Skip to content
SarvaKosh
Back to the archive

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

by महाकवि विशाखदत्त

DevanagariSanskritpublished488 pages
Page 430Permalink

षष्ठोऽङ्कः ३५३

व्याख्या—श्रीः—लक्ष्मीः, उत्सन्नाश्रयकातरा—उत्सन्नः विनष्टः आश्रयः अवलम्बः यस्याः तादृशी चासौ कातरा व्याकुला, कुलटा—स्वैरिणी, इव, गोत्रान्तरम्—अन्यवंशम्, गता—प्राप्ता । गतानुगतिकाः—गतस्य प्राक्प्रस्थितस्य यत् अनुगतम् अनुगमनं तच्छीलाः, प्रजाः—प्रकृतयः, त्यक्तानुरागाः—त्यक्तः परिहृतः अनुरागः स्नेहः याभिः तथाभूताः ( सत्यः ) ताम्—लक्ष्मीम्, एव, अनुगताः—अनुसृताः । अनवाप्तपौरुषफलैः—अनवाप्तं न प्राप्तम् पौरुषस्य पुरुषकारस्य फलं यैः तादृशैः, आप्तैः—विश्वस्तैः, अपि, कार्यस्य—कर्त्तव्यस्य, धूः—भारः, उज्झिता—त्यक्ता । अथवा—आहोस्वित्, ( ते ) किं कुर्वन्तु—किं विदधतु, उत्तमाङ्गरहितैः—शीर्षवियुक्तैः, नागैः—हस्तिभिः, इव ( तैः ) स्थीयते—वर्त्यते ॥ ५ ॥

हिन्दी अनुवाद—[ तत्पश्चात् हाथ में शस्त्र लिये सिर ढके राक्षस प्रवेश करता है । ]

राक्षस—[ आँसू के साथ ] अजी ! कष्ट है, कष्ट !!

लक्ष्मी आश्रय के विनष्ट हो जाने से व्याकुल कुलटा स्त्री के समान दूसरे कुल में चली गई। गये हुए के पीछे चलने वाली तथा अनुराग का त्याग किये हुई प्रजायें उसी ( लक्ष्मी ) के पीछे चली गईं। पुरुषार्थ का फल न प्राप्त करने वाले विश्वस्त जनों ने भी कार्य के भार को छोड़ दिया । अथवा ( वे ) क्या करें ( वे तो ) सिर से रहित हाथियों के तरह रह रहे हैं ॥ ५ ॥

टिप्पणी—यथानिर्दिष्टः—यथा यद्वत् निर्दिष्टः वर्णितः पुरुषेण । सुप्सुपा स० । उत्सन्न—नष्ट । उद् √ सद् + क्त कर्तरि । कुलटा—पुंश्चली, उत्कुला । अटति परित्यज्य गच्छति इति अटा √ अट् + अच् कर्तरि स्त्रियाम् । कुलस्य अटा कुलटा शकन्ध्वादित्वात् पररूपम् । गतानुगतिकाः—अनुगतम् अनुगमनम् भावे क्तः । गतस्य अनुगतम् । तत् अस्ति एषां शीलत्वेन इति गतानुगत + ठन्—इक मत्वर्थे । नागैरिव—हाथियों या सर्पों की भाँति । भाव यह है कि जैसे हाथी या साँप शक्तिशाली होते हुए भी सिर से रहित होने पर अकिञ्चित्कर हो जाते हैं उसी तरह उत्कृष्ट शक्ति से सम्पन्न होने पर भी आप्त जन नायक के अभाव में कुछ भी नहीं कर पा रहे हैं । इस श्लोक में पूर्णोपमा,

मु० रा०—२३

Page 431Permalink

३५४ | मुद्राराक्षसम्

काव्यलिंग तथा श्लेषानुप्राणित उपमा अलंकारों की संसृष्टि है। इसमें शार्दूलविक्रीडित छन्द है। इस छन्द का लक्षण १, १२ में देखिए ॥ ५ ॥

अपि च—

पतिं त्यक्त्वा देवं भुवनपतिमुच्चैरभिजनं
गता छिद्रेण श्रीवृषलमविनीतेव वृषली ।
स्थिरीभूता चास्मिन् किमिह करवाम स्थिरमपि
प्रयत्नं नो येषां विफलयति दैव द्विषदिव ॥ ६ ॥

अन्वयः—श्रीः उच्चैरभिजनं भुवनपतिं देवं त्यक्त्वा अविनीता वृषली इव छिद्रेण वृषलं गता अस्मिन् स्थिरीभूता च । इह किं करवाम येषां न स्थिरमपि प्रयत्नं द्विषदिव दैव विफलयति ॥६॥

व्याख्या—श्रीः—लक्ष्मी, उच्चैरभिजनम्—उच्चे उन्नत अभिजन वंशः यस्य तादृशं, भुवनपति—जगत्प्रभुं, पतिं—स्वामिनं, देवं—राजानं नन्दं, त्यक्त्वा—विहाय, अविनीता—विनयरहिता दुश्चरितेति यावत्, वृषली इव—शूद्रा इव, छिद्रेण—रन्ध्रेण भर्तुरनवधानतयेति यावत्, वृषलं—मौर्यं, गता—समाश्रिता, अस्मिन्—मौर्ये, स्थिरीभूता च—अचला विद्यते च । इह—अस्मिन् विषये, किं करवाम—किं विदधाम वयमिति शेषः, येषाम्, न—अस्माकं स्थिरमपि—दृढमपि, प्रयत्न—प्रयासः, द्विषदिव—शत्रुरिव, दैव—भाग्यं, विफलयति—विफलीकरोति ॥६॥

हिन्दी अनुवाद—और भी—

लक्ष्मी विशाल कुल में उत्पन्न सम्राट् पति महाराज (नन्द) को छोड़कर दुश्चरित्र शूद्रा के समान छल से मौर्य के पास चली गई और उस (मौर्य) में अचल (भी) हो गई । इस विषय में हम क्या करें, जिन हमारे सुदृढ प्रयत्न को भी शत्रु के समान भाग्य निष्फल कर देता है ॥६॥

टिप्पणी—उच्चैरभिजनम्—अभिजायते अस्मिन् इति अभिजन = वंशः अभि√जन्+क घञर्थे । उच्चैः अभिजने यस्य स, तम् । भुवनपतिम्—संसार के स्वामी । इन दोनों विशेषणों से यह सूचित किया गया है कि नन्द छोड़ने योग्य नहीं थे, फिर भी लक्ष्मी ने उन्हें छोड़कर दुश्चरित्रा नीच स्त्री के

Page 432Permalink

षष्ठोऽङ्कः ३५५

समान आचरण किया है। विफलयति—विफलं करोति इति विफल + णिच् + लट्—तिप्। इस श्लोक में दीपक, उपमा, अतिशयोक्ति तथा काव्यलिंग अलंकारों का संकर है। इसमें शिखरिणी छन्द है। इस छन्द का लक्षण १, १३ में देखिए ॥६॥

मया हि—

देवे गते दिवमतद्विधमृत्युयोग्ये
शैलेश्वरं तमधिकृत्य कृतः प्रयत्नः ।
तस्मिन् हते तनयमस्य तथाप्यसिद्धि-
र्दैवं हि नन्दकुलशत्रुरसौ न विप्रः ॥७॥

अन्वयः—अतद्विधमृत्युयोग्ये देवे दिवं गते तं शैलेश्वरम् अधिकृत्य प्रयत्नः कृतः। तस्मिन् हते अस्य तनयम् (अधिकृत्य प्रयत्नः कृतः) तथापि असिद्धिः। दैवं हि नन्दकुलशत्रुः असौ विप्रः न ॥७॥

