सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

प्रायश्चित्ताध्यायः ५३६
च 'अश्वरत्नमनुष्यस्त्रीभूधेनुहरणं तथा' इत्यादिना सुवर्णस्तेयसमत्वेन प्रतिपादि-
तानि, तेष्वर्धमेव कार्यम् । यत्पुनश्चतुर्विंशतिमतवचनम् - 'रूप्यं हृत्वा द्विजो
मोहाच्चरेच्चान्द्रायणव्रतम् । गद्याणदशकादूर्ध्वमाशताद् द्विगुणं चरेत् ॥ आ सह-
स्रात्तु त्रिगुणमूर्ध्वं हेमविधिः स्मृतः । सर्वेषां धातुलोहानां पराकं तु समाचरेत् ॥
धान्यानां हरणे कृच्छ्रं तिलानामैन्दवं स्मृतम् । रत्नानां हरणे विप्रश्चरेच्चान्द्रा-
यणव्रतम् ॥' इति, -तदपि गद्याणसहस्राधिकरजतहरणे सुवर्णस्तेयसमप्रायश्चित्त-
प्रतिपादनार्थं न पुनस्तन्निवृत्त्यर्थम् । यदपि रत्नापहारे चान्द्रायणमुक्तं, तदपि
गद्याणसहस्रादीनमूल्यरत्नापहारे द्रष्टव्यम् । ऊर्ध्वं पुनः सुवर्णस्तेयसमम् ॥ २५८॥
भाषा-यदि राजा से निवेदन नहीं करता है तो सुरापान करने वाले
महापातकी के लिये विहित व्रत का आचरण करते हुए अपने बराबर या
जितने से ब्राह्मण सन्तुष्ट हो जाय उतना सोना दान देनेपर पातक से शुद्ध
हो जाता है ॥ २५८ ॥
इति सुवर्णस्तेयप्रायश्चित्तप्रकरणम् ।
उद्देशक्रमप्राप्तं गुरुतल्पप्रायश्चित्तमाह-
तप्तेऽयःशयने सार्धमायस्या योषिता स्वपेत् ।
गृहीत्वोत्कृत्य वृषणौ नैर्ऋत्यां चोत्सृजेत्तनुम् ॥ २५९ ॥
'समा वा गुरुतल्पग' (प्रा० २६०) इति वक्ष्यमाणश्लोकगतं गुरुतल्पग-
पदमत्र संबध्यते । तप्तेऽयःशयने यथा मरणक्षमं भवति तथा तप्ते अग्निवर्णे कृते
कार्ष्णायसे शयने अयोमय्या स्त्रीप्रतिकृत्या तप्तया सह गुरुतल्पगः स्वप्यात् ।
एवं सुप्त्वा तनुं देहम् उत्सृजेत् , म्रियेतेति यावत् । शयनं च 'गुर्वङ्गनागमनं
मया कृतम्' इत्येवं स्वकर्म विख्याप्य कुर्यात् ; 'गुरुंस्तल्पमभिभाष्यैनः' ( ११।
१०३)-इति मनुस्मरणात् । तथा स्त्रियमालिङ्ग्य कार्यम्-'गुरुतल्पगो
मृन्मयीमायसीं वा स्त्रियः प्रतिकृतिमग्निवर्णां कृत्वा कार्ष्णायसशयने ( अयो-
मय्या स्त्रीप्रतिकृत्या कृत्वा) तामालिङ्ग्य पूतो भवति' इति वृद्धहारीतस्मरणात् ।
तथा मुण्डितलोमकेशेन घृताभ्यक्तेन च कर्तव्यम् - 'निष्कालको घृताभ्यक्तस्तप्तां
तां सूर्मीं मृन्मयीं वा परिष्वज्य मरणात्पूतो भवतीति विज्ञायते' इति वसिष्ठ-
स्मरणात् । न च ( ११।१०३ ) - 'गुरुतल्पमभिभाष्यैनस्तप्ते स्वप्यादयोमये ।
सूर्मीं ज्वलन्तीं स्वाश्लिष्येन्मृत्युना स विशुद्ध्यति ॥' इति मनुवाक्यानुरोधेन
तप्तलोहशयनं तप्तलोहयोषिदालिङ्गनं च निरपेक्षप्रायश्चित्तद्वयमित्याशङ्कनीयम् ।
आयस्या योषिता स्वपेत् । कुत्रेत्याकाङ्क्षायां तप्तेऽयःशयन इति परस्परसापेक्ष-
१. लोभात् । २. गुरुतल्पगमन । ३. सुप्यादायस्या । ४. तप्तपोऽभि-
भाष्यैनः ।

५४० याज्ञवल्क्यस्मृतिः
तयैकत्वावगमादेककल्परवमेव युक्तम् । अथवा वृषणौ सलिङ्गौ स्वयमुत्कृत्य
छित्त्वाऽञ्जलिना गृहीत्वा नैऋत्यां दक्षिणप्रतीच्यां दिशि देहपातान्तमकुटिलग-
तिर्गत्वा तनुमुत्सृजेत् । तथाह मनुः ( ११।१०४)-'स्वयं वा शिश्नवृषणा-
वुत्कृत्याधाय चाञ्जलौ । नैर्ऋतीं दिशमातिष्ठेदानिपातादजिह्मगः ॥' इति ।
गमनं पृष्ठतोऽनीक्षमाणेण कर्तव्यम् ; 'क्षुरेण शिश्नवृषणावुत्कृत्यानवेक्षमाणो
ब्रजेत्' इति शङ्खलिखितस्मरणात् । एवं गच्छन् यत्र कुड्यादिना प्रतिबध्यते
तत्रैव मरणान्तं तिष्ठेत् । 'सवृषणं शिश्नमुत्कृत्याञ्जलावाधाय दक्षिणाभिमुखो
गच्छेद्यूत्रैव प्रतिहतस्तत्रैव तिष्ठेदाप्रलयात्' ( २०।१३) इति वसिष्ठस्मरणात् ।
दण्डोऽप्यत्रायमेव । यथाह नारदः ( १२।७५) - 'आसामन्यतमां गच्छन्गुरु-
तल्पग उच्यते । शिश्नस्योत्कर्तनात्तत्र नान्यो दण्डो विधीयते ॥' एवं
दण्डार्थमपि लिङ्गाद्युत्कर्तनं पापक्षयार्थमपि भवति । इदमेव मरणान्तिकदण्डम-
भिप्रेत्योक्तं मनुना ( ११।३१८) - 'राजभिर्धतदण्डास्तु कृत्वा पापानि मानवाः।
निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥' इति । धनदण्डेन पुनः
प्रायश्चित्तं भवत्येव ; 'प्रायश्चित्तं तु कुर्वाणाः सर्वे वर्णा यथोदितम् । नाङ्ख्या राज्ञा
ललाटे स्युर्दाप्यास्तूत्तमसाहसम् ॥' ( ९।२४० ) इति तेनैवोक्तत्वात् । अनयोश्च
मरणान्तिकयोरन्यतरानुष्ठानेन गुरुतल्पगः शुद्ध्येत् । 'गुरु'शब्दश्चात्र मुख्यया
वृत्त्या पितरि वर्तते ; 'निषेकादीनि कर्माणि यः करोति यथाविधि । संभावयति
चान्नेन स विप्रो गुरुरुच्यते ॥' ( २।१४२ ) इति मनुना गुरुत्वप्रतिपादनपरे
वाक्ये निषेकादिकर्तुर्जनकस्यैव गुरुत्वाभिधानात् । योगेश्वरेण च निषेकादिक-
र्माभिप्रायेणोक्तम् । 'स गुरुर्यः क्रियां कृत्वा वेदमस्मै प्रयच्छति' ( आ० ३४ )
इति । ननु 'गुरु'शब्दस्यान्यत्रापि प्रयोगो दृश्यते । 'उषनीय गुरुः शिष्यम्' इत्या-
दिनाचार्ये ( मनुः २।१४९ ) - 'स्वल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः ।
तमपीह गुरुं विद्यात्' इत्युपाध्याये । व्यासेनाप्यन्यत्र प्रयोगो दर्शितः- 'गुरवो
मातृपितृपत्न्याचार्यविद्यादातृज्येष्ठभ्रातर ऋत्विजो भयत्रातान्नदाता च' इति । न-
चानेकार्थकल्पनादोषः, 'गुरु'शब्दस्य प्रवृत्तिनिमित्तभूतायाः पूजार्हतायाः सर्वत्रा-
नुस्यूतेः । दर्शितं च तस्याः प्रवृत्तिनिमित्तत्वं योगीश्वरेण ( आ० ३५ ) - 'एते
मान्या यथापूर्वमेभ्यो माता गरीयसी' इति 'मान्या' इत्युपक्रम्य 'गरीयसी'
इत्युपसंहारं कुर्वता । नच 'उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता'
( मनुः २।१४५) इत्युपाध्यायादधिकाचार्यात्पितुरतिशयितत्त्ववचनात्स एव
मुख्य इति वाच्यम् ; आचार्येऽप्यतिशयितत्वस्याविशिष्टत्वात् । 'उत्पादकबहादा-
त्रोर्गरीयान्ब्रह्मदः पिता' ( मनुः २।१४६ ) - इति गौतमेनाप्युक्तम् (२।५०)-
'आचार्यः श्रेष्ठो गुरूणाम्' इति । किंच, यद्यतिशयितत्वमात्रेण मुख्यत्वमुच्यते
तर्हि 'सहस्रम्' इति वचनान्मातुरेव गुरुत्वं स्यात् । तस्मात्सर्वे गुरवस्तत्पत्नी-

प्रायश्चित्ताध्यायः ५४१
गमनं गुर्वङ्गनागमनमिति युक्तम् । उच्यते,—'निषेकादीनि' ( २।१४२ ) इति
मनुवचनं निषेकादिकर्तुर्जनकस्य गुरुत्वप्रतिपादनपरम् ; अनन्यपरत्वात् । यत्पु-
नर्व्यासगौतमवचनं, तत्परिचर्यापूजादिविधिशेषतया स्तुत्यर्थत्वेनान्यपरम् ।
अतो गुरुत्वप्रतिपादनपरान्निषेकादीति मनुवचनात्पितुरेव मुख्यं गुरुत्वमिति
स्थितम् । अत एव वसिष्ठेन ( २०।१५ )—'आचार्यपुत्रशिष्यभार्यासु चैवम्'
इत्याचार्यदारेष्वातिदेशिकं गुरुतल्पप्रायश्चित्तमुक्तम् । तथा जातूकर्ण्यादि-
भिरप्युक्तम्—'आचार्य्यादेस्तु भार्यासु गुरुतल्पव्रतं चरेत्' इत्यादि ।
आचार्यादेर्मुख्यगुरुत्वे तूपदेशत एव व्रतप्राप्तेरतिदेशोऽनर्थक एव स्यात् । किंच,—
संवर्तेन स्पष्टमेव पितृदारग्रहणं कृतम्—'पितृदारान्समारुह्य मातृवर्ज्यं
नराधमः' इति । षट्त्रिंशन्मतेऽपि—'पितृभार्यां तु विज्ञाय सवर्णां योऽधि-
गच्छति' इति । अतोऽपि निषेकादिकर्ता पितैव मुख्यो गुरुः । तच्च गुरुत्वं
वर्णचतुष्टयेऽप्यविशिष्टम् ; निषेकादिकर्तृत्वस्याविशेषात् । अतः—'स विप्रो गुरु-
रुच्यते' इति 'विप्र'ग्रहणमुपलक्षणम् । अतः पितृपत्नीगमनमेव महापातकम् ।
गमनं च चरमधातुविसर्गपर्यन्तं कथ्यते । अतस्ततोऽर्वाङ्निवृत्तौ न महापात-
कित्वम् । तत्र चेदं 'तप्तेऽयःशयने सार्धमायस्या' सार्धमायस्या' इत्याद्युक्तं मर-
णान्तिकं प्रायश्चित्तद्वयम् ।-तच्च जनन्यामकामकृते, तत्सपत्न्यां तु सवर्णायामु-
त्तमवर्णायां कामकृते द्रष्टव्यम् । 'पितृभार्यां तु विज्ञाय सवर्णां योऽधिगच्छति ।
जननीं चाप्यविज्ञाय नामृतः शुद्धिमाप्नुयात् ॥' इति षट्त्रिंशन्मतेऽभिधानात् ।
जनन्यां तु कामकृते वासिष्ठं 'निष्कालको घृताभ्यक्तो गोमयाग्निना पादप्रभृत्या-
त्मानमवदाहयेत्' इति द्रष्टव्यम् । अकामतोऽभ्यासेऽप्येतदेव । ननु च 'मातुः-
सपत्नीं भगिनीमाचार्यतनयां तथा । आचार्यपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः ॥'
( प्रा० २३२ ) इत्यतिदेशाभिधानान्मातृसपत्नीगमने त्वौपदेशिकं प्रायश्चित्तम-
युक्तम् । उच्यते,—'पितृभार्यां सवर्णास्' इत्यस्मादेव वचनात्सवर्णग्रहणाद्धीनवर्ण-
सपत्नीविषयमिदमातिदेशिकमिति न विरोधः । इदं च मुख्यस्यैव पुत्रस्य । इत-
रेषाम्पुनः पुत्रकार्यकरत्वमेव न पुत्रत्वम् । यथाह मनुः ( ९।१८० )—'क्षेत्र-
जादीन्सुतानेतानेकादश यथोचितान् । पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनी-
षिणः ॥' इति । तत्रोभयेच्छात्तः प्रवृत्तौ 'तप्तेऽयःशयने' इति प्रथमं प्राय-
श्चित्तम् । स्वेन प्रोत्साहने तु 'गृहीत्वोत्कृत्य वृषणौ' इति द्वितीयम् ; अनु-
बन्धातिशयेन प्रायश्चित्तगुरुत्वस्योक्तत्वात् । तया प्रोत्साहितस्य तु मानवं तप्तलोह-
शयनज्वलत्सूर्य्यालिङ्गनयोरन्यतरं द्रष्टव्यम् । यत्तु शङ्खेन द्वादशवार्षिकमुक्तम्—
'अधःशायी जटाधारी पर्णमूलफलाशनः । एककालं समश्नीत वर्षे तु द्वादशे
गते ॥ रुक्मस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः । व्रतेनैतेन शुद्ध्यन्ति महा-
१. गुरुत्वस्येष्टत्वात् । २. समश्नन्वै ।

