युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 51, कुल 278 में से
संदर्भ में पढ़ेंनीतिशक्तिः । १३
अन्यैश्च (२७) विजिगीषोश्च विग्रहे हीयमानयोः ।
सन्धाय यदवस्थानं सन्धा (२८) यासनमुच्यते ॥ ८७ ॥
उदासीने मध्यमे वा समाने प्रतिशङ्कया ।
एकीभूय व्यवस्थानं सम्भूयासनमुच्यते ॥ ८८ ॥
सर्व्defaultषां प्रीतिजननं निजराष्ट्रस्य रक्षणम् ।
एतत् प्रीत्यासनं नाम सर्व्वासन-महत्तरम् ॥ ८९ ॥
अथ द्वैधम् ।
वलिनोर्द्विषतोर्मध्ये वाचा मौनं (२९) समर्पयेत् ।
द्वैधीभावेन वर्त्तेत * काकाक्षिवदलक्षितः ॥ ९० ॥
यापयेत्क्रमास्थाय सन्निकृष्टतरं तयोः ।
उभयोरपि संयापे सेवेत बलवत्तरम् ॥ ९१ ॥
अथाश्रयः ।
अस्थितौ यदि कल्याणं भवेत् संश्रयणन्तथा ।
भवति श्रेयसे राज्ञां विपरीतं न कर्हिचित् ॥ ९२ ॥
( २७ ) अन्यस्य इति (क) पुस्तक पाठः ।
—अयं पाठः समीचीनः ।
( २८ ) सन्ध आसनं इति (ख) पुस्तक पाठः ।
( २९ ) वाचात्मानं इति (ख) पुस्तक पाठः ।
- काकाक्षिन्यायः—यथा काकस्यैकमेव नेत्रमुभयोश्चक्षुषोः कार्य्यं सम्पादयति किम्बा
कैकर इव झटित्येव लक्ष्यालक्ष्यं उभयं पश्यति तद्वत् द्वैधीभावे राज्ञाऽवस्थातव्यम् ।