याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
२४० याज्ञवल्क्यस्मृतिः
न्तरन्यस्ते शीर्णे दुर्लिखिते हृते । सतस्तत्कालकरणमसतो द्रष्टृदर्शनम् ॥' इति ।
सतो विद्यमानस्य पत्रस्य देशान्तरस्थस्यानयनाय कालकरणं कालावधिर्दातव्यः ।
असतः पुनर्विद्यमानस्य पत्रस्य पूर्वं ये द्रष्टारः साक्षिणस्तैर्दर्शनं व्यवहारपरि-
समापनं कार्यम् । यदा तु साक्षिणो न सन्ति तदा दिव्येन निर्णयः कार्यः-
'अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिशेत्' इति स्मरणात् । एतच्च जानपदं
व्यवस्थापत्रम् । राजकीयमपि व्यवस्थापत्रमीदृशमेव भवति । इयांस्तु विशेषः-
'राज्ञः स्वहस्तसंयुक्तं स्वमुद्राचिह्नितं तथा । राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु
साक्षिमत् ॥' इति । तथान्यदपि राजकीयं जयपत्रकं वृद्धवसिष्ठेनोक्तम्-'यथोप-
न्यस्तसाध्यार्थसंयुक्तं सोत्तरक्रियम् । सावधारकं चैव जयपत्रकमिष्यते ॥ प्राङ्-
विवाकादिहस्ताङ्कमुद्रितं राजमुद्रया । सिद्धेऽर्थे वादिने दद्याज्जायने जयपत्रकम् ॥'
इति । तथा सभासदोऽपि मैतं मेऽमुकपुत्रस्येति स्वहस्तं दद्युः ।-'सभासदश्च ये
तत्र स्मृतिशास्त्रविदः स्थिताः । यथालेख्यविधौ तद्वत्स्वहस्तं दद्युरेव ते ॥' इति
स्मरणात् । सभासदां च परस्परानुमतिव्यतिरेकेण न व्यवहारो निःशल्यो
भवति । यथाह नारदः-'यत्र सभ्यो जनः सर्वः साध्वेतदिति मन्यते । स
निःशल्यो विवादः स्यात्सशल्यस्त्वन्यथा भवेत् ॥' इति । एतच्चतुष्पाद्व्यवहार
एव ।-'साधयेत्साध्यमर्थं यच्चतुष्पादान्वितं च यत् । ४राजमुद्रान्वितं चैव
जयपत्रकमिष्यते ॥' ( कात्यायनः ? ) इति स्मरणात् । यत्र तु हीनता । यथा-
'अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः । आहूतप्रपँलायी च हीनः पञ्चविधः
स्मृतः ॥' ( नारदः मा० २।३३ ) इति । तत्र न जयपत्रकमस्ति, अपि तु
हीनपत्रकमेव । तच्च कालान्तरे दण्डप्राप्त्यर्थं, जयपत्रं तु प्राङ्न्यायविधिसिद्ध्य-
र्थमिति विशेषः ॥ ९१ ॥
भाषा—लेख के कहीं दूसरे देश में छूट जाने पर, पढ़ने योग्य न रह
जाने पर खो जाने, मिटजाने, चुरा लिये जाने, गल जाने, जल जाने अथवा
फट जाने पर दूसरा लेख बनवाना चाहिए ॥ ९१ ॥
लेख्यसंदेहे निर्णयनिमित्तान्याह—
६संदिग्धलेख्यशुद्धिः स्यात्स्वहस्तलिखितादिभिः ।
युक्तिप्राप्तिक्रियाचिह्नसंबंधागमहेतुभिः ॥ ९२ ॥
'शुद्धमशुद्धं वा' इति संदिग्धस्य लेख्यस्य शुद्धिः स्वहस्तलिखितादिभिः
स्यात् । स्वहस्तेन लिखितं यल्लेखान्तरं तेन शुद्धिः । यदि सदृशान्यक्षराणि
१. दृष्टदर्शनं । २. व्यवहारे । ३. दत्तं मे । ४. मुद्राङ्कितं ।
५. व्यपलायी । ६. संदिग्धलेख्ये शुद्धिः ।
[Header]
[व्यवहाराध्यायः] [२४६]
[Body]
भवन्ति तदा शुद्धिः स्यादित्यर्थः । 'आदि' शब्दात् साक्षिलेखकस्वहस्तलिखिता-
न्तरसंवादाच्छुद्धिरिति । युक्त्या प्राप्तिर्युक्तिप्राप्तिः, देशकालपुरुषाणां द्रव्येण सह
संबन्धः प्राप्तिः । 'अस्मिन्देशेऽस्मिन्कालेऽस्य पुरुषस्येदं द्रव्यं घटते' इति युक्तिप्राप्तिः,