व्याख्या—अतद्विधमृत्युयोग्ये—तद्विधः तादृशः पामरजनसुलभ इत्यर्थः यः मृत्युः मरणं तस्य योग्यो यो न भवति तस्मिन्, देवे—राजनि नन्दे, दिवं गते—स्वर्गं प्रयाते, तं—प्रसिद्धं, शैलेश्वरं—पर्वतेश्वरम्, अधिकृत्य—आश्रित्य, प्रयत्नः—उद्योगः, कृतः—विहितः। तस्मिन्—पर्वतेश्वरे, हते—(चाणक्येन) घातिते, अस्य—पर्वतेश्वरस्य, तनयम्—पुत्रम् मलयकेतुमिति यावत्, (अधिकृत्य प्रयत्नः कृतः), तथापि—कृतेऽपि महत्यपि प्रयासे, असिद्धिः—असफलता (जाता)। दैवं हि—भाग्यमेव, नन्दकुलशत्रुः—नन्दकुलविद्वेषी, असौ—एषः, विप्रः—ब्राह्मणः चाणक्यः, न—नहि (शत्रुः) ॥७॥

हिन्दी अनुवाद—मैंने—

उस प्रकार की मृत्यु के अयोग्य महाराज (नन्द) के स्वर्ग चले जाने पर उस पर्वतेश्वर का आश्रय लेकर प्रयत्न किया। उस (पर्वतेश्वर) के मार डाले जाने पर उसके पुत्र (मलयकेतु) का (आश्रय लेकर प्रयत्न किया)। तो भी सफलता नहीं मिली। भाग्य ही नन्दवंश का शत्रु है, वह ब्राह्मण (चाणक्य) नहीं ॥७॥

टिप्पणी—अतद्विधमृत्युयोग्ये—तस्य विधा प्रकारः इव विधा अस्य

Page 433Permalink

३५६ मुद्राराक्षसम्

इति तद्विधः । तद्विधः मृत्युः तद्विधमृत्युः । तस्य योग्यः । न तद्विधमृत्युयोग्यः अतद्विधमृत्युयोग्यः, तस्मिन् । इस पद्य में काव्यलिंग, परिसंख्या और अतिशयोक्ति अलंकारों की संसृष्टि है । इसमें वसन्ततिलका छन्द है । इस छंद का लक्षण १, ८ में देखिए ॥७॥

अहो ! विवेकशून्यता म्लेच्छस्य मलयकेतोः । कुतः ?

यो नष्टानपि जीवनाशमधुना शुश्रूषते स्वामिन-
स्तेषां वैरिभिरक्षतः कथमसौ सन्धास्यते राक्षसः ? ।
इत्य वस्तु विवेकमूढमतिना म्लेच्छेन नालोचितं
दैवेनोपहतस्य बुद्धिरथवा पूर्वं विपर्यस्यति ॥८॥

अन्वय — यः अधुना अपि जीवनाशं नष्टान् स्वामिनः शुश्रूषते असौ राक्षसः अक्षतः ( सन् ) तेषां वैरिभिः कथं सन्धास्यते ? इत्य वस्तुविवेकमूढ-मतिना म्लेच्छेन न आलोचितम्, अथवा दैवेन उपहतस्य बुद्धिः पूर्वं विपर्यस्यति ॥८॥

व्याख्या — यः — राक्षसः, अधुना अपि — इदानीमपि, जीवनाशं — समूलं, नष्टान् — मृतान्, स्वामिनः — प्रभून्, शुश्रूषते — परिचरति, असौ — एषः, राक्षसः — नन्दामात्यः, अक्षतः — अविनष्टदेहः (सन्), तेषां — स्वामिनां, वैरिभिः — शत्रुभिः (सह), कथं — केन प्रकारेण, सन्धास्यते — संधिं करिष्यति ? इत्थम् — एतत्, वस्तुविवेकमूढमतिना — वस्तुनः यथार्थविषयस्य विवेके विचारे मूढा अल्पा असमर्थेति यावत् मतिः बुद्धिः यस्य तादृशेन, म्लेच्छेन — यवनेन मलयकेतुना, न — नहि, आलोचितम् — विचारितम्, अथवा — पक्षान्तरे, दैवेन — भाग्येन, उपहतस्य — ताडितस्य, बुद्धिः — धीः, पूर्वं — प्राक्, विपर्य-स्यति — विपरीता भवति ॥८॥

हिन्दी अनुवाद — यवन मलयकेतु की विवेकहीनता पर आश्चर्य है । क्योंकि —

जो अभी भी समूल नष्ट हुए स्वामियों की सेवा कर रहा है, वह राक्षस अक्षतशरीर होता हुआ उन (स्वामियों) के शत्रुओं के साथ कैसे सन्धि कर लेगा ? इतना यथार्थ विषय के विवेक करने में असमर्थ बुद्धि वाले यवन

Page 434Permalink

षष्ठोऽङ्कः ३५७

मलयकेतु ने नहीं सोचा। अथवा भाग्य से मारे हुए की बुद्धि पहले विपरीत हो जाती है ॥८॥

टिप्पणी—जीवनाशम्—जीवन के नाश के साथ अर्थात् समूल। जीव $\sqrt{}$ नश् $+$ णामुल् 'कर्तॄजीवपुरुषयोर्नशिवहोः' इत्यनेन। कहीं 'बीजनाशम्' पाठ है। उसका भी अर्थ 'समूल' होगा। बीज $\sqrt{}$ नश् $+$ णामुल् 'उपमाने कर्मणि च' इत्यनेन। शुश्रूषते—अत्र 'ज्ञाश्रुस्मृदृशां सनः' इत्यनेन आत्मनेपदम्। विपर्यस्यति—वि-परि $\sqrt{}$ अस् $+$ लट्—तिप्। इस श्लोक में अर्थान्तरन्यास अलंकार है, प्रसाद गुण है और वैदर्भी रीति है। इसमें शार्दूलविक्रीडित छन्द है। इस छन्द का लक्षण १, १२ में देखिए ॥८॥

तदिदानीमपि तावदरातिहस्तगतो विनश्येद्राक्षसो, न तु चन्द्रगुप्तेन सह सन्धिं कुर्यादिति; अथवा मम काममसत्यसन्ध इति, वरमयशः, न पुनः शत्रुवञ्चनपरिभूतिः। [ समन्तादवलोक्य सास्रम् ] एतास्ता देवस्य पादक्रमणपरिचयपवित्रीकृतरथ्याः कुसुमपुरोपकण्ठभूमयः।

इह हि—

शार्ङ्गं ज्याकृष्टिमुक्तप्रशिथिलकविकाप्रग्रहेणात्र देशे
देवेनाकारि चित्रं प्रजविततुरगं बाणमोक्षश्चलेषु।
अस्यामुद्यानराजौ स्थितमिह कथितं राजभिस्तैर्विनेत्थं
सम्प्रत्यालोक्यमानाः कुसुमपुरभुवो भूयसा दुःखयन्ति ॥९॥

अन्वयः—अत्र देशे शार्ङ्गज्याकृष्टिमुक्तप्रशिथिलकविकाप्रग्रहेण देवेन चलेषु प्रजविततुरगं चित्रं बाणमोक्षः अकारि, अस्याम् उद्यानराजौ स्थितम्, इह राजभिः कथितम्; सम्प्रति तैः विना इत्थम् आलोक्यमानाः कुसुमपुरभुवः भूयसा दुःखयन्ति ॥९॥

व्याख्या—अत्र देशे—अस्मिन् भूभागे, शार्ङ्गज्याकृष्टिमुक्तप्रशिथिलकविका-प्रग्रहेण—शार्ङ्गस्य धनुषः ज्या मौर्वी तस्याः आकृष्टः आकर्षणम् तया मुक्तः त्यक्तः ( अतएव ) प्रशिथिलः अतिश्लथः कविकायाः खलीनस्य प्रग्रहः रश्मिः यस्य तथाविधेन, देवेन—नन्देन, चलेषु—अस्थिरेषु, ( लक्ष्येषु ) प्रजविततुरगं प्रजवितः प्रवृद्धवेगः तुरगः अश्वः यस्मिन् कर्मणि तद् यथा तथा, ( अतएव )

