सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

( १७ )
विषया: पृष्ठे
१२१ । अथ उन्नत नौका लक्षणम्, \Bigg} ... ... २२६
धातुनौकाकथनम्
१२२ । अथ जघन्य जलयानानि ... ... २२९
समाप्तं सूची-पत्रम् ।

Digitized By Siddhanta eGangotri Gyaan Kosha
CC-0. Gurukul Kangri Collection, Haridwar.

(यह पृष्ठ मूल रूप से रिक्त है, इस पर कोई देवनागरी पाठ उपलब्ध नहीं है।)

अथ युक्तिकल्पतरुः ।
( श्रीभोजराजीयः )
( अत्र नीति युक्तिः )
श्रीं नमः शिवाय ।
विश्व सर्गविधौ वेधा स्तत्पालयति यो विभुः ।
तदत्ययविधावीश स्तंवन्दे परमेश्वरम् ॥ १ ॥
कंसानन्दमकुर्व्वाणः कं सानन्दं करोति यः ।
तं देववृन्दैराराध्यमनाराध्यमहम्भजे ॥ २ ॥
नमामि शास्त्रकर्त्तृणां चरणानि मुहुर्मुहुः ।
येषां वाचः पावयन्ति (१) श्रवणेनैव सज्जनान् ॥ ३ ॥
नानामुनि * निबन्धानां सारमाकृष्य यत्नतः ।
तनुते भोजनृपति र्युक्तिकल्पतरुं मुदे ॥ ४ ॥
विवुधाभीष्टदममुं कल्पवृक्षं समाश्रितः (२) ।
प्राप्नोतीष्टतमां सिद्धिं वुधाः ! (३) संसेव्यतामयम् ॥ ५ ॥
( १ ) पारयन्ति (ख) पुस्तक पाठः ।
( २ ) समाश्रितम् (ख) पुस्तक पाठः ।
( ३ ) वुधैः (ख) पुस्तक पाठः ।

  • इह तु आर्य्यावर्त्ते बहून्येव प्राचीनानि नीतिपुस्तकानि सम्यगासन् । तेषु च वार्हस्पत्यं,
    औशनसम्, विश्वामित्रोयम्, धौम्यञ्चैतानि पुरातनानि । एवं कौटिलीयम्, कामन्दकीयम्,
    नीतिमयूखादीनि च मध्यकालिकानि । अपरानि च भर्तृहरीयादीनि । महर्षिमन्वादीनां
    संहितासु च बहुषु प्रकरणेषु सन्ति नीतिविषयाः। पुराण-ज्योतिःशास्त्र-चिकित्साशास्त्राणां
    प्रकरणेषु च वर्त्तन्ते बहुधा नीतयः ।

२ युक्तिकल्पतरौ—
दण्डनीति र्यस्य मूलं ज्योतिश्शास्त्रं प्रकाण्डकम् ।
दृष्टार्था इतरा विद्याः शाखा पुष्पं तथेतराः ॥ ६ ॥
अप्यदृष्टफलं (४) यस्य रसस्तस्यामृतं सताम् ।
सोऽयं कल्पतरुर्धीरैः ! उपास्यो भूप-मन्त्रिणाम् ॥ ७ ॥
संश्रित्यामुं कल्पवृक्षमन्यशास्त्राण्यवेक्ष्य च (५) ।
राजभि र्मन्त्रतामर्थ्यो यः शास्त्रार्थोत्तमो भुवि ॥ ८ ॥
अयमिष्टतमो भूपैर्ज्ञेयो हितफल-प्रदः ।
अन्येषान्च भवेदिष्टः प्रियत्वेनान्ददात्यपि ॥ ९ ॥
अस्य नीत्यासमारम्भश्छन्दोग्रन्थैः समापनम् ।
नीतिहीन नरेन्द्राणां नश्यन्त्याशु सुसम्पदः ॥ १० ॥
अतो नीतिः प्रयत्नेन श्रवणीया नृपोत्तमैः ।
अतः प्रथमतॊ नीतिशास्त्रमत्र निवध्यते ॥ ११ ॥
नीतिर्बृहस्पति-प्रोक्ता तथैव