क्रिया तत्साध्युपन्यासः, चिह्न मसाधारणं श्रीकारादि, 'सम्बन्धोऽर्थिप्रत्यर्थिनोः
पूर्वमपि परस्परविश्वासेन दानग्रहणादिसंबन्धः, आगमोऽस्यैतावतोऽर्थस्य संभा-
वितः प्राप्युपायः, एते एव हेतवः । एभिर्हेतुभिः संदिग्धलेख्यस्य शुद्धिः स्यात्'
इत्यन्वयः । यदा तु लेख्यसंदेहे निर्णयो न जायते तदा साक्षिभिर्निर्णयः कार्यः ।
यथाह कात्यायनः—'दूषिते पत्रके वादी तदारूढांस्तु निर्दिशेत्' इति । साक्षि-
संभवविषयमिदं वचनम् । साक्ष्यसंभवविषयं तु हारीतवचनम्—'न मयैतत्कृतं
पत्रं कूटमेतेन कारितम् । अधरीकृत्य तत्पत्रमर्थे दिव्येन निर्णयः ॥' इति ॥ ९२ ॥
भाषा—लेख्य के विषय में सन्देह हो तो अपने हाथ से लिखे हुए लेख्य
से युक्तिप्राप्ति ( इस देश में इस समय पर इस व्यक्ति पर इतना द्रव्य होता
है ), क्रिया ( उसके साक्षी का उपन्यास ), चिह्न ( श्रीकार आदि ) संबन्ध
( धनी और ऋणी का पहले का पारस्परिक संबन्ध ) और आगम ( द्रव्यप्राप्ति
का उपाय ) हेतुओं से शुद्धि होती है ॥ ९२ ॥
एवं शोधिते पत्रे ऋणे च दातव्ये प्राप्ते यदा कृत्स्नमेव ऋणं दातुमसमर्थ-
स्तदा किं कर्तव्यमित्यत आह—
लेख्यस्य पृष्ठेऽभिलिखेद्दत्त्वा दत्त्वर्णिको धनम् ।
धनी ^२चोपगतं दद्यात्स्वहस्तपरिचिह्नितम् ॥ ९३ ॥
यदाऽधमर्णिकः सकलमृणं दातुमसमर्थस्तदा शक्त्यनुसारेण दत्त्वा पूर्वकृतस्य
लेख्यस्य पृष्ठेऽभिलिखेत् 'एतावन्मया दत्तम्' इति । उत्तमर्णो वा उपगतं प्राप्तं
धनं तस्यैव लेख्यस्य पृष्ठे दद्यादभिलिखेत्—'एतावन्मया लब्धम्' इति । कथम् ?
स्वहस्तपरिचिह्नितं स्वहस्तलिखिताक्षरचिह्नितम् । यद्वा, उपगतं प्रवेशपत्रं स्वह-
स्तलेखित^३चिह्नितमधमर्णायोत्तमर्णो दद्यात् ॥ ९३ ॥
भाषा—ऋणी धन देकर लेख्य के पीछे लिख दिया करे । धनी भी धन
प्राप्त करके अपना हस्ताक्षर करके उपगत (प्राप्तिपत्र, रसीद) देवे ॥ ९३ ॥
ऋणे तु कृत्स्ने दत्ते लेख्यं किं कर्तव्यमित्यत आह—
दत्त्वर्णं पाटयेल्लेख्यं शुद्ध्यै वाऽन्यत्तु कारयेत् ।
क्रमेण सकृदेव वा कृत्स्नमृणं दत्त्वा पूर्वकृतं लेख्यं पाटयेत् । यदा तु
दुर्गदेशावस्थितं लेख्यं नष्टं वा तदा शुद्ध्यै अधमर्णत्वनिवृत्त्यर्थमन्यल्लेख्यं
[Footnotes]
१. संबन्धप्राप्तिः ।
२. चोपगतं ।
३. लिखितपरिचिह्नित ।
२४२ याज्ञवल्क्यस्मृतिः
कार्येहुत्तमर्णेनाधमर्णः । पूर्वोक्तक्रमेणोत्तमर्णो विशुद्धिपत्रमधमर्णाय दद्यादि-
त्यर्थः ॥—
ससाक्षिके ऋणे कृत्स्ने दातव्ये किं कर्तव्यमित्यत आह—
साक्षिमच्च भवेद्यद्वा तद्दातव्यं ससाक्षिकम् ॥ ९४ ॥
यत्तु ससाक्षिकमृणं तत्पूर्वसाक्षिसमक्षमेव दद्यात् ॥ ९४ ॥
भाषा—ऋण देकर लेख को काट दे अथवा ऋणी की निवृत्ति के लिए
धनी दूसरा लेख्य लिखावे । जो ऋण साक्षियों के सामने लिया गया हो उसे
उन्हीं साक्षियों के सामने ही लौटाना चाहिए ॥ ९४ ॥
इति लेख्यप्रकरणम् ।
अथ दिव्यप्रकरणम् ७
लिखितसाक्षिभुक्तिलक्षणं त्रिविधं मानुषं प्रमाणमुक्तम् । अथावसरप्राप्तं दिव्यं
प्रमाणमभिधास्यन् ‘तुलाग्न्याप’ इत्यादिभिरौद्यैः पञ्चभिः श्लोकैर्दिव्यमातृकां
कथयति । तत्र तावद्दिव्यान्युपदिशति—
