सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

५० शुल्बसूत्रम् [ द्वितीया-
प्रकृतावभावेन चोदकाप्राप्तेरिति चेन्न । अग्नेरना (र ?) भ्याधीतेति चेन्न ।
अग्नेरना ( र ? ) भ्याधीतत्वेन प्रकृतिगामित्वाद् यत्तावदुक्तं प्रकृतेः
प्राकरणिकोत्तरवेद्यविरोधादग्नेः साप्तदश्यन्यायेन विकृतिगामित्वमिति
तन्न । साप्तदश्ये हि ऋतुसंबन्धस्य वाचनिकत्वाभावेन क्रत्वव्यभि-
चरतः सामिधेनीलिङ्गवशेन कल्पतया युक्तं तत्र विकृतिगामित्वम् । इह
त्वग्नेरग्निष्टोमसंबन्धस्य वाचनिकत्वेन प्रकृतिसंबन्धस्यैवोचितत्वादुत्तरवेदेः
पाक्षिकत्वेनापि प्रकरणोपपत्त्यानर्थक्याभावेनाग्निष्टोमश्रुतिबाधायोगात् ।
अग्निष्टोमशब्दैक्योपदेशिकाग्निष्टोमस्तोत्रसंस्थाकप्रकृतावेव मुख्यतया
विकृतौ गौणत्वात्तस्मादस्ति प्रकृतावुत्तरवेद्या विकल्पतोऽग्निरतिदेशेनैवो-
क्थ्यादिषु अग्निप्राप्त्या “तमुक्थ्येने”त्यादि पुनर्वचनमनर्थकं स्यात् । न च
तेष्वग्निनियमार्थं पुनर्वचनमिति वाच्यम् । “तमुक्थ्येने”ति वाक्यस्यानारभ्या-
धीताग्निप्रकरणगतस्य तत्तत्प्रकरणव्यवस्थितचोदकगणा(?)यावत्पाक्षिकप्रा-
प्तिसापेखनियमपरत्वायोगादिति चेन्न । आष्टमिकन्यायेन विकृतिषु गुणका-
माप्राप्तौ तत्प्राप्त्यर्थत्वेन पुनर्वचनोपपत्तेः । “श्येनचितं चिन्वीत स्वर्गकामं”
इत्यादिगुणफलानामग्निप्रकरणगत (त्वे ?) न तत्प्राप्तिफलत्वकल्पनौचित्यात् ।
तस्मात्साद्यस्त्तु सारस्वतसत्रादावश्यकतयाऽग्नेरनुष्ठानेऽपि दार्शिकन्यायेन
षोडशीवाजपेयादिषु चोदकप्राप्त्या सर्वक्रतुविकल्प एवाग्नेरिति भावः ।
नन्वेवमुक्तन्यायेनाश्वमेधेऽप्यग्न्युत्तरवेद्योर्विकल्पः स्यादित्याशङ्क्य एक-
विंशोऽग्निर्भवती”ति श्रुत्या तत्राग्निर्नित्य एवेत्याह—अन्यत्रेति ॥ ३ ॥
अनग्निकानि।त । अत ऊर्ध्वमित्येव । किं सर्वत्र । नेत्याह । अन्यत्रेति ॥ ३ ॥
अश्वमेधमप्राप्तञ्चेदाहरेदत ऊर्ध्वं विधामभ्यस्येन्नेतरदाद्रियेत ।
अतीतञ्चेदाहरेदाहृत्य कृतान्तादेव प्रत्याददीत ॥ ४ ॥
नन्वत्र सूत्रे एकविंशतिविधः विंशतिविधानन्तरं कर्तव्य इति प्रतीयते,
श्रुतौ चाश्वमेधस्य एकविंशतिविध एव नियतश्रुतः । तथा च श्रुतिस्मृ-
त्योरनुग्रहाय विंशतिविधाग्निचयनानन्तरमेवाश्वमेधे कर्तव्यता प्राप्नो-
तीत्यत आह—अश्वमेधमिति । विंशतिविधानिवन्धनात् प्रागपि प्रायश्चि-

तद्रूपोऽन्यो वा यद्यश्वमेधः प्राप्तस्तदा एकविंशतिविधाग्निसहितमश्वमेधमनु-
तिष्ठेदित्यर्थः । नन्वेवं कथं श्रुतिस्मृत्योरनुग्रह इति चेन्न कथञ्चित् । तथाहि
“औदुम्बरीं स्पृष्ट्वोद्गायेत्” “औदुम्बरी सर्वा वेष्टितव्ये”त्युदाहृत्य
यस्याविरुद्धार्थत्वेऽपि व्रीहियवबृहद्रथन्तरग्रहणाग्रहणादिवद्विकल्पेन संभवति
प्रत्यक्षश्रुतिविरोधेन स्मृतिमूलभूतश्रुत्यनुमानसम्भवादिति व्यवस्थापितम् ।
नन्वेवं सति अश्वमेधानन्तरमनुष्ठीयमाने क्रतौ एकविंशत्यपेक्षया
न्यूनविध एवाग्निः प्राप्नोति । तथा च “'न ज्यायांस” मिति श्रुतिविरोध
इत्यत आह—अत ऊर्ध्वमिति । एकविंशतिविधाभ्यासानन्तरं द्वाविंशति-
प्रभृतिरेवानुष्ठेयः । नतु न्यूनविधः येनोक्तविरोधः स्यादित्यर्थः ।
नन्विदमत्यन्तानुपपन्नं द्वाविंशतिविधाद्यनुष्ठानानन्तरम् उक्तविरोधेन
एकविंशतिविधानुष्ठानासम्भवादित्यत आह । अतीतञ्चेदिति । एकविंश-
तिविधोऽतीतश्चेदपि तमेवाहरेद् उक्तश्रुतिबलादित्यर्थः । इयांस्तु विशेषः ।
अत्र “न ज्यायांस” मिति श्रुतिविरोधाभावेन द्वाविंशादिषु यदनन्तर-
माश्वमेधिकोऽग्निरनुष्ठितस्तदनन्तरं तदूर्ध्वविधप्रभृतिरेवानुष्ठेय इति तदेत-
दाह—आहृत्यैति । आहृत्य एकविंशतिविधमनुष्ठाय कृतनिर्मुक्तादूर्ध्वविध-
मेव पुनः प्रत्याददीत कुर्यादित्यर्थः ॥ ४ ॥
अश्वमेधमिति । अश्वमेध अप्राप्तश्चेद् विंशतिविधानग्नीनचित्वा अश्वमेधञ्चे-
दाहरेत् स ततः परमग्निं चिन्वानो द्वाविंशत्यादिविधमेव चिन्वीत नतु पूर्वविधान् ।
न ज्यायांसं चित्वा कनीयासं चिन्वीतेति ।
अतीतमिति । अतीतञ्चेदेकविंशतिविधादूर्ध्वमपि विधामभ्यस्य ततः पश्चा-
दश्वमेधमाहरेत् । यथा त्रिंशद्विधाद् अन्ते तस्याप्यश्वमेधेऽग्निरेकविंश एव ।
ततः परन्तु पूर्वकृतान्तादारभ्यैकत्रिंशादिविधानेव चिन्वीतेति । पूर्वेषां कृतत्वात् ।
विधाभ्यासः कर्त्तव्य इत्युक्तम् ॥ ४ ॥
कथमु खलु विधामभ्यसेत् । यदन्यत् प्रकृतेस्तत् पञ्चदशभा-
गान् कृत्वा विधायां विधायां द्वौ द्वौ भागौ समस्येत् । ताभिर-
र्धाष्टमाभिरग्निं चिनुयात् ॥ ५ ॥