नीतियुक्तिः । ३
अथ तेषां परीक्षा यथा—
सदाचारः कुशलधीः सर्व्वशास्त्रार्थ-पारगः ।
नित्यनैमित्तिकानाञ्च कार्य्याणां कारकः शुचिः ॥ १४ ॥
अपर्व्व-मैथुन-परः पितृ-देवार्च्चने रतः ।
गुरुभक्तो जित-क्रोधो विप्राणां हितकृत् सदा ॥ १५ ॥
दयावान् शील-सम्पन्नः सत्कुलीनो महामतिः ।
परदारेषु विमुखो दृढ-सङ्कल्पको द्विजः ॥ १६ ॥
अन्यैश्च वैदिकगुणै र्युक्तः कार्य्यो गुरुर्नृपैः ।
एतैरेव गुणै र्युक्तः पुरोधाः स्यान्महीभुजाम् ॥ १७ ॥
शान्तो विनीतः कुशलः सत्कुलीनः शुभान्वितः ।
शास्त्रार्थतत्त्वगोऽमात्यो भवेद् भूमिभुजामिह ॥ १८ ॥
तथा बुद्धिमतां श्रेष्ठो धार्म्मिकः शास्त्रवित्तमः ।
हीनश्चाप्य परोधेन * भूपमन्त्रो प्रकीर्त्तितः ॥ १९ ॥
परेङ्गितज्ञः परवाग् व्यङ्ग्यार्थस्यापि तत्त्ववित् ।
सदोत्पन्नमति र्धीरो दूतः स्यात् पृथिवीपतेः ॥ २० ॥
————*————
दूतस्य बहुभेदा वच्यन्ते ।
नीतिशास्त्रार्थ कुशलो लेख्यालेख्य-विशारदः ।
बह्वर्थवक्ता चाल्पेन लेखकः स्यात् सभापटुः ॥ २१ ॥
ज्योतिःशास्त्र-विशेषज्ञः सुन्दराङ्गः सभापटुः ।
कुलक्रमागतः शुद्धो गणकः स्यान्महीपतेः ॥ २२ ॥

  • 'हीनश्चाप्य परोधेन' इत्यनेनौचित्यादिराहित्यं राज्ञोहितानुष्ठानपरत्वञ्च सुज्ञेयम् ।

Digitized By Siddhanta eGangotri Gyaan Kosha
४ युक्तिकल्पतरौ—
वृद्धः (१) कुलोद्गतः शक्तः पितृपैतामहः शुचिः ।
राज्ञामन्तःपुराध्यक्षो विनीतश्च तथेष्यते ॥ २३ ॥
हयशिक्षा विधानज्ञ * स्तच्चिकित्सित-पारगः ।
अश्वाध्यक्षो महीभर्तुः सुभक्तश्च प्रशस्यते ॥ २४ ॥
गजलक्षण-जातिज्ञ † स्तच्चिकित्सित पारगः ।
निर्भयश्च विशुद्धश्च गजाध्यक्षः प्रशस्यते ॥ २५ ॥
अस्त्र (२) शास्त्रेषु कुशलो बहुबन्धु-जनान्वितः ।
शुद्धः कुलोद्भवो विद्वान् धर्मभीरु रभोस्तथा ॥ २६ ॥
युद्धाध्यक्षः ‡ स्मृतोराज्ञां दुर्गसन्धानकार्यवित् (३) ।
अध्यक्षान् विविधान् कुर्य्या स्तत्र तत्र विपश्चितः ॥ २७ ॥
(१) बुद्धः इति (ख) पुस्तक पाठः ।
(२) अस्त्र शस्तेषु इति (ख) पुस्तक पाठः ।—अत्रास्त्रशास्त्राणि धनु-
[L1

नौतियुक्तिः । ५
अप्रमत्तानलुब्धांश्च विरोधांश्चैव राजसु ।
राज्ञामाज्ञानुरूपेण तत्तत्कर्म्म प्रकुर्व्वताम् ॥ २८ ॥
प्रसादञ्च महीपालः कुर्या त्कार्यानुरूपकम् ।
सर्व्वे सेवितुमिच्छन्ति महीपालं धनाश्रया ॥ २९ ॥
स्वत(४)स्ते तु महीपालैः परीक्ष्यास्तव कोविदैः * ।
कोषो महीपते र्जीवो न तु प्राणाः कथञ्चन ॥ ३० ॥
द्रव्यं हि राजा भूपस्य नशरीरमिति स्थितिः ।
धर्म्महेतोः सुखार्थाय भृत्यानां भरणाय च ॥ ३१ ॥
आपदर्थञ्च संरक्ष्यः कोषः कोषवता सदा ।
धनात् कुलं प्रभवति धनाद्धर्म्मः प्रवर्त्तते (५) ॥ ३२ ॥
नाधनस्य भवेद्धर्म्मः कामांश्चैव कथञ्चन ।
अधर्म्मान्न धनं कुर्य्यात्तद्धनं गृह्यते परैः ॥ ३३ ॥
स्वयं पापस्य पात्रं स्यात् सिंहो हस्तिवधादिव ।
तादात्मिको मूलहरः कदर्य्य स्त्रिविधोऽर्द्धकः ? ॥ ३४ ॥
उत्पन्नार्थ-व्ययकरो यो भविष्यदनाशया ।
स तादात्मिक आख्यातः कल्याणो तस्य नायतः ॥ ३५ ॥
यः पित्र्यार्ज्जितं वित्त मन्यायेन तु भक्षयेत् ।
स मूलहर आख्यात स्तदुदर्कोऽपि चाशुभः ॥ ३६ ॥
( ४ ) सुतास्ते तु इति (ख) पुस्तक पाठः ।
( ५ ) प्रवर्द्धते इति (ख) पुस्तक पाठः ।

