्मानं संहराम्यहम् ।
निर्गुणं सच्चिदानन्दं कालमायातिरस्करम् ॥ ४ ॥
प्रमोदवनसंज्ञं तन्मम धाम विराजते ।
गमनं गगनाकारं सुविशालं मनोहरम् ॥ ५ ॥
कल्याणगुणसम्पन्नं नित्यरूपं सनातनम् ।
सर्वर्तुसुखसंयुक्तं नाना भोगविशारदम् ॥ ६ ॥
˙१. प्रमोदवने-टि० बड़ौ० । २. पादेऽस्मिन्नक्षराधिक्यमार्षः ।
- ३५१ -
नानालक्ष्मीविलासोत्थकोटिब्रह्मसुखोत्तरम् ।
तुच्छीभवन्महायोगनिरन्तरमहत्सुखम् ॥ ७ ॥
पीयूषद्रवनिर्जैत्रमहामधुरिमास्पदम् ।
अनन्तगुणसम्बद्धं सर्वदोषविवर्जितम् ॥ ८ ॥
अनेककौतुकागारं समस्तसरञ्जितम् ।
ऊधोभारभराक्रान्तैः पयःपीयूषसंस्रवैः ॥ ९ ॥
हरिच्छाद्वलमध्यस्थैः सवत्सैः शृङ्गमञ्जुलैः ।
चन्द्रवर्णैस्तर्घनश्यामैः स्वर्णवर्णैर्मनोहरैः ॥ १० ॥
अयुतप्रयुतातीतगणसौहार्दवारिभिः ।
१एकवर्णसमाकारमुख्यपृष्ठगतापरैः ॥ ११ ॥
गवेन्द्रसुखिताधीशसर्वस्वार्पितसद्व्रतैः ।
गोकुलैः क्रोडनोत्साहैर्नीचिकीचक्रमण्डलैः ॥ १२ ॥
वत्सैर्वत्सवतरीभिश्च तथा वत्सतरैः शुभैः ।
ललाटोदितचन्द्राङ्कः
- ३५२ -
निरन्तरोत्साहवद्भिर्नागरैर्विविधैर्जनैः ।
साम्यैरपिधृतानेकनगराचारकोविदैः ॥ २२ ॥
सदा मण्डयिष्यमाणं मण्ड्यमानं च मण्डितम् ।
गोपैश्च गोपिकाभिश्च नागरीभिर्निषेवितम् ॥ २३ ॥
अलङ्काराङ्गरागादिशृङ्गाररचनामयम् ।
वस्त्रभूषणवैविध्यविधिक्रान्तं गृहे गृहे ॥ २४ ॥
श्रीरामरमणीवृन्दकृतकन्दर्पकेलिकम् ।
मानप्रसादनोद्युक्तश्रीरामरमणान्वितम् ॥ २५ ॥
हरिनामाधारपरैर्वैष्णवैः प्रेमपालिभिः ।
सखीदूत्यादिविविधसमाचारनिरन्तरैः ॥ २६ ॥
सहजारामसंयोगरसास्वादपरायणैः ।
विप्रयोगरसस्वादपरितसैः क्वचित् क्वचित् ॥ २७ ॥
आकीर्णं रसिकैर्जीवैर्विशुद्धैर्नित्यनिर्गुणैः ।
सांसारिकजनोद्धारकरणापाङ्गभङ्गिभिः ॥ २८ ॥
मुग्धाप्रगल्भादिभेदकान्ताजनसमावृतम् ।
रामप्रेमसमाचारमाङ्गल्यवत्सलोत्तमम् ॥ २९ ॥
श्रीरामगुणसंश्रावपरायणसखीजनम् ।
स्वाधीनपतिकाश्रीमत्सहजानन्दिनीकृतैः ॥ ३० ॥
लीलाचरित्रकलनैरूद्धूतयशसाऽऽचितम् ।
आधिदैविककालोत्थसर्वदिव्यगुणान्वितम् ॥ ३१ ॥
श्रीरामप्रेमकीर्तिभ्यां मण्डितं प्रतिमन्दिरम् ।