५२ शुल्बसूत्रम् [ द्वितीयो-

ननु पूर्वोक्तोऽर्धनवमादिविधाभ्यास एवानुपपन्नः । चतुरश्रचयनादौ
सार्धसप्तविधस्यैव वक्ष्यमाणविभज्यविनियोगेनावगम्यमानत्वादिति शङ्कते
कथमिति । न कथमित्यर्थः ।
पुरुषप्रमाणाधिक्येन सार्धसप्तविधत्वं सर्वत्राप्युपपन्नमित्यभिप्रायेण
परिहरति यदन्यदिति । प्रकृतेः पञ्चारत्निपुरुषप्रमाणेन सार्धसप्तविधाद्
यदन्यदवशिष्टं तत्पञ्चदशधा विभज्य एकैकस्मिन् पुरुषे भागद्वितयं
दद्यात् । एवं सति अर्धनवमादयः सार्धसप्तविधाः सम्पन्नाः ॥ ५ ॥
तत्र प्रश्नपूर्वकं प्रकारकथनम् । कथमिति । वक्ष्यमाणार्थगौरवात् शिष्याभिमु-
खीकरणार्थः प्रश्नः । यदन्यदिति । द्वितीयाहारेऽर्धनवमविधे यदन्यत् प्रकृतेरर्धाष्टमे-
भ्योऽधिकं पुरुषक्षेत्रं तस्याङ्गुलयश्चतुर्दशसहस्राणि चत्वारि शतानि । तत्पञ्चदशभि-
र्विभज्य लब्धं नवशतानि षष्टिश्चाङ्गुलयः । तद्द्विगुणा विधायां पुरुषाङ्गुलीषु
समस्येत् संयोजयेत् । संयोज्य दृष्टा अङ्गुलयः षोडशसहस्राणि त्रीणि शतानि विंश-
तिश्च । ताः प्रमाणवेगोर्विंशतिशताङ्गुलीषु प्रक्षिप्य प्रकृतिवद् इष्टकाकरणमग्निमानञ्च
कुर्यादित्यर्थः । एवमर्धदशमविधे अर्धाष्टम्येभ्योऽधिकं द्वाभ्यां द्वाभ्यां पुरुषाभ्यां पुरुषा-
ङ्गुलीर्हत्वा पञ्चदशभिर्विभज्य लब्धं द्विगुणीकृत्य पुरुषाङ्गुलीषु संयोजयेत् । तत्र
पुरुषाङ्गुलय अष्टादशसहस्राणि द्वे शते चत्वारिंशच्च । तस्य मूलं पञ्चत्रिंशच्छता-
ङ्गुलस्तिलद्वयाधिकः पुरुषवेणुः । यो यत्राग्नौ पुरुषस्थानीयस्तस्य विंशतिशततमो
भागो विहरण इष्टकायासु च अङ्गुलिः कथ्यते । तिलश्च तस्य चतुस्त्रिंशः ।
तत्र श्लोकः :
खाकाशश्रुतिवेदेकाद् द्विगुणैः पुरुषैर्हतात् ।
हरेत तिथिभिर्भागं तन्मूलं पुरुषो भवेत् ॥ इति ॥ ५ ॥
ऊर्ध्वप्रमाणाभ्यासं जानोः पञ्चमस्य चतुर्विंशेनेवैके समाम-
नन्ति । अथहैक एकविधप्रभृतीनपक्षपुच्छांश्चिन्वते । तन्नोप-
पद्यते पूर्वोत्तरविरोधात् । अथहैकेषां ब्राह्मणं भवति श्येनचिद्-
ग्रीनां पूर्वाततिरिति । अथापरेषां न ज्यायांसं चित्वा कनीयांसं
चिन्वीत ॥ ६ ॥
नवविधाद्यग्नेस्तिर्यक्प्रमाणवृद्धिमुक्त्वा ऊर्ध्वप्रमाणवृद्धिं दर्शयति—
ऊर्ध्वप्रमाणेति । ऊर्ध्वप्रमाणाभ्यासम् अग्नेरूर्ध्वपरिमाणवृद्धिं जानोः पञ्च-

ऽध्यायः ] बौधायनीयं ५३
मभागस्य चतुर्विंशतिभागेनैवैक आचार्याः समामनन्ति वदन्तीत्यर्थः ।
एवञ्चादौ अनुष्ठीयमानस्याग्नेः वक्ष्यमाणोर्ध्वप्रमाणं जानुपञ्चमांशापेक्षया
जानुपञ्चमांशचतुर्विंशतिभागेन तिर्यङ्मानवदुत्तरोत्तरवृद्धिः कर्तव्येत्यर्थः ।
एक इत्युक्त्या केषाञ्चिदाचार्याणामुक्तोर्ध्वप्रमाणवृद्धिर्नास्तीति गम्यते ।
केषाञ्चिदाचार्याणां मतं दूषयति—अथैहैके इति । एके आचार्याः ।
एकविधप्रभृतीनीति । एकविधत्रिविधादीन् । अपक्षपुच्छांश्चिन्वते चेतव्यान्
वदन्तीत्यर्थः । तन्नेति । एकविधप्रभृतीनामनुष्ठानं न संभवतीत्यर्थः ।
‘पूर्वापरेति । पूर्वापराभ्यां ब्राह्मणाभ्यां विरोधादित्यर्थः ।
तयोरेकं ब्राह्मणमुदाहरति--अथहैकेषामिति ।
अथापरं ब्राह्मणमुदाहरति—अथापरेषामिति । अथाभ्यां
ब्राह्मणाभ्यां विरोधादेकविधप्रभृतीनामनुष्ठानं न सम्भवतीत्यर्थ इति
केचिदाहुस्तदनुपपन्नम् । द्वयोर्विरोध इति वदन् वादी प्रष्टव्यो
जायते किमेकविधप्रभृतीनां प्रथमतरामनुष्ठानं न सम्भवति श्येनत्वाभावेन
प्रकृतित्वासम्भवात् ? किं वा द्वितीयादिभावेन “न ज्यायांस”मिति
श्रुतिविरोधादिति । नाद्यः एकविधप्रभृतीनां श्येनत्वनिषेधाभावात्
प्रकृतित्वेन प्रथमतरामनुष्ठानसंभवात् । ननु “नापक्षपुच्छः श्येनो विद्यते”
इति (२।८) वक्ष्यमाणत्वाच्छ्येनस्य सपक्षपुच्छताया आवश्यकत्वेन एक-
विधप्रभृतीनाञ्च पक्षपुच्छाद्यभावेन श्येनत्वासंभवः । न च एकस्मिन्नेव
पुरुषे पक्षपुच्छादिकं संपादनीयमिति वाच्यम् । पुच्छपक्षयोः
श्रुत्युपात्तव्याममात्रत्वाद्यनुपपत्तेरिति चेत् । सत्यम् एकविधप्रभृतीनां
श्येनत्वाभावेन प्रकृतित्वाभावेऽपि प्रथमतरामनुष्ठानं संभवति ।
अनेन “अथैक एकविधप्रभृतीन् प्रउगादीन् ब्रुवते चतुरश्रानेक आचार्या”
इति सूत्रेण ( ? ) एकविधप्रभृतीनामनुष्ठानोपदेशानुपपत्तेः । न च
तस्य परमतोपन्यासत्वेन उपपत्तेरिति वाच्यम् । “तस्य करण्या
द्वादशेने”ति स्वयं करण्युपदेशानर्थक्यप्रसङ्गात् । किञ्च कल्पसूत्रगतषड्विध-
१. अत्र शु. दी. पाठभेदः ।

५४ शुल्वसूत्रम् [ द्वितीयो-

कथनस्य अपक्षपुच्छसमचतुरश्राकारविषयत्वेन उक्तत्वात् । एकविध-
प्रभृतीनामनुष्ठाने तदप्यनर्थकं स्यात् । तस्मादेकविधप्रभृतीनां प्रथमतर्-
मनुष्ठानं संभवति । नापि द्वितीयः “न ज्यायांस”मिति श्रुतेः
सपक्षपुच्छाग्निविषयत्वेनाप्युपपत्तेस्तस्मात् तन्नोपपद्यत इत्येतत् नोपपद्यत
इति चेत्—
अत्र ब्रूमः स्यादेतदेवं यद्येकविधप्रभृतीनाम् अनुष्ठानं निषिध्यते ।
किन्तु एकविधस्य प्रकृतित्वमात्रं निराक्रियते । केचिदाहुः—एकविध-
सप्तविधयोः प्रकृतित्वमिति । तथाहि एकविधः प्रथमोऽग्निरित्यारभ्या-
भ्यासस्यविहितत्वात् सप्तविधप्रभृत्यप्येकशतविधान्तं पृथक्करण्युपदेशात्
एकविधस्यापि प्रकृतित्वमिति । तदयुक्तम् । “श्येनचिदग्नीनां पूर्वातति”
रिति श्येनचित एव सर्वाग्नीन् प्रति प्रकृतित्वात् एकविधस्य श्येन-
त्वाभावेन प्रकृतित्वासंभवात् । ननु सर्वान्यपेक्षया श्येनचित एव प्रकृतित्वे
सावित्रादीनामग्नित्वाविशेषात् तान् प्रत्यपि प्रकृतित्वं स्यात् । विषम
उपन्यासः । सावित्राग्नौ कृत्स्नाङ्गोपदेशात् श्येनचिदुपदिष्टानां सावित्र-
होमोखासंभरणाद्यङ्गानामपेक्षणात् सावित्रादीनां श्येनचित्प्रकृतिकत्व-
प्रसक्तिरेव नास्ति । एकविधे तु कृत्स्नाङ्गोपदेशाभावात् श्येनचिदुपदिष्टा-
ङ्गानामपेक्षणादेतत्प्रकृतिकत्वं युक्तमेव । यदि करण्युपदेशविधानादेव
प्रकृतित्वमुच्यते तदा प्रउगकूर्मादावपि पृथक्करण्युपदेशात्तेषामपि प्रकृतित्वं
स्यात् । किञ्च सावित्राग्निवदेव यद्येकविधस्यापि प्रकृतित्वं स्यात् तदा
तद्वदेव ज्यायसश्चयनानन्तरं कनीयसोऽप्येकविधस्यानुष्ठानं स्यात् ।
ननु ज्यायसश्चयनानन्तरं सावित्राग्नेः कनीयसोऽनुष्ठानं नास्ति इति चेन्न ।
सर्वतोमुखे हि पूर्वमग्निं विधाय इतरस्थलेषु सावित्राग्निविधानेन ज्याय-
सश्चयनानन्तरकालकर्तव्यत्वं सावित्राग्नेरवगम्यते । तथा च प्रथमं वा
पश्चाद् वा यदा कदाचित्कर्तव्यत्वं सावित्राग्नेरुपपद्यत एव । तथा चोक्तं
द्वैधसूत्रे—‘‘अथातः सर्वतोमुखं व्याख्यास्यामश्चिन्वीत सर्वतोमुखोऽग्नि-
रिति बोधायनो न चिन्वीतेति शालीकिरत्रोह स्माह मौद्गल्यः—पूर्वं-

