बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 95, कुल 366 में से
संदर्भ में पढ़ेंऽध्यायः ] बौधायनीयं ६५
खात्वा तत्रोपधाय समां भूमिं कृत्वा अपनीता इष्टकाः स्थाप्याः। अवकाः ( ? )
स्वयमातृण्णाश्चोत्तरास्वपि चितिषु दृष्टत्वात् सर्वत्र सन्धिषूपदध्यात् ॥ १८॥
मण्डलमृषभं विकर्णीमितीष्टकासु लक्ष्माणि प्रतीयात् ॥१९॥
मण्डलेष्टका उपदधाति ऋषभेष्टका उपदधाति विकर्णीमुपदधाती-
त्यादिविधानेन मण्डलाद्याकारतया इष्टकाकरणे प्राप्ते तन्निवृत्त्यर्थमाह—
मण्डलमिति। इष्टकाया मध्ये मण्डलाकारतया लेखां लिखेत् सा मण्ड-
लेष्टकेत्युच्यते। एवं वृषभाकारतया लिखेत्। एवं विकर्णाकारतया
लिखेत्। एवं रूपेण इष्टकासु लक्षणानि चिह्नानि कुर्यात् ॥ १६ ॥
इतिरेवमित्यर्थे। मण्डलेष्टकामुपदधाति ऋषभमुपदधाति, विकर्णीमुप-
दधाति इत्येवं यत्र श्रूयते तत्र इष्टकासु लक्ष्माणि चिह्नानि प्रतीयात्। इष्टकानां
मण्डलाकृतिविधानमिति न जानीयात्। चतुरस्राभिरित्यादिवचनविरोधात्।
तत्र तिसृषु मण्डलाकारं लिखेत्। पञ्चसु ऋषभाकारम्। एकस्यां विकर्णीरूपं
अर्धचन्द्राकृतिं वा लिखेत् ॥ १९ ॥
इष्टकामन्त्रयोरिष्टकाव्यतिरेके लोकंपृणाः संपद्यन्ते परिमाणा-
भावात्। अतीतानेवेष्टकागणानत्रोपदध्यात् ॥ २० ॥
इष्टकेति। इष्टकामन्त्रयोर्मध्ये इष्टकाव्यतिरेके इष्टकातिरेके लोकं-
पृणाः संपद्यन्ते। कुतः लोकंपृणानां भावात्।
अयमर्थः—तत्तत्प्रस्तारोक्तमन्त्रोपधानान्तरं यदि काश्चिदतिरिक्ताः
स्युस्तदा अतिरिक्तासु इष्टकासु लोकंपृणाभिरुपधानं कुर्यात्।
इष्टकातिरेके पक्षान्तरमाह—अतीतानेवेति। तत्र इष्टकाधिक्ये
अतीतानपस्यादिगणानुपधाय संख्यां पूरयेत्। एवकारो वार्थकः ॥ २० ॥
ता इष्टकामन्त्रा अवधेया मन्त्रप्रकरणपठिता आचार्येणोक्ताश्च। इष्ट-
कानां मन्त्राणां मध्ये इष्टकाव्यतिरेके इष्टकाधिक्ये प्रथमे प्रस्तारे शतमष्ट-
षष्ठिश्च मन्त्रा द्रष्टव्याः। वापश्चिदादीनां मन्त्राणां विनियोगान्तरे पञ्चषष्टिरिति।
यद्वा त्रिंशत् पञ्चत्रिंशद्वा इष्टका मन्त्रेभ्योऽतिरिच्यन्ते ता लोकंपृणाः संपद्यन्ते।
कुतः? इयत्य एव लोकंपृणा इति परिमाणाभावात्। ननु पञ्च लोकंपृणा इति
वक्ष्यति। कथं परिमाणाभावः? सत्यम्। पञ्चैवेति न तस्यार्थः। द्वैधोक्तमार्गेण
६