पातकिनस्त्विमे ॥' इति, - तत्समवर्णोत्तमवर्णपितृदारगमने अकामकृते वा
द्रष्टव्यम् । तत्रैव कामतः प्रवृत्तस्य रेतःसेकात्प्राङ्निवृत्तौ षड्वार्षिकम्; अकामतस्तु °
त्रैवार्षिकम् । जनन्यां तु कामतः प्रवृत्तस्य रेतःसेकात्प्राङ्निवृत्तौ द्वादशवार्षिकम् ।
अकामतस्तु षड्वार्षिकमिति कल्प्यम् । यत्तु संवर्तेन - 'पितृदारान्समारुह्य मातृ-
वञ्च नराधमः' इत्यादिना समारोहणमात्रे तप्तकृच्छ्र उक्तः, स हीनवर्णगुरुदारेषु
रेतःसेकादर्वाग्द्रष्टव्यः ॥ २५९ ॥
भाषा-गुरु-पत्नी का भोग करने वाला तप्त होकर लाल बनी हुई लोहे
की शय्या पर जलती हुई लोहे की स्त्रीमूर्ति के साथ सोवे, अथवा लिङ्ग और
अण्डकोष को काटकर हाथ में लेकर नैर्ऋत्य दिशा को चलता-चलता शरीर
त्याग दे (तो शुद्ध होता है) ॥ २५९ ॥
प्रायश्चित्तान्तरमाह-
प्राजापत्यं चरेत्कृच्छ्रं समा वा गुरुतल्पगः ।
चान्द्रायणं वा त्रीन्मासानभ्यसेद्वेदसंहिताम् ॥ २६० ॥
अथवा प्राजापत्यं कृच्छ्रं वक्ष्यमाणलक्षणं समाः वर्षत्रयं चरेत् । एतच्च
ब्राह्मणीपुत्रस्य शूद्रजातीयगुरुभार्यागमने मतिपूर्वे द्रष्टव्यम् । यदा तु गुरुपत्नीं
सवर्णां व्यभिचारिणीमबुद्धिपूर्वं गच्छति तदा वेदजपसहितं चान्द्रायणत्रयं
कुर्यात् । तत्रैव कामतः प्रवृत्तावौशनसं-'गुरुतल्पोभिगामी संवत्सरं ब्रह्महव्रतं
षण्मासान्वा तप्तकृच्छ्रं चरेत्' इति । क्षत्रियागमने तु मतिपूर्वे याज्ञवल्कीयं (प्रा०
२३२)-'मातुः सपत्नीं भगिनीमाचार्यतनयां तथा'. इति गुरुतल्पव्रतातिदेशा-
न्नववार्षिकम् । इदं चातिदेशिकं सवर्णगुरुभार्यागमनविषयं न भवति; तत्र कामतो
मरणान्तिकस्याकामतो द्वादशवार्षिकस्य विहितत्वात् । अतः क्षत्रियादिविषयमेवेति
युक्तम् । तत्रैव कामतोऽभ्यासे मरणान्तिकम्; 'मत्या गत्वा पुनर्भार्या गुरोः
क्षत्रसुतां द्विजः । अण्डाभ्यां रहितं लिङ्गमुत्कृत्य स मृतः शुचिः ॥' इति कण्व-
स्मरणात् । अत्रैव विषये प्रायश्चित्तं यदा न चिकीर्षति तदा 'छित्त्वा लिङ्गं वधस्तस्य
सकामायाः स्त्रियास्तथा' इति याज्ञवल्कीयो वधदण्डः प्रायश्चित्तस्थाने द्रष्टव्यः ।
वैश्यायां तु गुरुभार्यायां कामतो गमने षड्वार्षिकम् । अत एव स्मृत्यन्तरम्-
ब्राह्मणीपुत्रस्य क्षत्रियायां मातरि गमने पादहान्या द्वादशवार्षिकम् । एवमन्यवर्णा-
स्वपि । अयमर्थः-ब्राह्मणीपुत्रस्य क्षत्रियायां मातुः सपत्न्यां गमने पादन्यूनं द्वादश-
वार्षिकं, नववार्षिकमिति यावत् । तस्यैव तथाभूतायां वैश्यायां षड्वार्षिकम् ;
शूद्रायां तु त्रैवार्षिकं प्रायश्चित्तमिति । एवं क्षत्रियापुत्रस्य वैश्यायां मातरि नववार्षि-
कम्; शूद्रायां तु षड्वार्षिकम् । एवमेव वैश्यापुत्रस्यापीति; वैश्यायां तु कामतोऽ-
१. समाम् ।

प्रायश्चित्ताध्यायः ५४३
भ्यासे मरणान्तिकमेव; 'गुरुभार्यां तु यो वेश्यां मत्वा गच्छेत्पुनः पुनः । लिङ्गाग्रं
छेदयित्वा तु ततः शुद्धयेत्स किल्बिषात् ॥' इति लौगाक्षिसमरणात् । शूद्रायां तु
कामतोऽभ्यासे द्वादशवार्षिकम् ; 'पुनः शूद्रां गुरोर्गत्वा बुद्ध्या विप्रः समाहितः ।
ब्रह्मचर्यमदुष्टात्मा संचरेद् द्वादशाब्दिकम् ॥' इत्युपमन्युस्मरणात् । क्षत्रियायां तु
गुरुभार्यायामबुद्धिपूर्वगमने यमोक्तं त्रैवार्षिकमष्टमकालाश्रनं द्रष्टव्यम् । 'कालेऽष्टमे
वा भुञ्जानो ब्रह्मचारी सदा व्रती । स्थानासनाभ्यां विहरन्निरहोऽभ्युपयन्नपः ।
अधःशायी त्रिभिर्वर्षैस्तदपोहेत पातकम् ॥' इति । अत्रैवाभ्यासे जातूकर्ण्योक्तं-
'गुरोः क्षत्रसुतां भार्यां पुनर्गत्वा त्वकामतः । अब्दमात्रं समुत्कृत्य शुद्धयेज्जी-
वन्मृतोऽपि वा ॥' इति । वैश्यायां त्वकामतो गमने 'प्राजापत्यं चरेत्कृच्छ्रम्'
(प्रा० २६०) इत्येतदेव याज्ञवल्कीयम् । तथा च वृद्धमनुः- 'गमने गुरुभा-
र्यायाः पितृभार्यागमे तथा । अब्दद्वयमकामात्तु कृच्छ्रं नित्यं समाचरेत् ॥' इति ।
तत्रैवाभ्यासे हारीतोक्तं मरणान्तिकं ब्रह्मचर्यम् - 'अध्यस्य विप्रो वैश्यायां गुरो-
रज्ञानमोहितः । षडङ्गं ब्रह्मचर्यं च स चरेद्यावदायुषम् ॥' इति । गुरुभार्यायां
शूद्रायां त्वमतिपूर्वे मानवम् ( ११।१०५ ) - 'खट्वाङ्गी चीरवासा वा श्मश्रुलो
विजने वने । प्राजापत्यं चरेत्कृच्छ्रमब्दमेकं समाहितः ॥' इति । अथवा 'गुरुदा-
राभिगामी संवत्सरं कण्टकिनीं शाखां परिष्वज्याधःशायी त्रिषवणी भैक्षाहारः
पूतो भवति' इति सुमन्तूक्तं कुर्यात् । तत्रैवाभ्यासे मानवम् ( ११।१०६ ) -
'चान्द्रायणं वा त्रीन्मासानभ्यसेन्नियतेन्द्रियः' इति । क्षत्रियायां कामतः प्रवृत्तस्य
रेतःसेकादर्वाङ्निवृत्तौ व्याघ्रोक्तम् - 'कृच्छ्रं चैवातिकृच्छ्रं च तथा कृच्छ्राति-
कृच्छ्रकम् । चरेन्मासत्रयं विप्रः क्षत्रियागमने गुरोः ॥' इति । अत्रेयं व्यवस्था-
तया प्रोत्साहितस्य त्रैमासिकं प्राजापत्यचरणम् । उभयेच्छातः प्रवृत्तस्यातिकृच्छ्र-
चरणं तावदेव । स्वेन प्रोत्साहितायां पुनःकृच्छ्रातिकृच्छ्रानुष्ठानं च तावदेवेति ।
तत्रैव कामतः प्रवृत्तस्य रेतःसेकात्पूर्वं कण्वोक्तं द्रष्टव्यम् - 'चान्द्रायणं तप्तकृच्छ्रप्र-
तिकृच्छ्रं तथैव च । सकृद्गत्वा गुरोर्भार्यामज्ञानात्क्षत्रियां द्विजः ॥' इति । तथा
प्रोत्साहितस्यातिकृच्छ्रः, उभयेच्छातः प्रवृत्तस्य तप्तकृच्छ्रः, स्वेन प्रोत्साहितायां
तु चान्द्रायणम् । वैश्यायां कामतः प्रवृत्तस्य रेतःसेकात्पूर्वं निवृत्तौ कण्वोक्तम् -
'तप्तकृच्छ्रं पराकं च तथा सान्तपनं गुरोः । भार्यां वैश्यां सकृद्गत्वा बुद्ध्या मासं
चरेद् द्विजः ॥' इति । अत्रोभयोरिच्छातः प्रवृत्तौ तप्तकृच्छ्रः, स्वेन प्रोत्साहितायां
पराकः, तया प्रोत्साहितस्य सान्तपनम् । अत्रैवाकामतः प्रवृत्तस्य प्रजापतिराह-
'पञ्चरात्रं तु नाश्नीयात्सप्तरात्रौ वा तथैव च । वैश्यां भार्यां गुरोर्गत्वा सकृदज्ञा-
नतो द्विजः ॥' इति । तया प्रोत्साहितस्य तु पञ्चरात्रम् । उभयेच्छातः प्रवृत्तौ
सप्तरात्रम् । स्वेन प्रोत्साहितायामष्टरात्रम् । शूद्रायां तु कामतः प्रवृत्तस्य रेतः
सेकात्पूर्वं निवृत्तौ जाबालिराह - 'अतिकृच्छ्रं तप्तकृच्छ्रं पराकं वा तथैव च । गुरोः

