मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
by महाकवि विशाखदत्त
Page 432 of 488
Read in contextषष्ठोऽङ्कः ३५५
समान आचरण किया है। विफलयति—विफलं करोति इति विफल + णिच् + लट्—तिप्। इस श्लोक में दीपक, उपमा, अतिशयोक्ति तथा काव्यलिंग अलंकारों का संकर है। इसमें शिखरिणी छन्द है। इस छन्द का लक्षण १, १३ में देखिए ॥६॥
मया हि—
देवे गते दिवमतद्विधमृत्युयोग्ये
शैलेश्वरं तमधिकृत्य कृतः प्रयत्नः ।
तस्मिन् हते तनयमस्य तथाप्यसिद्धि-
र्दैवं हि नन्दकुलशत्रुरसौ न विप्रः ॥७॥
अन्वयः—अतद्विधमृत्युयोग्ये देवे दिवं गते तं शैलेश्वरम् अधिकृत्य प्रयत्नः कृतः। तस्मिन् हते अस्य तनयम् (अधिकृत्य प्रयत्नः कृतः) तथापि असिद्धिः। दैवं हि नन्दकुलशत्रुः असौ विप्रः न ॥७॥
व्याख्या—अतद्विधमृत्युयोग्ये—तद्विधः तादृशः पामरजनसुलभ इत्यर्थः यः मृत्युः मरणं तस्य योग्यो यो न भवति तस्मिन्, देवे—राजनि नन्दे, दिवं गते—स्वर्गं प्रयाते, तं—प्रसिद्धं, शैलेश्वरं—पर्वतेश्वरम्, अधिकृत्य—आश्रित्य, प्रयत्नः—उद्योगः, कृतः—विहितः। तस्मिन्—पर्वतेश्वरे, हते—(चाणक्येन) घातिते, अस्य—पर्वतेश्वरस्य, तनयम्—पुत्रम् मलयकेतुमिति यावत्, (अधिकृत्य प्रयत्नः कृतः), तथापि—कृतेऽपि महत्यपि प्रयासे, असिद्धिः—असफलता (जाता)। दैवं हि—भाग्यमेव, नन्दकुलशत्रुः—नन्दकुलविद्वेषी, असौ—एषः, विप्रः—ब्राह्मणः चाणक्यः, न—नहि (शत्रुः) ॥७॥
हिन्दी अनुवाद—मैंने—
उस प्रकार की मृत्यु के अयोग्य महाराज (नन्द) के स्वर्ग चले जाने पर उस पर्वतेश्वर का आश्रय लेकर प्रयत्न किया। उस (पर्वतेश्वर) के मार डाले जाने पर उसके पुत्र (मलयकेतु) का (आश्रय लेकर प्रयत्न किया)। तो भी सफलता नहीं मिली। भाग्य ही नन्दवंश का शत्रु है, वह ब्राह्मण (चाणक्य) नहीं ॥७॥
टिप्पणी—अतद्विधमृत्युयोग्ये—तस्य विधा प्रकारः इव विधा अस्य