Page 435Permalink

३५८ मुद्राराक्षसम्

चित्र—महदाश्चर्यकारि, बाणमोक्ष.—शरत्याग., अकारि—कृत., अस्याम्—
अमुष्याम्, उद्यानराजौ—उपवनपक्तौ, स्थितम्,—क्षणमुषितम्, इह—
अस्मिन् स्थले, राजभि —नृपै, ( सह ) कथित—सम्भाषितम्, सम्प्रति—
इदानीम्, तै —तदादिभिः राजभिः, विना—अन्तरा, इत्थम्—अनेन प्रकारेण,
आलोक्यमाना —दृश्यमाना , कुसुमपुरभुव ,—पाटलिपुत्रभूमयः भूयसा—
आधिक्येन, दु खयन्ति—क्लेशयन्ति ॥ ६ ॥

हिन्दी अनुवाद—इसलिए राक्षस अब भी शत्रु के हाथ में पड़कर नष्ट हो जायेगा, किन्तु चन्द्रगुप्त के साथ संधि नहीं करेगा। अथवा ( यह ) प्रतिज्ञा को पूर्ण करने वाला नहीं है—ऐसा अपयश मेरे लिए कही अच्छा है, किन्तु शत्रु के छल से पराजित होना ( अच्छा ) नहीं है। [ चारों ओर देखकर आंसू के साथ ] ये वे महाराज के चरणों के यास के परिचय से ( अर्थात् चरणों के बार-बार पड़ने से ) पवित्र किये हुए राजमार्ग ( या सतह ) वाली पाटलिपुत्र की समीपवर्तिनी भूमियाँ हैं।

यहाँ—

इस स्थान पर धनुष की डोरी के खींचने में छोड़ी हुई ढीली बागडोर वाले महाराज ने घोड़े को दौड़ाते हुए तथा आश्चर्यजनक रूप से लक्ष्यों पर बाणों को छोड़ा था। इस उपवन की पंक्ति में बैठे थे। यहाँ राजाओं के साथ बातचीत की थी। इस समय उनके बिना इस प्रकार देखी जाती हुई पाटलिपुत्र की भूमियाँ अत्यन्त क्लेश पहुँचा रही हैं ॥ ६ ॥

टिप्पणी—अरातिहस्तगतः—अराति शत्रु चन्द्रगुप्त । तस्य हस्तः । त गत द्वितीयातत्० । कामम्—यथेच्छम् । असत्यसन्ध —असत्या सधा प्रतिज्ञा यस्य स । वरम्—प्रियम् । अयश —अकीर्ति । शत्रुवञ्चनपरिभूति—शत्रो चाणक्यस्य वञ्चनेन प्रतारणेन परिभूति पराजयः । पादक्रमणपरिचयपवित्रीकृतरथ्या —पादक्रमण चरणाञ्चार तस्य यः परिचय. उपलब्धि तेन पवित्रीकृता पूता रथ्या प्रतोली यत्र तथाविधा । कुसुमपुरोपकण्ठभूमय —कुसुमपुरसमीपप्रदेशा । प्रजवित—प्रकृष्ट जव प्रजव प्रादिस० । स सञ्जात अस्य इति प्रजव+इतच् । तै —यह नन्द को सूचित करता है। आदरे बहुवचनम् । इस श्लोक में स्वभावोक्ति, दीपक तथा विनोक्ति

Page 436Permalink

षष्ठोऽङ्कः | ३५६

अलंकारों की संसृष्टि है। इसमें स्रग्धरा छन्द है। स्रग्धरा का लक्षण १, १ में देखिए ॥ ६ ॥

तत् क्व खलु गच्छामि मन्दभाग्यः ? [ विलोक्य ] भवतु दृष्टमेतज्जोर्णोद्यानम्, अत्र प्रविश्य कुतश्चिच्चन्दनदासस्य वृत्तान्तमुपलप्स्ये । [ परिक्रम्य स्वगतम् ] अहो ! अलक्षितोपनिपाताः पुरुषाणां समविषमदशाविभागपरिणतयो भवन्ति । कुतः?—

पौरैरङ्गुलिभिर्नवेन्दुवदहं निर्दिश्यमानः शनैः
यो राजेव पुरा पुरान्निर्गमं राज्ञां सहस्रैर्वृतः ।
भूयः सम्प्रति सोऽहमेव नगरे तत्रैव बन्ध्यश्रमो
जीर्णोद्यानकमेष तस्कर इव त्रासाद् विशामि द्रुतम् ॥ १० ॥

अन्वयः—यः अहम् पुरा राज्ञां सहस्रैः वृतः राजा इव पौरैः अङ्गुलिभिः नवेन्दुवत् निर्दिश्यमानः ( सन् ) शनैः पुरात् निर्गमं स एव वन्ध्यश्रमः अहं सम्प्रति भूयः तत्रैव नगरे तस्कर इव त्रासात् द्रुतं जीर्णोद्यानकम् एव विशामि ॥ १० ॥

व्याख्या—यः, अहम्—राक्षसः, पुरा—पूर्वं जीवति नन्दे इत्यर्थः, राज्ञां सहस्रैः—नृपसमूहैः, वृतः—परिवारितः ( भूत्वा ), राजा इव—भूप इव, पौरैः—पुरवासिभिः, अङ्गुलिभिः—करशाखासंकेतेनेत्यर्थः, नवेन्दुवत्—नवोदितचन्द्र इव, निर्दिश्यमानः—प्रदर्श्यमानः ( सन् ), शनैः—मन्दगति, पुरात्—नगरात्, निर्गमम्—निर्गतवान्, स एव, वन्ध्यश्रमः—विफलप्रयासः, अहम्, सम्प्रति—अधुना, भूयः—पुनः, तत्रैव नगरे—तस्मिन्नेव पुरे, तस्कर इव—चौर इव, त्रासात्—भयात्, द्रुतं—सत्वरं, जीर्णोद्यानकम्—पुरातनाल्पोपवनम्, एषः, विशामि—प्रविशामि ॥ १० ॥

हिन्दी अनुवाद—तो मैं अभागा कहाँ जाऊँ ? [ देखकर ] अच्छा, इस पुराने उद्यान को देख लिया । इसमें प्रवेश करके कहीं से चन्दनदास का समाचार प्राप्त करूँगा । [ घूमकर मन में ] ओह ! मनुष्यों के अनुकूल और प्रतिकूल अवस्थाओं के विभाग के परिणाम बिना संभावना के आ टपकते हैं । क्योंकि—

Page 437Permalink

१६० | मुद्राराक्षसम्

जो मैं पहले सहस्रो राजाओ से घिरा हुआ तथा राजा के समान नागरिकों के द्वारा अँगलियो से नवोदित चन्द्रमा की तरह दिखाया जाता हुआ धीरे-धीरे नगर से निकलता था, वही निष्फल प्रयास वाला मैं इस समय फिर उसी नगर मे चोर की भांति भय मे शीघ्रता के साथ जीर्ण-उपवन मे यह प्रवेश कर रहा हूँ ॥ १० ॥