तुलाग्न्यापो विषं कोशो दिव्यानीह विशुद्धये ।
तुलादीनि कोशान्तानि पञ्च दिव्यानीह धर्मशास्त्रे विशुद्धये संदिग्धस्यार्थस्य
संदेहँनिवृत्तये दातव्यानीति ॥—
नन्वन्यत्रान्यान्यपि तण्डुलादीनि दिव्यानि सन्ति—‘घटोऽग्निरुदकं चैव
विषं कोशस्तथैव च । तण्डुलाश्चैव दिव्यानि सप्तमस्तप्तमाषकः ॥’ इति पितामह-
स्मरणात् । अतः कथमेतावन्त्येवेत्यत आह—
महाभियोगेष्वेतानि
एतानि महाभियोगेष्वेव नान्यत्रेति नियम्यते न पुनरिमान्येव दिव्या-
नीति । महत्त्वावधिं च वक्ष्यति । नन्वल्पाभियोगेऽपि कोश⁶ इष्यते; ‘कोश-
मल्पेऽपि दापयेत्’ इति स्मरणात् । सत्यम् । कोशस्य तुलादिषु पाठो न महा-
भियोगेष्वेवेति नियमार्थः, किंतु सावष्टम्भाभियोगेऽपि प्राप्त्यर्थः । अन्यथा
शङ्काभियोगे एव स्यात् ; ‘अवष्टम्भाभियुक्तानां घटादीनि विनिर्दिशेत् । तण्डु-
लाश्चैव कोशश्च शङ्कास्वेव न संशयः ॥’ इति स्मरणात् ॥
१. उत्तमर्णं अध । २. भिभिरारभ्य । ३. संदिग्ध । ४. अन्यत्रान्या ।
५. योगे ष्वेतानि । ६. कोशोऽस्स्येव ।
व्यवहाराध्यायः २४३
महाभियोगेषु शङ्कितेषु सावष्टम्भेषु चाविशेषेण प्राप्तावपवादमाह—
—शीर्षकस्थेऽभियोक्तरि ॥ ९५ ॥
एतानि तुलादीन्यभियोक्तरि शीर्षकस्थेऽभियुक्तस्य भवन्ति । शीर्षकं
शिरो व्यवहारस्य चतुर्थः पादो जयपराजयलक्षणस्तेन च दण्डो लक्ष्यते, तत्र
तिष्ठतीति शीर्षकस्थः तत्प्रयुक्तदण्डभागित्यर्थः ॥ ९५ ॥
भाषा—तुला, अग्नि, जल, विष और कोश ये शुद्धि (संदेह-निवृत्ति)
के लिये दिव्य कहे गये हैं। इनका प्रयोग महाभियोगों में होता है और वह
भी प्रमुख अभियुक्त के लिए अभियोक्ता के शीर्षकस्थ होने पर किया जाता है
(शीर्षकस्थ = जय-पराजय का भागी।) ॥ ९५ ॥
'ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम्' (व्य० ७) इति भावप्रति-
ज्ञावादिनेव 'क्रियेति व्यवस्था दर्शिता तदपवादार्थमाह—
रुच्या वाऽन्यतरः कुर्यादितरो वर्तयेच्छिरः ।
रुच्याभियोक्त्रभियुक्तयोः परस्परसं प्रतिपत्त्याऽन्यतरोऽभियुक्तोऽभियोक्ता वा
दिव्यं कुर्यात् । इतरोऽभियुक्तोऽभियोक्ता वा शिरः शारीरमर्थदण्डं वा वर्तयेद-
ङ्गीकुर्यात् । अयमभिसन्धिः—न मानुषप्रमाणवद्दिव्यं प्रमाणं भावैकगोचरं अपि
तु भावाभावविशेषेण गोचरयति । अतश्च मिथोत्तरे प्रत्यवस्कन्दने प्राङ्-
न्याये वाऽर्थिप्रत्यर्थिनोरन्यतरस्येच्छया दिव्यं भवतीति ॥—
अल्पअभियोगे महाभियोगे शङ्कासावष्टम्भयोश्च्यविशेषेण कोशो भवतीत्युक्तं,
तुलादीनि विषयान्तरानि तु महाभियोगेष्वेव सावष्टम्भेष्वेवेति च नियमो
दर्शितः । तत्रावष्टम्भाभियोगेष्वेवेत्यस्यापवादमाह—
विनापि शीर्षकात्कुर्यान्नृपद्रोहेऽथ पातके ॥ ९६ ॥
राजद्रोहाभिशङ्कायां ब्रह्महत्यादिपातकाभिशङ्कायां च शिरःस्थायिना विना-
पि तुलादीनि कुर्यात् महाचौर्याभिशङ्कायां च । यथाह—'राजभिः शङ्कितानां
च निर्दिष्टांनां च दस्युभिः । आत्मशुद्धिपराणां च दिव्यं देयं शिरो विना ॥'
इति । तण्डुलाः पुनरल्पचौर्यशङ्कायामेव ।—'चौर्ये तु तण्डुला देया नान्यत्रेति
विनिश्चयः' इति पितामहवचनात् । तप्तमाषस्तु महाचौर्याभिशङ्कायामेव; 'चौर्य-