  • धनलिप्सया सर्व्वे साधवो दुर्ज्जना वा सुधियो वा महीपालं आश्रयन्ति, परं राज्ञो-
    हि तेषां स्वतः सचिवेन, विदुषा वा परीक्षणमुचितम् । विना परीक्षया सुजन-दुर्ज्जन-
    निश्चये राज्ञोऽनिष्टञ्च स्यादिति ।

युक्तिकल्पतरौ—
स कदर्य्यस्तु भृत्या(६)त्म-पीडनै्यर्थसञ्चयी ।
तद्धनं राज-दायाद-तस्कराणां निधिर्भवेत् ॥ ३७ ॥
भिच्चा च राजकोषस्य स्तोक-स्तोकेन वर्द्धते ।
अञ्जनञ्च(७) धनञ्चैव स्तोक-स्तोकेन हीयते ॥ ३८ ॥
कोषस्य साधनोपायो मुख्यं राष्ट्रमिति स्मृतम् ।
भूगुणैर्वर्द्धते राष्ट्रं तद्वृद्धि (८) नृपसत्तता ॥ ३८ ॥
राज्ञोपायेन (९) संरक्ष्या ग्रामे ग्रामे कृषीबलाः ।
तेभ्यः कृषि स्ततश्चार्था अर्थेभ्यः सर्व्वसम्पदः ॥ ४० ॥
शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा ।
तथा वर्षेषु वर्षेषु कर्षणाद्गुण-क्षयः * ॥ ४१ ॥
एकस्यां गुणहीनायां कृषिमन्यत्र कारयेत् ॥ ४२ ॥
— ०० —
अथ बलम् ।
रथिनः सादिनश्चैव गजारोहाश्च सत्तमाः ।
पत्तयश्च महाकाया वलमेतच्चतुर्विधम् † ॥ ४३ ॥
(६) भृतार्थ इति (ख) पुस्तक पाठः ।
(७) अर्ज्जनञ्च इति (ख) पुस्तक पाठः ।
(८) तद्वृद्धिः इति (ख) पुस्तक पाठः ।
(९) अपायेन इति (ख) पुस्तक पाठः ।

  • प्रत्यब्दं कर्षणेन क्षेत्रस्य शस्योत्पादनशक्तिर्ह्रसत्येव । अतएवहि कृषीवलैः कृष्टभूमौ
    तच्छक्तिपरिवृद्ध्यर्थं पर्युसित-गोमय-पङ्क करीषभस्मादिकं प्रदातव्यमित्यादि वृहत्पराशरीय-
    कृषियन्त्रेऽस्ति ।
    † “एको रथी गजश्चैको नराः, पञ्च पदातयः ।
    त्रयश्च तुरगाश्चैव पत्तिरित्यभिधीयते ॥” ( इति भरतः )

नीतियुक्तिः । ७
मौलभूतं श्रेणीबद्धं संहतन्तु स्मृतम्बलम् ।
पूर्वं पूर्वं गरीयस्तु बलानां व्यसनन्तथा ॥ ४४ ॥
रथो बलं समे देशे गजस्तु विषमे बलम् ।
जाङ्गले बलमश्वाश्च बलं नौका जलप्लुते ॥ ४५ ॥
पदातयस्तु सर्व्वत्र बलं स्यात् पृथिवीभुजः ।
राज्ञा युद्धाय युज्येत यदन्यद्द्विविधं बलम् ॥ ४६ ॥
सर्व्वं पत्तिबलाधीनं तस्मात्पत्तिर्बलं बलम् ॥ ४७ ॥
अथ यानम् ।
चतुष्पदञ्च द्विपदं विपदञ्चबहुपादकम् ।
चतुर्विध मिहोद्दिष्टं यानं भूमिभुजोमतम् ॥ ४८ ॥
गजाश्वादि चतुष्पादं दोलादि द्विपदम्भवेत् ।
नौकाद्यं विपदं ज्ञेयं रथाद्यं बहुपादकम् ॥ ४६ ॥
व्योमयानं * विमानं वा पूर्व्वमासीन्महीभुजाम् ।
यथानुगुण-सम्पन्नानिता नाहुः सुखप्रदान् ॥ ५० ॥
अथ यात्रा ।
गुणातिशयसम्पन्नः शत्रूंयाया जिगीषया ।
यदि पश्चात्प्रकोपेण यदि राष्ट्रेण कण्टकाः ॥ ५१ ॥
† श्लोकार्द्धं (क)-(ख) पुस्तके नास्ति । —"विमानं हंससंयुक्तम्" मार्कण्डेयपुराणे ।
'सर्व्वेभ्योऽवसरन्ददाति पुष्पक्वत्' इति परिमलं । एवमेव भारतेरामायणादौ विमान-
नामास्ति । केषाञ्चिद्विदुषां नये पुष्पकविमान-व्योमयानानि एकार्थबोधकानि ।

