तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
प्रकाशयेत्, अयमेव च आदिसर्गः तत्र तत्रागमेषु
श्लोक १३५ ] प्रथमाह्निकम् । १७५
जडाजडस्याप्येतस्य
द्वैरूप्यस्यास्ति चित्रता ॥ १३५ ॥
आवृत्य इति स्वस्वरूपगोपनात्मिकया मायाशक्त्या
संकोचवत्तामाभास्य इत्यर्थः । जडपदम् इति
परप्रकाश्यभावराशिस্বরূপताम् इत्यर्थः । विश्वनि-
र्माणेच्छुर्हि परमेश्वरः प्रथमं स्वाव्यतिरिक्तमेव विश्वं
प्रकाशयेत्, अयमेव च आदिसर्गः तत्र तत्रागमेषु
उच्यते, अनन्तरं च यदास्य मायया सर्गचिकीर्षा
भवति तदा स्वस्वातान्त्र्यात् स्वात्मदर्पणे अनन्त-
ग्राह्यग्राहकद्वयाभाससन्ततीराभासयति, स्वाङ्गरूप-
भावराशिमध्यादेव हि देहप्राणबुद्धिशून्यानि स्वग-
ताहन्तात्मककर्तृतार्पणेन ग्राहकीभावयति, तदपरं
शब्दादि च इदन्ताविषयतया चिद्रूपतातिक्रमेण
ग्राह्यतामापादयति, अत एव च देहादिः कर्तृतां
ज्ञातृतां च स्वात्मनि धत्ते, तदितरच्च कार्यतां ज्ञेयतां
च । अत एव चैषां जडाजडव्यपदेशः, तदाह
'आवृतानावृतात्मा' इति । एवमपि चास्य प्रकारवैचि-
पं० १० क० ख० पु० संततीरुल्लासयतीति, ख० पु० स्वाङ्गभूतेति पाठः ।
पं० १६ ख० पु० जडाजडशब्दव्यपदेश इति पाठः ।
१७६ श्रीतन्त्रालोकः ।
ऽयेण आनन्त्यम् इत्याह 'जड' इत्यादि, चित्रता इति
तत्र जडस्य तावच्छब्दादिभेदेन, तस्यापि तारम-
न्द्यादिभेदेन बहुप्रकारत्वम्, अजडस्यापि सन्तान-
भेदेन आनन्त्येऽपि बन्धत्रयस्य तारतम्यादिभेदेन
नानात्वम् । संकुचिता प्रमातारो हि तत्तत्कर्माशाया-
नुसारेण परिभ्राम्यन्तः तत्तदवस्थासु एकमपि
स्वात्मानं धर्माधर्मादिबुद्धिभावरहितत्वेन तत्तदि-
च्छापरिष्कृतत्वेन च नानाकारतया वैचित्र्येण
जानते, जडं च विषयं सुखदुःखादिकारितया
नानात्वेन परिविन्दन्ति इति ॥ १३४-१३५ ॥
एवं वैचित्र्यस्य किं निमित्तम् इत्याशङ्क्याह
तस्य स्वतन्त्रभावो हि
किं किं यन्न विचिन्तयेत् ।
तदुक्तं त्रिशिरःशास्त्रे
संबुद्ध इति वेत्ति यः ॥ १३६ ॥
एतदेवार्थद्वारकं संवादयति-तदुक्तम् इत्यादिना ।
पं० ७ ख० पु० बुद्धिभावरससहितत्वेन तत्तदिच्छाबहिष्कृतत्वेनेति पाठः ।
पं० १५ ख० पु० स बुद्ध इति पाठः ।
श्लोक १३६ ] प्रथमाह्निकम् । १७७
इति वैचित्र्यं यो वेत्ति स संबुद्धः-सम्यग्बुद्ध इत्य-
र्थः । त्रिशिरःशास्त्रे इति श्रीत्रिशिरोभैरवे । तत्र हि
'अन्यथा स्वल्पबोधस्तु तन्तुभिः कीटवद्यथा ।
मलतन्तुसमारूढः क्रीडते देहपञ्जरे ॥'
इत्युपक्रम्य
'सम्यग्बुद्धस्तु विज्ञेयः·············।'
इत्यादिना च
'नानाकारैर्विभावैश्च भ्राम्यते नटवद्यथा ।
स्वबुद्धिभावरहितमिच्छाज्ञेमबहिष्कृतम् ॥'
इत्यन्तं बहूक्तम् ॥१३५॥
ननु देहादिर्ग्राहकतया अभिमतोऽपि जाड्याज्ज्ञेय
एव इति तस्य कथमेवंविधं ज्ञानम् ? इत्याशङ्क्याह
ज्ञेयभावो हि चिद्धर्म-