विस्तीर्णपणविन्यस्तनवनिध्यधिकैरपि ॥ ३२ ॥
अनेकरूपसंचारिश्रीमद्दिव्यरमाश्रितम् ।
कोकिलामधुपाराववसन्तश्रीविराजितम् ॥ ३३ ॥
नृत्यन्मत्तमयूरश्रीशोभाप्रावृद्धनद्युति ।
श्रीरामरूपमाधुर्यसहजातनुकान्तिभिः ॥ ३४ ॥
एकतः प्रावृषाकारं परतः शरदान्वितम् ।
चकोरचञ्चुपुटकाचान्तरामेन्दुचन्द्रिकम् ॥ ३५ ॥
सर्वोत्तमगुणावास सर्वोत्तमशुभान्वितम् ।
सर्वोत्तमरसाभ्यक्तं महाभावविभावितम् ॥ ३६ ॥
हावभावकलामूल कुसुमाकरशोभितम् ।
सर्वनित्यपुरीवासं मथुरादिपुरीगणैः ॥ ३७ ॥
- ३५३ -
मूर्तिमद्भिर्महोदाररामानन्दैकहेतवे ।
उपास्यमानं नितरां महासौभाग्यकाङ्क्षिभिः ॥ ३८ ॥
खेलत्खञ्जननेत्रैन्सहजालिविलोचनम् ।
किशोरीकोटिपादाब्जनूपुरध्वनिनादितम् ॥ ३९ ॥
नित्यकाम¹दुधोत्फुल्लमहावृक्षकदम्बकम् ।
लतानित्यनिकुञ्जाढ्यं संकेतस्थलमञ्जुलम् ॥ ४० ॥
अनेकवल्लीविपिननृत्यत्केकिगणावृतम् ।
मनोज्ञकुञ्जपुञ्जाढ्यं सकलर्तुसुखावहम् ॥ ४१ ॥
अनेकपर्वतवरस्रवन्निर्झरनादितम् ।
रत्नधातुमयानेकशिखरोत्तुङ्गमन्दिरम् ॥ ४२ ॥
दरीमन्दिरविश्रान्तश्रीरामरमणीगणम् ।
कूजत्पक्षिगणस्थानवृक्षशाखाविराजितम् ॥ ४३ ॥
निर्मलाम्बुसरिद्वीचीक्षालितानेकसत्तरूम् ।
विचित्ररत्नसो
"
It is without any doubt "तं मां"!
Wait, why does it look like that? If it's a print defect or odd character, transcribing it as "तं मां" or "तन् मां" or keeping it as close as possible:
Wait, let's look at the mark: could it be तन्?
If someone reads it as तन् मां or तं मां - both mean the exact same thing (तन् मां is just sandhi/orthographic variant of तत् मां or तं मां).
Wait, could it be तं? Let's look at whether there's a dot: no dot above.
Wait, what if it's तन् with a subscript न्?
Let's look at how other characters are printed.
Whatever it is, writing तं मां or तन् मां:
Wait, let's look at the prompt: "Transcribe text ... line by line into pure, clean Markdown in Unicode Devanagari."