८ युक्तिकल्पतरौ—
संधा(ङ्ग)यान्यत्र यायाद्वा पार्ष्णिग्राहेण (१) शत्रुना ।
रात्रावुलूको विनिहन्ति (२) काकान्,
काकोऽप्यु लूकं (३) रजनौ व्यपाये ।
इति स्वकालं समुदीक्ष्य * यायात् ;
काले फलन्तीह समीहितानि ॥ ५२ ॥
प्रबल-व्यसनोपेतं दुर्भिक्षादि-प्रपीड़ितम् ।
सभू(भृ)तान्तरकोपेतं न यायात् पृथिवीपतिः ॥ ५३ ॥
निजदैवानुकूल्ये हि प्रातिकूल्ये परस्य च ।
यायान्नृपो यतो दैवं बलमेतत्परं मतम् ॥ ५४ ॥
निरातङ्के (४) निरुत्पाते निरुद्विग्ने निरामये ।
विपत्ते जयमिच्छन्ति राजानो विजिगीषवः ॥ ५५ ॥
००
अथ विग्रहः।
यत्रायुद्धे † (५) ध्रुवं नाशो युद्धे जीवितसंशयः ।
तं कालमेकं युद्धस्य प्रवदन्ति मनीषिणः ॥ ५६ ॥
( १ ) वाहेन इति (ग) पुस्तक पाठः ।
( २ ) निवह्नन्ति इति (क)—(ख) पुस्तक पाठः ।
( ३ ) उलूको इति (क)—(ख) पुस्तक पाठः ।
( ४ ) 'अन्यत्र तु' इति (ग) पुस्तक पाठः ।
( ५ ) यत्न युद्धे इति (ग) पुस्तक पाठः ।

  • —श्लोकोऽयं शाकुन-विषये । अथवा यदा स्वस्य प्राबल्यं शत्रोर्दोर्बल्यं तत्रयायादिति
    काकोलूक न्यायः ।
    † यत्रायुद्धे'ति—अरातिना सह राज्ञो युद्धे निश्चिते तेन निधनं राज्यापहरणञ्च
    अवश्यम्भावि, अतो युद्धं श्रेयः, विना संग्रामेन मरणात् समरे मरणं राज्ञो धर्मः स एव
    युद्धकालः ।

नीतियुक्तिः । ९
आत्मोदये विगृह्णीयात् क्षोभो नात्म(थ)बले यदि ।
व्यसने च प्रहर्त्तव्यं शत्रौ न तु विपर्य्यये ॥ ५७ ॥
स्वयं राज्ञा न योद्धव्यं येऽपि शस्त्रास्त्रकोविदैः ।
मृता (६) युद्धेषु दृश्यन्ते शक्तेभ्यः शक्तिमत्तराः ॥ ५८ ॥
रथयुद्धं समे देशे विषमे हस्ति-सङ्गरः ।
अश्वयुद्धं मरौ देशे पत्ति-युद्धञ्च दुर्गमे ॥ ५९ ॥
अत्यये सर्व्वयुद्धं स्यान्नौकायुद्धं जलप्लुते ।
संहत्य योधयेदन्यान् कामं विस्तारयेद्बहून् ॥ ६० ॥
सूचीमुखमनीकं (७) स्यादल्पं हि बहुभिः सह ।
अपि पञ्चाशतः (८) शूरा निघ्नन्ति परवाहिनीम् ॥ ६१ ॥
येऽपि वा पञ्च षट् सप्त संहिताः (९) कृतनिश्चयाः ।
—*—
अथ चरः ।
विवस्वानिव तेजोभि र्नभस्वानिव वेगतः ।
राजा चरेज्जगत् सर्व्वं प्राप्नु याल्लोकसम्मतोः (१०) ॥ ६२ ॥
तर्केङ्गितज्ञ स्मृतिमान् खीयभाव-प्रकाशकः ।
क्लेशायाससहोदक्षः सर्व्वत्र भयवर्ज्जितः ॥ ६३ ॥
——————————————————
(६) कृता (हृता) इति (ग) पुस्तक पाठः ।
(७) अत्र सूचीमुखमनीकं यत्तद्वदवस्थित-वाचिनौत्यर्थः ।
(८) आदि पञ्चाशतः इति (ग) पुस्तक पाठः ।
(९) संहता इति (क)-(ख) पुस्तक पाठः ।
(१०) सम्मतैः इति (क)-(ख) पुस्तक पाठः ।
२