ऽध्यायः ] बौधायनीयं ५५
स्मिन्नेवाग्निचय इतरेषु सावित्राः स्यु"रिति । अत एव "अथेमे अग्नि-
चया" इत्यस्मिन् सूत्रे सावित्रादीनामनुपदेशात् "न ज्यायांस"मिति
निषेध इष्टकाचिताग्निविषय इति ज्ञायते । तस्मात् सप्तविधस्यैव प्रकृति-
त्वमिति सिद्धम् ।
अयमत्र सूत्रार्थः—एके आचार्या एकविधप्रभृतीन्पक्षपुच्छांश्चिन्वते,
प्रकृतित्वेन तेषामनुष्ठानं वदन्ति । तन्नोपपद्यते । पूर्वोत्तरविरोधात् ।
पूर्वशब्दः प्रकृतिपरः । उत्तरशब्दो विकृतिपरः । प्रकृतिविकृतिप्रतिपादिकायाः
“श्येनचिदग्नीनामा”दि श्रुतेर्विरोधादेकविधस्य प्रकृतित्वमयुक्तमिति ।
प्रकृतिविकृतिप्रतिपादकं ब्राह्मणमुदाहरति—अथेहैकेषामिति ।
केषाञ्चित् शाखिनामित्यर्थः । श्येनचिदग्नीनामिष्टकचितीनां पूर्वा ततिः
प्रकृतिरित्यर्थः

५६ शुल्बसूत्रम् [ द्वितीयो-
वचनात् पशु-चातुर्मास्यादीनां प्रथमानुष्ठानम्। तस्माद् यत्र सामर्थ्यं वचनं वा
नास्ति तत्र प्रकृतेः प्रथमानुष्ठानम्।
अथापरेषामिति। ब्राह्मणं भवतीत्येव। अथ शब्दः पूर्ववत्। न ज्यायांसं
वृद्धतरं बृहत्तरमग्निं चित्वा कनीयांसमल्पतरं न चिन्वीत ॥ ६ ॥
अथास्माकम्। पक्षी भवति। नह्यपक्षः पतितुमर्हति।
अरत्निना पक्षौ द्राघीयांसौ भवतः। तस्मात्पक्षप्रवयांसि
वयांसि। व्याममात्रौ पक्षौ च पुच्छञ्च भवतीति ॥ ७ ॥
श्येनचितः सपक्षपुच्छतानियमप्रतिपादकं तैत्तिरीयब्राह्मणमुदाह-
रति—अथास्माकमिति। पक्षी भवति अग्निरयं पक्षी पक्षवान् भवती-
त्यर्थः। विहितं सपक्षत्वं हेतुमुखेन स्तौति—नह्यपक्ष इति। पतितुम्
उत्पतितुं नार्हति न शक्नोतीत्यर्थः। अत एव "वयसां वा एष प्रतिमया
चीयत" इत्यत्र उत्पततां छाययेत्यर्थ इति व्याख्यातमाचार्यैः। पक्षयोर्दैर्घ्यं
विदधाति—अरत्निनेति। अरत्निना द्राघीयांसौ दीर्घतरौ वक्ष्यमाणप्रमाणौ
पक्षौ भवतीत्यर्थः। पक्षयोर्द्राघीयस्तां स्तौति—तस्मादिति। पक्षयोः
प्रवयांसि प्रभूतानि अधिकानि वयांसि पक्षिणः इत्यर्थः। पक्षपुच्छपरि-
माणं दर्शयति—व्याममात्राविति। व्याममात्रौ पुरुषमात्रौ पक्षौ भवतः।
पुच्छञ्च व्याममात्रमिति उभयत्रापि विपरिणामः ॥ ७ ॥
अथेति। ब्राह्मणं भवतीत्येव। अस्माकञ्चास्यां शाखायामित्यर्थः।
पक्षीति। पक्षीत्युपलक्षणत्वात् पक्षवान् पुच्छवान्। तद्रहितः पतितुं नार्हति।
तस्मादरत्निनां पक्षौ दीर्घतरौ भवतः। यस्मादेवं तस्मात् पक्षाभ्यां वृद्धतराणि। व्याम-
मात्रौ पञ्चारत्निमात्रौ पक्षौ च पुच्छञ्च भवति।
एवं विरोधप्रतिपादनार्थं ब्राह्मणवाक्यान्युदाहृत्य आद्योत्तरं भङ्ग्या एकविधा-
दीनामनुष्ठानं प्रकृतिभूतस्य सप्तविधश्येनचित एव प्रथमानुष्ठानञ्च उदाहरति ॥ ७ ॥
नापक्षपुच्छः श्येनो विद्यते। न चासप्तविधस्य पक्षपुच्छानि
विद्यन्ते। न च सप्तविधं चित्त्वैकविधप्रसङ्गः। तस्मात् सप्तविध
एव प्रथमोऽग्निः ॥ ८ ॥
श्येनस्य सपक्षपुच्छत्वं नियम इत्याह—नापक्षेति। सपक्षपुच्छ एव
श्येनः, नान्य इत्यर्थः। सप्तविधादर्वाचीनस्यैकविधादेः सपक्षपुच्छतां निरा-

ऽध्यायः ] बौधायनीयं ५७
करोति--न चेति। आसप्तविधस्य एकविधादेः पक्षपुच्छानि न विद्यन्ते।
एकविधादीनां सपक्षपुच्छतया अनुष्ठानं नास्तीत्यर्थः। ननु आसप्तविध-
स्येत्युक्तेरष्टविधादीनां सपक्षपुच्छतानिषेधः किं न स्यादिति चेन्न। द्विती-
यादिभावेनानुष्ठेयानां श्येन-कङ्काकारतया कर्त्तव्यत्वावगमात् तेषामपि
सपक्षपुच्छताया आवश्यकत्वात् निषेधस्य च एकविधादिविषयत्वोपपत्तेः।
अन्यथा कङ्कादीनां न कदाप्यनुष्ठानं स्यात्। विस्पष्टञ्च आसप्तविधग्रहणस्य
एकविधादिमात्रविषयत्वम्। एकविधप्रभृतीनां न पक्षपुच्छानि भवन्ति
सप्तविधवाक्यशेषत्वात् श्रुतिविप्रतिषेधाच्चेत्यापस्तम्बाचार्यवचनादव-
सीयते। न चेति। सप्तविधचयनानन्तरमेकविधादेरनुष्ठानं नास्ति।
“न ज्यायांस”मिति श्रुतिविरोधादिति भावः। एकविधादीनां प्रथम-
प्रयोगस्तु निषेधश्रुतिविरोधाभावात्। “समचतुरश्रानेक आचार्यास्तस्य
करण्या द्वादशेनेष्टकाः कारयेत्, तासामर्थ्याः पाद्याश्चे”त्युपदेशाच्चोपपद्यते।
इयता प्रबन्धेन उपपादितमर्थमुपसंहरति--तस्मादिति। सप्तविध एव
प्रथमोऽग्निः। प्रथमं प्रयोक्तव्य इत्यर्थः। यथा “एष वाव प्रथमो यज्ञो
यज्ञानां यज्ज्योतिष्टोम” इत्यत्राग्निष्टोमस्य प्राथम्येऽपि उपदेशबलात्
प्रथमानुष्ठानम्। एवं सप्तविधस्य प्राथम्येऽपि उपदेशबलात् प्रथमानुष्ठानं
संभवतीति द्रष्टव्यम् ॥ ८ ॥
नापक्षपुच्छ इति। पक्षपुच्छरहितस्य श्येनचितोऽभावात्, पक्षपुच्छानां सप्त-
विधवाक्यशेषत्वादेकविधादीनां सपक्षपुच्छत्वे व्याममात्रौ पक्षौ च पुच्छञ्च भवती-
त्यनेनैकविधादिश्रुतिविरोधात्, सप्तविधं चित्त्वा एकविधचयने न ज्यायांसं चित्त्वा
कनीयांसं चिन्वीतेति प्रतिषेधेन प्रसङ्गाभावात् सर्वप्रकृतिभूतः सप्तविधश्येनोऽग्निरेव
पूर्वं चेतव्यः। एवं विरोधादेकविधादीनां निवृत्तिरेवापतिता। कल्पे षड्विधः सप्त-
विध इत्यादिना षड्विधानामपि प्रकृतित्वमुक्तम्। तत्रापि पक्षपुच्छरहित एव षड्-
विधोऽग्निः पूर्वोक्तहेतुनोपन्यासात् ॥ ८॥
भेदान् वर्जयेत् । अधरोत्तरयोः पार्श्वसन्धानं भेदा इत्युप-
दिशन्ति । तदन्त्यन्तेषु न विद्यन्ते । न शक्तिपार्श्वयोः ॥ ९ ॥
अथाग्निधर्मानाह--भेदानिति। भेदशब्दार्थं स्वयमेवाह--अधरो-
८