If it looks like तं मां, or if it's तन् मां, let's see which is better: "तं मां" is standard Sanskrit, but if the print literally has a mark, let's write तं मां or तन् मां. Wait, looking at it, it really looks like तं with a smudge, or तन्. Let's write तं मां (or तन् मां). Wait, actually, look at the
- ३५५ -
सेवकः परमोऽयं मे विश्वं विपरिणामयन् ।
यथाहं फलसंसिद्धौ हेतुस्तद्वदयं सखे ॥ ६८ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे
चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
पञ्चत्रिंशोऽध्यायः
ब्रह्मोवाच
एवं समाहितो भ्राता रामेण प्रभुणा स्वयम् ।
लीलातिरोधानभवं संक्लेशं विरहात्मकम् ॥
मुमोच लक्ष्मणः सद्यो बहुधा सम्प्रबोधितः ॥ १ ॥
सहजानन्दिनीं शक्तिं ज्ञात्वास्य परमात्मनः ।
सर्वां लीलां नित्यतया मन्यमानः सुनिर्भयः ॥ २ ॥
तदिच्छामात्रतश्चास्यास्तिरोभावं विदन्नभूत् ।
सर्वत्र विगताशङ्कस्तदेकाश्रयतत्परः ॥ ३ ॥
लक्ष्मण उवाच
सत्यं तव परा लीला कालमायातिगा प्रभो ।
सैवास्ति जीवनं नाथ भक्तानां प्रेमचेतसाम् ॥ ४ ॥
गतं विरहकादर्यं त्वत्स्वरूपप्रबोधनात् ।
नित्यमेव भवत्सङ्गे रमयामि च राघव ॥ ५ ॥
एकान्तिनो वयं दासा भवत्सङ्गे रमामहे ।
नित्यानन्दसुखे मग्ना निर्भयाः स्म प्रभो सदा ॥ ६ ॥
लीलापरिकरैः साकं सदैव रमसेऽनिशम् ।
विशिष्टमेव रूपं ते प्रमुद्धन्महीतले ॥ ७ ॥
इत्युक्त्वा लक्ष्मणो रामं सरयूतीरमाश्रितः ।
निजप्रासादवर्ये स रेमे परमनिर्वृतः ॥ ८ ॥
आमन्त्र्य रामं भ्रातरं स्वपुरं समगात्ततः ।
सुवर्णरत्नप्रासादप्रभाद्योतितदिक्तटम् ॥ ९ ॥
- ३५६ -
अनेकवापिकावारिफुल्लेन्दीवरपङ्कजम् ।
गुञ्जद्भ्रमरसंदोहसम्बद्धकुसुमाकरम् ॥ १० ॥
अनेकवाटिकावृन्दविकासिबहुभूरुहम् ।
अनेकलक्ष्मीप्रसरं गायत्किन्नरसुन्दरम् ॥ ११ ॥
गन्धर्वललनागीतगम्भीरध्वनिमञ्जुलम् ।
चलत्कुरङ्गनयनामञ्जीरध्वनिनादितम् ॥ १२ ॥
नर्तकीनृत्यवलितं विलासशतसंकुलम् ।
ऊर्मिलाभोगललितं कोकिलाकुलनादितम् ॥ १३ ॥
विचित्रचित्ररचनारमणीयकसंयुतम् ।
त्रैलोक्यलक्ष्मीशोभाढ्यं बहुसम्पद्विराजितम् ॥ १४ ॥
सारिकावदनोत्थेन रामनाम्ना निनादितम् ।
स्थले स्थले कणद्वीणासम्बद्धरामनामकम् ॥ १५ ॥
रत्नप्रासादकिरणप्रकाशितदिगन्तरम् ।