१० युक्तिकल्पतरौ—
सुभक्तो (११) राजसु तथा कार्य्याणां प्रतिपत्तिमान् ।
नृपो निहन्याच्चारेण परराष्ट्रं विचक्षणः ॥ ६४ ॥
काल(१२)ज्ञान्मन्त्रकुशलान् साम्बत्सर चिकित्सकान् ।
तथान्यानपि युञ्जीत समर्थान् शुद्धचेतसः ॥ ६५ ॥
सक्रुद्धांश्च (१३) तथा लुब्धान् दृष्टार्था-त्तत्त्व भाषिणः (१४) ।
पाषण्डिन स्तापसादीन् परराष्ट्रे नियोजयेत् ॥ ६६ ॥
स्वदेश परदेशज्ञान् सुशीलान् सुविचक्षणान् ।
वार्त्ताहर्य्यान् बहू ंश्चैव चराणां विनियोजयेत् ॥ ६७ ॥
नैकस्य वचने राजा चारस्य प्रत्ययं वहेत् ।
द्वयोः सम्बन्ध माज्ञाय तद्युक्तं कार्य्यमारभेत् ॥ ६८ ॥
तस्माद्राजा प्रयुञ्जीत चरान् बहुमु(सु)खान् बहून् ।
नौरता वामना (१५) कुब्जा स्तद्विधा ये च कारवः ॥ ६९ ॥
भिक्षुक्यश्चारणा दास्यो मालाकार्य्यः (१६) कलाविदः ।
अन्तःपुरगतां वार्त्तां निर्हरेयु रलक्षिताम्(न्) ॥ ७० ॥
प्रकाशश्चाप्रकाशश्च चरस्तु द्विविधो मतः ।
अप्रकाश्योऽयमुद्दिष्टः प्रकाशो दूतसंज्ञकः ॥ ७१ ॥
( ११ ) सभक्तो (भक्तौ) इति (ख) पुस्तक पाठः ।
( १२ ) वालज्ञान् (लभ्यः) (ग) पुस्तक पाठः ।
( १३ ) संक्रुद्धान् (क) (ग) पुस्तक पाठः ।
( १४ ) अतत्त्वभाषिणः (क)-(ग) पुस्तक पाठः ।
( १५ ) वासना इति (क) पुस्तक पाठः ।
नौरताः क्लीव्यं गता, निर्गतं रतं रमणं यस्मादिति वा । भिक्षुक्यः
परिव्राजिकाः ।
( १६ ) मालाकाराः इति (ग) पुस्तक पाठः ।

नीतियुक्तिः । ११
अथ दूतलक्षणम् ।
दूतञ्चैव प्रकुर्वीत सर्व्वशास्त्र-विशारदम् ।
इङ्गितज्ञं तथा सभ्यं दक्षं सत्कुल(१७)सम्भवम् ॥ ७२ ॥
अनुरक्तः शुचिर्दक्षः स्मृतिमान् देशकालवित् ।
वपुष्मान् वीतभीर्वाग्मी दूतोराज्ञः प्रशस्यते ॥ ७३ ॥
दूत एव हि सन्धत्ते भिनत्त्येव हि सङ्गता(म्)न् ।
विमृष्टार्थो (१८) मितार्थश्च तथा शासन-हारकः ॥ ७४ ॥
दूता स्त्रयोऽमात्यगुणैः समैः पादार्द्धवर्ज्जितैः ।
विमृष्टार्थः कार्य्यवशात् शासनं न करोति यः ॥ ७५ ॥
मितार्थः कार्य्यमात्रोक्तौ न कुर्य्यादुत्तरोत्तरम् ।
यथोक्तवादी (१९) सन्देश-हारको लेखहारकः ॥ ७६ ॥
तत्र दूतो व्रजन्नेव चिन्तये दुत्तरोत्तरम् ।
वार्त्ताविशेषं भूपायं न (२०) झटित्यङ्गवेश्मनि ॥ ७७ ॥
दूतोहि न (२१) लिखेत् किञ्चिन्निर्ण्णेता विनिसंशयम् ।
पृच्छ्यमानो हि न ब्रूयात् स्वामिनः क्वापि वैशसम् * ॥ ७८ ॥
पणवद्धो (२२) भवेत् सन्धिः स्वयं हीन (२३) स्तमाचरेत् ।