५८ शुल्बसूत्रम् [ द्वितीयो-
त्तरयोरिति । अग्न्यन्तेषु का गतिरित्यत आह—तदिति । तद्भेदान्
वर्जयेदित्येतत् असिपर्यन्तेषु न विद्यते । तत्रावर्जनीयत्वाद् भेदस्य ।
तथा—नेति । साररथचक्रचयने नाभिमध्ये सक्तीनां सङ्गमे पार्श्वे च,
भेदान् वर्जयेदित्येतत् न विद्यते । तत्राप्यवर्जनीयत्वाद् भेदानामिति
भावः ॥ ९ ॥
अथ अग्निधर्मानाह—भेदानिति । भेदस्वरूपं स्वयमेवाह—अधरोत्तरयोरिति ।
किं सर्वत्र ? नेत्याह—तदग्न्यन्तेष्विति । अग्न्यन्तेषु अग्निपर्यन्तेषु । अन्तस्यावर्जनीय-
त्वादिति भावः । नेति । सक्तिपार्श्वयोः । साररथचक्रचयने नाभिमध्ये सक्तीनामेव-
सङ्गमः । तयोर्वर्जनीयत्वादिति भावः ॥ ९ ॥
साहस्रं चिन्वीत प्रथमं चिन्वान इति । पञ्चमायां वा चितौ
[L12

Here is the accurate Devanagari transcription of the page, line by line:

ऽध्यायः ] बौधायनीयं ५६
तावतीरिष्टका उपधाय शेषा इष्टका इष्टकामन्त्रयोरिष्टका व्यतिरेक इति न्यायेन द्वैधो-
क्तमार्गेण गणावृत्त्या वा उपधेयाः । पञ्चमायां चितौ मन्त्राणां भूयस्त्वान्मन्त्र
व्यतिरेक अक्ताः शर्करा इति न्यायेनोपधानम् ।
पञ्चमायामिति । एवं वा तत्र मन्त्राणामपर्याप्तत्वाद् यावत् सिद्धैर्मन्त्रैः पञ्च-
लोकंपृणाभिश्चोपधाय शेषाः पञ्चमायां चितावुपदध्यात् । तत्रापीष्टकाव्यतिरेके लोकं-
पृणाभिर्गणावृत्तिभिर्वा उपधानं कर्त्तव्यम् । तत्र पञ्चमीव्यतिरिक्तासु पञ्चभिर्लोकं-
पृणाभिर्यावत्य इष्टकाः सम्भवन्ति तावतीर्गणयित्वा भेदपरिहारेण अग्निक्षेत्रपरिमित-
मिष्टकाः कार्याः । पञ्चमायां चितौ पूर्वांसु चितिषु उपहितशिष्टानां भेदपरिहारेण
कल्पनम् । आचार्येण अस्मिन् पक्षे करणानुपदेशाद् आपस्तम्बादिभिरनुक्तत्वाच्च
पूर्वैर्व्याख्यातृभिर्दिङ्मात्रमुक्तम् ।
द्विशतामिति । समष्ट्यभिप्रायेण नपुंसकत्वम् । द्विशतप्रस्तारपक्षेऽयं विशेषः ।
पञ्चचोडा अयं पुरो हरिकेश इत्युपुर्युपधेया अर्धोच्छ्राया इष्टकाः ! राज्ञ्यसीति पञ्च
नाकसदस्तावदुच्छ्रायास्तासामधस्तादुपधेयाः । ता दश भवन्ति । द्विशतपूरणार्थ-
मिष्टकागणनायां पञ्चेति विद्यात् ।
पञ्चमायां वा चितावित्यस्मिन् पक्षे भेदेन गणयेदित्यर्थः । समानसंख्यं द्वे द्वे
एकीकृत्य गणयेत् ॥ १० ॥
पशुधर्मो ह वा अग्नैर्यथा ह वै पशोर्दक्षिणेषामस्थ्नां यद्
दक्षिणं पार्श्वं तदुत्तरेषामुत्तरं यदुत्तरेषां दक्षिणं तद्दक्षिणेषो-
मुत्तरं यदर्वाक्चोध्वंञ्च तत्समानम् । एवमिष्टकानां रूपाण्यु-
पदध्यात् ॥ ११ ॥
अग्निः पशुसमानाकारस्तदेवाह--पश्विति । यथा पशोः प्राङ्मुखस्य
सतः । दक्षिणेषामिति । दक्षिणपार्श्वस्थानामस्थ्नां यद्दक्षिणमग्रं तदुत्तरे-
षामुत्तराग्रमिति यावत् । तत्तादृशमित्यर्थः । उत्तरपार्श्वस्थानां वाम-
पार्श्वस्थानामस्थ्नां यदुत्तरमग्रं तद्दक्षिणपार्श्वस्थाग्रसदृशमित्यर्थः । यदुत्त-
रेषां दक्षिणं मूलं तत्तुल्यं दक्षिणेषामुत्तरं मूलमित्यर्थः । यदवाक्
अधः प्रदेशः पश्चाद्भागः, ऊर्ध्वं पूर्वप्रदेशः, तदुभयं सदृशमित्यर्थः ।
तथैवाग्निः कर्तव्य इति यावत् । एवमिति । इष्टकानां रूपमेवमा-
पाद्योपदध्यात् । पश्चात् स्थित्यायनेन तुल्यन्यायापत्या (१) पार्श्वद्वये प्राक्
प्रत्यक् चोपद्ध्यादित्यर्थः ॥ ११ ॥

६० शुल्बसूत्रम् [ द्वितीयो-
दक्षिणोत्तरपार्श्वयोरिष्टकानां समानरूपप्रतिपादनार्थं ब्राह्मणान्तरमाह—
पश्विति । तत्समानमिति । तत् सदृशम् । अस्थ्याभिप्रायेण नपुंसकत्वं । यदवाक् पश्चाद्
भागः । ऊर्ध्वञ्च पूर्वभागः । तत् समानम् तदुभयं सदृशं भवति । एवमिष्टकानां
रूपाण्युपदध्यात् एवमिष्टकाः कुर्यादित्युक्तं ब्राह्मणे । तस्यार्थमाह या दक्षिणावृतो
लेखा ( २।१२ सू० ) इत्यादिना । तथा चापस्तम्बः—सर्वान् वर्णान् इष्टकानां
कुर्यादिति लेखाधिकारो भवतीति । आचार्येण लेखाधिकारस्य पशुत्वेनोक्तत्वात्
सर्वान् वर्णान् इष्टकानां कुर्यादिति पशुधर्मत्वमुक्तं वेदितव्यम् ॥ ११ ॥
या दक्षिणावृतो लेखास्ता दक्षिणत उपदध्यात् । सव्यावृत
उत्तरतः । ऋजुलेखाः पश्चात्पुरस्ताच्च भवन्ति । त्र्यालिखिता
मध्ये ॥ १२ ॥
ब्राह्मणे सर्वान् वर्णानिष्टकानां कुर्यादित्युक्तं तस्यार्थमाह—या
दक्षिणेति । इष्टकास्तु या ( इष्ट ) दक्षिणमावर्तते सव्यमारभ्य दक्षिणं
प्रति चक्ररूपेणावर्तते लेखा इति तद्वत्य इष्टकाः लक्ष्यन्ते । दक्षिणावृत-
लेखायुक्ता इष्टका दक्षिणत उपदध्यादिति यावत् । एवं दक्षिणमारभ्य
सव्यमावर्तन्ते या लेखास्तद्युक्ता इष्टका उत्तरत उपदध्यात् । या इष्टका
ऋजुलेखायुक्तास्ताः पश्चात् पुरस्ताच्च । एते च यथा भवति तथोपद्ध्या-
दित्यर्थः । तिस्र आभिमुख्येन लिखितास्त्र्यालिखिताः, तादृशलेखायुक्ता
मध्ये अग्निमंध्ये उपदध्यात् । यद्यपीष्टकाकरणे एवं गुणा इष्टकाः कर्तव्या
इति नोक्तम् तथापि लोके प्रायेण इष्टकाकारिणां परिमार्जनवशादेव रेखाः
सम्भवन्ति । तासामुपधाने स्थानविशेषनियम उक्तः । एवञ्च रेखासम्भ-
वस्य प्रायिकत्वात् कल्पसूत्रेऽनुक्तत्वाच्च लेखाधिकारोऽयं वैकल्पिक इति
द्रष्टव्यम् ॥ १२ ॥
या दक्षिणेति । सव्यपार्श्वादारभ्य दक्षिणपार्श्वं प्रति चक्ररूपेणावृता दक्षिण-
वृल्लेखा । सव्यहस्तेन परिमृष्टेति यावत् । सव्येति । तद्विपरीताः सव्यावृतः । लेखा-
नामुपधानासम्भवात् तद्वत्य इष्टका लक्ष्यन्ते । दक्षिणत उपदध्यात् दक्षिणपार्श्व
उपदध्यात् । एवमुत्तरतः । ऋज्विति ! ऋजुलेखा अकुटिललेखा अग्नेः पश्चाद् भागे
पूर्वभागे च । त्र्यालिखितेति । मध्ये तिस्र आभिमुख्येन या लिखिता लेखास्ताः
त्र्यालिखिताः । ता अग्नेर्मध्य उपदध्यात् । एवंगुणा इष्टकाः कार्या इत्यनुक्त्वा

