सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 602, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 602

२४६ | याज्ञवल्क्यस्मृतिः
एवं ब्रह्महादिमहापातकिप्रायश्चित्तमभिधायावसरप्राप्तं तत्संसर्गिप्रायश्चित्तमाह-
एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः ।
एभिः पूर्वोक्तैर्ब्रह्महादिभिरेकं संवत्सरं योऽत्यन्तं संवसति सहाचरति सोऽपि
तत्समः । यो येन सहाचरति सोऽपि तदीयमेव प्रायश्चित्तं कुर्यादिति तदीयप्रा-
यश्चित्तातिदेशार्थं तत्समग्रहणम्, न पुनः पातकत्वातिदेशार्थम् । तस्य 'यश्च तैः
सह संवसेत्' (प्रा० २२३) इत्युपदेशत एव सिद्धत्वात् । अत्र च सत्यप्यति-
देशत्वे कृत्स्नमेव द्वादशवार्षिकं कार्यम्, साक्षान्महापातकिस्वात्संसर्गिणः । 'अपि'-
शब्दाच्च केवलं महापातकिसंयोगी तत्समः किन्त्वतिपातकोपपातक्यादीनां
मध्ये यो येन सह संसर्गं करोति, सोऽपि तत्सम इति तदीयमेव प्रायश्चित्तं
कुर्यादिति दर्शयति अत एव मनुना सकलं प्रायश्चित्तजातमध्यायान्तेऽभिधाया-
भिहितम् (११।१८१)-'यो येन पतितेनैषां संसर्गं याति मानवः । स तस्यैव
व्रतं कुर्यात्तत्संसर्गविशुद्धये ॥' इति । विष्णुनापि सामान्येनोपपातक्यादेरेनस्वि-
मात्रसंसर्गे तत्प्रायश्चित्तभावत्वं दर्शितम्-'पापात्मना येन सह यः संसृज्येत स
तस्यैव व्रतं कुर्यात्' इति । अत एव मनुना सामान्येनैनस्विमात्रप्रतिषेधः कृतः
(११।१८९)-'एनस्विभिरनिर्णीतैर्नार्थं कंचित्समाचरेत्' इति । तथा-'न
संसर्गं भजेत्सद्भिः प्रायश्चित्ते कृते सति' इति च ।- एतच्च द्वादशवार्षिकादिव्रति-
तप्रायश्चित्तं बुद्धिपूर्वसंसर्गविषयम्; 'पतितेन सहोषित्वा जानन्संवत्सरं नरः ।
मिश्रितस्तेन सोऽब्दान्ते स्वयं च पतितो भवेत् ॥' इति देवलस्मरणात् ।
अज्ञानतः संसर्गे पुनर्वसिष्ठोक्तम् (१९।४५,४६)-'पतितसंप्रयोगे तु ब्राह्मेण
यौनेन वा शौवेन वा यास्तेभ्यः सकाशान्मात्रा उपलभ्येरंस्तासां परित्यागस्तैश्च
न संवसेदुदीचीं दिशं गत्वाऽनश्नन्संहिताध्ययनमधीयानः पूतो भवतीति विज्ञायते'
इति । तथा-'ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः । एते महापातकिनो यश्च
तैः सह संवसेत् ॥' इति, तैरिति तृतीया सर्वनामपरामृष्टप्रकृतब्रह्महादिचतुष्ट-
यसंसर्गिण एव महापातकित्ववचनात्तत्संसर्गिणो न महापातकित्वम् । ननु
महापातकिसंसर्ग एव महापातकित्वे हेतुर्न ब्रह्महादिविशेषसंसर्गः, तस्य व्यभि-
चारात् । अतोऽत्र ब्रह्महादिसंसर्गिसंसर्गिणोऽपि महापातकिसंसर्गो विद्यत इति
तस्यापि महापातकित्वं स्याच्च न प्रतिषेधः । उच्यते,-स्यादेवं यदि प्रमाणा-
न्तरगम्यं महापातकित्वं स्यात् । शब्दैकसमधिगम्ये तु तैस्मिन्नैव भवितुमर्हतीति ।
तैरिति प्रकृतविशेषपरामर्शिना सर्वनाम्ना ब्रह्महादिविशेषसंसर्गस्यैव महापातकि-
त्वहेतुत्वस्यावगमितत्वात् । एवं च सति प्रतिषेधाभावोऽप्यहेतुः प्राप्यभावादेव ।

१. पातकिस्वा । २. अतिदेशकत्वे । ३. इति सर्वं निरवद्यम् ।
४. तैरिति सर्वनाम । ५. तस्मिन्नेव ।