सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 597, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 597

प्रायश्चित्ताध्यायः ५४१
गमनं गुर्वङ्गनागमनमिति युक्तम् । उच्यते,—'निषेकादीनि' ( २।१४२ ) इति
मनुवचनं निषेकादिकर्तुर्जनकस्य गुरुत्वप्रतिपादनपरम् ; अनन्यपरत्वात् । यत्पु-
नर्व्यासगौतमवचनं, तत्परिचर्यापूजादिविधिशेषतया स्तुत्यर्थत्वेनान्यपरम् ।
अतो गुरुत्वप्रतिपादनपरान्निषेकादीति मनुवचनात्पितुरेव मुख्यं गुरुत्वमिति
स्थितम् । अत एव वसिष्ठेन ( २०।१५ )—'आचार्यपुत्रशिष्यभार्यासु चैवम्'
इत्याचार्यदारेष्वातिदेशिकं गुरुतल्पप्रायश्चित्तमुक्तम् । तथा जातूकर्ण्यादि-
भिरप्युक्तम्—'आचार्य्यादेस्तु भार्यासु गुरुतल्पव्रतं चरेत्' इत्यादि ।
आचार्यादेर्मुख्यगुरुत्वे तूपदेशत एव व्रतप्राप्तेरतिदेशोऽनर्थक एव स्यात् । किंच,—
संवर्तेन स्पष्टमेव पितृदारग्रहणं कृतम्—'पितृदारान्समारुह्य मातृवर्ज्यं
नराधमः' इति । षट्त्रिंशन्मतेऽपि—'पितृभार्यां तु विज्ञाय सवर्णां योऽधि-
गच्छति' इति । अतोऽपि निषेकादिकर्ता पितैव मुख्यो गुरुः । तच्च गुरुत्वं
वर्णचतुष्टयेऽप्यविशिष्टम् ; निषेकादिकर्तृत्वस्याविशेषात् । अतः—'स विप्रो गुरु-
रुच्यते' इति 'विप्र'ग्रहणमुपलक्षणम् । अतः पितृपत्नीगमनमेव महापातकम् ।
गमनं च चरमधातुविसर्गपर्यन्तं कथ्यते । अतस्ततोऽर्वाङ्निवृत्तौ न महापात-
कित्वम् । तत्र चेदं 'तप्तेऽयःशयने सार्धमायस्या' सार्धमायस्या' इत्याद्युक्तं मर-
णान्तिकं प्रायश्चित्तद्वयम् ।-तच्च जनन्यामकामकृते, तत्सपत्न्यां तु सवर्णायामु-
त्तमवर्णायां कामकृते द्रष्टव्यम् । 'पितृभार्यां तु विज्ञाय सवर्णां योऽधिगच्छति ।
जननीं चाप्यविज्ञाय नामृतः शुद्धिमाप्नुयात् ॥' इति षट्त्रिंशन्मतेऽभिधानात् ।
जनन्यां तु कामकृते वासिष्ठं 'निष्कालको घृताभ्यक्तो गोमयाग्निना पादप्रभृत्या-
त्मानमवदाहयेत्' इति द्रष्टव्यम् । अकामतोऽभ्यासेऽप्येतदेव । ननु च 'मातुः-
सपत्नीं भगिनीमाचार्यतनयां तथा । आचार्यपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः ॥'
( प्रा० २३२ ) इत्यतिदेशाभिधानान्मातृसपत्नीगमने त्वौपदेशिकं प्रायश्चित्तम-
युक्तम् । उच्यते,—'पितृभार्यां सवर्णास्' इत्यस्मादेव वचनात्सवर्णग्रहणाद्धीनवर्ण-
सपत्नीविषयमिदमातिदेशिकमिति न विरोधः । इदं च मुख्यस्यैव पुत्रस्य । इत-
रेषाम्पुनः पुत्रकार्यकरत्वमेव न पुत्रत्वम् । यथाह मनुः ( ९।१८० )—'क्षेत्र-
जादीन्सुतानेतानेकादश यथोचितान् । पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनी-
षिणः ॥' इति । तत्रोभयेच्छात्तः प्रवृत्तौ 'तप्तेऽयःशयने' इति प्रथमं प्राय-
श्चित्तम् । स्वेन प्रोत्साहने तु 'गृहीत्वोत्कृत्य वृषणौ' इति द्वितीयम् ; अनु-
बन्धातिशयेन प्रायश्चित्तगुरुत्वस्योक्तत्वात् । तया प्रोत्साहितस्य तु मानवं तप्तलोह-
शयनज्वलत्सूर्य्यालिङ्गनयोरन्यतरं द्रष्टव्यम् । यत्तु शङ्खेन द्वादशवार्षिकमुक्तम्—
'अधःशायी जटाधारी पर्णमूलफलाशनः । एककालं समश्नीत वर्षे तु द्वादशे
गते ॥ रुक्मस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः । व्रतेनैतेन शुद्ध्यन्ति महा-
१. गुरुत्वस्येष्टत्वात् । २. समश्नन्वै ।