शङ्काभियुक्तानां तप्तमाषो विधीयते' इति स्मरणात् । अन्ये पुनः शपथा अल्पा-
र्थविषयाः, 'सत्यं वाहनशस्त्राणि गोबीजकनकानि च । देवतापितृपादांश्च दत्तानि
सुकृतानि च ॥ स्पृशेद्विच्छिरांसि पुत्राणां दाराणां सुहृदां तथा । अभियोगेषु
१. क्रियाव्यवस्था । २. भवतीति युक्तं । ३. राजद्रोहे ।
१६ या०
२४४ याज्ञवल्क्यस्मृतिः
सर्वेषु$^१$ कोशपानमथापि वा ॥ इत्येते शपथाः प्रोक्ता मनुना स्वल्पकारणे ॥' इति
नारदस्मरणात्$^२$ ॥ यद्यपि मानुषप्रमाणानिर्णयस्य निर्णायकं यत्तद्दिव्यमिति
लोकप्रसिद्ध्या शपथानामपि दिव्यत्वं तथापि कालान्तरनिर्णयनिमित्तत्वेन सम-
नन्तरैर्निर्णयनिमित्तेभ्यो घटादिभ्यो दिव्यभ्यो भेदव्यपदेशो ब्राह्मणपरिव्राजक-
वत् । कोशस्य तु शपथत्वेऽपि घटादिषु पाठो महाभियोगविषयत्वेनावष्टम्भाभियो-
गविषयत्वेन च घटादिसाम्यान्नतु समनन्तरनिर्णयनिमित्तत्वेन । तण्डुलानां तप्त-
माषस्य च समनन्तरनिर्णयनिमित्तत्वेऽप्यल्पविषयत्वेन शङ्काविषयत्वेन च घटादि-
वैलक्षण्यात्तेष्वपाठ इति संतोष्टव्यम् । एतानि च दिव्यानि शपथाश्च यथासंभवमृणा-
दिषु विवाद्वेषु प्रयोक्तव्यानि । यत्तु—पितामहवचनम् 'स्थावरेषु विवादेषु दिव्यानि
परिवर्जयेत्' इति, तदपि लिखितसामन्तादिसद्भावे दिव्यानि परिवर्जयेदिति
व्याख्येयम् । ननु विवादान्तरेष्वपि प्रमाणान्तरसंभवे दिव्यानामनवकाश
एव । सत्यम् । ऋणादिषु विवादेषु उक्तलक्षणसाध्युपन्यासेऽर्थिना कृतेऽपि
प्रत्यर्थी यदि दण्डाभ्युपगमावष्टम्भेन दिव्यमवलम्बते तदा दिव्यमपि
भवति । $^६$साक्षिणामाशयदोषसंभावादिव्यस्य च निर्दोषत्वेन वस्तुतत्त्वविष-
यत्वात्तल्लक्षणत्वाच्च धर्मस्य । यथाह नारदः—'तत्र सत्ये स्थितो धर्मो
व्यवहारस्तु साक्षिणि । दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत् ॥' इति ।
स्थावरेषु च विवादेषु प्रत्यर्थिना दण्डावष्टम्भेन दिव्यावलम्बने कृतेऽपि
सामन्तादिदृष्टप्रमाणसद्भावे न दिव्यं ग्राह्यमिति विकल्पनिराकरणार्थं 'स्थावरेषु
विवादेषु' इत्यादिपितामहवचनं नात्यन्तिकदिव्यनिराकरणार्थम्; लिखितसा-
मन्ताद्यभावे स्थावरविवादेष्वनिर्णयप्रसङ्गात् ॥ ९६ ॥
भाषा—अथवा इच्छानुसार इन्हें अभियुक्त और अभियोक्ता दोनों में
किसी के लिये किया जाता है; अथवा वे दोनों ही शारीरिक या आर्थिक दण्ड
स्वीकार करें । राजद्रोह और ब्रह्महत्यादि पातक में बिना जय-पराजय के
विचार के इनका प्रयोग किया जाता है ॥ ९६ ॥
दिव्ये साधारणविधिः—
$^७$सचैलं स्नातमाहूय सूर्योदय उपोषितम् ।
कारयेत्सर्वदिव्यानि नृपब्राह्मणसंनिधौ ॥ ९७ ॥
किंच, पूर्वेद्युरुपोषितमुदिते सूर्ये सचैलं स्नातं दिव्यग्राहिणमाहूय नृपस्य
सभ्यानां च ब्राह्मणानां संनिधौ सर्वाणि दिव्यानि कारयेत्प्राड्विवाकः—'त्रिरात्रो-
१. साध्येसु । सर्वेषु कोशपान । २. नारदादि । ३. नन्तरनिमित्तनिर्ण-
येभ्यो । ४. न्तरसद्भावे । ५. उक्तलक्षणे । ६. माशये दोष । ७. सचैलस्नान-
माहूय ।
व्यवहाराध्यायः २४५
पोषिताय स्युरेकरात्रोषिताय वा । नित्यं दिव्यानि देयानि शुचये चार्द्रवाससे ॥'