स्तच्छायाच्छादयेन्न ताम् ॥१३६॥
ज्ञेयत्वं हि ज्ञानधर्मः, नहि अर्थं जानामि इत्य-
र्थस्य कश्चिदतिशयः, अपि तु ज्ञानस्यैव तज्ज्ञान-
रूपता । तदुक्तमत्रापि च
पं० १ ख० पु० स बुद्ध इति पाठः ।
पं० ६ ख० पु० बुद्धः स विज्ञेय इति पाठः ।
पं० ६ क० ख० पु० इच्छाज्ञेयबहिष्कृतमिति, ग० पु० परिष्कृतमित्यपि पाठः ।
२३
१७८ श्रीतन्त्रालोकः ।
‘..................ज्ञेयस्य ज्ञेयता ज्ञानमेव’ ।
इति । अत एव च तेषां ज्ञेयानां सतां देहादीनां
छाया स्वेनैव स्वस्य आवरकत्वायोगात् न चितमा-
च्छादयेत् - आवृणुयात्, येनैवं-विधं ज्ञानं न स्यात्,
तेन देहादावात्मग्रहेऽपि आत्मनो न काचिच्चिद्रूपता-
हानिः । तदुक्तं तत्रैव
‘ज्ञेयस्वभावश्चिद्रूपस्तच्छाया नैव च्छादयेत् ।’
इति ॥१३६॥
अत एवाह
तेनाजडस्य भागस्य
पुद्गलाणवादिसंज्ञिनः ।
अनावरणभागांशे
वैचित्र्यं बहुधा स्थितम् ॥१३७॥
तेन इति चिदनाच्छादनेन हेतुना । अनावरण
इति शुद्धसंविद्रूपे आत्मनि इत्यर्थः । देहादीनां हि
संविद्रूपत्वेऽप्यामुखे ज्ञेयत्वेन अवभासादशुद्धत्वमपि
संभवेत् ॥१३७॥
पं० १ क० ख० पु० संज्ञित इति पाठः ।
श्लोक १३६] प्रथमाह्निकम् । १७६
ननु संविदि भेदानुपपत्तेः कथं वैचित्र्यं संगच्छ-
ताम् ? इत्याशङ्क्याह
संविद्रूपे न भेदोऽस्ति
वास्तवो यद्यपि ध्रुवे ।
तथाप्यावृतिनिर्ह्रास-
तारतम्यात्स लक्ष्यते ॥१३८॥
आवृतेः — आणवस्य मलस्य, निर्ह्रासः परिक्षय-
स्तस्य तारतम्यं मृदुमध्याधिमात्रात्मा अतिशयः ततो
लक्ष्यते, इति—न तु साक्षात् संभवति इत्यर्थः, अत
एव पूर्वं 'वास्तवः' इति विशेषणमुपात्तम् ॥१३८॥
किं च तत्ततारतम्यम् ? इत्याशङ्क्याह
तद्विस्तरेण वक्ष्यामः
शक्तिपातविनिर्णये ।
समाप्य परतां स्थौल्य-
प्रसंगे चर्चयिष्यते ॥१३६॥
वक्ष्यामः इति । यद्वक्ष्यति
पं० १४ क० पु० स चाप्यपरतामिति, ग० पु० समाप्य स्थिरतामिति पाठः ।
पं० १६ वक्ष्याम इति आरभ्य बहुप्रकारम् इत्यन्तः पाठो ग० पुस्तकात्
पूरितोऽस्ति ।
१८० श्रीतन्त्रालोकः ।
'तारतम्यप्रकाशो यस्तीव्रमध्यममन्दताः ।
ता एव शक्तिपातस्य प्रत्येकं त्रैधमास्थिताः ॥'
इत्यादि बहुप्रकारम्, चर्चयिष्यते इति - लक्ष्यते
परीक्ष्यते च इत्यर्थः । इह हि सर्वस्यैव वक्ष्यमा-
णस्य प्रमेयजातस्य उद्देश एव भवेत् इति भावः ।
यद्वक्ष्यति
'विज्ञानभित्प्रकरणे सर्वस्योद्देशनं क्रमात्।'
इति । तच्च अस्माभिर्ग्रन्थविस्तरभयात् प्रातिपद्येन
न दर्शितम् इति स्वयमेव अवधार्यम् ॥ १३६ ॥
एवं मलनिर्ह्रासतारतम्यानुसारमेव आत्मनां
भगवत्स्वरूपमपि प्रथते इत्याह
अतः कंचित्प्रमातारं
प्रति प्रथयते विभुः ।
पूर्णामेव निजं रूपं
कंचिदंशांशिकाक्रमात् ॥१४०॥
कंचित् इति - तीव्रनिर्ह्रासितावृत्तितारतम्यम्, अंशां-
पं० १४ क० पु० नित्यरूपमिति पाठः ।
पं० १६ क० क० पु० निर्ह्रासिनेति पाठः ।