५४४ याज्ञवल्क्यस्मृतिः

शूद्रां सकृद्गत्वा बुद्ध्या विप्रः समाचरेत् ॥' इति । तथा प्रोत्साहितस्यातिकृच्छ्रः,
उभयेच्छातः प्रवृत्तौ तप्तकृच्छ्रः, स्वेन प्रोत्साहितायां पराकः । तत्रैवाकामतः
प्रवृत्तस्य दैर्घतमसम् -'प्राजापत्यं सान्तपनं सप्तरात्रोपवासकम् । गुरोः शूद्रां
सकृद्गत्वा चरेद्विप्रः समाहितः ॥' इति । तया प्रोत्साहितस्य प्राजापत्यम् ।
उभयोरिच्छातः प्रवृत्तौ सान्तपनम् । स्वेन प्रोत्साहितायां सप्तरात्रोपवास इति ।
अनयैव दिशाऽन्येषामपि स्मृतिवचसां विषयव्यवस्थोहनीया । पुरुषवच्च स्त्रीणा-
मप्यत्र महापातक्त्वमविशिष्टम् । तथा हि कात्यायनः- 'एवं दोषश्च शुद्धिश्च
पतितानामुदाहृता । स्त्रीणामपि प्रसक्तानामेष एव विधिः स्मृतः ॥' इति ।
सतस्तस्या अपि कामतः प्रवृत्तौ मरणान्तिकमविशिष्टम् । अत एव पुरुषस्य
मरणान्तिकमुक्त्वा स्त्रिया अपि योगीश्वरेण मरणान्तिकं दर्शितम् ( प्रा०
२३३ )-'छित्त्वा लिङ्गं वधस्तस्य सकामायाः स्त्रियास्तथा' इति । अकामतस्तु
मनुनोक्तम्- ( ११।१८८ ) 'एतदेव व्रतं कार्यं योषित्सु पतितास्वपि' इति ।
द्वादशवार्षिकमे¹वार्थकल्पनया कार्यम् । यानि पुनर्गुरुतल्पसमानि-'सखिभार्या-
कुमारीषु स्वयोनिष्वन्त्यजासु च । सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ॥'
इति प्रतिपादितानि, यानि चातिदेशविषयभूतानि 'पितुः स्वसारं मातुश्च
मातुलानीं स्नुषामपि । मातुः सपत्नीं भगिनीमाचार्यतनयां तथा ॥ आचार्यपत्नीं
स्वसुतां गच्छंस्तु गुरुतल्पगः ॥' इति प्रतिपादितानि,-तेष्वेकरात्रादूर्ध्वमेकाकतो-
ऽभ्यस्तेषु यथाक्रमेण षड्‌वार्षिकं नववार्षिकं च प्रायश्चित्तं विज्ञेयम् । अस्मिन्नेव
विषये कामतोऽत्यन्ताभ्यासे मरणान्तिकम् । तथा च बृहद्यमः-'रेतः सिक्त्वा
कुमारीषु स्वयोनिष्वन्त्यजासु च । सपिण्डापत्यदारेषु प्राणत्यागो विधीयते ॥'
इति । अन्त्यजाश्चात्र-'चण्डालः श्वपचः क्षत्ता सूतो वैदेहिकस्तथा । मागधा-
योगवौ चैव सप्तैतेऽन्त्यावसायिनः ॥' इति मध्यमाङ्गिरोदर्शिता ज्ञातव्याः ।
नतु 'रजकश्चर्मकारश्च' इत्यादिप्रतिपादिताः; तेषु लघुप्रायश्चित्तस्योक्तत्वात् ।
तथा-'चाण्डालास्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । पतत्यज्ञानतो विप्रो
ज्ञानात्साम्यं तु गच्छति ॥' ( ११।१७५ ) इति चाण्डालादिसाम्यं प्रतिपादयता
मनुनाऽपि कामतोऽत्यन्ताभ्यासे मरणान्तिकं दर्शितम् । तथा हि-अज्ञानतश्चण्डा-
लीगमनाभ्यासे पतति, अतः पतितप्रायश्चित्तं द्वादशवार्षिकं कुर्यात् । कामतोऽ-
त्यन्ताभ्यासे चण्डालैः साम्यं गच्छति । अतो द्वादशवार्षिकाधि³कं मरणान्तिकं
कुर्यात् ।-एतच्च बहुकालाभ्यासविषयम् । एकरात्राभ्यासे तु वर्षत्रयम् । तथाह
मनुः ( ११।१७८ ) -'यत्करोत्येकरात्रेण वृषलीसेवनाद् द्विजः । तद्भैक्षभुग्ज-
पन्नित्यं त्रिभिर्वर्षैरपोहति ॥' इति । अत्र 'वृषली'शब्देन चण्डाल्यभिधीयते-
'चण्डाली बन्धकी वेश्या रजःस्था या च कन्यका । ऊढा या च सगोत्रा-

१. मेवात्र कल्पनया । २. दूर्ध्वं कामतो । ३. धिकारान्मरणा ।

प्रायश्चित्ताध्यायः ५४५

स्याद् वृषल्यः पञ्च कीर्तिताः ॥' इति स्मृत्यन्तरे चण्डालायां 'वृषलो'शब्दप्रयोग-
दर्शनात् । बन्धकी स्वैरिणी । कथं पुनरत्राभ्यासावगमः ? उच्यते, -'यत्करोत्ये-
करात्रेण' इत्यत्यन्तसंयोगापवर्गवाचिन्यास्तृतीयाया दर्शनात् । एकरात्रेण चात्य-
न्तसंयोगो गमनस्याभ्यासं विनाऽनुपपन्न इति गमनाभ्यासोऽवगम्यते । अंत
एवैकरात्राङ्गहुकालाभ्यासविषयं प्रागुक्तं द्वादशवर्षादिगुरुतल्पव्रतातिदेशिकं मर-
णान्तिकं च । यदा पुनर्ज्ञानतोऽज्ञानतो वा चेण्डालाद्याः सकृद्गच्छति तदा
'चण्डालपुल्कसानां तु भुक्त्वा गत्वा च योषितम् । कृच्छ्राब्दमाचरेज्ज्ञानादज्ञा-
नादैन्दवद्वयम् ॥' इति यमाद्युक्तं संवत्सरं कृच्छ्रानुष्ठानं चान्द्रायणद्वयं यथाक्रमेण
द्रष्टव्यम् । 'स्वयोनिष्वन्त्यजासु च' इत्येकवाक्यसमभिव्याहाराद्भगिन्यादिष्वपीथ-
मेव व्यवस्था वेदितव्या । मरणान्तिकं चात्राग्निप्रवेशनम् । 'जनन्यां च भगिन्यां
च स्वसुतायां तथैव च । स्नुषायां गमनं चैव विज्ञेयमतिपातकम् ॥ अतिपात-
किनस्त्वेते प्रविशेयुर्हुताशनम् ॥' इति कात्यायनस्मरणात् । जनन्यां सकृद्गमने
भगिन्यादिषु चासकृद्गमने अग्निप्रवेश इति द्रष्टव्यम् ; महापातकस्य जननी-
गमनस्य तदतिदेशविषयभूतातिपातकस्य भगिन्यादिगमनस्य च तुल्यत्वा-
योगात् । यत्तु बृहद्यमेनोक्तम्-'चाण्डालीं पुल्कसीं म्लेच्छीं स्नुषां च भगिनीं
सखीम् । मातापित्रोः स्वसारं च निक्षिप्तां शरणागताम् ॥ मातुलानीं प्रव्रजितां
स्वगोत्रां नृपयोषितम् । शिष्यभार्यां गुरोर्भार्यां गत्वा चान्द्रायणं चरेत् ॥' इति;
यच्चाङ्गिरोवचनम्-'पतितान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । मासोपवासं
कुर्वीत चान्द्रायणमथापि वा ॥' इति,-तदुभयमपि गुरुतल्पातिदेशविषयेषु का-
मतः प्रवृत्तस्य रेतःसेकादर्वाङ्निवृत्तौ द्रष्टव्यम् ; यदपि संवर्तवचनम्-'भगिनीं
मातुराप्तां च स्वसारं चान्यमातृजाम् । एता गत्वा स्त्रियो मोहात्सकृच्छ्रं
समाचरेत् ॥' इति,-तदनन्तरोक्त एव विषये अकामतः प्रवृत्तस्य रेतःसेकाद-
र्वाङ्निवृत्तौ द्रष्टव्यम् । यदा पुनरेता एवात्यन्तव्यभिचारिणीर्गच्छति तदापोदमेव
प्रायश्चित्तयुगलं चान्द्रायणतप्तकृच्छ्रात्मकं क्रमेण कामतोऽकामतश्च प्रवृत्तौ द्रष्टव्यम् ;
साधारणस्त्रीषु तु गुरुणोपभुक्तास्वपि गमने गुरुतल्पत्वदोषो नास्ति । 'जात्युक्तं
पारदार्यं च कन्यादूषणमेव च । साधारणस्त्रियां नास्ति गुरुतल्पत्वमेव च ॥'
इति व्याघ्रस्मरणात् । एवमन्यान्यपि स्मृतिवचनान्युच्चावचप्रायश्चित्तप्रतिपत्ति-
पराण्यन्विष्य विषयव्यवस्थोहनीया, ग्रन्थगौरवभयान्न लिख्यन्ते ॥ २६० ॥

**भाषा—**अथवा गुरुपत्नी का भोग करने वाला तीन वर्ष तक प्राजापत्य
कृच्छ्र व्रत करे अथवा तीन मास तक वेदसंहिता का जप करता हुआ
चान्द्रायण व्रत करे ॥ २६० ॥