इत्युपवासविकल्पः पितामहेनोक्तो बलवद्दुर्वलवन्महाकार्य्याल्पकार्य्यविषयत्वेन
व्यवस्थितो द्रष्टव्यः । उपवासनियमश्च कारयितुः प्राड्विवाकस्यापि—'दिव्येषु
सर्वकार्याणि प्राड्विवाकः समाचरेत् । अध्वरेषु यथाध्वर्युः सोपवासो नृपाज्ञया ॥'
इति पितामहवचनात् ॥ अत्र यद्यपि सूर्योदय इत्यविशेषेणोक्तं, तथापि शिष्ट-
समाचाराद्भानुवासरे दिव्यानि देयानि । तत्रापि—'पूर्वाह्नेऽग्निपरीक्षा स्यात्पू-
र्वाह्ने च घटो भवेत् । मध्याह्ने तु जलं देयं धर्मतत्त्वमभीप्सताम् ॥ दिवसस्य
तु पूर्वाह्ने १कोशशुद्धिर्विधीयते । रात्रौ तु पश्चिमे यामे विषं देयं सुशीतलम् ॥'
इति पितामहोक्तो विशेषो द्रष्टव्यः ॥ अनुक्त२कालविशेषाणां तण्डुलतप्तमाष-
प्रभृतीनां पूर्वाह्न एव प्रदानम्; 'पूर्वाह्ने सर्वदिव्यानां प्रदानं परिकीर्ति-
तम्' इति सामान्येन नारदस्मरणात् । अहनि त्रिधा विभक्ते ३पूर्वो
भागः पूर्वाह्नः, मध्यमो मध्याह्नः, ४उत्तरोऽपराह्नः । तथापरोऽपि काल-
विशेषो विधिप्रतिषेधमुखेन दर्शितः । विधिमुखस्तावत्—'अग्नेः शिशि-
रहेमन्तौ वर्षाश्चैव प्रकीर्तिताः । शरद्ग्रीष्मेषु सलिलं हेमन्ते शिशिरे विषम् ॥
चैत्रो मार्गशिरश्चैव वैशाखश्च तथैव च । एते साधारणा मासा दिव्यानामविरो-
धिनः ॥ कोशस्तु सर्वदा देयस्तुला स्यात्सार्वकालिकी ॥' इति । 'कोश' ग्रहणं
सर्वशपथानामुपलक्षणम् । तण्डुलानां पुनर्विशेषानभिधानात्सार्वकालिकत्वम् ।
प्रतिषेधमुखोऽपि—'५न शीते तोयशुद्धिः स्यान्नोष्णकालेऽग्निशोधनम् । न प्रावृषि
विषं दद्यात्प्रवाते न तुलां तथा ॥ नापराह्ने न सन्ध्यायां न मध्याह्ने कदाचन ॥'
इति । 'न शीते तोयशुद्धिः स्या'दित्यत्र 'शीत' शब्देन हेमन्त-शिशिर-वर्षाणां
ग्रहणम् । 'नोष्णकालेऽग्निशोधन'मित्यत्र 'उष्णकाल' शब्देन ग्रीष्मशरदोः
विधानलब्धस्यापि पुनर्निषेध आदरार्थः; प्रयोजनं तु वक्ष्यते ॥ ९७ ॥
भाषा—(शपथ लेने वाले को) पहले दिन उपवास कराके सूर्योदय के
समय वस्त्र सहित स्नान कराके बुलावे और राजा तथा ब्राह्मणों के समक्ष सभी
दिव्य करावे ॥ ९७ ॥
अधिकारिव्यवस्थामाह—
तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणाम् ।
अग्निर्जलं वा शूद्रस्य यवाः सप्त विषस्य वा ॥ ९८ ॥
स्त्री स्त्रीमात्रं जातिवयोवस्थाविशेषानादरेण, बाल आ षोडशाद्वर्षाज्जाति-
१. कोशसिद्धिः । २. अनुक्तवेला । ३. प्रथमो भागः । ४. उत्तमो ।
५. तोयसिद्धिः स्यात् ।
२४६ याज्ञवल्क्यस्मृतिः
विशेषानादरेण, वृद्धोऽशीतिकावरः, अन्धो नेत्रविकलः, पङ्गुः पादविकलः,
ब्राह्मणो जातिमात्रम्, रोगी व्याधितः, एतेषां शोधनार्थं तुलैवेति नियम्यते ।
अग्निः फालस्तप्तमाषश्च क्षत्रियस्य । जलमेव वैश्यस्य । 'वा' शब्दोऽवधारणे ।
विषस्य यवा उक्तपरिमाणाः सप्तैव शूद्रस्य शोधनार्थं भवन्ति । ब्राह्मणस्य
तुलाविधानात् 'शूद्रस्य यवाः सप्त विषस्य वा' इति विषविधानादग्निर्जलं वेति
क्षत्रियवैश्यविषयमुक्तम् । एतदेव स्पष्टीकृतं पितामहेन—'ब्राह्मणस्य घटो देयः
क्षत्रियस्य हुताशनः । वैश्यस्य सलिलं प्रोक्तं विषं शूद्रस्य दापयेत् ॥' इति ।
