सामग्री पर जाएँ
सर्वकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 92, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 92

५२ शुल्बसूत्रम् [द्वितीयो-
इष्टकानामग्निसाम्यात्प्रतिपादनादग्नेः पशुधर्मत्वकथनपरं ब्राह्मण-
मुदाहरति—अथापोति । प्रजापतिरथर्वा नामोऽग्निः । आथर्वणः
अथर्वपुत्रो दध्यङ् नाम । तस्याग्नेः इष्टका अस्थीनि । एवं पशुधर्मत्वमुक्तम् ।
तथा चाग्निः पशुवत् तुल्योपमपार्श्वः पृष्ठवंशे सदृशमध्येष्टकश्चेतव्य इत्युक्तं
भवति ॥ १४ ॥
स्वशाखायामप्येष्टकानां अस्थिसादृश्यमात्रवचनमस्तीत्याह—अथापीति । अथ
शब्दोऽस्माकमिति द्योतनार्थः । अपि शब्दः समुच्चय एव । न परकीयमेव अस्म-
दीयमप्यस्तोत्यर्थः । किं तत् ? अथर्वा नाम प्रजापतिरग्निरेव मान्य अथर्वणः
पुत्रो दध्यङ् । तस्य दधीच अस्थानी अस्थीनि इष्टका इति ब्राह्मणस्यार्थः । तस्मात्
सादृश्यवाक्योपन्याससामर्थ्याद् विधिं प्रकल्प्य इष्टकानामस्थिसादृश्यमापाद्योपद्-
ध्यादिति शेषः ॥ १४ ॥
बहिस्तन्वं चेच्चिनुयात्तन्वोपप्लवमध्यैरात्मोपप्लवमध्यान्तसं-
दध्यात् । प्राञ्चमेनं चिनुत इति विज्ञायते ॥ १५ ॥
अग्निचयने नियमस्तावदाह—बहिस्तन्वमिति । तन्वशब्दोऽङ्ग-
परः । अग्नयो हि द्विविधाः अन्तस्तन्वोबहिस्तन्वश्चेति । बहिस्तन्वाः
श्येनकङ्कालजद्रोणकूर्मादयः । बहिर्भूतान्यङ्गानि यस्य सः बहि-
स्तन्वः । तादृशमग्नि यदि चिनुयात्तदा तन्वोपप्लवमध्यैः तन्वानां
शिरःपक्षप्रभृतीनां मध्यैरात्ममध्यान् संयोजयेत् । शिरसः पश्चि-
मान्तमध्यैरात्मप्राच्यान्तमध्यो योजयेत् । एवं पक्षपुच्छादिष्वपि ।
इदञ्चाकृतिवचनात् सिद्धम् । एकस्यां दिशि कतमदङ्गं संदध्या-
दित्यत आह—प्राञ्चमेनमिति । प्राङ्मुखं प्राक्शिरसमेन मग्निं चिनुते ।
एवञ्च इदमङ्गं अत्र संदध्यात् । अविज्ञातमुखादीनां प्रउगादीनां मुखादि-
परिज्ञानार्थमिदमुक्तम् ॥ १५ ॥
तन्वशब्दोऽङ्गपर्यायः । अङ्गानि चात्र शिरःपक्ष-पुच्छ-पाद त्सर्वोष्ठानि श्येन-
कङ्कालजद्रोणकूर्मादीनां बहिर्भूतान्यङ्गानि । ( त्सरुश्चतुरस्र द्रोणे, पादाः कङ्क-
कूर्मयोः, परिमण्डलद्रोणे कूर्मे च ओष्ठ इति टिप्पण्याम् ) । रथचक्रश्मशानादीना-
मन्तर्भूतानि ।