टिप्पणी—अलक्षितोपनिपाता —बिना दिखे अर्थात् अप्रत्याशित रूप से छा जाने वाले । न लक्षितः अलक्षितः । उप-नि√पद्+घञ् भावे = उपनिपाता । अलक्षिता उपनिपाता अलक्षितोपनिपाता = अतर्कितागमा । समविषमदशाविभागपरिणतय —समाश्च विषमाश्च समविषमा तादृश्य दशाः तासा विभागा तेषा परिणतय = तुल्यातुुल्यावस्थाव्यापार्यवयपरिणामाः । पौरै — प्राचीन समय मे जब राजा बाहर निकलता था तब नागरिक अपने-अपन घरो की छत पर, सडको पर खडे होकर उसे देखने थे और एक दूसरे को दिखात हुए कहने थे कि वह राजा जा रहा है, बात कर रहा है इत्यादि । उसी तरह राक्षस को भी देखकर लोग अगुल्या निर्देश करते थे । यहाँ उसी अवस्था का स्मरण राक्षस को हो रहा है । शनै —कहा भी है कि राजा, ज्ञानी, यौवनभाराक्रान्त युवती तथा गजराज धीरे-धीरे चलते हैं । निरगमम्—निर्√गम्+लुङ्—मिप् । तस्कर —'तत्—कर' इत्यवस्थायाम् 'तद्वृहतोः करपत्योश्चोरदेवतयोः' इत्यनेन सुट् तलोपश्चेति निपातनात् तस्करपदसिद्धि । जीर्णोद्यानकम्—कुत्सितम् उद्यानम् उद्यानक्म् उद्यान्+कन् । जीर्णञ्च तद् उद्यानकम् जीर्णोद्यानकम् । इस श्लोक में राक्षस ने अपनी पहली अवस्था और वर्तमान दोनो का चित्र खींचा है । जैसे—पहले 'राजा इव' और अब 'तस्कर इव' । पहले 'पश्यन्तु लोका इति शनै' और अब 'लोकाः मा द्राक्षुः' इति द्रुतम् । पहले 'पुरात्' और अब 'जीर्णोद्यानकम्' । पहले 'निरगमम्' और अब 'विशामि' इत्यादि । इस पद्य मे तीन उपमा अलकार और द्वितीय पर्याय अलकार है । इसमे शार्दूलविक्रीडित छन्द है । इस छन्द का लक्षण १, १२ में देखिए ॥१०॥

अथवा, येषा प्रसादादिदमासीत् ते एव न सन्ति । [ नाट्येन प्रविश्य विलोक्य च ] अहो ! जीर्णोद्यानस्य नाभिरमणीयता । अत्र हि—

Page 438Permalink

षष्ठोऽङ्कः ३६१

विपर्यस्तं सौधं कुलमिव महारम्भरचनं
सरः शुष्कं साधोर्हृदयमिव नाशेन सुहृदः ।
फलैर्हीना वृक्षा विगुणविधियोगादिव नया-
स्तृणैश्छन्ना भूमिर्मतिरिव कुनीत्या ह्यविदुषः ॥११॥

अन्वयः—महारम्भरचनं सौधं कुलमिव विपर्यस्तम् । सरः सुहृदः नाशेन साधोः हृदयमिव शुष्कम् । वृक्षाः विगुणविधियोगात् नया इव फलैः हीनाः । भूमिः कुनीत्या अविदुषः मतिरिव हि तृणैः छन्ना ॥ ११ ॥

व्याख्या—महारम्भरचनं—महता प्रचुरेण आरम्भेण उद्योगेन रचना निर्माणं यस्य तादृशं, सौधं—हर्म्यं, कुलमिव—( नन्दस्य ) वंश इव, विपर्यस्तम्—विध्वस्तम् । सरः—जलाशयः, सुहृदः—मित्रस्य, नाशेन—ध्वंसेन, साधोः—महात्मनः, हृदयमिव—चित्तमिव, शुष्कम्—नीरसम् ( जातम् ) । वृक्षाः—पादपाः, विगुणविधियोगात्—विगुणस्य गुणहीनस्य प्रतिकूलस्येत्यर्थः विधेः दैवस्य योगात् वशात्, नया इव—नीतय इव, फलैः, हीनाः—रहिताः । भूमिः—अत्रत्या स्थली, कुनीत्या—दुर्नयेन, अविदुषः—अज्ञस्य मलयकेतोरिति यावत्, मतिरिव—बुद्धिरिव, हि—एव, तृणैः—शष्पैः, छन्ना—आवृता ॥११॥

हिन्दी अनुवाद—अथवा जिनकी कृपा से यह ( सब कुछ ) था, वे ही नहीं है । [ अभिनय पूर्वक प्रवेश करके और देखकर ] हाय जीर्ण उद्यान में सुन्दरता कहां ? यहां तो—

महान् प्रयत्न से निर्माण किया हुआ भवन ( नन्द ) वंश के समान ध्वस्त हो गया । सरोवर मित्र के विनाश से सज्जन के हृदय के समान सूख गया । वृक्ष प्रतिकूल भाग्य के कारण नीतियों के समान फलशून्य हो गए । भूमि कुनीति से मूर्ख की बुद्धि के समान ही तिनकों से ढक गई ॥ ११ ॥

टिप्पणी—येषाम्—यह सर्वनाम नन्द के लिए आया है । महारम्भरचनम्—यह 'सौधम्' तथा 'कुलम्' दोनों का विशेषण है । शुष्कम्—√शुष् + क्त कर्तरि 'शुषः कः' इति सूत्रेण तस्य कः । विगुण—विगता गुणाः यस्य इति विगुणः प्रादिबहुव्रीहि स० । कुनीत्या—√नी + क्तिन् भावे = नीतिः । कुत्सिता नीतिः कुनीतिः, तया । इस श्लोक मे चार श्रौती पूर्णोपमा

Page 439Permalink

१६२ मुद्राराक्षसम्

अलकार हैं। इसमे शिखरिणी छन्द है। इस छन्द का लक्षण १, १३ में देखिए ॥११॥

अपि च अय—

क्षताङ्गाना तीक्ष्णै परशुभिरुदग्रैः क्षितिरुहा
रुजा कूजन्तीनामविरतकपोतोपरुदितै ।
स्वनिर्मोकच्छेदै परिचितपरिक्लेशकृपया
श्वसन्त शाखाना व्रणमिव निबध्नन्ति फणिनः ॥१२॥

**अन्वयः—**तीक्ष्णैः उदग्रैः परशुभिः क्षताङ्गाना क्षितिरुहा रुजा अविरत-कपोतोपरुदितै कूजन्तीना शाखाना व्रण फणिन परिचितपरिक्लेशकृपया श्वसन्त' स्वनिर्मोकच्छेदै निबध्नन्ति इव ॥१२॥

**व्याख्या—**तीक्ष्णै —शितधारै , उदग्रै —उन्नताग्रभागैः, परशुभिः—कुठारैः, क्षताङ्गाना—भिन्नदेहानाम्, क्षितिरुहा—वृक्षाणा, रुजा—पीडया, अविरतकपोतोपरुदितैः—अविरतानि अविच्छिन्नानि यानि कपोतानां—पारावतानाम् उपरुदितानि कूजनानि तै , कूजन्तीना—शब्द कुर्वन्तीना, शाखाना—विटपाना, व्रण —क्षत, फणिन —सर्पाः, परिचितपरिक्लेशकृपया—परिचितस्य सहवासविज्ञातस्य य परिक्लेशः यातना तत सञ्जाता या कृपा दया तया हेतुना, श्वसत —दीर्घनि श्वास त्यजन्त', स्वनिर्मोकच्छेदैः—स्वेषाम् आत्मनाम् ये निर्मोका कञ्चुकरूपवस्त्राणि तेषा छेदै खण्डैः निबध्नन्ति इव—वेष्टयन्ति इव ॥१२॥