यत्तु स्त्र्यादीनां दिव्याभावस्मरणम्, 'स्रवतानां भृशार्तानां व्याधितानां तपस्वि-
नाम् । स्त्रीणां च न भवेद्दिव्यं यदि धर्मस्त्वपेक्षितः ॥' इति, तत् 'रुच्या वाऽ-
न्यतरः कुर्यात्' (व्य० ९६) इति विकल्पनिवृत्त्यर्थम् । एतदुक्तं भवति—'अ-
वष्टम्भाभियोगेषु स्त्र्यादीनामभियोक्तृत्वेऽभियोज्यानामेव दिव्यं, एतेषामभियोज्य-
त्वेऽप्यभियोक्तॄणामेव दिव्यम् । परस्पराभियोगे तु विकल्प एव । तत्रापि तुलैवे-
ति कात्यायनवचनेन नियम्यते । तथा महापातकादिशङ्काभियोगे स्त्र्यादीनां
तुलैवेति एतच्च वचनं सर्वदिव्यसाधारणेषु मार्गशिरश्चैत्रवैशाखेषु स्त्र्यादीनां सर्व-
दिव्यसमवधाने नियामकतयार्थवत् । नच सर्वकालं स्त्रीणां तुलैवेति, 'स्त्रीणां तु
न विषं प्रोक्तं न चापि सलिलं स्मृतम् । घटकोशादिभिस्तासामन्तस्तत्त्वं विचार-
येत् ॥' इति विषसलिलव्यतिरिक्तघटकोशाग्न्यादिभिः शुद्धिविधानात् । एवं
बालादिष्वपि योजनीयम् । ^२तथा ब्राह्मणादीनामपि न सार्वकालिकस्तुलादिनि-
यमः; 'सर्वेषामेव वर्णानां कोशशुद्धिर्विधीयते । सर्वाण्येतानि सर्वेषां ब्राह्मणस्य
विषं विना ॥' इति पितामहस्मरणात् । तस्मात्साधारणे काले बहुदिव्यसमव-
धाने तुलादिनियमार्थमेवेदं वचनम् । कालान्तरे तु तत्तत्कालविहितं सर्वेषाम् ।
तथाहि—वर्षास्वग्निरेव सर्वेषाम् । हेमन्तशिशिरयोस्तु क्षत्रियादित्रयाणामग्नि-
विषयोर्विकल्पः । ब्राह्मणस्य त्वग्निरेव न कदाचिद्विषम्; 'ब्राह्मणस्य विषं विना'
इति प्रतिषेधात् । ग्रीष्मशरदोस्तु सलिलमेव । येषां तु व्याधिविशेषेणाग्न्यादि-
निषेधः—'कुष्ठिनां वर्जयेदग्निं सलिलं श्वासकासिनाम् । पित्तश्लेष्मवतां नित्यं
विषं तु परिवर्जयेत् ॥' इति तेषामग्न्यादिकालेऽपि साधारणं तुलाद्येव^३ दिव्यं
भवति ॥ तथा 'तोयमग्निविषं चैव दातव्यं बलिनां नृणाम्' इति ^४वचनाद् दुर्बला-
नामपि सर्वथा विधिप्रतिषेधोक्तकालानतिक्रमेण जातिवयोर्वस्थाश्रितानि
दिव्यानि देयानि ॥ ९८ ॥
१. सार्वकालं । २. यथा । ३. तुला दिव्यं । ४. दुर्बलानामिति
सर्वदा । ५. प्रतिषेधाहते उक्तकालानति । ६. वस्थानाश्रितानि ।
व्यवहाराध्यायः २४७
भाषा-स्त्री, बालक, वृद्ध, अन्ध, पंगु, ब्राह्मण एवं रोगी के लिए तुला
का दिव्य करे। क्षत्रिय के लिए अग्नि का, वैश्य के लिए जल का, और शूद्र
के लिये सात यव के बराबर विष का दिव्य होता है ॥ ९८ ॥
'महाभियोगेष्वेतानि' ( व्य० ९५ ) इत्युक्तं, तत्राभियोगस्य यदपेक्षं मह-
त्त्वं तदिदानीमाह-
नासहस्राद्धरेत्फालं न विषं न तुलां तथा ।
पणसहस्रादूर्वाक् फालं विषं तुलां वा न कारयेत् । मध्यवर्ति जलमपि ।
यथोक्तम्- 'तुलादीनि विषान्तानि गुरुष्वर्थेषु दापयेत्' इति। अत्र कोशस्याग्र-
हणं 'कोशमल्पेऽपि दापयेत्' इत्यल्पाभियोगेऽपि तस्य स्मरणात् । एतानि
चत्वारि दिव्यानि पणसहस्रादूर्ध्वमेव भवन्ति नार्वागित्यर्थः ॥ नन्वर्त्तागप्यग्न्या-
दीनि पितामहेन दर्शितानि - 'सहस्रे तु घटं दद्यात्सहस्रार्धे तथाऽयसम् । अर्ध-
स्यार्धे तु सलिलं तस्यार्धे तु विषं स्मृतम् ॥' इति सत्यम् । -तत्रेत्थं व्यवस्था
