सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 596, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 596

५४० याज्ञवल्क्यस्मृतिः
तयैकत्वावगमादेककल्परवमेव युक्तम् । अथवा वृषणौ सलिङ्गौ स्वयमुत्कृत्य
छित्त्वाऽञ्जलिना गृहीत्वा नैऋत्यां दक्षिणप्रतीच्यां दिशि देहपातान्तमकुटिलग-
तिर्गत्वा तनुमुत्सृजेत् । तथाह मनुः ( ११।१०४)-'स्वयं वा शिश्नवृषणा-
वुत्कृत्याधाय चाञ्जलौ । नैर्ऋतीं दिशमातिष्ठेदानिपातादजिह्मगः ॥' इति ।
गमनं पृष्ठतोऽनीक्षमाणेण कर्तव्यम् ; 'क्षुरेण शिश्नवृषणावुत्कृत्यानवेक्षमाणो
ब्रजेत्' इति शङ्खलिखितस्मरणात् । एवं गच्छन् यत्र कुड्यादिना प्रतिबध्यते
तत्रैव मरणान्तं तिष्ठेत् । 'सवृषणं शिश्नमुत्कृत्याञ्जलावाधाय दक्षिणाभिमुखो
गच्छेद्यूत्रैव प्रतिहतस्तत्रैव तिष्ठेदाप्रलयात्' ( २०।१३) इति वसिष्ठस्मरणात् ।
दण्डोऽप्यत्रायमेव । यथाह नारदः ( १२।७५) - 'आसामन्यतमां गच्छन्गुरु-
तल्पग उच्यते । शिश्नस्योत्कर्तनात्तत्र नान्यो दण्डो विधीयते ॥' एवं
दण्डार्थमपि लिङ्गाद्युत्कर्तनं पापक्षयार्थमपि भवति । इदमेव मरणान्तिकदण्डम-
भिप्रेत्योक्तं मनुना ( ११।३१८) - 'राजभिर्धतदण्डास्तु कृत्वा पापानि मानवाः।
निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥' इति । धनदण्डेन पुनः
प्रायश्चित्तं भवत्येव ; 'प्रायश्चित्तं तु कुर्वाणाः सर्वे वर्णा यथोदितम् । नाङ्ख्या राज्ञा
ललाटे स्युर्दाप्यास्तूत्तमसाहसम् ॥' ( ९।२४० ) इति तेनैवोक्तत्वात् । अनयोश्च
मरणान्तिकयोरन्यतरानुष्ठानेन गुरुतल्पगः शुद्ध्येत् । 'गुरु'शब्दश्चात्र मुख्यया
वृत्त्या पितरि वर्तते ; 'निषेकादीनि कर्माणि यः करोति यथाविधि । संभावयति
चान्नेन स विप्रो गुरुरुच्यते ॥' ( २।१४२ ) इति मनुना गुरुत्वप्रतिपादनपरे
वाक्ये निषेकादिकर्तुर्जनकस्यैव गुरुत्वाभिधानात् । योगेश्वरेण च निषेकादिक-
र्माभिप्रायेणोक्तम् । 'स गुरुर्यः क्रियां कृत्वा वेदमस्मै प्रयच्छति' ( आ० ३४ )
इति । ननु 'गुरु'शब्दस्यान्यत्रापि प्रयोगो दृश्यते । 'उषनीय गुरुः शिष्यम्' इत्या-
दिनाचार्ये ( मनुः २।१४९ ) - 'स्वल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः ।
तमपीह गुरुं विद्यात्' इत्युपाध्याये । व्यासेनाप्यन्यत्र प्रयोगो दर्शितः- 'गुरवो
मातृपितृपत्न्याचार्यविद्यादातृज्येष्ठभ्रातर ऋत्विजो भयत्रातान्नदाता च' इति । न-
चानेकार्थकल्पनादोषः, 'गुरु'शब्दस्य प्रवृत्तिनिमित्तभूतायाः पूजार्हतायाः सर्वत्रा-
नुस्यूतेः । दर्शितं च तस्याः प्रवृत्तिनिमित्तत्वं योगीश्वरेण ( आ० ३५ ) - 'एते
मान्या यथापूर्वमेभ्यो माता गरीयसी' इति 'मान्या' इत्युपक्रम्य 'गरीयसी'
इत्युपसंहारं कुर्वता । नच 'उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता'
( मनुः २।१४५) इत्युपाध्यायादधिकाचार्यात्पितुरतिशयितत्त्ववचनात्स एव
मुख्य इति वाच्यम् ; आचार्येऽप्यतिशयितत्वस्याविशिष्टत्वात् । 'उत्पादकबहादा-
त्रोर्गरीयान्ब्रह्मदः पिता' ( मनुः २।१४६ ) - इति गौतमेनाप्युक्तम् (२।५०)-
'आचार्यः श्रेष्ठो गुरूणाम्' इति । किंच, यद्यतिशयितत्वमात्रेण मुख्यत्वमुच्यते
तर्हि 'सहस्रम्' इति वचनान्मातुरेव गुरुत्वं स्यात् । तस्मात्सर्वे गुरवस्तत्पत्नी-