इति गुरुतल्पप्रायश्चित्तप्रकरणम् ।


१. चाण्डालाद्याम् ।

२४६ | याज्ञवल्क्यस्मृतिः
एवं ब्रह्महादिमहापातकिप्रायश्चित्तमभिधायावसरप्राप्तं तत्संसर्गिप्रायश्चित्तमाह-
एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः ।
एभिः पूर्वोक्तैर्ब्रह्महादिभिरेकं संवत्सरं योऽत्यन्तं संवसति सहाचरति सोऽपि
तत्समः । यो येन सहाचरति सोऽपि तदीयमेव प्रायश्चित्तं कुर्यादिति तदीयप्रा-
यश्चित्तातिदेशार्थं तत्समग्रहणम्, न पुनः पातकत्वातिदेशार्थम् । तस्य 'यश्च तैः
सह संवसेत्' (प्रा० २२३) इत्युपदेशत एव सिद्धत्वात् । अत्र च सत्यप्यति-
देशत्वे कृत्स्नमेव द्वादशवार्षिकं कार्यम्, साक्षान्महापातकिस्वात्संसर्गिणः । 'अपि'-
शब्दाच्च केवलं महापातकिसंयोगी तत्समः किन्त्वतिपातकोपपातक्यादीनां
मध्ये यो येन सह संसर्गं करोति, सोऽपि तत्सम इति तदीयमेव प्रायश्चित्तं
कुर्यादिति दर्शयति अत एव मनुना सकलं प्रायश्चित्तजातमध्यायान्तेऽभिधाया-
भिहितम् (११।१८१)-'यो येन पतितेनैषां संसर्गं याति मानवः । स तस्यैव
व्रतं कुर्यात्तत्संसर्गविशुद्धये ॥' इति । विष्णुनापि सामान्येनोपपातक्यादेरेनस्वि-
मात्रसंसर्गे तत्प्रायश्चित्तभावत्वं दर्शितम्-'पापात्मना येन सह यः संसृज्येत स
तस्यैव व्रतं कुर्यात्' इति । अत एव मनुना सामान्येनैनस्विमात्रप्रतिषेधः कृतः
(११।१८९)-'एनस्विभिरनिर्णीतैर्नार्थं कंचित्समाचरेत्' इति । तथा-'न
संसर्गं भजेत्सद्भिः प्रायश्चित्ते कृते सति' इति च ।- एतच्च द्वादशवार्षिकादिव्रति-
तप्रायश्चित्तं बुद्धिपूर्वसंसर्गविषयम्; 'पतितेन सहोषित्वा जानन्संवत्सरं नरः ।
मिश्रितस्तेन सोऽब्दान्ते स्वयं च पतितो भवेत् ॥' इति देवलस्मरणात् ।
अज्ञानतः संसर्गे पुनर्वसिष्ठोक्तम् (१९।४५,४६)-'पतितसंप्रयोगे तु ब्राह्मेण
यौनेन वा शौवेन वा यास्तेभ्यः सकाशान्मात्रा उपलभ्येरंस्तासां परित्यागस्तैश्च
न संवसेदुदीचीं दिशं गत्वाऽनश्नन्संहिताध्ययनमधीयानः पूतो भवतीति विज्ञायते'
इति । तथा-'ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः । एते महापातकिनो यश्च
तैः सह संवसेत् ॥' इति, तैरिति तृतीया सर्वनामपरामृष्टप्रकृतब्रह्महादिचतुष्ट-
यसंसर्गिण एव महापातकित्ववचनात्तत्संसर्गिणो न महापातकित्वम् । ननु
महापातकिसंसर्ग एव महापातकित्वे हेतुर्न ब्रह्महादिविशेषसंसर्गः, तस्य व्यभि-
चारात् । अतोऽत्र ब्रह्महादिसंसर्गिसंसर्गिणोऽपि महापातकिसंसर्गो विद्यत इति
तस्यापि महापातकित्वं स्याच्च न प्रतिषेधः । उच्यते,-स्यादेवं यदि प्रमाणा-
न्तरगम्यं महापातकित्वं स्यात् । शब्दैकसमधिगम्ये तु तैस्मिन्नैव भवितुमर्हतीति ।
तैरिति प्रकृतविशेषपरामर्शिना सर्वनाम्ना ब्रह्महादिविशेषसंसर्गस्यैव महापातकि-
त्वहेतुत्वस्यावगमितत्वात् । एवं च सति प्रतिषेधाभावोऽप्यहेतुः प्राप्यभावादेव ।

१. पातकिस्वा । २. अतिदेशकत्वे । ३. इति सर्वं निरवद्यम् ।
४. तैरिति सर्वनाम । ५. तस्मिन्नेव ।

भतः संसर्गिसंसर्गिणां द्विजातिकर्मभ्यो हानिर्न भवति, प्रायश्चित्तं तु भवत्येव ।
न च संसर्गिसंसर्गिणः पातित्याभावे कथं प्रायश्चित्तमिति वाच्यम् ; 'एनस्विभि-
रनिर्णिक्तैर्नार्थं कंचित्समाचरेत्' ( ११।१८९ ) इति सामान्येनैनस्विमात्रप्रतिषेधेन
महापातकिसंसर्गिसंसर्गस्यापि प्रतिषिद्धत्वात्पातित्याभावेऽपियुक्तमेव प्रायश्चित्तम् ।
तच्च पादहीनम् ; 'यो येन संवसेद्वर्षं सोऽपि तत्समतामियात् । पादहीनं
चरेत्सोऽपि तस्य तस्य व्रतं द्विजः ॥' इति व्यासोक्तं द्रष्टव्यम् । एवं चतुर्थपञ्च-
मयोरपि कामतः संसर्गिणोरर्धहीनं त्रिपाद्योनं च द्रष्टव्यम् । अतः साक्षाद् ब्रह्महा-
दिसंसर्गीण एव तदीयप्रायश्चित्ताधिकारो न संसर्गिसंसर्गिण इति सिद्धम् । अत्र
च ब्रह्महादिषु यद्यपि कामतो मरणान्तिकमुपदिष्टं तथापि संसर्गिणस्तन्नाति-
दिश्यते । 'स तस्यैव व्रतं कुर्यात्' इति व्रतस्यैवातिदेशात् , मरणस्य च 'व्रत'
शब्दवाच्यत्वाभावात् । अतोऽत्र कामकृतेपि संसर्गे द्वादशवार्षिकमकामतस्तु
तदर्थम् । संसर्गश्च स्वनिबन्धनकर्मभेदादनेकधा भिद्यते । यथाह वृद्धबृहस्पतिः-
'एकशय्यासनं पङ्क्तिर्भाण्डं पङ्क्त्यन्नमिश्रणम् । याजनाध्यापने योनिरतथा च
सहभोजनम् ॥ नवधा संकरः प्रोक्तो न कर्तव्योऽधमैः सह ॥' इति । देवलोऽपि-
'संलापस्पर्शनिःश्वाससहयानासनाशनात् । याजनाध्यापनाद्यौनात्पापं संक्रमते
नृणाम्॥' इति । एकशय्यासनमेकखट्वावासनमेकपङ्क्तिभोजनमेकभाण्डपचनमन्नेन
मिश्रणं संसर्गस्तदीयान्नभोजनमिति यावत् । याजनं पतितस्य स्वस्य वा तेन,
अध्यापनं तस्य स्वस्य वा तेन, यौनं तस्मै कन्यादानं तत्सकाशाद्वा कन्यायाः
प्रतिग्रहः, सहभोजनमेकामन्नभोजनम् , संलापः संभाषणम् , स्पर्शो गात्रसंमर्दः,
निःश्वासः पतितमुखवायुसंपर्कः, सहयानमेकतुरगाद्यारोहणम् , एतेषां मध्ये केन
कर्मणा कियता कालेन पातित्यमित्यपेक्षायां बृहद्विष्णुनोक्तम्- 'संवत्सरेण
पतति पतितेन सहाचरन्नेकयानभोजनासनशयने, यौनस्रौवमुख्यैस्तु संबन्धैः
सद्य एव' इति । अत्रैकभोजनमेकपङ्क्तिभोजनम् । एकासन्नभोजने तु
सद्यःपातित्यम् ; 'याजनं योनिसंबन्धं स्वाध्यायं सहभोजनम् । कृत्वा
सद्यः पतत्येव पतितेन न संशयः ॥' इति देवलस्मरणात् । 'स्रौव'शब्देन याजन-
मभिधीयते । 'मुख्य'शब्देन मुखभवत्वेनाध्यापनम् । यौनस्रौवमुख्यैरिति सत्यपि
द्वन्द्वनिर्देशे प्रत्येकमेव तेषां सद्यःपतनहेतुत्वम् ; 'यः पतितैः सह यौनमुख्य-
स्रौवानां संबन्धानामन्यतमं संबन्धं कुर्यात्तस्याप्येतदेव प्रायश्चित्तम्' इति
सुमन्तुस्मरणात् । एकयानादिचतुष्टयस्य तु समुदितस्यैव पतनहेतुत्वम् ; 'एकया-
नभोजनासनशयनैः' इति इतरेतरयुक्तानां निर्देशात् । प्रत्येकानुष्ठानस्य तु पतन-
हेतुत्वाभावेऽपि दोषहेतुत्वमस्त्येव; 'आसनाच्छयनाद्यानात्संभाषात्सहभोजनात् ।
संक्रामन्ति हि पापानि तैलबिन्दुरिवाम्भसि ॥' इति पराशरवचनेन निरपेक्षा-
णामपि पापहेतुत्वावगमात् । संलापस्पर्शनिःश्वासानां तु यानादिचतुष्टयेनानुषङ्गि-
३५ या०

५४८ याज्ञवल्क्यस्मृतीः

कतया समुच्चितानामेव पतनहेतुत्वं न पृथग्भूतानामल्पत्वात्, पापहेतुत्वं
पुनरस्त्येव; 'संलापस्पर्शनिश्वास' इति देवलवचनस्य दर्शितत्वात् । अतः संलापा-
दिरहिते सहयानादिचतुष्टये कृते पञ्चमभागेन द्वादशवार्षिकं प्रायश्चित्तं कुर्यात् ।
तत्सहिते तु पूर्णम् । एवं च सति एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः' इति
योगीश्वरवचनमपि सहयानादिचतुष्टयपरमेव युक्तम् । यतः संलापादीनां पृथक्पा-
नित्यहेतुत्वं नास्ति । अत एव मनुना (११।१८०) — 'संवत्सरेण पतति पतितेन
सहाचरन् । याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥' इति यानादिचतुष्ट-
यस्यैव संवत्सरेण १पातित्यहेतुत्वमुक्तम् । अत्र 'आसन' ग्रहणं शयनस्याप्युपलक्षणम् ।
अत्र च 'संवत्सरेण पतति पतितेन सहाचरन् ।' 'यानाशनाशनात्' इति व्यवहि-
तेन संबन्धः; प्राग्दर्शितविष्णुवचनानुरोधात्, तथा—'संवत्सरेण पतति
पतितेन सहाचरन् । भोजनासनशय्यादि कुर्वाणः सार्वकालिकम् ॥' इति देवल-
वचनाच्च । न चान्वयदोषः; यानासनाशनादिहेतोराचरन्नाचारं कुर्वन्निति भेद-
विवक्षया संबन्धोपपत्तेः । यथा एतया पुनराधेयसंमितयेष्ट्येष्ट्वेति । यद्वा 'आचरन्'
इति शत्रा हेत्वर्थस्य गमितत्वात् । यानाशनाशनादिति द्वितीयार्थे पञ्चमी ।
याजनाध्यापनाद्यौना (त्सहभोजना) न्न तु संवत्सरेण पतति, किंतु सद्य एव प्राचीन-
वचननिचयानुरोधादेव । अतो यौनादिचतुष्टयेन सद्यः पतति यानादिचतुष्टयेन
तु संवत्सरं निरन्तराभ्यासेनेति युक्तं 'वत्सरं सोऽपि तत्समः' इति अत्यन्तसंयोग-
वाचिन्या द्वितीयया दर्शनादन्तरितदिवसगणना कार्या । यथा षष्ट्यधिकशत-
त्रयदिवसव्यापित्वं संसर्गस्य भवति, ततो न्यूने तु न पतितप्रायश्चित्तं, किंत्वन्य-
देव । तथाह पराशरः—'संसर्गमाचरन्विप्रः पतितादिष्वकामतः । पञ्चाहं वा
दशाहं वा द्वादशाहमथापि वा ॥ मासार्धं मासमेकं वा मासत्रयमथापि वा ।
अब्दार्धमेकमब्दं वा भवेदूर्ध्वं तु तत्समः ॥ त्रिरात्रं प्रथमे पक्षे द्वितीये कृच्छ्रमा-
चरन् । चरेत्सान्तपनं कृच्छ्रं तृतीये पक्ष एव तु । चतुर्थे दशरात्रं स्यात्पराकः
पञ्चमे ततः । षष्ठे चान्द्रायणं कुर्यात्सप्तमे त्वैन्दवद्वयम् ॥ अष्टमे च तथा पक्षे
षण्मासान्कृच्छ्रमाचरेत् ॥' इति । कामतः संसर्गे पुनर्विशेषः स्मृत्यन्तरेऽभिहितः—
सुमन्तुः—'पञ्चाहे तु चरेत्कृच्छ्रं दशाहे तप्तकृच्छ्रकम् । पराकस्त्वर्धमासे स्यान्मासे
चान्द्रायणं चरेत् ॥' इति । 'मासत्रये प्रकुर्वीत कृच्छ्रं चान्द्रायणोत्तरम् । षाण्मा-
सिके तु संसर्गे कृच्छ्रं त्वब्दार्धमाचरेत् ॥ संसर्गे त्वाब्दिक्ये कुर्यादब्दं चान्द्रायणं
नरः ॥' इति । अत्र चाब्दिक्ये संसर्गे इति किंचिन्न्यून इति द्रष्टव्यम्; पूर्णे तु
वत्सरे मन्वादिभिर्द्वादशवार्षिकस्मरणात् । यत्तु बार्हस्पत्यं वचनम्—'षाण्मासिके
तु संसर्गे याजनाध्यापनादिना । एकत्रासनशय्याभिः प्रायश्चित्तार्धमाचरेत् ॥' इति,


