भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
पृष्ठ 370, कुल 423 में से
संदर्भ में पढ़ें– ३५७ –
ज्ञात्वा पुरुषवर्यं तं साक्षाद् रामं परं विभुम् ।
अयोध्यास्था जनाः सर्वे ऊचिरेऽन्योन्यमादृताः ॥ २ ॥
जना ऊचुः
अहो अयं कोऽपि महान् वरेण्यो रामः कलाकोटिधरोऽवतारी ।
आजन्मतोऽद्यावधि सर्वमुत्तमं चक्रे चरित्रं परदुःखवारणम् ॥ ३ ॥
तथा ह्यनेन प्रसभं निपातिता दैतेयवंशाः कति नो धरण्याम् ।
येषां बलं शक्रमखैः सुरैरपि प्रभावयुक्तैरपि दुर्निवार्यम् ॥ ४ ॥
अनेन बालेन हता जिघांसुः सा राक्षसी द्वित्रिमासोद्भवेन ।
याभूद् बहुक्रोशमितोग्रविग्रहा शैलेन्द्रवक्षोजवतीव पूतना ॥ ५ ॥
हतः स खट्वामधिशय्य तिष्ठता खट्वासुरो नामपरः शिशुग्रहः ।
अदृश्यरूपः खलुरावणस्य यो हितप्रदः कुञ्जरकोटिविग्रहः ॥ ६ ॥
हतः स वात्या प्रचयात्मना चरन् महासुरो बालकेलीपरेण ।
येनान्तरिक्षेऽप्युपात्तवेगिना बलाधिकेन प्रसभं हारकेण ॥ ७ ॥
यः कावपि क्षितिरुहौ गगनस्पृशाङ्घ्रौ-
शाखाभुजैरपि गतौ घनमण्डलान्तम् ।
स्पृष्ट्वा पदाम्बुजयुगेन च शापजातौ-
कौचित्सुरौ समुदपाटयदात्तलीलः ॥ ८ ॥
येनातिवेगा दुदपाटि भूरुहौ माङ्गल्य कामात्तृनिबद्धदाम्ना ।
ततो विनिर्गम्य च केनचित्स्तुतः पुंसा सुवेशेन कृताञ्जलेन ॥ ९ ॥
साक्षान्महाविष्णुरिति प्रतीयते भाग्येन तेनामितवैभवाढ्यः ।
यः कुञ्जरैरप्यतिविक्रमोद्धुरैर्न भञ्जनीयोऽप्यतियत्नेन तावत् ॥ १० ॥
यः कालमेघामितवृष्टिवेपितं संलक्ष्य लोकं निजमातपत्रम् ।
विस्तारयामास दशैकयोजनच्छायाकर गोपतिगोधनोपरि ॥ ११ ॥
यस्मिंश्च सापश्यदशेषविश्वकं माङ्गल्यका श्रीजननी समंततः ।
सपर्वतं सान्धिजलं सकासनं विचित्ररूपं सर्वमेकत्र सस्थम् ॥ १२ ॥
वितर्कयामास प्रथमं ततस्तं लोक धात्रा सहितं सभूधरम् ।
कदाचित्कर्तुं श्रीभगवान् राघवेन्द्रः परीक्षण समवेक्ष्य विचित्रलीलः ॥ १३ ॥
योऽयं ततः समभवत्सकलस्वरूपः स्वांशके न हि रचिताखिलसत्प्रपञ्चः ।
दृष्ट्वा च यस्य बहुरूपताया व्रजान्तरत्यद्भुतां भवनशक्तिमनन्तशक्तेः ॥ १४ ॥
धाता पदाम्बुरुहयोर्न्यपतत्प्रभग्न लोकेशमानविभवोन्नतिरात्तदास्यः ।
गावश्च येन परतः खलु पाल्यमानाः साक्षान्महोपनिषदश्च तदेकदेशाः ॥ १५॥