या दक्षिणावृत इति लोक इष्टकाकारिणां प्रसिद्धमनूद्य देशविधानात् लोके च
लेखाधिकारस्य प्रायिकत्वात् कल्पेऽनुक्तत्वाच्च लेखाधिकारो विकल्पते । लेखा-
करणपक्ष अग्निक्षेत्रं पञ्चधा विभज्य प्रोक्षणदेशवद् दिक्सम्बद्धलेखायुक्तास्तेपू-
पदध्यात् ॥ १२ ॥
अथ या विशयस्था यथा ह वै पशोः पृष्ठवंशो नैवैकस्मिन्
पार्श्वे व्यतिरेकेण वर्त्तते नैवापरस्मिन् एवं तासामुपधानं
प्रतीयात् ॥ १३ ॥
अथेति । अथ शब्दो लेखाधिकारव्यवच्छेदार्थः । लेखाधिकारो निवृत्त
इत्यर्थः । या इष्टका विषयस्य मध्यस्थितास्तासामुपधानमेवं प्रतीयादि-
त्युत्तरेणान्वयः । यथा पशोः पृष्ठवंश इति शेषः । शालामध्यवंश इव
पुच्छादारभ्य मुखपर्यन्तं मध्य एव वर्तते । न त्वन्यतरपार्श्वे । एवकार-
द्वयेन मध्य एव वर्तते, पार्श्वभूतो न वर्तत इति दृढीकृतम् । एवं पृष्ठ-
वंशरीत्या तासां मध्यस्थेष्टकानामुपधानं जानीयादित्यर्थः । एवञ्च “सर्वान्
वर्णान् इष्टकानां कुर्या”दिति वेदवाक्यस्य सर्वाणि रूपाणि ( इत्यस्य ? )
मध्यास्थिसदृशयः काश्चिदिष्टकाः, पार्श्वास्थिसदृशयः काश्चित् कर्त्तव्येत्यग्नेः
पशुधर्मत्वकथनपरत्वेन व्याख्यानमाचार्यैः कृतं वेदितव्यम् ॥ १३ ॥
अथेति । अथ शब्दः पूर्वस्माद् व्यवच्छेदार्थः । व्यवच्छेदश्च लेखाधिकारो
नास्तीति । विशयस्था मध्यस्थाः । यस्मादारभ्य पक्षपुच्छस्था इष्टका विविधं शेरते
इति विशयाः । पुच्छादारभ्यान्तान्मध्यरेखायां या इष्टका उपधेयास्ता विशयस्था
इत्यर्थः । यथा ह वै पशोः पृष्ठवंशः शालाया मध्यवंश इव । जाघनीप्रभृति आमु-
खादेकस्मिन् पार्श्वे व्यतिरेकेण उदग्दक्षिणादिपार्श्वभूतो नैव वर्त्तते । उभाभ्यामेव-
काराभ्यां कदाचिदपि न वर्त्तत इति सूचयति । एवमिति । तथेत्यर्थः । तासामुपधानं
मध्यदेशवर्त्ति-अस्थितुल्यतामापाद्योक्तं भवति । पुच्छापरान्तमध्यादारभ्य आशि-
रोऽग्रमध्यादुन्नीयते । अग्नेः पशुधर्मविधानार्थं ब्राह्मणान्तरमुक्तम् । तदुदाहृतम् ।
तत्र अस्थिसाहश्यमुक्तम् ॥ १३ ॥
अथापि ब्राह्मणं भवति प्रजापतिर्वा अथर्वाग्निरेव दध्यङ्ङा-
थर्वणस्तस्यैष्टका अस्थानीतीति ॥ १४ ॥

५२ शुल्बसूत्रम् [द्वितीयो-
इष्टकानामग्निसाम्यात्प्रतिपादनादग्नेः पशुधर्मत्वकथनपरं ब्राह्मण-
मुदाहरति—अथापोति । प्रजापतिरथर्वा नामोऽग्निः । आथर्वणः
अथर्वपुत्रो दध्यङ् नाम । तस्याग्नेः इष्टका अस्थीनि । एवं पशुधर्मत्वमुक्तम् ।
तथा चाग्निः पशुवत् तुल्योपमपार्श्वः पृष्ठवंशे सदृशमध्येष्टकश्चेतव्य इत्युक्तं
भवति ॥ १४ ॥
स्वशाखायामप्येष्टकानां अस्थिसादृश्यमात्रवचनमस्तीत्याह—अथापीति । अथ
शब्दोऽस्माकमिति द्योतनार्थः । अपि शब्दः समुच्चय एव । न परकीयमेव अस्म-
दीयमप्यस्तोत्यर्थः । किं तत् ? अथर्वा नाम प्रजापतिरग्निरेव मान्य अथर्वणः
पुत्रो दध्यङ् । तस्य दधीच अस्थानी अस्थीनि इष्टका इति ब्राह्मणस्यार्थः । तस्मात्
सादृश्यवाक्योपन्याससामर्थ्याद् विधिं प्रकल्प्य इष्टकानामस्थिसादृश्यमापाद्योपद्-
ध्यादिति शेषः ॥ १४ ॥
बहिस्तन्वं चेच्चिनुयात्तन्वोपप्लवमध्यैरात्मोपप्लवमध्यान्तसं-
दध्यात् । प्राञ्चमेनं चिनुत इति विज्ञायते ॥ १५ ॥
अग्निचयने नियमस्तावदाह—बहिस्तन्वमिति । तन्वशब्दोऽङ्ग-
परः । अग्नयो हि द्विविधाः अन्तस्तन्वोबहिस्तन्वश्चेति । बहिस्तन्वाः
श्येनकङ्कालजद्रोणकूर्मादयः । बहिर्भूतान्यङ्गानि यस्य सः बहि-
स्तन्वः । तादृशमग्नि यदि चिनुयात्तदा तन्वोपप्लवमध्यैः तन्वानां
शिरःपक्षप्रभृतीनां मध्यैरात्ममध्यान् संयोजयेत् । शिरसः पश्चि-
मान्तमध्यैरात्मप्राच्यान्तमध्यो योजयेत् । एवं पक्षपुच्छादिष्वपि ।
इदञ्चाकृतिवचनात् सिद्धम् । एकस्यां दिशि कतमदङ्गं संदध्या-
दित्यत आह—प्राञ्चमेनमिति । प्राङ्मुखं प्राक्शिरसमेन मग्निं चिनुते ।
एवञ्च इदमङ्गं अत्र संदध्यात् । अविज्ञातमुखादीनां प्रउगादीनां मुखादि-
परिज्ञानार्थमिदमुक्तम् ॥ १५ ॥
तन्वशब्दोऽङ्गपर्यायः । अङ्गानि चात्र शिरःपक्ष-पुच्छ-पाद त्सर्वोष्ठानि श्येन-
कङ्कालजद्रोणकूर्मादीनां बहिर्भूतान्यङ्गानि । ( त्सरुश्चतुरस्र द्रोणे, पादाः कङ्क-
कूर्मयोः, परिमण्डलद्रोणे कूर्मे च ओष्ठ इति टिप्पण्याम् ) । रथचक्रश्मशानादीना-
मन्तर्भूतानि ।