( १७ ) सु(स)कुल इति (क)-(ख) पुस्तक पाठः ।
( १८ ) विमृष्यार्थः इति (क) पुस्तक पाठः ।
( १९ ) यथोक्तवाख्यौ इति (क) पुस्तक पाठः ।
( २० ) झटित्यौत्यङ्ग इति (क) पुस्तक पाठः ।
( २१ ) हि स लिखेत् इति (क) पुस्तक पाठः ।
( २२ ) पणवन्धः इति (क)-(ख) पुस्तक पाठः ।
( २३ ) स्वयं हि न इति (ग) पुस्तक पाठः ।


  • वैशसं-वधं, विशेषानिष्टापातं, प्रतिरोधं वा न वदेत् इति ।

' or 'नौति'! Let's look at it:
न with au-matra: नौ! Then ति!
Wait, does it have 'ौ' or 'ी'?
Look at 'नी' in "सन्धिर्नैव": न + ै!
Here: look at "नौति":
Wait, it has two strokes on top of the vertical line! That's 'ौ'! So it is printed as "नौतिधर्म्मरतश्च".

Wait, let's check line 11:
"एतैः सन्धिं न कुर्वीत विशेषात् पूर्व्वपीडितैः ॥ ८४ ॥"
Let's check line 12:
"सन्धिं हि तादृशैः कुर्व्वन् प्राणैरपि हि हीयते ॥ ८५ ॥"
Wait, is there a separator?
A line with a star in the middle: — or •—•
Then:
"आसनम् ।"
Then:
"अन्यद्वारा विपन्नन्तु विगृह्यासनमुच्यते ।"
"अरिं विगृह्य वा स्थानम् विग्रहासनमुच्यते ॥ ८६ ॥"
Wait, look at "स्थानम् विग्रहासनमुच्यते":
"स्थानम्" with anusvara or halanta ma?
It is "स्थानम्" with halanta ma!
And "विपन्नन्तु": विपन्नन्तु!

Let's check the footnotes:
Dividing line.
"( २४ ) प्रतिश्रियं इति

नीतिशक्तिः । १३
अन्यैश्च (२७) विजिगीषोश्च विग्रहे हीयमानयोः ।
सन्धाय यदवस्थानं सन्धा (२८) यासनमुच्यते ॥ ८७ ॥
उदासीने मध्यमे वा समाने प्रतिशङ्कया ।
एकीभूय व्यवस्थानं सम्भूयासनमुच्यते ॥ ८८ ॥
सर्व्defaultषां प्रीतिजननं निजराष्ट्रस्य रक्षणम् ।
एतत् प्रीत्यासनं नाम सर्व्वासन-महत्तरम् ॥ ८९ ॥
अथ द्वैधम् ।
वलिनोर्द्विषतोर्मध्ये वाचा मौनं (२९) समर्पयेत् ।
द्वैधीभावेन वर्त्तेत * काकाक्षिवदलक्षितः ॥ ९० ॥
यापयेत्क्रमास्थाय सन्निकृष्टतरं तयोः ।
उभयोरपि संयापे सेवेत बलवत्तरम् ॥ ९१ ॥
अथाश्रयः ।
अस्थितौ यदि कल्याणं भवेत् संश्रयणन्तथा ।
भवति श्रेयसे राज्ञां विपरीतं न कर्हिचित् ॥ ९२ ॥
( २७ ) अन्यस्य इति (क) पुस्तक पाठः ।
—अयं पाठः समीचीनः ।
( २८ ) सन्ध आसनं इति (ख) पुस्तक पाठः ।
( २९ ) वाचात्मानं इति (ख) पुस्तक पाठः ।

  • काकाक्षिन्यायः—यथा काकस्यैकमेव नेत्रमुभयोश्चक्षुषोः कार्य्यं सम्पादयति किम्बा
    कैकर इव झटित्येव लक्ष्यालक्ष्यं उभयं पश्यति तद्वत् द्वैधीभावे राज्ञाऽवस्थातव्यम् ।