हिन्दी अनुवाद—और भी यहाँ—

तीक्ष्ण एवम् उन्नत अग्र भाग वाली कुल्हाडियो से कटे हुए अगों वाले वृक्षो की पीडा मे निरन्तर कबूतरों के शब्दों से ( मानो ) विलाप करती हुई शाखाओ के घाव को सांप परिचितो की वेदना से उत्पन्न करुणा के कारण आह खीचते हुए अपनी केंचुली ( रूपी वस्त्रो ) के टुकडो से मानों बांध रहे हैं ॥१२॥

**टिप्पणी—उदग्रै क्षितिरुहा—**इसके स्थान में 'उदग्रक्लमभृता' यह पाठ भी मिलता है । उसकी व्याख्या होगी—'उदग्र कठोर यः क्लमः क्लान्ति

Page 440Permalink

षष्ठोऽङ्कः ३६३

तं बिभ्रति याः तादृशीनाम्' । तब यह 'शाखानाम्' का विशेषण होगा । परशुभिः—परान् अन्यान् शृणन्ति हिंसन्ति इति परशवः पर्√शॄ+डु, तैः । क्षताङ्गानाम्—अत्र 'अङ्गगात्रकण्ठेभ्यश्च' इति ङीप् विकल्पः । क्षताङ्गीनाम् । रुजा—√रुज्+क्विप् भावे=रुक्, तया । इस श्लोक मे गम्योत्प्रेक्षा, अपह्नुति, हेतूत्प्रेक्षा और उत्प्रेक्षा अलंकारों की संसृष्टि है । इसमें शिखरिणी छन्द है । इस छन्द का लक्षण १, १३ में देखिए ॥१२॥

एते च तपस्विनः—

अन्तः शरीरपरिशोषमुपाश्रयन्तः
कीटक्षतिस्रुतिभिरस्रमिवोद्वमन्तः
छायावियोगमलिना व्यसने निमग्ना
वृक्षाः श्मशानमुपगन्तुमिव प्रवृत्ताः ॥१३॥

अन्वयः—अन्तः शरीरपरिशोषम् उपाश्रयन्तः कीटक्षतिस्रुतिभिः अस्रम् उद्वमन्तः इव छायावियोगमलिनाः व्यसने निमग्नाः वृक्षाः श्मशानम् उपगन्तुम् प्रवृत्ताः इव ॥१३॥

व्याख्या—अन्तःशरीरपरिशोषम्—अन्तः शरीरस्य अभ्यन्तरदेहस्य परिशोष विशीर्णताम्, उपाश्रयन्तः—प्राप्नुवन्तः, कीटक्षतिस्रुतिभिः—कीटैः कृताः याः क्षतयः रन्ध्राणि ताभ्यः याः स्रुतयः रसरक्षररणानि ताभिः करणैः, अस्रम्—अश्रु, उद्वमन्त इव—मुञ्चन्त इव, छायावियोगमलिनाः—छायायाः अनातपस्य वियोगेन अपगमेन मलिनाः विहतकान्तयः, व्यसने—दुःखे, निमग्नाः—पतिताः, वृक्षाः—पादपाः, श्मशानम्—पितृवनम्, उपगन्तुम्—अभियातुं मर्तुमित्यर्थः, प्रवृत्ताः इव—उद्युक्ता इव ॥१३॥

हिन्दी अनुवाद—ये बेचारे—

शरीर के भीतर शुष्कता को प्राप्त करते हुए, कीडों के किये छेदों से बहने वाले द्रव के रूप में आंसू बहाते हुए, छाया के न होने से हतश्रीक बने हुए और शोक में डूबे हुए वृक्ष मानों श्मशान जाने के लिए तैयार हो रहे हैं ॥१३॥

**टिप्पणी—अन्तःशरीरपरिपोषम्—**जल से न सीचे जाने के कारण वृक्ष

Page 441Permalink

३६६ | मुद्राराक्षसम्

अभिनीय—मदन्तिकं प्रापय्य, च, ( ता ) दर्शितः—साक्षात्‌कारित ( अस्मि ) । मन्ये—शङ्के, सम्प्रति—अधुना, माम्—राक्षसम्, अनुभावयितुम्—उपलम्भयितु, विधे —दैवस्य, यत्न —प्रयास ( विद्यते ) ॥ १५ ॥

हिन्दी अनुवाद—[ सोचकर ] अच्छा, समझ गया। यह मलयकेतु के पकड़ जाने से उत्पन्न राजकुल का—[ ऐसा आधा कहने पर ईर्ष्या के साथ ] ( यह ) मौर्यकुल की अधिक प्रसन्नता को सूचित करता है। [ आंसू के साथ ] कष्ट है जी ! कष्ट ॥

शत्रु की ( राज्य )-लक्ष्मी को सुनाया गया हूँ और समीप लाकर दिखाया भी गया हूँ। मैं समझता हूँ कि इस समय मुझे अनुभव कराने के लिए भाग्य का ( यह ) प्रयत्न है ॥ १५ ॥

**टिप्पणी—**एष हि—नूनमयम् । मलयकेतुसंयमनसञ्जात —मलयकेतो संयमनात् ग्रहणात् सञ्जात उद्गत । राजकुलस्य—यहाँ 'नहि नहि मौर्य-कुलस्य' यह विवक्षित है। पिशुनयति—सूचयति । श्रियं—श्रावित, अत्र 'गति-बुद्धि'—इत्यादिसूत्रेण कर्मसंज्ञा—द्वितीया । श्रियं दर्शित —अत्र 'दृशेश्च' इत्यनेन कर्मसंज्ञा —द्वितीया । अनुभावयितुम्—अनु√भू + णिच् + तुमुन् । अह श्रियम् अनुभवामि=मा श्रियम् अनुभावयति । इस श्लोक में उत्प्रेक्षा अलंकार है और अनुष्टुप् छन्द है। अनुष्टुप् का लक्षण १, ३ में देखिए ॥१५॥

**पुरुष —**आसीणो अअ । ता जाव अज्जचाणक्कस्स आणत्ति संपादेमि । ( आसीनोऽयम् । तद्यावदार्यचाणक्यस्याज्ञप्तिं सम्पादयामि । ) [ राक्षसमपश्यन्निव तस्याग्रतो रज्जुपाशेन कण्ठमुद्बध्नाति । ]

राक्षस — [ विलोक्य स्वगतम् ] अये ! कथमयमात्मानमुद्बध्नाति ? नन्वयमहमिव दुःखितस्तपस्वी भवतु, पृच्छाम्येनम् । [ उपसृत्य प्रकाशम् ] भद्र भद्र ! किमिदमनुष्ठीयते ?

पुरुष —[ सबाष्पम् ] अज्ज ! जं पिअवअस्सविणासदुक्खिदो अम्हादिसो मन्दभाओ जणो अणुचिट्ठदि । (आर्य ! यत् प्रियवयस्य-विनाशदुःखितोऽस्मादृशो मन्दभाग्यो जनोऽनुतिष्ठति । )

राक्षस —[ स्वगतम् ] प्रथममेव मया ज्ञात, नूनमहमिवावयमात-

Page 442Permalink

षष्ठोऽङ्कः ३६७

स्तपस्वीति । भवतु, पृच्छाम्येनम् [ प्रकाशम् ] भद्र ! व्यसनसब्रह्मचारिन् ! यदि न गुह्यं, नातिभारिकं वा; ततः श्रोतुमिच्छामि किं ते प्राणपरित्यागकारणम् ?

पुरुषः—[ निरूप्य ] अज्ज ! ण रहस्सं, ण वा अतिगुरुअं; किन्तु ण सक्कणोमि प्पिअबअस्सविणासदुक्खिदहिअओ एत्तिअमत्तम्पि मरणस्स कालहरणं कादुं । ( आर्य ! न रहस्यं, न वाऽतिगुरुकं, किन्तु न शक्नोति प्रियवयस्यविनाशदुःखितहृदय एतावन्मात्रमपि मरणस्य कालहरणं कर्तुम् । )

राक्षसः—[ निःश्वस्याऽऽत्मगतम् ] कष्टमेतेषु सुहृद्व्यसनेषु परवदुदासीनाः प्रत्यादिश्यामहे वयमनेन । [ प्रकाशम् ] भद्र ! यदि न रहस्यं, नाऽतिगुरुकं वा, तत् पुनः श्रोतुमिच्छामि । कथ्यतां का गतिः दुःखस्येति ?