ऽध्यायः ] बौधायनीयं ६३
तत्र यदि बहिस्तन्वमग्निं चिनुयात् तन्वोपसवमध्यैः, तन्वानामुपसव-
मध्यास्तन्वोपसवमध्याः, उपसवशब्दोऽन्तपर्यायः, तेषां मध्येरात्मोपसवाना-
मात्मोपसवमध्यान् पार्श्वानां मध्यान् संदध्यात् । आत्मनः पूर्वपार्श्वान्तमध्यं
शिरसः पश्चिमान्तमध्येन संयोजयेत् । एवं पक्षादिषु द्रष्टव्यम् । कङ्कपादयोस्तु
तावदन्तरालविधानात् सान्तरालपद्वयमध्यं पुच्छान्तमध्ये भवति । अन्यथा-
सम्भवात् । कूर्मे तु प्रध्यपच्छेदमध्यान् पादान्तमध्यैः श्लेषयेत् । एतत् सर्वमाकृ-
तिवचनेनैव सिद्धं विस्पष्टार्थमुच्यते । कस्यां दिशि कतमदङ्गं संदध्यादित्यत आह—
प्राञ्चमेनमिति । प्राञ्चं प्राक्शिरसमेनर्माग्नि चिनुत इति । अनेनेदमस्मिन् प्रदेशे संद-
ध्यादिति विस्पष्टार्थं विज्ञायते । अविज्ञातमुखानां प्रउगादीनां मुखादिप्रदेशपरि-
ज्ञानमेव प्रयोजनं प्रयोक्तुरुपस्थानाद्यर्थम् ॥ १५ ॥
अमृन्मयीभिरनिष्टकाभिर्न सङ्ख्यां पूरयेत् ॥ १६ ॥
हिरण्येष्टकाभिः सहस्रसङ्ख्यापूरणे प्राप्ते तन्निवृत्त्यर्थमाह—अमृ-
न्मयीभिरिति । अमृद्विकारेष्टकाभिः सहस्रादिसङ्ख्यां न पूरयेदित्यर्थः ।
ननु कुम्भेष्टकानां मृन्मयत्वात् ताभिः सङ्ख्या (पूरणं प्राप्तमिति चेन्न
तादृशस्थले ? ) पूरकानामिष्टकार्थोर्ध्वप्रमाणादिलक्षणाभावेन लोकप्रसि-
द्ध्यभावेन च इष्टकत्वाभावात् ॥ १६ ॥
अमृन्मयीभिर्हिरण्येष्टकाभिः । मृन्मयत्वे सत्यपि कुम्भेष्टकाभिर्न संख्यां
सहस्रादिकां पूरयेत् । लोकप्रसिद्धाभिरेव मृन्मयीभिरिष्टकाभिः संख्यां पूरये-
दित्युक्तं भवति । लोकप्रसिद्धयैव मृन्मयत्वे सिद्धे मृन्मयग्रहणं स्व ( स ? ) प्रयो-
जनञ्च । यज्ञे प्रारब्ध उत्तमे प्रस्तारे प्राप्ते पूर्वस्यां रात्रौ चोरेण द्विषद्विर्वा इष्टका
अपहृताः स्युः सद्यः पुनरिष्टकाकरणस्य अशक्यत्वाद् आरब्धस्यावश्यपरिसमाप्य-
त्वात् प्रतिनिधिप्राप्तौ त्रपुभिः शिलाभिर्वा सादृश्यात् तथेष्टकाः कारयित्वोपधानं
स्यात् । तन्निवृत्त्यर्थमस्यामप्यवस्थायां अमृन्मय्यः संख्यायां नान्तर्भवेयुः ॥ १६ ॥
इष्टकाचिद्वान्योऽग्निः पशुचिदन्य इत्येतस्माद् ब्राह्मणात् ।
पशुर्वा एष यदग्निर्योनिः खलु वा एषा पशोर्विक्रियत इति यत्
प्राचीनमैष्टकाद् यजुः क्रियत इति च ॥ १७ ॥
मृन्मयेनैव सङ्ख्यापूरणे ब्राह्मणमुदाहरति--इष्टकचिद्वेति । यत
इतिवत् (?) साभिमर्शनस्य पशुचिदं (?) नित्येन स्तवनार्थं प्रसिद्धोऽग्नि-
रिष्टकचिदित्यनूद्यते । ततश्च इष्टकाभिरेव प्रसिद्धोऽग्निश्चेतव्य इत्यस्माद्
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

६४ शुल्बसूत्रम् [द्वितीयो-
ब्राह्मणादवगम्यते । अमृन्मयत्वे च इष्टकचित्त्वं व्याहन्येत । इष्टकाभिरेव
चित इष्टकचित्त्वात् । अग्नेः पशुधर्मत्वे मृन्मयीभिरेवेष्टकाभिः संख्या-
पूरणे ब्राह्मणमुदाहरति--पशुर्वैति । अपस्योपधानविधिविशेषोऽयमर्थ-
वादः । अयमग्निः पशुधर्मत्वात् पशुः । अस्य पशुरूपस्याग्नेः एषा पुष्कर-
पर्णरूपयोनिः इष्टकोपधानात् ( पूर्वंयजुषा कृतेन रुक्मोपधाने तयोन्येने॑ह॑ण
विकृती क्रियते तत्परिहारार्थमपस्योपधाने कृते योन्यर्हरेत्त ) एव सिद्धं
भवतीत्यर्थः । पुष्करपर्णस्य उपधानं प्रशंसन्ति । योनेर्वा अग्नेः पुष्करपर्ण-
मिति ब्राह्मणादवगम्यते ॥ १७ ॥
अस्य ( २।१६ ) प्रतिषेधस्य हेतुरूपेण श्रुतिं दर्शयन्नाह—इष्टकेति । अग्निहो-
त्रस्य वत्साभिमर्शनम्यर्थवादः । इष्टकया चित एकोऽग्निः पशुना चित अन्यो-
ऽग्निरित्येतस्माद् अन्यार्थवादविषयब्राह्मणलिङ्गाद् इष्टकाभिरेव चिन्वीत न
द्रव्यान्तरैणापीत्यत्र प्रसिद्धश्चयनाग्निरनूच्यतेऽभिमर्शनेन । पशुचितमेन मग्निं कुरुत
इति ज्ञापनार्थम् । अनेन ब्राह्मणेन इष्टकाभिरेवेत्यत्र स्वशाखायाञ्चास्ति लिङ्ग-
मिति प्रतिपादितं भवति । अन्यच्च । योऽग्निरेष पशुधर्मत्वादभेदेन पशुधर्म
इत्युच्यते । योनिरुत्पत्तिस्थानम् । एषा योनिः पशोर्विक्रियते विविधं क्रियते ।
कथम् ? यत्प्राचीनं यस्मात् प्राचीनं पूर्वमैष्टकात् इष्टकासम्बन्धात् चयनाद्
यदिष्टकानां यजुर्मन्त्रवत् कर्म क्रियते दर्भस्तम्भोपधानकर्षणादि । अत्रैष्टकात्
पूर्वमित्यनेन ऐष्टक एवाग्निरुपधातुं शक्यते । च शब्दः समुच्चयार्थः । इदञ्च लिङ्ग-
मिति । अत्र यत् प्राचीनमित्यादिना लिङ्गदर्शनेन इष्टकचित्त्वे सिद्धे पशुधर्मत्व-
ञ्चाग्नेः स्वशाखायामस्ति इति दर्शयितुं पशुर्वा एष इत्याद्युदाहृतम् ॥१७॥
लोकबाधीनि द्रव्याण्यवटेषूपदध्यात् ॥ १८ ॥
इष्टकोपधानात् प्रागेव पुरुषशिरः प्रभृतीनां कल्पोक्तप्रकारेण उपधाने
क्रियमाणे ता(वद् ?)कचिदौन्नत्यं च स्यात् । ततश्चेष्टकोपधानं कर्तुं न
शक्यत इति आशङ्क्याह--लोकबाधीनीति । लोकबाधीनि पुरुषशिरः
उलूखलमुसलादीनि नित्यकारिणि (?) इष्टकोपधानविघ्नानि अवटेषु
गर्तेषूपदध्यादित्यर्थः ॥ १८ ॥
इष्टकानां स्थानबाधीनि उलूखलपशुशिरःप्रभृतीन्यवटेषु गर्तेषूपदध्यात् ।
इष्टका अपसार्यो लूखलादिद्रव्यस्योपधित्सितस्य स्थान इष्टका अपनीय अवटं