यद्द्रव्यापहारे पाहित्यं भवति तद्विषयं पितामहवचनं, इतरद्रव्यविषयं योगी-
श्वरवचनमिति । एतच्च वचनद्वयं स्तेयसाहसविषयम् , अपह्नवे तु विशेषो दर्शितः
कात्यायनेन-'दत्तस्यापह्नुवो यत्र प्रमाणं तत्र कल्पयेत् । स्तेयसाहसयोर्दिव्यं
स्वल्पेऽप्यर्थे प्रदापयेत् ॥ सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् । हेमप्रमाण-
युक्तं तु तदा दिव्यं नियोजयेत् ॥ ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं
स्मृतम् । अशीतेस्तु विनाशे वै दद्याच्चैव हुताशनम् ॥ षष्ट्या नाशे जलं देयं
चत्वारिंशति वै घटम् । विंशद्विशविनाशे तु कोशपानं विधीयते ॥ पञ्चाधिकस्य
वा नाशे ततोऽर्धार्धस्य तण्डुलाः । ततोऽर्धार्धविनाशे हि स्पृशेत्पुत्रादिमस्त-
कान् ॥ ततोऽर्धार्धविनाशे तु लौकिक्यश्च क्रियाः स्मृताः । एवं विचारयन्नराजा
धर्माथाभ्यां न हीयते ॥ इति 'ज्ञात्वा संख्या सुवर्णानाम्' इत्यत्र 'सुवर्णशब्दः
'षोडश माषाः सुवर्णः' ( आ० ३६३ ) इत्युक्तपरिमाणवचनः । 'नाश'शब्दश्चा-
ऽपह्नववचनः । 'नासहस्राद्धरेत्फालम्' इत्यत्र तु तान्त्रिकपणसहस्रं बोद्धव्यम् ॥-
ननु नृपद्रोहे महापातके चैतानि दिव्यान्युक्तानि, तत्कथं 'नासहस्राद्धरे-
त्फालम्' ( व्य० ९९ ) इत्यत्राह-
नृपार्थेष्वभिशापे च वहेयुः शुचयः सदा ॥ ९९ ॥
नृपद्रोहेषु महापातकाभियोगे च सदा द्रव्यसंख्यामनपेक्ष्यैवैतानि दिव्यानि
वहेयुः कुर्युुरुपवासादिना शुचयः सन्तः। तथा देशविशेषोऽपि नारदे-
१. यदपेक्ष्य । २. तत्रैवं व्यवस्था । ३. दद्यादेव । ४. दद्यात् त्रिंश-
द्विन्नाशे तु । ५. अभिशापेषु । ६. नृपद्रोहेषु ।
२४८ याज्ञवल्क्यस्मृतिः
नोक्तः—'सभाराजकुलद्वारदेवायतनचत्वरे । निधेयो निश्चल पूज्यो धूपमाल्या-
नूलेपनैः ॥' इति । निधेयो घटः । व्यवस्था च कात्यायनेनोक्ता—'इन्द्रस्थानेऽ-
भिशस्तानां महापातकिनां नृणाम् । नृपद्रोहे प्रवृत्तानां राजद्वारे प्रयोजयेत् ॥
प्रतिलोमप्रसूतानां दिव्यं देयं चतुष्पथे । $^१$अतोऽन्येषु सभामध्ये दिव्यं देयं
विदुर्बुधाः । अस्पृश्याधमदासानां $^२$म्लेच्छांनां पापकारिणाम् । प्रातिलो-
म्यप्रसूतानां निश्चयो न तु राजनि । तत्प्रसिद्धानि दिव्यानि संशये तेषु
$^३$निर्दिशेत् ॥' इति ॥ ९९ ॥
भाषा—सहस्र पण से कम के विवाद में तप्तफाल, विष या तुला का
(तथा जल का) दिव्य न करावे । राजद्रोह और महापातक के अभियोग में ये
दिव्य सदैव पवित्रता के साथ करावे ॥ ९९ ॥
इति दिव्यमातृका ॥
एवं सर्वदिव्योपयोगिनीं दिव्यमातृकामभिधायेदानीं घटादिदिव्यानां
प्रयोगमाह—
तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः ।
प्रतिमानसभीभूतो रेखां$^४$ कृत्वाऽवतारितः ॥ १०० ॥
'त्वं तुले सत्यधामासि पुरा देवैर्वनिर्मिता ।
तत्सत्यं वद कल्याणि ! संशयान्मां $^५$विमोचय ॥ १०१ ॥
यद्यस्मि पापकृन्मातस्ततो मां त्वमधो नय ।
शुद्धश्चेद् गमयोर्ध्वं मां तुलामित्यभिमन्त्रयेत् ॥ १०२ ॥
तुलाया धारणं तोलनं ये विदन्ति सुवर्णकारप्रभृतयस्तैः प्रतिमानेन
मृदादिना समीभूतः समीकृतस्तुलाश्रितोऽधिरूढोऽभियुक्तोऽभियोक्ता वा