**हिन्दी अनुवाद—पुरुष—**यह बैठा हुआ है । इसलिए अब आर्य चाणक्य की आज्ञा को सम्पन्न करता हूँ । [ राक्षस को न देखते हुए की तरह उसके आगे रस्सी के फन्दे से गले को बाँधता है । ]

राक्षस—[ देखकर मन में ] अरे ! क्यो यह अपने को बाँध रहा है ? निश्चित ही यह बेचारा मेरी तरह दुःखी है । अच्छा, पूछता हूँ इससे । [ समीप जाकर प्रकट रूप से ] भद्र ! भद्र !! यह क्या कर रहे हो ?

पुरुष—[ आँसू के साथ ] आर्य ! जो प्रिय मित्र के विनाश से दुःखी मेरे जैसा अभागा व्यक्ति करता है ।

राक्षस—[ मन में ] पहले ही मैंने समझ लिया कि यह बेचारा निश्चित रूप से मेरे समान दुःखी है । अच्छा, पूछता हूँ इससे । [ प्रकट ] भद्र ! समान विपत्ति वाले ! यदि गोपनीय न हो, अथवा बहुत महान् न हो तो सुनना चाहता हूँ कि तुम्हारा प्राणत्याग करने का कारण क्या है ।

पुरुष—[ देखभाल कर ] आर्य ! गोपनीय नही है या अत्यन्त महान् नही है, किन्तु प्रिय मित्र के विनाश से दुःखी हृदय वाला मैं मरने के समय को इतना भी गँवाने के लिए समर्थ नही हूँ ।

Page 443Permalink

१७०

मुद्राराक्षसम्

राक्षस—अनभ्यमनुरक्तवान् किमयमन्यनारीजनम् ?

पुरुष—[ कर्णौपिधाय ] अज्ज ! सन्त पाव, सन्त पाव । अभूमौ क्खु एसो विणअणिधाणस्स सेट्ठिजणस्स, विसेसदो जिष्णुदासस्स ।
( आर्य ! शान्तं पाप, शान्तं पापम् । अभूमि खल्वेष विनयनिधानस्य वणिग्जनस्य, विशेषतो जिष्णुदासस्य । )

राक्षस — किमस्य भवतो यथा सुहृद एव नाशो विपम् ? ॥१६॥

अन्वय — किम् ओषधपथातिगैः महाव्याधिभि उपहत ? किम् अग्नि-विषकल्पया नरपते क्रुधा निरस्त ? किम् अयम् अनभ्यम् अन्यनारी-जनम् अनुरक्तवान् ? किम् भवत यथा सुहृद नाश एव विपम् ( तथा ) अस्य ? ॥१६॥

व्याख्या—किम्, ओषधपथातिगै—ओषधानां भेषजाना पन्थान वर्म अतिगच्छन्ति अतीत्य वर्तन्ते ये तादृशैः अचिकित्स्यैरिति यावत्, महाव्या-धिभि —भयंकररोगैः, उपहत —प्रपीडित ? किम्, अग्निविषकल्पया—वह्नि-विषतुल्यया, नरपते —राज्ञ , क्रुधा—कोपेन, निरस्त—समाक्षिप्त ? किम्, अय—जिष्णुदास , अलभ्य—दुष्प्राप्यम्, अन्यनारीजनम्—पारश्रियम्, अनुरक्तवान्—आसक्तवान् ? किम्, भवतः—तव, यथा—येन प्रकारेण, सुहृद —मित्रस्य, नाश एव—मरणमेव, विपम्—विनाशकारणं ( तथा ) अस्य—जिष्णुदासस्य ( मित्रान्तरमरणमेव विनाशकारण ) ?

हिन्दी अनुवाद—राक्षस—भद्र ! तो तुम्हारे मित्र का अग्नि मे प्रवेश करने का क्या कारण है ?

क्या ओषधि के मार्ग का अतिक्रमण करने वाले ( अर्थात् अचिकित्स्य ) महान् रोगो से पीडित ( होने के कारण ऐसा कर रहे ) हैं ?

पुरुष—आर्य ! नहीं नहीं ।

राक्षस—क्या अग्नि और विष के तुल्य राजा के क्रोध से ग्रस्त ( होने के कारण ऐसा कर रहे ) हैं ?

पुरुष—आर्य ! पाप शान्तं हो, पाप शान्त हो । चन्द्रगुप्त के राज्य मे क्रूर प्रवृत्ति नहीं है ।

Page 444Permalink

षष्ठोऽङ्कः ३७१

राक्षस—क्या वे दुर्लभ पर-नारी में अनुरक्त ( होने के कारण ऐसा कर रहे ) हैं ?

पुरुष—[ कानों को बन्द करके ] आर्य ! पाप शान्त हो, पाप शान्त हो । यह अत्यन्त विनीत वणिग् जाति, विशेष करके जिष्णुदास के लिए अयोग्य बात है ।

राक्षस—क्या आप की तरह मित्र का विनाश ही उनके विनाश का कारण है ?

टिप्पणी—औषधपथातिगैः—औषधानां पन्थाः औषधपथः 'ऋक्पूरब्धूः'—इत्यनेन समासान्तः अप्रत्ययः । तम् अतिगच्छन्ति इति औषधपथ अति√गम् + ड कर्तरि = औषधपथातिगाः, तैः । अग्निविषकल्पया—अग्निश्च विषञ्च इति अग्निविषे, ताभ्याम् ईषदूना इति अग्निविष + कल्पप् स्त्रियाम्, तया । अनृशंसा—अघातुका । प्रतिपत्तिः--प्रवृत्तिरित्यर्थः । अभूमिः—अविषयः । इस श्लोक में उपमोत्थापित रूपक अलंकार है । इसमें पृथ्वी छन्द है । पृथ्वी का लक्षण यह है—'जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः' ॥१६॥

पुरुषः—अज्ज ! अध इं ? ( आर्य ! अथ किम् ? )

राक्षसः—[ सावेगमात्मगतम् ] चन्दनदासोऽस्य सुहृदः प्रियसुहृत्, तस्य प्रिसुहृद्विनाश एवाऽग्निप्रवेशहेतुरिति यत् सत्यं समाकुलित एवाऽस्मि सुहृत्स्नेहपक्षपातिना हृदयेन । [ प्रकाशम् ] भद्र ! तस्यापि तव सुहृदः सुचरितं विस्तरेण श्रोतुमिच्छामि ।

पुरुषः—अज्ज ! अदो अबरं ण सक्कणोमि मन्दभाओ मरणस्स विग्धमुप्पादेदुं । ( आर्य ! अतोऽपरं न शक्नोमि मन्दभाग्यो मरणस्य विघ्नमुत्पादयितुम् । )

राक्षसः—श्रवणीयां कथां कथयतु भद्रमुखः ।

पुरुषः—का गदी ? एसो क्खु णिवेदेमि, णिसामेदु अज्जो । ( का गतिः ? एष खलु निवेदयामि, निशामयत्वार्यः । )

राक्षसः—भद्र ! दत्तावधानोऽस्मि ।

Page 445Permalink

३७२ मुद्राराक्षसम्

पुरुष — अत्थि, जाणादि अज्जो, एत्थ णअरे मणिआरसेट्ठी चन्दन-
दासो णाम। ( अस्ति, जानात्यार्य , इह नगरे मणिकारश्रेष्ठी चन्दन-
दामो नाम । )

राक्षस — [सविषादात्मगतम्] एतत्तदपावृतमस्मद्विनाशदीक्षाप्रकाशद्वार
दैवेन। हृदय ! स्थिरीभव, किमपि ते कष्टतरमाकर्णनीयम्। [ प्रकाशम् ]
भद्र ! श्रूयते मित्रवत्सल म साधु । किं तस्य ?