ऽध्यायः ] बौधायनीयं ६५
खात्वा तत्रोपधाय समां भूमिं कृत्वा अपनीता इष्टकाः स्थाप्याः। अवकाः ( ? )
स्वयमातृण्णाश्चोत्तरास्वपि चितिषु दृष्टत्वात् सर्वत्र सन्धिषूपदध्यात् ॥ १८॥
मण्डलमृषभं विकर्णीमितीष्टकासु लक्ष्माणि प्रतीयात् ॥१९॥
मण्डलेष्टका उपदधाति ऋषभेष्टका उपदधाति विकर्णीमुपदधाती-
त्यादिविधानेन मण्डलाद्याकारतया इष्टकाकरणे प्राप्ते तन्निवृत्त्यर्थमाह—
मण्डलमिति। इष्टकाया मध्ये मण्डलाकारतया लेखां लिखेत् सा मण्ड-
लेष्टकेत्युच्यते। एवं वृषभाकारतया लिखेत्। एवं विकर्णाकारतया
लिखेत्। एवं रूपेण इष्टकासु लक्षणानि चिह्नानि कुर्यात् ॥ १६ ॥
इतिरेवमित्यर्थे। मण्डलेष्टकामुपदधाति ऋषभमुपदधाति, विकर्णीमुप-
दधाति इत्येवं यत्र श्रूयते तत्र इष्टकासु लक्ष्माणि चिह्नानि प्रतीयात्। इष्टकानां
मण्डलाकृतिविधानमिति न जानीयात्। चतुरस्राभिरित्यादिवचनविरोधात्।
तत्र तिसृषु मण्डलाकारं लिखेत्। पञ्चसु ऋषभाकारम्। एकस्यां विकर्णीरूपं
अर्धचन्द्राकृतिं वा लिखेत् ॥ १९ ॥
इष्टकामन्त्रयोरिष्टकाव्यतिरेके लोकंपृणाः संपद्यन्ते परिमाणा-
भावात्। अतीतानेवेष्टकागणानत्रोपदध्यात् ॥ २० ॥
इष्टकेति। इष्टकामन्त्रयोर्मध्ये इष्टकाव्यतिरेके इष्टकातिरेके लोकं-
पृणाः संपद्यन्ते। कुतः लोकंपृणानां भावात्।
अयमर्थः—तत्तत्प्रस्तारोक्तमन्त्रोपधानान्तरं यदि काश्चिदतिरिक्ताः
स्युस्तदा अतिरिक्तासु इष्टकासु लोकंपृणाभिरुपधानं कुर्यात्।
इष्टकातिरेके पक्षान्तरमाह—अतीतानेवेति। तत्र इष्टकाधिक्ये
अतीतानपस्यादिगणानुपधाय संख्यां पूरयेत्। एवकारो वार्थकः ॥ २० ॥
ता इष्टकामन्त्रा अवधेया मन्त्रप्रकरणपठिता आचार्येणोक्ताश्च। इष्ट-
कानां मन्त्राणां मध्ये इष्टकाव्यतिरेके इष्टकाधिक्ये प्रथमे प्रस्तारे शतमष्ट-
षष्ठिश्च मन्त्रा द्रष्टव्याः। वापश्चिदादीनां मन्त्राणां विनियोगान्तरे पञ्चषष्टिरिति।
यद्वा त्रिंशत् पञ्चत्रिंशद्वा इष्टका मन्त्रेभ्योऽतिरिच्यन्ते ता लोकंपृणाः संपद्यन्ते।
कुतः? इयत्य एव लोकंपृणा इति परिमाणाभावात्। ननु पञ्च लोकंपृणा इति
वक्ष्यति। कथं परिमाणाभावः? सत्यम्। पञ्चैवेति न तस्यार्थः। द्वैधोक्तमार्गेण
६

६६ शुल्बसूत्रम् [ द्वितीयो-
गणावृत्तौ द्विशताश्चेदित्यस्मिन् पक्षे पञ्चमायां चितौ च अवश्यं पञ्चोपधेया
इति तस्यार्थः । अनुष्टुभानुचरतीति वचनात् । तस्मात् प्राणः सर्वाण्यङ्गान्यनु-
चरतीति अर्थवादाच्च । द्वितीये प्रस्तारे शतमष्टत्रिंशच्चातिरिक्ताः । तृतीये पञ्च-
दशातिरिक्ताः । चतुर्थे षोडशाधिकं सप्तदशाधिकं वा शतम् । पञ्चमे नेष्टकातिरेक
उत्तमायां पूरणत्वेऽतिरिच्यन्ते । तत्राथोधोचीभिरिति दर्शनात् स्वकल्पोक्तमार्गेण
लोकंपृणाभिरेव पूरणम् । द्वैधोक्तमार्गेण वा गणावृत्त्योपधानम् । न संकलितो-
पधानम् ।
अत्र एतस्मिन् काले लोकंपृणानामुपधानकाले अतीतानेवेष्टकागणानपस्या-
श्विनीदिश्याक्ष्णयास्तोभीयासपन्नादीनुपदध्यात् । अथवा कल्पे अपानभृदभि-
श्चितिराप्यते पुरुषेण वालखिल्याभिर्व्युष्ट्रीभिर्नक्षत्रेष्टकाभिश्चितिराप्यते इति
वचनात् । अतीतानुपधानकाले विस्मृतानिटकागणान् एतस्मिन् काले उपदध्यात् ।
अस्मिन् पक्षेऽत्रेति शब्दोऽनर्थकः । कल्प आप्यत इति वचनेनान्यगणापानभृ-
दादिभिरपि पूरणं सूचयति । तत्र पुरुषेण चितिराप्यत इति वचनात् पुरुषो वय
इत्यस्यैवावृत्तिः । अन्यथेतेरेष्विव वयस्याभिरित्येवावक्ष्यत् ॥ २० ॥
पञ्च लोकंपृणाः ॥ २१ ॥
अस्मिन्नपि पक्षे पञ्च लोकंपृणावश्यमुपधेया इत्याह-- पञ्चेति ॥ २१ ॥
सर्वप्रकारेखपि पूरणे पञ्च । लोकंपृणाः पञ्च अवश्यमुपदध्या-
दित्यर्थः ॥ २१ ॥
मन्त्रव्यतिरेकेऽक्ताः शर्कराः सन्धिषूपदध्यात् ॥ २२ ॥
मन्त्रव्यतिरेक इति । मन्त्राधिक्ये अधिकैर्मन्त्रैरिष्टकासन्धिषु घृत-
सिक्ताः शर्करा उपदध्यादित्यर्थः ॥ २२ ॥
द्विशतप्रस्तारपक्षे पञ्चमे तेजो घृतमिति वाक्यशेषाद् घृताक्ताः शर्करा
ऋतव्यासु सगराद्यैर्मन्त्रैः पौर्णमास्यन्तैः शतं विंशतिसंयुक्ताः सन्धिषु इष्टकाविवरेषु
उपदध्यात् । प्रतितारकपक्षे द्वे द्वे भवतः ॥ २२ ॥
प्राचीरुपदधाति प्रतीचीरुपदधातीति गणेषु रीतिवादः ।
प्राचीमुपदधाति प्रतीचीमुपदधातीति कर्तुर्मुखवादः । पुरस्तादन्याः
प्रतीचीरुपदधाति पश्चादन्याः प्राचीरित्यपवर्गवादः । चतुरश्रास्वे-
वैतदुपपद्यते ॥ २३ ॥
प्राचीरिति । कल्पसूत्रश्रुतौ प्राचीरुपदधाति प्रतीचीरुपदधातीति

ऽध्यायः } बोधायनीयं ६७
यत्र श्रूयते तत्र तेषु गणेषु रीतेर्वादः, श्रेण्या वादः अभिधानं, प्रागपवर्गा
प्रत्यगपवर्गा च रीतिं समापयेदित्यर्थः । इदमुपलक्षणम् । उदीची-
रुपदधाति दक्षिणा उपदधातीत्यत्रापि उदगपवर्गा दक्षिणापवर्गाञ्च रीतिं
समापयेदिति द्रष्टव्यम् । प्राचीरिति । इष्टकायाः प्राङ्मुखत्वाद्यसम्भवात्
कर्तुः प्राङ्मुखत्वाद्यभिप्रायेण अयं व्यपदेशः । पुरस्तादन्या इति । नक्षत्रे-
ष्टकासु पुरस्तादन्याः प्रतीचीरुपदधातीति अंसादारभ्य श्रोणीपर्यन्तं प्रत्य-
गपवर्गा उपधेयाः, पश्चादन्याः प्राचीरिति श्रोणेरारभ्यांसपर्यन्तं प्रागपवर्गा
उपधेयाः । न त्विह रीतिर्विवक्षिता ।
चतुरश्रास्विति । एतत्प्रागुक्तमंसश्रोण्यादिविशेषमुपधानं चतुरश्रा-
स्वेव चितिषु उपपद्यते न तु रथचक्रादिषु (गण) श्रोण्यादिविभागस्य
अस्पष्टत्वात् गौण्या वृत्त्या संपद्यत. इत्यर्थः ॥ २३ ॥
प्राचीरुपदधाति प्रतीचीरुपदधातीति कल्पे श्रुतौ वा यत्र श्रूयते अप-
स्यादिषूपलक्षणत्वात् , उदीचीर्दक्षिणा इति च यत्र श्रूयते, तत्रायमर्थः --तेषु
गणेषु रीतेर्वादः श्रेण्या वादः अभिधानम् । रीतिशब्देन प्रसिद्धा अकुटिला गति-
रुच्यते । प्रागपवर्गा इत्युक्तं भवति । प्राचीमिति । अस्यां शाखायामुदाहृतरूपस्यो-
भयस्याभावादर्थवादरूपेण ग्रहणम् । अस्य च प्रदर्शनार्थत्वात् पञ्चैकैकामित्या-
दिषु प्राङ्मुख इत्यादि चयनकर्त्तुश्चोदन भवति । तत्र प्राङ्मुखत्वादेरिष्टकाया अस-
म्भवादुपधानकर्त्तुरित्युक्तम् ।
पुरस्तादन्या इति । नक्षत्रेटकासु अंसादारभ्य आश्रोणे रोहिण्याद्या विशाखान्ताः
प्रत्यगपवर्गाः । पश्चादन्या इति । श्रोण्या आरभ्य अंसाद् अनुराधाद्या अपभरण्यान्ताः
प्रागपवर्गाः । तत्र अपवर्गवादो न रीतिवादः । आरम्भावसानस्थानवचनात् तद्-
वश्यं संपाद्यं कुटिलतायान्तु दोषः । चतुरश्रास्विति । अनन्तरोक्तनक्षत्रेटकासु । अंस-
श्रोणिविशिष्टं विधानं चतुरस्रासु चितिष्वेवोपपद्यते । अन्यत्र रथचक्रादिषु गौण्या
वृत्त्या सम्पद्यत इत्यर्थः ॥ २३ ॥
[ इति अग्नीनां विशेषधर्मकथनम् । ]
न खण्डामुपदध्यात् । न भिन्नामुपदध्यात् । न जीर्णामुप-
दध्यात् । न कृष्णणमुपदध्यात् । न लक्ष्मणामुपदध्यात् ॥२४॥
अग्निधर्मानुक्त्वा इष्टकाधर्मानाह--न खण्डामिति । ( खण्डां वा