मणिकुट्टिमसंक्रान्तलक्ष्मणप्रतिमाकुलम् ॥ १६ ॥
नित्यंवसन्तसदनं नित्यवर्षासु
– ३५७ –
ज्ञात्वा पुरुषवर्यं तं साक्षाद् रामं परं विभुम् ।
अयोध्यास्था जनाः सर्वे ऊचिरेऽन्योन्यमादृताः ॥ २ ॥
जना ऊचुः
अहो अयं कोऽपि महान् वरेण्यो रामः कलाकोटिधरोऽवतारी ।
आजन्मतोऽद्यावधि सर्वमुत्तमं चक्रे चरित्रं परदुःखवारणम् ॥ ३ ॥
तथा ह्यनेन प्रसभं निपातिता दैतेयवंशाः कति नो धरण्याम् ।
येषां बलं शक्रमखैः सुरैरपि प्रभावयुक्तैरपि दुर्निवार्यम् ॥ ४ ॥
अनेन बालेन हता जिघांसुः सा राक्षसी द्वित्रिमासोद्भवेन ।
याभूद् बहुक्रोशमितोग्रविग्रहा शैलेन्द्रवक्षोजवतीव पूतना ॥ ५ ॥
हतः स खट्वामधिशय्य तिष्ठता खट्वासुरो नामपरः शिशुग्रहः ।
अदृश्यरूपः खलुरावणस्य यो हितप्रदः कुञ्जरकोटिविग्रहः ॥ ६ ॥
हतः स वात्या प्रचयात्मना चरन् महासुरो बालकेलीपरेण ।
येनान्तरिक्षेऽप्युपात्तवेगिना बलाधिकेन प्रसभं हारकेण ॥ ७ ॥
यः कावपि क्षितिरुहौ गगनस्पृशाङ्घ्रौ-
शाखाभुजैरपि गतौ घनमण्डलान्तम् ।
स्पृष्ट्वा पदाम्बुजयुगेन च शापजातौ-
कौचित्सुरौ समुदपाटयदात्तलीलः ॥ ८ ॥
येनातिवेगा दुदपाटि भूरुहौ माङ्गल्य कामात्तृनिबद्धदाम्ना ।
ततो विनिर्गम्य च केनचित्स्तुतः पुंसा सुवेशेन कृताञ्जलेन ॥ ९ ॥
साक्षान्महाविष्णुरिति प्रतीयते भाग्येन तेनामितवैभवाढ्यः ।
यः कुञ्जरैरप्यतिविक्रमोद्धुरैर्न भञ्जनीयोऽप्यतियत्नेन तावत् ॥ १० ॥
यः कालमेघामितवृष्टिवेपितं संलक्ष्य लोकं निजमातपत्रम् ।
विस्तारयामास दशैकयोजनच्छायाकर गोपतिगोधनोपरि ॥ ११ ॥
यस्मिंश्च सापश्यदशेषविश्वकं माङ्गल्यका श्रीजननी समंततः ।
सपर्वतं सान्धिजलं सकासनं विचित्ररूपं सर्वमेकत्र सस्थम् ॥ १२ ॥
वितर्कयामास प्रथमं ततस्तं लोक धात्रा सहितं सभूधरम् ।
कदाचित्कर्तुं श्रीभगवान् राघवेन्द्रः परीक्षण समवेक्ष्य विचित्रलीलः ॥ १३ ॥
योऽयं ततः समभवत्सकलस्वरूपः स्वांशके न हि रचिताखिलसत्प्रपञ्चः ।
दृष्ट्वा च यस्य बहुरूपताया व्रजान्तरत्यद्भुतां भवनशक्तिमनन्तशक्तेः ॥ १४ ॥
धाता पदाम्बुरुहयोर्न्यपतत्प्रभग्न लोकेशमानविभवोन्नतिरात्तदास्यः ।
गावश्च येन परतः खलु पाल्यमानाः साक्षान्महोपनिषदश्च तदेकदेशाः ॥ १५॥
cā) न्नि (nni) ना (nā) य (ya). It's पश्चान्निनाय! Exactly! न्नि has the ि matra, ना has ा matra. So it is पश्चान्निनाय.