१. व्यस्तेनेति । २. मर्थंकृत्वा ।

प्रायश्चित्ताध्यायः ५४६
याजनाध्यापनयोनैकपात्रभोजनानां षण्मासात्पातित्यवचनमेतदकामतोऽत्यन्तापदि
पञ्चमहायज्ञादिप्राये याजनेऽङ्गाध्यापने दुहितृभगिनीव्यतिरिक्ते च योनिसंबन्धे
द्रष्टव्यम्; प्रकृष्टयाजनादिभिः सद्यःपातित्यस्योक्तत्वात् । एतद्दिगवलम्बनेनैव दुहि-
तृभगिनीस्नुषागाम्यतिपातकिसंसर्गिणां कामतो नववार्षिकं, अकामतः सार्धचतुर्वा-
र्षिकं कल्पनीयम् । सखिपतृव्यदारादिगामिपातकिसंसर्गिणां कामतः षड्वार्षिकम्,
अकामतस्त्रैवार्षिकम् । अथोपपातक्यादिसंसर्गीणामपि कामतस्तदीयमेव त्रैमासि-
कम्, अकामतोऽर्धमित्यूहनीयम् । पुरुषवत्स्त्रीणामपि महापातक्यादिसंसर्गात्पा-
तित्यमविशिष्टम् । यथाह शौनकः—'पुरुषस्य यानि पतननिमित्तानि स्त्रीणामपि
तान्येव ।' ब्राह्मणी हीनवर्णसेवायामधिकं पततीति; अतस्तासामपि महापात-
किप्रभृतीनां मध्ये येन सह संसर्गस्तदीयमेव प्रायश्चित्तमर्धं क्लृप्त्यौ योजनीयम् ।
एवं बालवृद्धातुराणामपि कामतोऽर्धम्, अकामतः पादः । तथानुपनीतस्यापि
बालस्य कामतः पादोऽकामतस्तदर्धमित्येषा दिक् ॥
पतितसंसर्गप्रतिषेधेन प्रतिषिद्धस्य यौनसंबन्धस्य क्वचित्प्रतिप्रसवमाह—
कन्यां समुद्वहेदेषां सोपवासामकिंचनाम् ॥ २६१ ॥
एषां पतितानां कन्यां पतितावस्थायामुत्पन्नां सोपवासां कृततत्संसर्गकालो-
चितप्रायश्चित्तामकिंचनामगृहीतवस्त्राद्यलंकारादिपितृधनामुद्वहेत् । 'कन्यां समुद्व-
हेत्'इति वदन्स्वयमेव कन्यां त्यक्तपतितसंसर्गां समुद्वहेन्न पुनः पतितहस्तात्प्रति-
गृह्णीयादिति दर्शयति । एवं च सति पतितयोनिसंसर्गप्रतिषेधविरोधोऽपि परिहृतो
भवति । अयं चार्थो बृहद्धारीतेन स्पष्टीकृत;—'पतितस्य तु कुमारीं विवक्षाम-
होरात्रोषितां प्रातः शुक्लेनाहतेन वाससाच्छादितां नाहमेतेषां न ममैते इति
त्रिरुच्चैरभिदधानां तीर्थे स्वगृहे वोद्वहेत्' इति । तथा 'एषां कन्यां समुद्वहेद्'
इति वचनात्स्त्रीव्यतिरिक्ततदीयापत्यस्य संसर्गानर्हतां दर्शयति । अत एव वसिष्ठः
—'पतितेनोत्पन्नः पतितो भवति अन्यत्र स्त्रियाः, सा हि परगामिनी तामरि-
क्थामुपेयात्' इति ॥ २६१ ॥
भाषा—इन महापातकियों के साथ जो एक वर्ष तक निवास करता है
वह भी इनके समान महापातकी हो जाता है । इन पातकियों की कन्या से
उन्हें उपवास करा के पिता का ( वस्त्रादि ) कुछ भी न लेते हुए विवाह
किया जा सकता है ॥ २६१ ॥
इति संसर्गप्रायश्चित्तप्रकरणम् ।
निषिद्धसंसर्ग प्रायश्चित्तप्रसङ्गान्नषिद्धसंसर्गोत्पन्नप्रतिलोमवधे प्रायश्चित्तमाह—
चान्द्रायणं चरेत्सर्वानवकृष्टांन्निहत्य तु ।
अवकृष्टाः सूतमागधादयः प्रतिलोमोत्पन्नास्तेषां प्रत्येकं हनने चान्द्राय-
णम् । तथा च शङ्खः—'सर्वेषामवकृष्टानां वधे प्रत्येकं चान्द्रायणम्' इति । यद्वा-

५५० याज्ञवल्क्यस्मृतिः
ङ्गिरसोक्तम्—'सर्वान्त्यजानां गमने भोजने संप्रमापणे । पराकेण विशुद्धिः
स्यादित्याङ्गिरसभाषितम् ॥' इति पराकं कुर्यात् । तत्र कामतः सूतादिवधे
चान्द्रायणम् , अकामतस्तु सूतवधे पराकः, वैदेहकवधे पादोनम् , चण्डालवधे
द्विपादः, मागधवधे पादोनः पराकः, क्षत्तरि द्विपादः, आयोगवे च पादद्वयम्,
अनयैव दिशा चान्द्रायणस्यापि तारतम्यं कल्प्यम् । यत्तु ब्रह्मगर्भद्वचनम्—
'प्रतिलोमप्रसूतानां स्त्रीणां मासावधिः स्मृतः । अन्तरप्रभवानां च सूतादीनां
चतुर्द्विषट् ॥' इति,–तदावृत्तिविषयम् । तत्र सूतवधे षण्मासाः, वैदेहकवधे
चत्वारः, चण्डालवधे द्वाविति योग्यतयान्वयः । तथा मागधवधे चत्वारः, क्षत्तरि
द्वैमासिकं, आयोगवे च द्वैमासिकमिति व्यवस्था ।
नैमित्तिकव्रतानां जपादिसामग्र्यत्वाद्दिद्याविरहिणां च शूद्रादीनां तदनुपपत्ते-
राज्यावेक्षणादिसाध्येऽग्विबान्धानामनधिकारमाशङ्कयाह—
शूद्रोऽधिकारहीनोऽपि कालेनानेन शुद्ध्यति ॥ २६२ ॥
यद्यपि शूद्रो जपाद्यधिकारहीनस्तथाप्यनेन द्वादशवार्षिकादिकालसंपाद्येन
व्रतेन शुद्ध्यति । 'शूद्र'ग्रहणं स्त्रीणां प्रतिलोमजानां चोपलक्षणम् । यद्यपि
तस्य गायत्र्यादिजपासंभवस्तथापि नमस्कारमन्त्रजपो भवति । अत एव
स्मृत्यन्तरेऽभिहितम्—'उच्छिष्टं चास्य भोजनमनुज्ञातोऽस्य नमस्कारो मन्त्रः'
इति । यद्वा वचनबलाज्जपादिरहितमेव व्रतं कुर्यात्—'तस्माच्छूद्रं समासाद्य
सदा धर्मपथे स्थितम् । प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम् ॥' इत्याङ्गिरः-
स्मरणात् । तथाऽपरमपि तेनैवोक्तम्—'शूद्रः कालेन शुद्धयेत गोब्राह्मणहिते
रतः । दानैर्वाऽप्युपवासैर्वा द्विजशुश्रूषया तथा ॥' इति । यत्तु मानवम्
( ४।८०)—'न चास्योपदिशेद्धर्मं न चास्य व्रतमाचरेत्' इति शूद्रस्य व्रतोपदे-
शनिषेधपरं वचनं,–तददुपसन्नशूद्राभिप्रायम् । यदपि स्मृत्यन्तरवचनम्—
'कृच्छ्राण्येतानि कार्याणि सदा वर्णत्रयेण तु । कृच्छ्रेष्वेतेषु शूद्रस्य नाधिकारो
विधीयते ॥' इति,–तत्काम्यकृच्छ्राभिप्रायम् । अतः स्त्रीशूद्रयोः प्रतिलोमजानां
च त्रैवर्णिकवद् व्रताधिकार इति सिद्धम् । यत्तु गौतमवचनम् (४।२५)—'प्रति-
लोमा धर्महीनाः' इति,–तदुपयननादिविशिष्टधर्माभिप्रायम् ॥ २६२ ॥
भाषा—सभी अवकृष्टों (सूत, मागध आदि उच्चवर्ण की स्त्री से निम्न-
वर्ण के पुरुष द्वारा उत्पन्न) में किसी की हत्या करने पर चान्द्रायण व्रत करे ।
यद्यपि शूद्र को जप आदि करने का अधिकार नहीं होता तथापि वह निर्धारित
समय तक व्रत करने पर पाप से शुद्ध हो जाता है ॥ २६२ ॥
इति महापातकप्रायश्चित्तप्रकरणम् ।

प्रायश्चित्ताध्यायः ५५१.
महापातकादिपञ्चकमध्ये महापातकातिपातानुपपातकप्रायश्चित्तान्युक्त्वा-
ऽधुनोपपातकप्रायश्चित्तानि व्याचक्षाणः पाठक्रमप्राप्तं गोवधप्रायश्चित्तं तावदाह—
पञ्चगव्यं पिबेद्गोघ्नो मासमासीत संयतः ।
गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुद्ध्यति ॥ २६३ ॥
कृच्छ्रं चैवातिकृच्छ्रं च चरेद्वापि समाहितः ।
दद्यात्त्रिरात्रं २चोपोष्या वृषभैकादशास्तु गाः ॥ २६४ ॥
गां हन्तीति गोघ्नः, मूलविभुजादित्वात्कप्रत्ययः । असौ मासं समाहित
आसीत । किं कुर्वन् ? पञ्च च तानि गव्यानि गोमूत्रगोमयक्षीरदधिघृतानि यथा-
विधि मिश्रितानि पिबन्, आहारान्तरपरित्यागेन भोजनकार्ये तस्य विधानात् ।
तथा गोष्ठेशयः । प्राप्तशयनानुवादेन गोष्ठविधानाद्दिवा च स्वापप्रतिषेधाद्रात्रौ
गोशालायां शयानः । गा अनुगच्छति तदस्य व्रतमिति गोऽनुगामी । व्रते-
ऽणिनिः । अतश्च यासां गोष्ठे शेते सन्निधानात्त एव गाः प्रातर्वनं प्रतिचरन्तीरनु-
गच्छेत् । अनुगच्छेदिति वचनाद्यदा ता गच्छन्ति तदैव स्वयमनुगच्छेत् । यदा
तु तिष्ठन्त्यासते वा तदा पश्चाद्गमनस्याशक्यकरणत्वात्स्वयमपि तिष्ठेदासीत वेति
गम्यते । अनुगमनविधानादेव ताभिः सायं गोष्ठं व्रजन्तीभिः सह गोष्ठप्रवेशोऽ-
प्यर्थसिद्धः । एवं कुर्वन्मासान्ते गोप्रदानेन एकां गां दत्त्वा तावता शास्त्रार्थस्य
संपत्तेर्गोहत्यायाः शुद्ध्यतीत्येकं व्रतम् । मासं गोष्ठेशयो गोऽनुगामीति चानुव-
र्तते । पञ्चगव्याहारस्य तु निवृत्तिः कृच्छ्रविधानादेव । अतश्च मासं निरन्तरं कृच्छ्रं
समाहितश्चरेदित्यपरम् । अत एव जाबालेन मासं प्राजापत्यस्य पृथक् प्रायश्चित्त-
त्वमुक्तम्—'प्राजापत्यं चरेन्मासं गोहन्ता चेदकामतः । गोहितो गोऽनुगामी
स्याद्गोप्रदानेन शुद्ध्यति ॥' (प्रा० २६०) इति । अतिकृच्छ्रं वा तथैव समाच-
रेदित्यन्यत् । कृच्छ्रातिकृच्छ्रयोर्लक्षणमुत्तरत्र वक्ष्यते । अथवा त्रिरात्रमुपवासं
कृत्वा वृषभ एकादशो यासां गवां ता दद्यादिति व्रतचतुष्टयम् । तत्राकामकृते
जातिमात्रब्राह्मणस्वामिकगोमात्रवधे उपवासं कृत्वा वृषभैकादशगोदानसहितत्रि-
रात्रोपवासो द्रष्टव्यः । विशिष्टस्वामिकाया विशिष्टगुणवत्याश्च वधे गुरुप्रायश्चि-
त्तस्य वक्ष्यमाणत्वात् । क्षत्रियसंबन्धिन्यास्तु तादृग्विधे व्यापादने मासं पञ्चगव्या-
शित्वं प्रथमं प्रायश्चित्तम् । अत्र मासपञ्चगव्याशनस्यातिस्वल्पत्वात्तन्मासोपवासतु-
ल्यत्वम् । ततश्च षड्भिः षड्भिरुपवासैरेकैकप्राजापत्यकल्पनया पञ्चकृच्छ्राणां प्रत्या-
म्नायेन पञ्च धेनवो मासान्ते च दीयमाना गौरेकेति षट् धेनवो भवन्तीति वृष-
भैकादशगोदानसहितत्रिरात्रव्रताल्लघीयस्त्वम् । कथं पुनर्ब्राह्मणगवीनां गुरुत्वम् ?
'देवब्राह्मणराज्ञां तु विज्ञेयं द्रव्यमुत्तमम्' इति नारदेन तद्द्रव्यस्योत्तमत्वाभिधा-
१. प्राजापत्यं वाऽतिकृच्छ्रम् । २. वोपोष्य ।