१४ युक्तिकल्पतरौ—
उच्छिद्यमानो बलिना आश्रयेद्बलवत्तरम् ।
विनीतवत्तत्र कालं नयेदिति मतिर्ध्रुवा(म्) ॥ ९३ ॥
दद्बलं वा कोषं वा भूमिं वा भूतिसम्भवाम् ।
आश्रयेदभियोक्तारं समाश्रय गुणान्वितम् ॥ ९४ ॥
वोत-व्यसनमश्रान्तं महोत्साहं महामतिम् ।
प्रविशन्ति महाराजमपाम्यतिमिवापगाः ॥ ९५ ॥
अव्यवसायिनमलसं दैवपरं साहसाच्च परिहीनम् ।
प्रमदेववृद्धपतिं नेच्छत्युपग्रहीतुं कमला ॥ ९६ ॥
उत्साहाच्छ्रियमप्नोति उत्साहाच्च महद् यशः ।
तस्मात्सर्व्वौपधा (१) शुद्ध मुत्साहं नित्यमाचरेत् ॥ ९७ ॥
अमर्ष(र्शं)श्चैव शौर्य्यञ्च शीघ्रकारित्वमेवच ।
तत्कर्म्मणि प्रवीणत्व मित्युत्साह-गुणामताः ॥ ९८ ॥
व्यसनस्यागमद्वार मनुत्साहो महीपतेः ।
सामदान दण्डभेदा इत्युपाय-चतुष्टयम् ॥ ९९ ॥
साम-सिद्धं प्रशंसन्ति * सर्व्वतश्च विपश्चितः ।
स्रवन्निवामृतं वाचा सामोपायं समाचरेत् ॥ १०० ॥
लुब्धं चौणं प्रदानेन सत्कृत्यवशमानयेत् ।
भेदं कुर्व्वीत यत्नेन महामात्यपुरोधसाम् ॥ १०१ ॥
यथा बलं प्रकुर्व्वीत † दुष्ट-दण्डनिपातनम् ॥ १०२ ॥
( १ ) सर्व्वोपरि(रौ) शुद्धः इति (ख) पुस्तक पाठः ।

  • चतसृषु नीतिसु सामः प्रधानत्वादेव प्रसंशन्ति विपश्चितः ।
    † दुष्टस्य दमनं शिष्टस्य परिपालनञ्च बलानुसारेण कर्त्तव्यमिति ।

नीतियुक्तिः । १५
अथ दण्डः ।
दण्डः संरक्षते धर्मं * तथैवार्थं विधानतः ।
कामं संरक्षते यस्मात्त्रिवर्गो † दण्ड उच्यते ॥ १०३ ॥
राजदण्ड भयाल्लोकाः पापाः पापं न कुर्व्वते ।
यमदण्ड भयादेके परलोक भयात्तथा ‡ ॥ १०४ ॥
दण्डेच्चेन्नभवेल्लोके ¶ विभजन् साध्वसाधु वा ।
शूले§मत्स्यानिवाऽपच्यन् दुर्बलान् वलवत्तराः ॥ १०५ ॥
अपराधेसु भूपालो दण्डं कुर्य्याद् यथाविधि ।
अन्यथाकरणात्तस्य राजा भवति किल्विषी ॥ १०६ ॥
विरुद्धमपि जल्पन्तो दूता दण्ड्या न भूभृता ।
दूत हन्ता तु नरकमाविशेत् सचिवैः सह ॥ १०७ ॥
विपक्षवचनादन्यो भृत्यो दण्डं न चार्हति ।
विपक्ष वचनाद्दण्डः स्वामिनं नरकं नयेत् ॥ १०८ ॥

  • दमनाहार्हाणां दण्ड एव समु

१६ युक्तिकल्पतरौ—
मन्त्रमूलं यतो राज्यं (३) अतो मन्त्रः सुरक्षितः ।
कुर्य्याद्राजा सदा मन्त्रान् कर्म्मणामाफलोदयात् ॥ १०८ ॥
अर्थानर्थौ हि यत्रो भौ संशयश्च परीक्ष्यते ।
समन्त्र इति विज्ञेयः शेषाश्च खलु विभ्रमाः ॥ ११० ॥
एकमेव विषं हन्ति शस्त्रेणैकश्च बध्यते ।
सराष्ट्रं (४) सम्पदं हन्ति राज्ञाञ्च (५) मन्त्रविप्लवः ॥ १११ ॥
करिष्यन्नप्रभाषेत कृतान्येवतु दर्शयेत् ।
धर्म्मार्थ-काम-कार्याणि हतो मन्त्रो न भिद्यते ॥ ११२ ॥
गिरिपृष्ठं (६) मुपारुह्य (७) प्रासादम्बारुहोगतः *।
सराष्ट्रं रभसं (८) हन्ति राजानं मन्त्रविप्लवः ॥ ११३ ॥
अपथे निश्शलाके वा तत्र मन्त्रो विधीयते ।
तत्र साम प्रयोक्तव्यं कार्येषु गुणवत्स्वपि ॥ ११४ ॥
दानं लुब्धेऽपि भेदश्च शङ्कितेष्वपि निश्चयः ।
जड़मूकांश्च बधिरान् तिर्य्यग्योनीन् वयोऽधिकान् ॥११५॥
(३) राष्ट्रम् (ख) पुस्तक पाठः ।
(४) स राष्ट्रमिति (ख) पुस्तक पाठः ।
(५) राजानं (अज्ञानाम्) (ग) पुस्तक पाठः ।
(६) उपाविष्ठ (ख)-(ग) पुस्तक पाठः ।
(७) प्रासादश्वारोहो गतः ? (ग) पुस्तक पाठः ।
(८) अद्रवं (सद्रवस) मिति (क)-(ख) पुस्तक पाठः ।