- And
स्वयvsस्वयं: look aboveयinस्वय: there is a tiny speck or is it clean? It looks likeस्वय विहितात्मपूजो.... Let's writeस्वय(orस्वयं? wait, inस्वय विहितात्मपूजो, it'sस्वय). - And verse number is
॥२०॥(no spaces). - L13:
यश्चस्वसौन्दर्यविमोहिताभ्यो व्रजाङ्गनाभ्यो व्रतकशिताभ्यः । - L14:
ददौ स्वरूपं जनकेन्द्रपुत्रो प्रसादकाले परमप्रसन्नः ॥ २१ ॥- Wait, is it
जनकेन्द्रपुत्रो? Yes,जनकेन्द्रपुत्रो. - Is there a mark before
ददौ? It is an inverted comma:ददौhas a small curve,before it at baseline/subscript:,ददौ. Better to writeददौor
- Wait, is it
- ३५९ -
इत्याद्यनेकानि दधच्चरित्राण्युपागतो राघवेन्द्रस्य गेहे।
कौसल्याया दृष्टिसुख वितन्वन्नेको रामः सम्प्रतीतश्चतुर्धा ॥ ३० ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे
षट्त्रिंशोऽध्यायः ॥ ३६ ॥
सप्तत्रिंशोऽध्यायः
जना ऊचुः
अहो अतः श्रीरघुवर्यगेहे श्रीमत्ययोध्यानगरे तदैव।
अत्यद्भुताः सम्पद आविरासुर्यास्ताः प्रमोदाख्यवने प्रसिद्धाः ॥ १ ॥
ऋतुर्वसन्तोऽत्र समावसत्सदा गुञ्जद्द्विरेफावलिरुक्तणात्मकः।
गृहे गृहे चात्र समृद्धयोऽभवन् साक्षाद्रमावल्लभवासयोग्याः ॥ २ ॥
कदाचिदेष प्रभुश्रात्मनः पितुश्चक्रे गृहादानयनं प्रचेतः।
दधत्स्रजं चापि तदोपढौकितां महार्हरत्नप्रकरैरूपेताम् ॥ ३ ॥
रमन् वसन्तोत्स्तवजैर्विलासैः समागतश्चारुसाकेतपुर्याम्।
छायामय सन्यवधीन्महासुरं शरेण रुद्रादिसुरानिवार्यम् ॥ ४ ॥
वसन्नयोध्यानगरे यदीशः करोति विश्लेषरुजां निवारणम्।
आभीरिकाणा हृदयेषु नित्यं जगत्त्रयव्यापकरूपसारः ॥ ५ ॥
प्राणाधारश्च यस्यापि प्रायः प्रमुदकाननम्।
विना तेन क्षणमपि वर्त्तते घनसुन्दरः ॥ ६ ॥
व्रजं दृष्ट्वा व्रजतः प्रेममग्नं यः स्वात्मदूतप्रवरान् कुमारान्।
संस्थापयामास निजैकपार्श्वे तत्रैव संदर्श्य व्रजं समस्तम् ॥ ७ ॥
विश्वामित्रेण तौ ज्ञात्वा पूर्णौ श्रीपुरुषोत्तमौ।
नीतवान् स्वगृहं यज्ञविघ्नराक्षसहन्तवे ॥ ८ ॥
न ह्यन्येन विना रामं भगवन्तं रमापतिम्।
विश्वामित्रयज्ञरक्षां कर्तुं शक्या स्ववीर्यतः ॥ ९ ॥
मैथिली चोपयेमे यो सह भ्रात्रा रमां प्रियाम्।
साक्षात्परा स्वयं लक्ष्मी चतुर्धा शर्मसंगिनीम् ॥ १० ॥
- ३६० -
निन्ये सुबाहुप्रमुखानसुरान् यमसादनम् ।
यज्ञं प्रवर्त्तयामास यज्ञभुक्प्रवरः स्वयम् ॥ ११ ॥