५५२ याज्ञवल्क्यस्मृतिः

नात्, गोषु ब्राह्मणसंस्थास्विति दण्डभूयस्त्वदर्शनाच्च । वैश्यसंबन्धिन्यास्तु तादृ-
ग्विधे व्यापादने मासमतिकृच्छ्रं कुर्यात् । अतिकृच्छ्रे त्वाद्ये त्रिरात्रत्रये पाणिपूरान्न-
भोजनमुक्तम् । अन्त्ये त्रिरात्रेऽनशनम् । अतोऽतिकृच्छ्रधर्मेण मासव्रते क्रियमाणे
षड्रात्रमुपवासो भवति । चतुर्विंशत्यहे च पाणिपूरान्नभोजनम् । ततश्च कृच्छ्रप्रत्या-
म्नायकल्पनया किंचिन्न्यूनं धेनुपञ्चकं भवतीति पूर्वस्माद् व्रतद्वयाल्लघिष्ठत्वेन वैश्य-
स्वामिकगोवधविषयता युक्ता । तादृश एव विषये शूद्रस्वामिकगोहत्यायां मासं
प्राजापत्यव्रतं द्वितीयम् । तत्र च सार्धप्राजापत्यद्वयात्मकेन प्रत्याम्नायेन किंचिद-
धिकं धेनुद्वयं भवतीति पूर्वेभ्यो लघुतमत्वाच्छूद्रविषयतोचिता । अथ चैतत्प्राय-
श्चित्तचतुष्टयं साक्षात्कर्तृनुग्राहकप्रयोजकानुमन्तृषु गुरुलघुभावतारतम्यापेक्षया
पूर्वोक्त एव विषये योजनीयम् । यत्तु वैष्णवं व्रतत्रयम् - 'गोघ्नस्य पञ्चगव्येन
मासमेकं पलत्रयम् । प्रत्यहं स्यात्पराको वा चान्द्रायणमथापि वा ॥' इति, यच्च
काश्यपीयम् - 'गां हत्वा तच्चर्मणा प्रावृतो मासं गोष्ठेशयस्त्रिषवणस्नायी नित्यं
पञ्चगव्याहारः' इति, यच्च शातातपीयम् - 'मासं पञ्चगव्याहारः' इति, तत्प-
ञ्चकमपि याज्ञवल्कीयपञ्चगव्याहारसमानविषयम् । यच्च शङ्खप्रचेतोभ्यामु-
क्तम् - 'गोघ्नः पञ्चगव्याहारः पञ्चविंशतिरात्रमुपवसेत्सशिखं वपनं कृत्वा गोच-
र्मणा प्रावृतो गाश्चानुगच्छन् गोष्ठेशयो गां च दद्यात्' इति । एतच्च याज्ञ-
वल्कीयमासातिकृच्छ्रव्रतसमानविषयम् । 'दद्यात्त्रिरात्रं चोपोष्य' इत्येतद्विषयं
वाऽत्यन्तगुणिनो हन्तुर्वेदितव्यम् । अत्रैव विषये पञ्चगव्याशक्तस्य तु द्वितीयं
काश्यपीयं 'मासं पञ्चगव्येने'ति प्रतिपाद्य 'षष्ठे काले पयोभक्षो वा गच्छन्तीष्व-
नुगच्छेत्तासु सुखोपविष्टासु चोपविशेन्नातिप्लवं गच्छेन्नातिविषमेणावतारयेन्ना-
ल्पोदके पाययेदन्ते ब्राह्मणान्भोजयित्वा तिलधेनुं दद्यात्' इति द्रष्टव्यम् । अन्ना-
प्यशक्तस्य 'गोघ्नो मासं यवागूं प्रसृतितन्दुलशृतां भुञ्जानो गोभ्यः प्रियं कुर्वन्
शुद्ध्यति' इति पैठीनसिनोक्तं वेदितव्यम् । यत्तु सौमन्तम् - 'गोघ्नस्य गोप्रदानं
गोष्ठे शयनं द्वादशरात्रं पञ्चगव्याशनं गवानुगमनं च' इति ; यच्च संवर्तेनो-
क्तम् - 'सक्तुयावकभैक्षाशी पयो दधि घृतं सकृत् । एतानि क्रमशोऽश्नीया-
न्मासार्धं सुसमाहितः ॥ ब्राह्मणान्भोजयित्वा तु गां दद्यादात्मशुद्धये ॥'
इति; यच्च बार्हस्पत्यम् - 'द्वादशरात्रं पञ्चगव्याहारः' इति तत्तितयमपि
याज्ञवल्कीयमासप्राजापत्येन समानविषयं, मृतकल्पगोहत्याविषयं वा, विषमप्र-
देशात्रासेन जनितव्याधितो मरणविषयं वा वेदितव्यम् । तदिदं सर्वं प्रागुक्तमका-
मविषयम् । यदा पुनरीदृग्विधामविशिष्टविप्रस्वामिकामविशिष्टां गां कामतः
प्रमापयति तदा मनुना मासं यवागूपानं, मासद्वयं हविष्येण चतुर्थकालभोजनं,


१. प्रदेशाज्ञानजनित ।

प्रायश्चित्ताध्यायः ५५३
मासत्रयं वृषभैकादशगोदानयुक्तं शाकादिना वर्तनमिति व्रतत्रितयमाम्नातम् ।
यथाह ( ११।१०८-११६ )—'उपपातकसंयुक्तो गोघ्नो मासं यवान्पिबेत् । कृत-
वापो वसेद्गोष्ठे चर्मणार्द्रेण¹ संवृतः। चतुर्थकालमश्नीयादक्षारलवणं मितम् ।
गोमूत्रेण चरेत्स्नानं द्वौ मासौ नियतेन्द्रियः ॥ दिवानुगच्छेत्ता गास्तु तिष्ठन्नूर्ध्वं
रजः पिबेत् । शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् ॥ तिष्ठन्तीष्वनुतिष्ठेत्तु
व्रजन्तीष्वप्यनुव्रजेत् । आसीनासु तथासीनो नियतो वीतमत्सरः ॥ आतुरामे²-
भिशस्तां वा चौरव्याघ्रादिभिर्भयैः । पतितां पङ्कलग्नां वा सर्वोपायैर्विमोचयेत्³ ॥
उष्णे वर्षति शीते वा मारुते वाति वा भृशम् । न कुर्वीतात्मनस्त्राणं गोरकृत्वा
तु शक्तितः ॥ आत्मनो यदि वाऽन्येषां गृहे क्षेत्रेऽथवा खले । भक्षयन्तीं न कथ-
येत्पिबन्तं चैव वत्सकम् ॥ अनेन विधिना यस्तु गोघ्नो गा अनुगच्छति । स
गोहत्याकृतं पापं त्रिभिर्मासैर्व्यपोहति ॥ वृषभैकादशा गाश्च दद्यात्सुचरितव्रतः ।
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥' ( ११।१०८-११६ ) इति, एत-
त्त्रितयं याज्ञवल्कीयमासप्राजापत्यमासपञ्चगव्याशनवृषभैकादशगोदानयुक्तत्रिरा-
त्रोपवासरूपव्रतत्रितयविषयं यथाक्रमेण द्रष्टव्यम् । यच्चाङ्गिरसा मानवेतिकर्तव्य-
तायुक्तं त्रैमासिकमभिधायाधिकमभिहितम्—'अक्षारलवणं रूक्षं षष्ठे कालेऽस्य
भोजनम् । गोमतीं वा जपेद्विद्यामोङ्कारं वेदमेव च ॥ व्रतवद्धारयेद्दण्डं समन्त्रां
चैव मेखलाम् ॥' इति, तन्मानवविषयम् । एवं पुष्टितारुण्यादिकिंचिद्गुणातिश-
ययोगिन्यां द्रष्टव्यम् । 'अतिबालामतिकृशामतिवृद्धां च रोगिणीम् । हत्वा पूर्व-
विधानेन चरेदधं व्रतं द्विजः ॥' इति पुष्टितारुण्यादिरहितायां गव्यर्धप्रायश्चित्त-
दर्शनात् । यदा तु याज्ञवल्कीयमासातिकृच्छ्रव्रतनिमित्तभूतां गामविशिष्टस्वा-
मिकां जातिमात्रयोगिनीं कामतो व्यापादयति तदा 'विहितं यदकामानां कामात्तद्
द्विगुणं चरेत्'इति न्यायेन पूर्वोक्तमेवाकामविहितं मासातिकृच्छ्रव्रतं द्विगुणं कुर्यात् ।
यत्तु हारीतेन—'गोघ्नस्तच्चर्माध्वर्वालं परिधाय' इत्यादिना मानवीमितिकर्तव्यता-
मभिधायोक्तम्—'वृषभैकादशाश्च गा दत्त्वा त्रयोदशे मासे पूतो भवति' इति
तत्सवनस्थश्रोत्रियगोवधे अकामकृते द्रष्टव्यम् । यत्तु वसिष्ठेन—'गां चेद्धन्या-
त्सस्याश्चर्मणार्द्रेण परिवेष्टितः षण्मासान् कृच्छ्रातिकृच्छ्रान्वातिष्ठेद्दृषभवेहतौ दद्यात्'
इति षाण्मासिकं कृच्छ्रातिकृच्छ्रानुष्ठानमुक्तम् , यदपि देवलेन—'गोघ्नः षण्मासां-
स्तच्चर्मपरिवृतो गोप्रासाहारो गोव्रजनिवासी गोभिरेव सह चरन् प्रमुच्यते'
इति,-तद् द्वयमपि हारीतीयेन समानविषयम् । तत्रैव कामकारकृते कात्याय-
नीयं त्रैवार्षिकम्—'गोघ्नस्तच्चर्मसंवीतो वसेद्गोष्ठेऽथवा पुनः । गाश्चानुगच्छेत्स-
ततं मौनी चीरासनादिभिः ॥ वर्षशीतातपक्लेशवह्निपङ्कभयार्दितः मोचयेत्-
१. तेन । २. अभि । ३. सर्वप्राणैर्विमोचयेत् ।

An exact transcription of the page in Devanagari script:

र्वयत्नेन पूयते वत्सरैस्त्रिभिः ॥' इति द्रष्टव्यम् । यच्च शाङ्खं त्रैवार्षिकम्—'पादं तु
शूद्रहत्यायामुदक्यागमने तथा । गोवधे च तथा कुर्यात्परस्त्रीगमने तथा ॥'
इति,—तदपि कात्यायनीयव्रतसमानविषयम् । यत्तु यमेनाङ्गिरसीमितिकर्तव्य-
तामभिधाय 'गोसहस्रं शतं वापि दद्यात्सुचरितव्रतः । अविद्यमाने सर्वस्वं वेद-
विद्भ्यो निवेदयेत् ॥' इति गोसहस्रयुक्तं गोशतयुक्तं च द्वैमासिकं व्रतद्वयमभि-
हितम् , तत्र यदा सवनस्थश्रोत्रियादिदुर्गतबहुकुटुम्बिव्राह्मणसंबन्धिनीं कपिलां
कर्माङ्गभूतां गर्भिणीं बहुक्षीरतरुणिमादिगुणशालिनीं निर्गुणो धनवान्सप्रयत्नं
खङ्गादिना व्यापादयति तदा गोसहस्रयुक्तं त्रैमासिकं कुर्यात् ; 'गर्भिणीं कपिलां
दोग्ध्रीं होमधेनुं च सुव्रताम् । खङ्गादिना घातयित्वा द्विगुणं व्रतमाचरेत् ॥' इति
विशिष्टायां गवि बार्हस्पत्ये प्रायश्चित्तविशेषदर्शनात् ! अत एव प्रचेतसा—
'स्त्रीगर्भिणीगोगर्भिणीबालवृद्धवधेष्व भ्रूणहा भवति' इति । ईदृग्विधमेव गोवध-
मभिसंधाय ब्रह्महत्याव्रतमतिदिष्टम् । द्वितीयं तु याम्यं गोशतदानयुक्तं त्रैमा-
सिकं व्रतं कात्यायनीयव्रतविषये धनवतो द्रष्टव्यम् । यत्तु गौतमेन ( २२।१८ )
वृषभैकशतगोदानसमुचितं त्रैवार्षिकं प्राकृतं ब्रह्मचर्यं वैश्यवधेऽभिधाय गोवधे-
ऽतिदिष्टम्—'गां च हत्वा वैश्यवत्' इति । एतच्च त्रैवार्षिकव्रतप्रत्याम्नायभू-
तनवतिक्षेनुभिः सार्धं वृषभैकशता गावो नवन्तूनं द्विशतं भवतीति गोसहस्रयु-
क्तत्रैमासिकव्रतान्न्यूनत्वात्पूर्वोक्तविषये एव कामतो वधे । यद्वा तत्रैव विषये
गर्भरहितायाः कामतो वधे द्रष्टव्यम् । तादृग्विधाया एव गर्भरहितायास्त्व-
कामतो हननेऽपि कात्यायनीयमेव त्रैवार्षिकं कल्प्यम् । यत्तु यमेनोक्तम्—
'काष्ठलोष्टाश्मभिर्गावः शस्त्रैर्वा निहता यदि । प्रायश्चित्तं कथं तत्र शस्त्रेऽशस्त्रे
विधीयते ॥ काष्ठे सान्तपनं कुर्यात्प्राजापत्यं तु लोष्टके । तप्तकृच्छ्रं तु पाषाणे
शस्त्रे चाप्यतिकृच्छ्रकम् ॥ प्रायश्चित्ते ततश्चीर्णे कुर्याद् ब्राह्मणभोजनम् । त्रिंशद्गा
वृषभं चैकं दद्यात्तेभ्यश्च दक्षिणाम् ॥' इति,—तत्पूर्वोक्तगोसहस्रशतादिदान-
त्रैवार्षिकादिव्रतविषयेष्वेव काष्ठादिसाधनविशेषजनितवधनिमित्तसान्तपनादि-
पूर्वकत्वप्रतिपादनपरं, नतु निरपेक्षं ; लघुत्वाद् व्रतस्य । तथा वयोविशेषादपि
प्रायश्चित्तविशेष उक्तः—'अतिवृद्धामतिकृशामतिबालां च रोगिणीम् ।
हत्वा पूर्वविधानेन चरेदर्धव्रतं द्विजः ॥ ब्राह्मगान्भोजयेच्छक्त्या दद्याद्धेम
तिलांस्तथा ॥' इति । नीरोगादिवधे यद्विहितं तस्यार्धम् । बृहत्प्रचेतसा-
प्यत्र विशेष उक्तः—'एकवर्षे हते वत्से कृच्छ्रपादो विधीयते । अबुद्धिपूर्वे
पुंसः स्याद् द्विपादस्तु द्विहायने ॥ त्रिहायने त्रिपादः स्यात्प्राजापत्यमतःपरम् ॥'
इति । तथा गर्भिण्या वधे यदा गर्भोऽपि निहतो भवति तदा 'प्रतिनिमित्तं

१. सप्रतिज्ञम् । २. प्रायश्चित्तं पृथक्तत्र धर्मशास्त्रे विधीयते ।

'नैमित्तिकमावर्तते' इति न्यायेनाविशेषेण द्विगुणव्रतप्राप्तौ षट्त्रिंशन्मते
विशेष उक्तः-पाद उत्पन्नमात्रे तु द्वौ पादौ दृढतां गते । पादोनं व्रत-
मुद्दिष्टं हत्वा गर्भमचेतनम् ॥ अङ्गप्रत्यङ्गसम्पूर्णे गर्भे चेतःसमन्विते ।
त्रिगुणं गोव्रतं कुर्यादेषा गोघ्नस्य निष्कृतिः ॥' इति । बहुकर्तृके तु हनने
संवर्तापस्तम्बौ विशेषमाहतुः- 'एका चेद्वहुभिः काचिद्दैवाद्यापादिता क्वचित् ।
पादं पादं तु हत्यायाश्चरेयुस्ते पृथक्पृथक् ॥' इति । यादृग्विधगोहत्यायां
यद्व्रतमुपदिष्टं तत्पादं प्रत्येकं कुर्युर्वचनात् । 'एका चेत्' इत्युपलक्षणम् ; अतो
बहुभिर्द्वयोर्बहूनां च व्यापादने प्रतिपुरुषं पादद्वयं पादोनं वा कल्पनीयम् ।

  • एतच्चाकामतो वधे द्रष्टव्यम्; दैवादिति विशेषणोपादानात् । कामकारे तु
    बहूनामपि प्रत्येकं कृत्स्नदोषसंबन्धात्कृत्स्नव्रतसंबन्धो युक्तः, सत्रणामिव प्रति-
    पुरुषं कृत्स्नव्यापारसमवायात्, 'एकं घ्नतां बहूनां तु यथोक्ताद् द्विगुणो दमः' इति
    प्रत्येकं दण्डे द्वैगुण्यदर्शनाच्च । यदा त्वेकेनैव रोधनादिव्यापारेण बहवो गावो
    व्यापादितास्तत्र संवर्तापस्तम्बौ विशेषमाहतुः - 'व्यापन्नानां बहूनां तु रोधने
    बन्धनेऽपि वा । भिषङ्मिथ्योपचारे च द्विगुणं गोव्रतं चरेत् ॥' इति । बहुष्वपि
    व्यापन्नेषु न प्रतिनिमित्तं नैमित्तिकानुष्ठानं, नापि तन्त्रेण किंतु वचनबलाद् द्विगुण-
    मेव । तथा भिषगपि विरुद्धौषधदानेनैकस्या अप्यकामतो व्यापादने द्विगुणं
    गोव्रतं कुर्यात् । भिषग्व्यतिरिक्तस्य केवलम् उपकारार्थं प्रवृत्तस्य स्वकामतः प्रति-
    कूलौषधदाने व्यास आह-'औषधं लवणं चैव पुण्यार्थमपि भोजनम् । अति-
    रिक्तं न दातव्यं काले स्वल्पं तु दापयेत् ॥ अतिरिक्ते विपत्तिश्चेत्कृच्छ्रपादो
    विधीयते ॥' इति ॥ यत्त्वापस्तम्बेनोक्तम्- 'पादमेकं चरेद्रोधे द्वौ पादौ बन्धने
    चरेत् । योजने पादहीनं स्याच्चरेत्सर्वं निपातने ॥' इति, -तद्व्यवहितव्यापारिणो
    निमित्तकर्तुर्विज्ञेयं, न साक्षात्कर्तुः । साक्षात्कर्तृनिमित्तिनोश्च भेदस्तेनैव दर्शितः-
    'पाषाणैलैकुंटैर्वाऽपि शस्त्रेणान्येन वा बलात् । निपातयन्ति ये गास्तु कृत्स्नं कुर्यु-
    र्व्रतं हि ते ॥ तथैव बाहुजङ्घोरुपार्श्वग्रीवाङ्घ्रिमोटनैः ॥' इति । एतदुक्तं भवति-
    पाषाणखङ्गादिभिर्ग्रीवामोटनादिना वा येऽङ्गानि पातयन्ति ते साक्षाद्धन्तारस्ते-
    ष्वेव कृत्स्नं प्रायश्चित्तम् । ये तु व्यवहितरोधबन्धादिव्यापारयोगिनस्ते निमित्ति-
    नस्तेषां न कृत्स्नव्रतसंबन्धः किंतु तदवयवैरेव पादद्विपादादिभिरिति । तत्र च
    रोधादिना व्यवहितव्यापारत्वाविशेषेऽपि वचनात्क्वचित्पादः, क्वचिद् द्विपादः, पादोनं
    क्वचिदिति युक्तम् । अत्राह पराशरः- 'गवां बन्धनयोक्त्रैस्तु भवेन्मृत्युरका-
    मतः । अकामकृतपापस्य प्राजापत्यं विनिर्दिशेत् ॥ प्रायश्चित्ते ततश्चीर्णे कुर्या-
    द् ब्राह्मणभोजनम् । अनडुत्सहितां गां च दद्याद्विप्राय दक्षिणाम् ॥' इति । अयं
    १. बन्धनादि । २. बन्धने तथा । ३. लगुडैर्वापि । ४. तत्रावरोधा-
    दिना !