  • (क) पुस्तके धर्म्मार्थे……इत्यादित आरभी गत इत्यन्तः सार्द्धश्लोकोऽधिको दृश्यते ।
    (ख)-(ग) पुस्तके तन्नास्ति ।

Digitized By Siddhanta eGangotri Gyaan Kosha
नीतियुक्तिः । १७
स्त्री म्लेच्छ व्याधित व्यङ्गान् (९) मन्त्रकाले निषेधयेत् ।
इति संक्षेपतः प्रोक्ता राजनीतिः कियन्मया ॥ ११६ ॥
यच्चिवर्गाविरुद्धंस्या द्राजनीति स्तदुच्यते ।
इति श्रीभोजराजीये युक्तिकल्पतरौ नीतियुक्तिः ॥
अथ दुर्ग-युक्तिः ।
राज्ञो बलं न हि बलं दुर्गमेव बलम्बलम् (१०) ।
अप्यल्प (११) बलवान् राजा स्थिरो दुर्ग-बलाद्भवेत् ॥११७॥
तथा च,—
एकः शतं योधयति प्राकारस्थो धनुर्द्धरः ।
शतं दश सहस्राणि तस्माद्दुर्गं विशिष्यते ॥ ११८ ॥
अकृत्रिमं कृत्रिमञ्च तत्पुनर्द्विविधम्भवेत् ।
यद्दैवघटितं दुर्गं गिरिनद्यादि-संश्रितम् ॥ ११९ ॥
अकृत्रिम (१२) मिदं ज्ञेयं दुर्लङ्गमरि-भूभुजाम् (१३) ।
प्राकार-परिखारथ्य-संश्रयं यद्भवे दिह ॥ १२० ॥
कृत्रिमं नामविज्ञेयं लङ्गालङ्घ्यन्तु वैरिणाम् ॥ १२१ ॥
( ९ ) व्यङ्गान् इति (ख) पुस्तक पाठः ।
( १० ) परम्बलम् इति (ग) पुस्तक पाठः ।
( ११ ) अत्यल्प इति (ग) पुस्तक पाठः ।
( १२ ) तत् कलिम इति (ख) पुस्तक पाठः ।
( १३ ) अवनीभूजां इति (ग) पुस्तक पाठः ।
३
CC-0. Gurukul Kangri Collection, Haridwar.

१८ युक्तिकल्पतरौ—
अथाकृत्रिम दन्दयुक्तिर्यथा ।
अत्युच्च (१४) विस्तीर्ण-शिरा दुरारोहः सकाननः ।
सजलाशय-सम्भार-भोज्यद्रव्य-समाश्रयः ॥ १२२ ॥
सुख (१५) निःसरणो दन्दः पर्व्वताख्यो महीभुजाम् ।
नद्यो गभीर विस्तीर्णाश्चतुर्दिक्षु व्यवस्थिताः ॥ १२३ ॥
तन्मध्ये भूप्रदेशो यो नदीदन्दः स उच्यते ।
यदन्यच्चिरकालीनं दुर्लङ्घ्यं विपिनादिकम् ॥ १२४ ॥
तन्मध्ये रचिता भूमि र्दन्दत्वे(१६)नोपतिष्ठते ।
नवदन्द(१७)मिति ख्यातं यथा पूर्व्वं महत्तरम् ॥ १२५ ॥
——— * ———
कृत्रिम दन्द-युक्तिर्यथा ।
यस्मिन्राज्ये गिरिर्नास्ति नद्यो वा गहनोदकाः ।
तस्य मध्ये महीपालः कृत्रिमं दन्दमारभेत् ॥ १२६ ॥
गजैरलङ्