विश्वामित्रस्य तुष्टाव यज्ञऋक्सामसूक्तिभिः ।
भङ्क्त्वाहरधनुः सद्यः प्रचलद्बाहुलीलया ॥ १२ ॥
मैथिल्या च स्वयंलक्ष्म्या शोभयामास सुन्दरः ।
अजयत्समरे पश्चाद् भार्गवं स्वांशमूर्जितम् ॥ १३ ॥
न ह्यन्योऽपि विधातुंस्याच्छक्त ईदृशं कर्म तत् ।
येन त्रिःसप्तकृत्वो भूद्विजेभ्यः प्रतिपादिता ॥ १४ ॥
लतारूपास्ततो नारीर्विधिमानससम्भवाः ।
स्वाऽङ्घ्रयब्जधूलिसंस्पर्शमुदिता ऊढवान् विभुः ॥ १५ ॥
इदं चापि ऋते साक्षाद् रामचन्द्रं करोति कः ।
परस्तात् प्राकृतं सर्गमनादृत्य स्थिताश्चिरात् ॥ १६ ॥
अप्राकृतं मनोहारि दृष्ट्वा रूपं रमापतेः ।
मोहिताः कामतश्चैता विधिमानसजाः श्रियः ॥ १७ ॥
कदाचिद्भगवाञ्छेषो साकेतं श्रीहरेः पदम् ।
ययौ तत्र च भूरीणि दृष्ट्वा सिंहासनानि सः ॥ १८ ॥
अपश्यत्तेषु निखिलानवतारांश्च मध्यतः ।
दिव्ये सिंहासने पश्चादमुमेव वरं प्रभुम् ॥ १९ ॥
अन्यांश्च रामवदने दत्तदृष्टीन् व्यलोकत ।
ततः क्षणेन सर्वांस्तान् विलीनान् रामविग्रहे ॥ २० ॥
दृष्ट्वा प्रमुदितः शेषः पूर्णमेनमन्यत ।
इदमद्भुतचारित्रमस्य पूर्णत्वबोधकम् ॥ २१ ॥
सीतापतेः श्रीरामस्य भगवत्त्वं च शुश्रुम ।
पितुश्चाप्यश्वमेधांश्च गन्धर्वान् प्रविजित्य यः ॥ २२ ॥
समानिन्ये हयांश्चान्यान् गान्धर्वीश्चापिकन्यकाः ।
ताभ्यः स्वरूपं समदाद् भक्ताभ्यः पूर्वजन्मनि ॥ २३ ॥
इदमस्य श्रीरामस्य चरित्रं परमाद्भुतम् ।
भुवि कर्तुं क्षमः कः स्याद्विनाश्रीपुरुषोत्तमम् ॥ २४ ॥
अग्नींश्चैष समानिनाय भगवान् यत्रेति कोऽन्यस्ततः-
श्रीनारायणधामतः परममुं दृष्ट्वा च नारायणः ।
तुष्टाव प्रणवाधिदैवतवरः पूर्णः पुरा पुरुषं
प्राप्यानन्यनिजाधिदैवततया प्रेमप्रमोदालयम् ॥ २५ ॥
- ३६१ -
एतान्यस्य चरित्राणि सकलान्यनुशुश्रुम ।
पुरुषेभ्यः पुराणेभ्यो वेदविद्भ्यो वयं सदा ॥ २६ ॥
तदत्रं भगवान् साक्षात्पूर्णः श्रीपुरुषोत्तमः ।
सर्वावताराणां मूलभूतः श्रीराम उच्यते ॥ २७ ॥
रामेति द्व्यक्षरं मन्त्रं जपंतां पठतां सदा ।
संसारातपसंतापः शान्तिमेति निरन्तरम् ॥ २८ ॥
धन्या ह्यस्य पदाम्भोजं भजन्ते प्रकृतेः परम् ।
विशुद्धं सच्चिदानन्दरूपमक्षरतः परम् ॥ २९ ॥
नाम्नां श्लोकेन रूपस्य ध्यानेन भगवान् स्वयम् ।
विमोचयति संसारादित्येवमनुभूयते ॥ ३० ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे सर्वप्रबोधे
सप्तत्रिंशोऽध्यायः ॥ ३७ : ।
