भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 357, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 357
- ३४४ -
नियोजितश्चेत्रविभुना न वियोज्योऽस्मि सम्प्रति ।
तस्मात्तद् हृदयं भ्रातः स्फुटतीव च मामकम् ॥ १९ ॥
विशीर्यन्ति ममाङ्गानि तापश्चापि प्रजायते ।
शून्या दिशः प्रपश्यामि न विन्दामि धृतिं हरे ॥ २० ॥
प्रत्यङ्गं ज्वलति वपुर्मदीयमङ्गं स्मारं स्मारमतिबिसह्यमेतदुच्चैः ।
अग्रे भाव्यं न भवन्नागतंमे कीदृग्जातं देहजं दुःखमस्तिमह्यम् ॥ २१ ॥
एतत्तेऽनुचितं राम भक्तेर्मे दुःखदंशनम् ।
तदप्यशनिपातोत्थवेदना मे दिवानिशम् ॥ २२ ॥
दूरादेव वितर्कयामि भवतः संयोगजं यत्सुखं-
यादृग्विस्तृतमस्ति निस्तुलतरं भक्तानुभूत्यास्पदम् ।
दुःखं चापि तु तादृगेव भविता विस्तारि सर्वोत्तम-
प्रेमोत्थं खलु कोटिजन्मनिबहैर्भोग्यं यदैकक्षणे ॥ २३ ॥
तदहमिह सहिष्ये नैव मत्तः कदाचित्-
परममशनिपाताच्चापि काठिन्ययुक्तम् ।
वितर रघुपते हा राम कारुण्यकोणां-
दृशमसदृशं तां पापसंघातहन्त्रीम् ॥ २४ ॥
सर्वथा दण्डनीयोऽहमपराधे महत्यथ ।
चरणाम्भोजसंसर्गादत्रापि त्वपयातु नः ॥ २५ ॥
अस्तु नाथ महान् दण्डः संगतस्यैव मे त्वया ।
असंगतस्य तु स्वामिन् महानन्दोऽपि मास्तु मे ॥ २६ ॥
पशुपक्षिलतागुल्मवृक्षादिजनिमाप्नुयाम् ।
तत्र तत्र भवेयं ते चरणाम्भोजसंगमी ॥ २७ ॥
प्रमोदवनलीला च दृष्टा संस्मर्यतेऽधुना ।
तत्रैव देहि रामेन्दो यां कांचिज्जनिमद्भुताम् ॥ २८ ॥
प्रमोदवनलीला चे दृष्टा प्रेमाङ्कुरस्पृशी ।
उच्चैर्वितर संस्थानमधो वापि प्रवेशय ॥ २९ ॥
न पुनस्तव विश्लेषो भूयान्मम मनागपि ।
वज्रादपि ह्यसह्यं यदात्मपातादपि द्रुतम् ॥ ३० ॥
सर्वमस्तु प्रभो दण्डाद् दुःखं परमदुःसहम् ।
मा ते लीलोपसंहारो भवतु श्रीरमापते ॥ ३१ ॥
लीलैवहि ममाधारो लीलैव मम जीवनम् ।
लीलैव मम सर्वस्व लीलैव मम लोचनम् ॥ ३२ ॥