पुरुषः— सो एदस्स जिष्णुदासस्स पिअवअस्सो होदि। ( स एतस्य
जिष्णुदासस्य प्रियवयस्यो भवति । )

राक्षस — [ स्वगतम् ] अयमभ्यर्णः शोकवज्रपातो हृदयस्य [ प्रकाशम् ]
ततस्तत ?

पुरुष— तदो जिष्णुदासेण पिअवअस्सस्स सिणेहसरिस अज्ज
विण्णत्तो चन्दउत्तो । ( ततो जिष्णुदासेन प्रियवयस्यस्य स्नेहमदृशमद्य
विज्ञप्तश्चन्द्रगुप्त । )

राक्षस — कथय किमिति ?

पुरुष — देव ! अत्थि मे गेहे कुटुम्बभरणपज्जत्तो अत्थो। तस्स
विणिमएण मुञ्चिज्जदु मे पिअवअस्सो चन्दनदासो त्ति । ( देव ! अस्ति
मे गृहे कुटुम्बभरणपर्याप्तोऽर्थ । तस्य विनिमयेन मुच्यता मे प्रियवयस्य-
श्चन्दनदास इति । )

हिन्दी अनुवाद—पुरुष— आर्य ! और क्या ?

राक्षस— [ आवेग के साथ मन ही मन ] चन्दनदास इसके मित्र के
प्रिय मित्र हैं, और उसके प्रिय मित्र का विनाश ही अग्नि मे प्रवेश करने का
कारण है। इसलिए सचमुच मित्र-स्नेह के पक्षपाती हृदय से मैं व्याकुल हूँ।
[ प्रकट ] भद्र ! तुम्हारे उस मित्र का भी सुचरित विस्तार से सुनना
चाहता हूँ।

पुरुष— आर्य ! इसके बाद मैं अभागा मृत्यु के विघ्न को उत्पन्न करने में
समर्थ नही हूँ।

राक्षस— भद्रमुख सुनने योग्य क्या को कहे।

Page 446Permalink

षष्ठोऽङ्कः १७३

**पुरुष—**क्या उपाय है ? यह कहता हूँ, आर्य सुनें ।
**राक्षस—**भद्र ! सावधान हूँ ।
**पुरुष—**आर्य जानते होगे कि इस नगर में चन्दनदास नाम के सेठ जौहरी हैं ।
राक्षस—[ विषाद के साथ मन में ] यह तो भाग्य ने मेरे विनाश के उपदेश के आने का मार्ग खोल दिया है। हृदय ! स्थिर हो जाओ। तुम्हें कुछ कष्टदायक ( वचन ) सुनना है । [ प्रकट ] भद्र ! सुना जाता है कि वे सज्जन मित्र के प्रेमी है । उनका क्या हुआ ?
**पुरुष—**वे इन जिष्णुदास के प्रिय मित्र हैं ।
राक्षस—[ मन में ] यह हृदय का शोकरूपी वज्रपात समीप है । [ प्रकट ] तब क्या हुआ ?
**पुरुष—**तब आज जिष्णुदास ने प्रिय मित्र के स्नेह के अनुरूप चन्द्रगुप्त से निवेदन किया ।
**राक्षस—**कहो क्या ?
**पुरुष—**महाराज ! मेरे घर में कुटुम्ब के भरण-पोषण के लिये पर्याप्त धन है । उसे लेकर मेरे प्रिय मित्र चन्दनदास को छोड़ दिया जाय ।

टिप्पणी—सुहृत्स्नेहपक्षपातिना—मित्रानुरागासक्तेन । सुहृदः स्नेहः, तस्मिन् पक्षपातः, सः अस्ति अस्य इतिसुहृत्स्नेहपक्षपात + इनि । विस्तरेण—वि√स्तृ—अप् भावे = विस्तरः; विस्तार शब्दे तु 'प्रथमे वावशब्दे' इति सूत्रेण घञ् प्रत्ययः । अतएव 'वाक्यस्य विस्तरः, 'पटस्य विस्तारः' इत्यादि । तेन । करणे तृतीया । अस्मद्विनाशदीक्षाप्रकाशद्वारम्—अस्मद्विनाशेपदेशागमनमार्गः । अभ्यर्णः—समीपवर्ती । अभि√अर्द् + क्त कर्तरि = अभ्यर्णः वा अभ्यर्दितः ।

राक्षसः— [ स्वगतम् ] साधु जिष्णुदास ! साधु !! अहो ! दर्शितो मित्रस्नेहः । कुतः ?—

पितॄन् पुत्राः पुत्रान् परवदभिहिंसन्ति पितरो
यदर्थं सौहार्दं सुहृदि च विमुञ्चन्ति सुहृदः ।

Page 447Permalink

३७४ मुद्राराक्षसम्

प्रियं मोक्तुं तद्यो व्यसनमिव सद्यो व्यवसित
कृतार्थोऽय सोऽर्थस्तव सति वणिक्त्वेऽपि वणिज ॥१७॥

अन्वयः—यदर्थं पुत्रा पितॄन्, पितरः पुत्रान् परवत् अभिहिंसन्ति, सुहृदः सुहृदि सौहार्दं विमुञ्चन्ति च। सः अयम् अर्थः वणिजः तव वणिक्त्वे सति अपि कृतार्थः, यः ( त्वं ) तत् प्रियं व्यसनमिव सद्यः मोक्तुं व्यवसितः ॥१७॥

व्याख्या—यदर्थं—यस्मै अर्थाय निमित्तं, पुत्रा—सुताः, पितॄन्—जन- कान्, पितर—जनकाः, पुत्रान्—सुतान्, परवत्—रिपव इव, अभिहिंसन्ति—निघ्नन्ति, सुहृद—मित्राणि, सुहृदि—मित्रे, सौहार्दं—मित्रत्व, विमुञ्चन्ति—त्यजन्ति च। सः अय—सर्वातिशयः, अर्थ—धन, वणिज—पण्यजीविनः, तव—भवतः, वणिक्त्वे—वणिक्भावे, सति अपि—विद्यमानेऽपि, कृतार्थ—सफल , य—त्वम्, तत् प्रिये—प्रार्थनीय, वस्तु अर्थमिति यावत्, व्यसन- मिव—दु खमिव, सद्यः—तत्क्षणम्, मोक्तु—हातुं, व्यवसितः—समु- द्युक्तः ॥१७॥

हिन्दी अनुवाद—राक्षस—[ मन में ] वाह जिष्णुदास ! वाह ! ! महा ! मित्र-स्नेह ( तुमने ) दिखा दिया। क्योकि—

जिस ( धन ) के लिए पुत्र पिताओ को और पिता पुत्रो को शत्रु की भाँति मार डालते हैं तथा मित्र मित्र के प्रति मित्रता त्याग देते हैं, वह यह धन वणिक् तुम्हारे वणिक् होने पर भी सार्थक हो गया। जो तुम उस प्रिय ( धन ) को दुःख की भाँति तुरन्त छोड़ने के लिए उद्यत हो गए हो ॥१७॥

टिप्पणी—सौहार्दम्—सुहृदो भाव इति सुहृत् + अण् 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्युभयपदवृद्धिः। वणिक्त्वे सति—अत्र अनादरे सप्तमी। प्रियम्—अत्र सामान्ये नपुंसकम्। इस श्लोक में दो उपमा अलकार, वाक्यार्थ-हेतुक काव्यलिंग अलङ्कार और विरोधाल्कार की संसृष्टि है। इसमें शिखरिणी छन्द है। इस छन्द का लक्षण, १, १३ में देखिए ॥१७॥

[ प्रकाशम् ] भद्र ! ततस्तयाऽभिहितेन सता किं प्रतिपन्नं मौर्येण ?