अष्टात्रिंशोऽध्यायः
जना ऊचु
अहो ऽयं पश्यतां नो मनांसि दृष्टीः समाकर्षति नित्यमेव ।
पारेपरार्द्धेन्दुविभासिनीभिरनल्पश्रीविग्रहमाधुरीभिः ॥ १ ॥
कदाचिद्भवसंतप्ता नाम चेदस्य जिह्वया ।
गृह्णीमस्तद्द्रवत्येव मनःपीयूषशीतलम् ॥ २ ॥
रूपेण कान्त्या वयसा माधुर्येण स्वभावतः ।
गुणैश्चारित्रकैर्लीलासौन्दर्यैः सर्वमोहनः ॥ ३ ॥
नात्र संदेहलेशोऽस्ति साक्षादेष स्वयं रामः ।
कारणं द्विजगोभूमिरक्षणं प्राप्य दृश्यते ॥ ४ ॥
लीलामानुषनाट्योऽसौ परब्रह्म स्वरूपतः ।
शरणं गृह्यता मेष गृह्यतां च दृढं प्रभुः ॥ ५ ॥
श्रद्धया भक्तितो मर्त्यैः सर्वस्वं क्रियते निजम् ।
तथा ह्यानेन कार्याणि कृतप्रायाणि सर्वशः ॥ ६ ॥
४६
- ३६२ -
अधुना रमतेपारं निजं धाम परात्परम्।
अक्षरं कालमायादि समतीत्य तदूर्जितम् ॥ ७॥
तदाकारं न जानन्ति ह्यासुरं भावमाश्रिताः।
तैरात्मा वञ्चितः स्वस्य भवसागरजैर्भ्रमैः ॥ ८॥
केचिदेनं वदन्तीह मानुषं भावमाश्रितम्।
नहि क्वापि परं ब्रह्म दृश्यरूपं यदक्षरम् ॥ ९॥
केचिदेनं जगुर्लोकाः पुरुषं प्रवरं भुवि।
न तु रामचन्द्रं साक्षान्मोहितास्तस्य मायया ॥ १०॥
केचिदेनं परब्रह्म प्रवदन्ति स्वबुद्धितः।
अनुभावविशेषेण विस्फुरन्तं निजैर्गुणैः ॥ ११॥
ते सर्वे दुरदृष्टेन वञ्चिताः प्रभुमायया।
कृतार्था न भवन्त्येव दैवोपहतमानसाः ॥ १२॥
वयं त्वेनं भजिष्यामो ज्ञात्वा श्रीपुरुषोत्तमम्।
अनादिनिधनं साक्षात्सच्चिदानन्दविग्रहम् ॥ १३॥
वयं हि ज्ञातवन्तोऽस्य स्वरूपं परमेशितुः।
अभाग्यास्तंमृतयो वै ह्यधुना न भजेम चेत् ॥ १४॥
को विशेषः पशुभ्यो नो ज्ञात्वैनं संत्यजाम चेत्।
अयं श्रीभगवानस्मानुद्धर्त्ता दुःखसागरात् ॥ १५॥
य एनं भेजिरे पूर्वे त्यक्त्वाहंभावमात्मनः।
मोचितास्तेऽनेकजन्मसंचिताद् दुःखसागरात् ॥ १६॥
कर्मणापि ह्यमुं देवं भेजिरे सनकादयः।
ततः पक्ककषायास्ते स्वात्मबोधमवाप्नुवन् ॥ १७॥
अमुमेव ज्ञानमार्गं ये विदुःशुद्धचेतसः।
वामदेवप्रभृतयस्तेऽपि चैनमवाप्नुवन् ॥ १८॥
तथा हि वामदेवेन प्रतिपेदे स्वतेजसि।
अहं हि मनुरभवं लोकमर्यादपालकः ॥ १९॥
स्वस्वरूपाखिलान् देवान् जानामि ज्ञानचक्षुषा।
आत्मोपादानकं विश्वमात्मन्येव प्रलीयते ॥ २०॥
मृदुपादानका अर्थाः प्रलीयन्ते यथा मृदि।
आदावन्ते च मध्ये च मृद्रूपेण महीयते ॥ २१॥
तथानादिः कालमानरहितोऽहं न संशयः।
देशतः कालतश्चापि स्वरूपाच्च न मे त्विमाः ॥ २२॥