५४६ याज्ञवल्क्यस्मृतिः
च प्राजापत्यो यदि रोधादिकं कृत्वा तज्जन्यप्रमादपरिजिहीर्षया प्रत्यवेक्षमाण
आस्ते तदा द्रष्टव्यः; 'अकामकृतपापस्य' इति विशेषणोपादानात् । यदा तु न
प्रमादसंरक्षणं¹ करोति, तदा 'पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् । योजने
पादहीनं स्याच्चरेत्सर्वं निपातने ॥' इत्यङ्गिरोदृष्टं त्रैमासिकपादं किंचिदधिकं वा
²विंशत्यहर्गोवधव्रतं कुर्यात् । आपस्तम्बेनापि विशेष उक्तः- '³अतिदोहाति-
वाहाभ्यां नासिकाच्छेदने तथा । नदीपर्वतसंरोधे मृते पादोनमाचरेत् ॥' इति ।
लक्षणमात्रोपयोगिनि तु दाहे न दोषः; 'अन्यत्राङ्कनलक्ष्माभ्यां वाहने मोचने⁴
तथा । सायं संगोपनार्थं च न दुष्येद्रोधबन्धने ॥' इति पराशरस्मरणात् ।
अङ्कनं स्थिरचिह्नकरणम् , लक्षणं सांप्रतोपलक्षणम् । वाहने शास्त्रोक्तमार्गेण
रक्षणार्थमपि नालिकेरादिभिर्बन्धने भवत्येव दोषः; 'न नालिकेरेण न शाणवा-
लैर्न चापि मौञ्जेनं न बन्धशृङ्खलैः । एतैस्तु गावो न निबन्धनीया बद्ध्वा तु
तिष्ठेत्परशुं गृहीत्वा ॥ कुशैः काशैश्च बध्नीयात्स्थाने दोषविवर्जिते ॥' इति व्यास-
स्मरणात् । तथान्योऽपि विशेषस्तेनैवोक्तः- 'घण्टाभरणदोषेण विपत्तिर्यत्र
गोर्भवेत् । कृच्छ्रार्धं⁶ तु भवेत्तत्र भूषणार्थं हि तत्स्मृतम् ॥ ⁷अतिदोहेऽतिदमने संघाते
चैव योजने । बद्ध्वा शृङ्खलपाशैश्च मृते पादोनमाचरेत् ॥' इति । पालनाकरणा-
दिनोपेक्षायां क्वचित्प्रायश्चित्तविशेषस्तेनैवोक्तः,-'जलौघपल्वले मग्ना मेघविद्यु-
द्धतापि वा । श्वभ्रे वा पतिताऽकस्माद्व्याघ्रेनापि च हिंसिता ॥ प्राजापत्यं चरेत्कृच्छ्रं
गोस्वामी व्रतमूत्तमम् । शीतवाताहता वा स्याद्दुष्टश्वनहताऽपि वा ॥ शून्यागार
उपेक्षायां प्राजापत्यं विनिर्दिशेत् ॥' इति । इदं तु कार्यान्तरविरहेऽप्युपेक्षायां
वेदितव्यम् । कार्यान्तरव्यग्रतयोपेक्षायां त्वर्धम्-'पल्वलोघमृगव्याघ्रश्वापदा-
दिनिपातने । श्वभ्रप्रपातसर्पाद्यैर्मृते कृच्छ्रार्धमाचरेत् ॥ अपालत्वात्तु कृच्छ्रं
स्याच्छून्यागार उपप्लवे ॥' इति विष्णुस्मरणात् । तथा सत्यपि व्यापादने क्वचि-
दुपकारार्थप्रवृत्तौ वचनाद्दोषाभावः । यथाह संवर्तः- 'यन्त्रणे गोचिकित्सार्थे
मूढगर्भविमोचने । यत्ने कृते विपत्तिः स्यान्न स पापेन लिप्यते ॥' इति । यन्त्रणं
¹⁰व्याध्यादिनिर्यातनार्थं संदंशाङ्कुशादिप्रवेशनम् । तथा-'औषधं स्नेहमाहारं
ददद्गोब्राह्मणे द्विजः । दीयमाने विपत्तिश्चेन्न स पापेन लिप्यते ॥ ग्रामघाते
शरोघेण वेश्मभङ्गाग्निपातने । दाहच्छेदशिराभेदप्रयोगैरुपकुर्वताम् ॥ द्विजानां
गोहितार्थं च प्रायश्चित्तं न विद्यते ॥' अत्र पराशरोऽप्याह-'ग्रामघाते
शरोघेण वेश्मभङ्गाग्निपातने । अतिवृष्टिहतानां च प्रायश्चित्तं न विद्यते ॥'


१. संरक्षणम् । २. द्वाविंशत्यहः । ३. अविदोहा । ४. मोचनेऽपि वा ।
५. मौञ्जैर्न च शृङ्खलैश्च । ६. गोकृच्छ्रार्धं भवेत् । ७. अतिदोहातिदमने ।
८. मृतापि वा । ९. गूढगर्भं । १०. व्याघ्रादि ।

प्रायश्चित्ताध्यायः ५५७
इति । तथा—'कूपखाते च धर्मार्थे गृहदाहे च या मृता । ग्रामदाहे तथा घोरे
प्रायश्चित्तं न विद्यते ॥' इति । इदं तु बन्धनरहितस्यैव पशोः कथंचिद् गृहादिदाहेन
मृतविषयम् । इतरथा त्वापस्तम्बेनोक्तम्—'कान्तारेष्वथ दुर्गेषु गृहदाहे
खलेषु च । यदि तत्र विपत्तिः स्यात्पाद एको विधीयते ॥' इति । तथाऽस्थ्या-
दिभङ्गे मरणाभावेऽपि क्वचित्प्रायश्चित्तमुक्तम्—'अस्थिभङ्गं गवां कृत्वा लाङ्गूल-
च्छेदनं तथा । पाटनं दन्तशृङ्गाणां मासार्धं तु यवान्पिबेत् ॥' इति । यत्त्वा-
ङ्गिसम्—'१शृङ्गदन्तास्थिभङ्गे वा चर्मनिर्मोचनेऽपि वा । दशरात्रं पिबेद्वज्रं
स्वस्थापि यदि गौर्भवेत् ॥' इति 'वज्र'शब्दवाच्यं क्षीरादिवर्तनमुक्तं तदशक्त-
विषयम् । इदं च प्रायश्चित्तं गोस्वामिने व्यापन्नगोसदृशीं गां दत्त्वैव कार्यम् ।
तथाह पराशरः—'प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरूपकम् । तस्यानुरूपं
मूल्यं वा दद्यादित्यब्रवीद्यमः ॥' इति । मनुरपि ( ८।२८८ )—'यो यस्य
हिंस्याद् द्रव्याणि ज्ञानतोऽज्ञानतोऽपि वा । स तस्योत्पादयेत्तुष्टिं राज्ञे दद्याच्च
तत्समम् ॥' इति । एतच्च पूर्वोक्तप्रायश्चित्तजातं ब्राह्मणस्यैव हन्तुर्वेदितव्यम् ;
क्षत्रियादेस्तु हन्तुर्बृहद्विष्णुना विशेषोऽभिहितः—'विप्रे तु सकलं देयं पादोनं
क्षत्रिये स्मृतम् । वैश्येऽर्धं पाद एकस्तु शूद्रजातिषु शस्यते ॥' इति । यत्त्वङ्गि-
रोवचनम्—'पर्षद्या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता । वैश्यानां त्रिगुणा
प्रोक्ता पर्षदूच्च व्रतं स्मृतम् ॥' इति,–तत्प्रातिलोम्येन वाग्दण्डपारुष्यादिविषयम् ।
तथा स्त्रीबालवृद्धादीनां वधे, अनुपनीतस्य बालस्य पाद इति च प्रागुक्तमनुसंधे-
यम् । स्त्रीणां पराशरेण विशेषोऽभिहितः—'वपनं नैव नारीणां नानुव्रज्या
जपादिकम् । न गोष्ठे शयनं तासां न वसीरन्गवाजिनम् ॥ सर्वान्केशान्समुद्धृत्य
छेदयेदङ्गुलद्वयम् । सर्वत्रैवं हि नारीणां शिरसो मुण्डनं स्मृतम् ॥' इति । पुरुषेषु
च विशेषः संवर्तेन दर्शितः—'पादेऽङ्गरोमवपनं द्विपादे श्मश्रुणोऽपि च । त्रिपादे
तु शिखावर्जं सशिखं तु निपातने ॥' इति । पादप्रायश्चित्तार्हस्य कण्ठादधस्तना-
ङ्गरोम्णामेव वपनम् । अर्धप्रायश्चित्तार्हस्य तु श्मश्रूणामपि । पादोनप्रायश्चित्तार्हस्य
पुनः शिरोगतानामपि शिखावर्जितानाम् । पादचतुष्टयार्हस्य तु सशिखस्य
सकलकेशजातस्येति । एवमेतद्दिगवलम्बनेनान्येषामपि स्मृतिवचसां विषयो
निरूपणीयः ॥ ३२३-२६४ ॥

भाषा—गाय की हत्या करने वाला पञ्चगव्य ( गोमूत्र, गोबर, दूध,
दही, घृत ) पीवे और एक मास तक संयम के साथ रहे । वह गोशाला में
सोना, गायों के पीछे चलने ( सेवा करने ) और ( मास के अन्त में ) एक
गौ का दान करने पर शुद्ध होता है । अथवा सावधान होकर (एक मास तक)

१. शृङ्गभङ्गेऽस्थिभङ्गे वा । २. द्रव्याणि हिंस्याद्यो यस्य ।

इति गोवधप्रायश्चित्तप्रकरणम् ।

५५८ याज्ञवल्क्यस्मृतिः
कृच्छ्र और अतिकृच्छ्र व्रत करे और तीन दिन-रात तक उपवास करके दस
गायों और एक साँड का दान करे ॥ २६३-२६४ ॥
इति गोवधप्रायश्चित्तप्रकरणम् ।
अधुनाऽन्येषामुपपातकानां प्रायश्चित्तमाह-
उपपातकशुद्धिः स्यादेवं चान्द्रायणेन वा ।
पयसा वापि मासेन पराकेणाथवा पुनः ॥ २६५ ॥
एवमुक्तेन गोवधव्रतेन मासं पञ्चगव्याशनादिनान्येशां व्रात्यतादीनामुपपात-
कानां शुद्धिर्भवेत् । चान्द्रायणेन वा वक्ष्यमाणलक्षणेन मासं पयोव्रतेन
वा पराकेण वा शुद्धिर्भवेत् । अत्रातिदेशसामर्थ्याद्द्रोचर्मवसनगोपरिचर्यादि-
भिर्गोवधासाधारणैः कतिपयैर्न्यूनत्वमवगम्यते ।-एतच्च व्रतचतुष्टयमकामकारे
शक्त्यपेक्षया विकल्पितं द्रष्टव्यम् ; कामकारे तु 'एतदेव व्रतं कुर्यु रुपपातकिनो
द्विजाः । अवकीर्णिवर्ज्य शुद्धयर्थं चान्द्रायणमथापि वा ॥' (मनुः ११।११७)
इति मनूक्तं त्रैमासिकं द्रष्टव्यम् । अत एव वचनादयं प्रायश्चित्तातिदेशः सर्वेषामुप-
पातकगणपठितानामुक्तप्रायश्चित्तानामनुक्तप्रायश्चित्तानां चावकीर्णिवर्जितानामवि-
शेषेण वेदितव्यः । अवकीर्णिनस्तु प्रतिपदोक्तमेव । नन्वनुक्तप्रायश्चित्तविषयतयै-
वातिदेशस्य युक्तः; इतरथा प्रतिपदोक्तप्रायश्चित्तबाधसापेक्षत्वप्रसङ्गात् । मैवम् ;
तथा सत्युक्तनिष्कृतीनामुपपातकगणपाठोऽनर्थकः स्यात् । यदि परमुपपातकमध्ये
सामान्यतः पठितस्यान्यत्र विशेषतः प्रायश्चित्तान्तरमुच्यते । यथा- 'अयाज्यानां
च याजनम् । त्रीन्कृच्छ्रानाचरेद् व्रात्ययाजकोऽविचक्षणपि ॥' इति स एव विषयः
केवलं परिहियेत न पुनर्विशेषतः पठितस्यैवान्यत्रापि विशेषत एव यन्न प्रायश्चित्त-
मुच्यते सोऽपि यथा 'इन्धनार्थं द्रुमच्छेदः' 'वृक्षगुल्मलतावीरुच्छेदने जप्यमृक्-
शतम्' इति । अतो व्रात्यतादिषु अस्मिन् शास्त्रे शास्त्रान्तरे वा दृष्टैः प्रायश्चित्तैः
सह 'उपपातकशुद्धिः स्यादेवम्' इत्यादिना प्रतिपादितव्रतचतुष्टयस्य समविषयता-
कल्पनेन विकल्पो विषयविभागो वाश्रयणीयः । तानि च स्मृत्यन्तरदृष्टप्रायश्चित्तानि
पाठक्रमेण व्रात्यतादिषु योजयिष्यामः । तत्र व्रात्यतायां मनुनेदमुक्तम् (११।१९१)
-'येषां द्विजानां सावित्री नानूच्येत यथाविधि । तांश्चारयित्वा त्रीन्कृच्छ्रान्यथा-
विध्युपनाययेत् ॥' इति, यच्च यमेनोक्तम् (१३।१११)- 'सावित्री पतिता यस्य
दश वर्षाणि पञ्च च । सशिखं वपनं कृत्वा व्रतं कुर्यात्समाहितः ॥ एकविंशतिरात्रं
च पिवेत्प्रसृतियावकम् । हविषा भोजयेच्चैव ब्राह्मणान्सप्त पञ्च च ॥ ततो यावक-
शुद्धस्य तस्योपनयनं स्मृतम् ॥' इति, -तदुभयमपि याज्ञवल्कीयमासपयोव्रतविष-
यम् । यत्तु वसिष्ठेनोक्तम्-'पतितसावित्रीक उद्दालकव्रतं चरेद् द्वौ मासौ याव-
केन वर्तयेन्मासं पयसा पञ्चमामिच्छयाऽष्टरात्रं घृतेन षड्रात्रमयाचितेन त्रिरात्रम्-