पुरुष—अज्ज ! तदो एव भणिदेण चन्दणत्तेण प्पडिभणिदो सेट्ठी जिण्णुदासो—'जिण्णुदास ! ण मए अत्थस्स कालणेण सेट्ठी चन्दन-

Page 448Permalink

षष्ठोऽङ्कः । ३७५

दासो संजमिदो, किंतु पच्छादिदो अणेण अमच्चरक्खसस्स घरअणो, बहुसो जाचिदेणावि ण समप्पिदो त्ति ताजइ अमच्चरक्खसस्स घरअणं समप्पेदि, तदो अत्थि से मोक्खो, अण्णधा प्पाणहरो से दण्डो' त्ति भणिअ बज्झट्ठाणं आणिदो चन्दणदासो। तदो 'जाव पिअबअस्सस्स चन्दणदासस्स असुणिदव्वं ण सुणेमि, तावज्जैव अत्ताणं बावादेमि' त्ति ज्जलणे प्वबिसिदुकामो सेट्ठी जिण्णुदासो णअरादो णिग्गदो। अहं वि जाव पिअबअस्सस्स जिण्णुदासस्स असुणिदव्वं ण सुणेमि, ताव उब्बन्धिअ अत्ताणं बावादेमि, त्ति इमं जिण्णुज्जाणं आगदो ह्मि।

( आर्य ! तत एवं भणितेन चन्द्रगुप्तेन प्रतिभणितः श्रेष्ठो जिष्णुदासः—'जिष्णुदास ! न मयाऽर्थस्य कारणेन श्रेष्ठो चन्दनदासः संयमितः, किन्तु प्रच्छादितोऽनेनामात्यराक्षसस्य गृहजनः, बहुशो याचितेनाऽपि न समर्पित इति। तद्यद्यमात्यराक्षसस्य गृहजनं समर्पयति,ततोऽस्त्यस्य मोक्षः, अन्यथा प्राणहरोऽस्यदण्ड' इति भणित्वा वध्यस्थानमानीतश्चन्दनदासः। ततो 'यावत् प्रियवयस्यस्य चन्दनदासस्याश्रोतव्यं न शृणोमि, तावदेवात्मानं व्यापादयामि' इति ज्वलने प्रवेष्टुकामः श्रेष्ठो जिष्णुदासो नगरात्निर्गतः। अहमपि यावत् प्रियवयस्यस्य जिष्णुदासस्याश्रोतव्यं न शृणोमि, तावदुद्बध्यात्मानं व्यापादयामि, इतीदं जीर्णोद्यानमागतोऽस्मि ।)

व्याख्या—ततः—तदनन्तरम्, एवम्—इत्थम्, भणितेन—उक्तेन, चन्द्रगुप्तेन—मौर्येण, श्रेष्ठो जिष्णुदासः प्रतिभणितः—प्रत्युक्तः, 'मया, अर्थस्य—धनस्य, कारणेन—हेतुना, श्रेष्ठो चन्दनदासः, न संयमितः—न बद्धः, किन्तु, अनेन, अमात्यराक्षसस्य, गृहजनः—कलत्रादि, प्रच्छादितः—गोपितः, बहुशः—असकृत्, याचितेनापि—अर्थितेनापि, न समर्पितः—न दत्तः। तत्—तस्मात्, यदि—चेद, अमात्यराक्षसस्य, गृहजनं—परिवारं, समर्पयति—ददाति, ततः—तदा, अस्य—चन्दनदासस्य, मोक्षः—मुक्तिः, ( अस्ति ) अन्यथा—तदसमर्पणे, अस्य—चन्दनदासस्य, प्राणहरः—जीवनाशः, दण्डः—क्लेशः, ( भविष्यति )' इति भणित्वा—एवमुक्त्वा, चन्दनदासः, वध्यस्थानं—मारणभूमिम्, आनीतः—प्रापितः। ततः—तदुत्तरं 'यावत्—यत्कालपर्यन्तं; प्रियवयस्यस्य—प्रियसूहृदः चन्दनदासस्य, अश्रोतव्यम्—अनाकर्णनीयं मरणमिति यावत्, न शृणोमि—

Page 449Permalink

३७६ मुद्राराक्षसम्

न आकर्णयामि, तावदेव—तत्कालपर्यन्तमेव, आत्मान—प्राणान्, व्यापदयामि—विनाशयामि' इति—अतो हेतोः ज्वलन—अग्नौ, प्रवेष्टुकाम—प्रवेषाभिलाषी, श्रेष्ठी, जिष्णुदास , नगरात्—पुरात्, निर्गत —निःसृतः । अहमपि, यावत् प्रियवयस्यस्य, जिष्णुदासस्य, अश्रोतव्य, न शृणोमि, तावत्, उद्वध्य—ऊर्ध्वबन्धन कृत्वा, आत्मान, व्यापदयामि, इति—अतो हेतो, इदम्—एतत्, जीर्णोद्यान—पुरातनोपवनम्, आगतोऽस्मि—प्राप्तोऽस्मि ।

हिन्दी अनुवाद—[ प्रष्ट ] भद्र ! तब उस प्रकार कहे जाने पर चन्द्रगुप्त ने क्या उत्तर दिया ?

पुरुष—आर्य ! तब इस प्रकार कहे जाने पर चन्द्रगुप्त ने सेठ जिष्णुदास को उत्तर दिया—'जिष्णुदाम ! मैंने धन के निमित्त सेठ चन्दनदाम को नहीं बांधा है। किन्तु इसने अमात्य राक्षस के परिवार को छिपा रक्खा है और बहुत कहे-सुने जान पर भी समर्पित नहीं किया । अत, यदि अमात्य राक्षस के परिवार को सौंप देता है तो इसका छुटकारा है, अन्यथा इसका प्राणनाशक दण्ड है' ऐसा कहकर चन्दनदाम को वध्यभूमि में लाया गया है। उसके वाद 'जब तक प्रिय मित्र चन्दनदास के न सुनने योग्य ( समाचार ) को नहीं सुनता हूँ तब तक आत्महत्या कर लेता हूँ'—यह सोचकर अग्नि म प्रवेश करने की इच्छा से सेठ जिष्णुदाम नगर से बाहर निकल गया है। मैं भी जब तक प्रिय मित्र जिष्णुदास का न सुनने योग्य ( ममाचार ) नहीं सुनता हूँ तब तक फासी लगाकर आत्महत्या कर लेता हूँ—इस विचार से जीर्ण उपवन में आया हूँ।

टिप्पणी—अभिहितेन—कथितेन । अभि√धा+क्त कर्मणि, 'दधातेर्हिः' इत्यनेन धा इत्यस्य हि आदेश । प्रतिपन्नम्—प्रत्युक्तम । भणितेन—कथितेन ।√भण्+क्त कर्मणि । अर्थस्य कारणेन—अत्र शेषत्वविवक्षया षष्ठी, अन्यथा 'अर्थेन कारणेन' इति प्रयोगेण भाव्यम् । अथवा √वृ+णिच्+ल्युट् भावे=कारणम् । अर्थस्य यत् कारण=प्रेरणा तेन हेतुना इत्यर्थोऽवसेयः । प्राणहर —प्राणान् हरतीति प्राण√हृ+अच् कतरि अथवा हरतीति हरः प्राणाना हर प्राणहरः ।

राक्षस —न खलु व्यापादितश्चन्दनदास ?