स्यादिति वा ) चतुरश्रकृतामिष्टकां भित्वा तत्संपादितेष्टकां नोपदध्या-
दित्यर्थः । न भिन्नामिति । भिन्नां रेखाकारतया संयुक्तां स्फुटितामिष्टकां
नोपदध्यात् । न जीर्णामिति । न जीर्णां चिरकालसंपादिताम् । अत एव
“यद्युवै संवत्सरभृतं दीर्घोऽध्वाऽजिरिति नाद्रियेत” इति उख्यस्य संवत्सरभरण-
पक्षे उपकल्पनं निषिद्धम् । न कृष्णामिति । कृष्णां पाकाधिक्येन न्यून-
तया वा नीलवर्णाम् । न त्वेकदेशनीलां पाकानन्तरीयकस्य एकदेशनैल्यस्य
अपरिहरणीयत्वात् । कृष्णामित्युपलक्षणं लोहितव्यतिरिक्तश्वेतादियुक्तामपि
नोपदध्यात् । लोहितपचनायैः पचन्तीत्यापस्तम्बवचनात् । न लक्ष्मा-
मिति । लक्ष्मां छान्दसत्वान्न दोषः । लक्ष्मणां शोषणसमये दारुपाषाणा-
दिना चिह्नितां नोपदध्यादित्यर्थः ॥ २४ ॥
अथेष्टकाधर्माः—न खण्डेति । वाश्यादिना संतक्ष्य पादेष्टकादिमापाद्य नोप-
दध्यात् । तत्र भिन्नप्रतिषेधादेवमुक्तम् । न भिन्नेति । द्विधाभूतां पुनः संधायैकीभूतां
नोपदध्यात् । न जीर्णेति । एकदेशजीर्णां किञ्चिद्विशिष्टामपि नोपदध्यात् । न
कृष्णेति । उत्तरदेशे कृष्णापि कृष्णैव । यथा सर्वो रोहित इत्यत्र एकदेशरोहितापेक्षया
तद्विशेषणत्वम् । न लक्ष्मणेति । शोषणकाले काष्ठपाषाणादिना अङ्किताम् । निर्मध्येन
लोहिनीः पचन्तीति वचनादिष्टकासु अतीवव्यतिरिक्तश्वेतश्यावादिवर्णा अपि
वर्जनीयाः ॥ २४ ॥
न स्वयमातृण्णां स्वयं चितावुपदध्यात् ॥ २५ ॥
इष्टकास्वरूपनिविष्टानखण्डादिधर्मानुक्त्वा स्वयमातृण्णानपिधाय-
कत्वाख्यमुपधानमुखेनेष्टकाविनिवेशितं धर्ममाह—न स्वयमातृण्णा-
मिति । स्वत एव संपन्नच्छिद्रा शर्करा स्वयमातृण्णा । अग्नौ हि तिस्रः
स्वयमातृण्णा उपधेयाः । एका हिरण्मयपुरुषोपधानानन्तरं मृन्मयेष्ट-
कोपधानात् पूर्वमसिमध्ये उपधेया । द्वितीया द्वितीयप्रस्तारोपधाना-
नन्तरमसिमध्येष्टकारन्ध्रोपर्युपधेया । तृतीया पञ्चमप्रस्तारसमाप्तावसिमध्य
एवेष्टकारन्ध्रोपर्युपधेया । ताश्चोपधानकाले इष्टकाभिर्यथा न पिधीयन्ते
तथोपदध्यादिति भावः । इष्टकानामुपधानकाले स्वयमातृण्णानपिधायकत्वं
प्रथमस्वयमातृण्णोपर्युपधेयासिमध्ये इष्टकाया आर्ध्याद्वयरूपेणान्यथा वा

ऽध्यायः ] बौधायनीयं ६६
रन्ध्रान्तः स्वयमातृष्णाकत्वेनोपधाने द्वितीयप्रस्तारादावेवं मध्यरन्ध्रान्तं
पिधानोपायेनोपधाने सिध्यतीति द्रष्टव्यम्। ननु तृतीयस्याः स्वयमा-
तृष्णायाः सर्वप्रस्तारसमाप्तावुपधेयत्वेनेष्टकाभिरपिधानप्रसक्त्यभावात् कथं
तन्निषेध इत्यत आह—स्वयं चिताविति। इष्टकायां स्वयं चित्ताववस्थायां
ताभिः स्वयमातृणान् नापिदध्यादित्यर्थः। एवञ्च स्वयंचितावित्युक्त्या
प्रथमद्वितीयस्वयमातृष्णापिधायकत्वमेव प्रसक्तमिष्टकानां निषिध्यत इति
नानुपपत्तिरिति त(ा)न्मुखेन प्रथमद्वितीयस्वयमातृणानपिधायकत्वमेवेष्टका-
धर्मे विधीयत इति भावः ॥ २५ ॥
न स्वयमिति । तृतीयस्याः स्वयमातृष्णायाः प्रस्तारसमाप्तावुपधेयत्वात् पूर्व-
योरयं धर्मः स्वयंचितौ स्वयमातृणावत्यां चिताविष्टकया नापिदध्यात् । यथा
सन्धौ भवति तथेष्टकयोर्मध्ये इत्यर्थः ॥ २५ ॥
ऊर्ध्वप्रमाणमिष्टकानां जानोः पञ्चमेन कारयेत् ॥ २६ ॥
असिगार्हपत्यधिष्ण्येष्टकानां साधारण्येन ऊर्ध्वप्रमाणमाह—ऊर्ध्वेति ।
इष्टकानाम् ऊर्ध्वप्रमाणं जानोः पञ्चमेन कारयेत् ॥ २६ ॥
ऊर्ध्वमिति । इष्टकानां गार्हपत्यधिष्ण्येष्टकाभिः सर्वासामपृथग्विधानाद्
इष्टकाग्रहणाच्च ॥ २६ ॥
अर्धेन नाकसदाम् पञ्चचोडानाञ्च ॥ २७ ॥
अर्धेनेति । पूर्वोक्तोर्ध्वपरिमाणार्धेन नाकसदाम् पञ्च चोडानां करण-
मित्यर्थः ॥ २७ ॥
अर्धेनेति । पञ्चमार्धेन ॥ २७ ॥
यच्छोषपाकाभ्यां प्रतिह्रसेत पुरीषेण तत्संपूरयेत् पुरीषस्या-
नियतपरिमाणत्वात् ॥ २८ ॥
यच्छोषपाकाभ्यामिति । यदि इष्टकारूपद्रव्यं शोषपाकाभ्यां प्रति-
ह्रसेत् न्यूनं भवेत्तदिष्टकारूपं पुरीषेण यावदाम्नातप्रमाणं पूरयेदित्यर्थः ।
पुरीषस्यानियतपरिमाणत्वात् ॥ २८ ॥
यच्छोषेति । यच्छोषपाकाभ्याम् उपलक्षणत्वात् कालेन वा प्रतिह्रसेत उक्त-
प्रमाणाद्धीयते पुरीषेण तत्सम्पूरयेत् । पुरीषस्यानियतपरिमाणत्वात् । परिमाण-