दिव्यकारी रेखां कृत्वा येन संनिवेशेन प्रतिमानसमीकरणदशायां शिक्यतलेऽ-
वस्थितस्तस्मिन्पाण्डुलेखेनाङ्कयित्वाऽवतारितस्तुलामभिमन्त्रयेत् प्रार्थयेतानेन
मन्त्रेण—हे तुले ! त्वं सत्यस्य स्थानमसि, पुरा आदिसृष्टौ देवैर्हिरण्यगर्भप्र-
भृतिभिर्वनिर्मितोत्पादिता । तत्तस्मात्सत्यं संदिग्धस्यार्थस्य स्वरूपं वद दर्शय;
कल्याणि शोभने ! अस्मात्संशयान्मां विमोचय । हे मात: ! यद्यहं पापकृद-
सत्यवाद्यस्मि ततो मां त्वमधो नय । अथ शुद्धः सत्यवाद्यस्मि ततो मामूर्ध्वं
१. ततोऽन्येषु तु कार्येषु सभामध्ये विदुर्बुधाः । २. म्लेच्छानामपकारिणां ।
३. दापयेत् । ४. रेखाः । ५. विशोधय । ६. पाण्डुलेख्येन ।
व्यवहाराध्यायः २४६
गमयेति ॥ प्राड्विवाकस्य तुलाभिमन्त्रणमन्त्राः स्मृत्यन्तरोक्ताः, अयं तु दिव्य-
कारिणः । जयपराजयलक्षणं तु मन्त्रलिङ्गादेवावगम्यत इति न पृथगुक्तम् ॥
घटनिर्माणं पुनरारोहणार्थं चिह्नमेव पितामह्नारदादिभिः स्पष्टीकृतम् । तथा—
'छित्त्वा तु यज्ञियं वृक्षं यूपवन्मन्त्रपूर्वकम् । प्रणम्य लोकपालेभ्यस्तुला कार्या
मनीषिभिः ॥ मन्त्रः सौम्यो वानस्पत्यश्छेदने जप्य एव च । चतुरस्रा तुला
कार्या दृढा ऋज्वी तथैव च । कटकानि च देयानि त्रिषु स्थानेषु चार्थवत् ।
चतुर्हस्ता तुला कार्या पादौ चोपरि तत्समौ ॥ अन्तरं तु तयोर्हस्तौ भवेदध्यर्ध-
मेव वा । हस्तद्वयं निखेयं तु पादयोरुभयोरपि । तोरणे च तथा कार्ये पार्श्व-
योरुभयोरपि । घटादुच्चतरे स्यातां नित्यं दशभिरङ्गुलैः ॥ अवलम्बौ च कर्तव्यौ
तोरणाभ्यामधोमुखौ । मृन्मयौ सूत्रसंबद्धौ घटमस्तकचुम्बिनौ ॥ प्राङ्मुखो
निश्चलः कार्यः शुचौ देशे घटस्तथा । शिक्यद्वयं समासज्य पार्श्वयोरुभयोरपि ॥
प्राङ्मुखान्कल्पयेद्गर्भाञ्शिक्ययोरुभयोरपि । पश्चिमे तोलयेत्कर्तृ नन्यस्मिन्मृत्तिकां
शुभाम् ॥ पिटकं पूरयेत्तस्मिन्निष्टकाग्रावपांसुभिः । अत्र च मृत्तिकेष्टकाग्राव-
पांसूनां विकल्पः । 'परीक्षका नियोक्तव्यास्तुलामानविशारदाः ॥ वणिजो हेमं-
काराश्च कांस्यकारास्तथैव च । कार्यः परीक्षकैर्नित्यमवलम्बसमो घटः ॥ उदकं
च प्रदातव्यं घटस्योपरि पण्डितैः । यस्मिन्न प्लवते तोयं स विज्ञेयः समो
घटः ॥ तोलयित्वा नरं पूर्वं पश्चात्तभवतार्य तु । घटं तु कारयेन्नित्यं पताकाध्व-
जशोभितम् ॥ तत आवाहयेद् देवान्विधानानेन मन्त्रवित् । वादित्रतूर्यघोषैश्च
गन्धमाल्यानुलेपनैः ॥ प्राङ्मुखः प्राञ्जलिर्भूत्वा प्राड्विवाकस्ततो वदेत् । एह्येहि
भगवन्धर्म अस्मिन्दिव्ये समाविश ॥ सहितो लोकपालैश्च वस्वादित्यमरुद्गणैः ।
आवाह्य तु घटे धर्मं पश्चादङ्गानि विन्यसेत् ॥ इन्द्रं पूर्वे तु संस्थाप्य प्रेतेशं
दक्षिणे तथा । वरुणं पश्चिमे भागे कुबेरं चोत्तरे तथा ॥ अग्न्यादिलोकपालांश्च
कोणभागेषु विन्यसेत् । इन्द्रः पीतो यमः श्यामो वरुणः स्फटिकप्रभः ॥ कुबेरस्तु
सुवर्णायो वह्निश्चापि सुवर्णभः । तथैव निर्ऋतिः श्यामो वायुर्धूम्रः 'प्रशस्यते ॥
ईशानस्तु भवेद्रक्त एवं ध्यायेत्क्रमादिमान् । इन्द्रस्य दक्षिणे पार्श्वे वसूना-
राधयेद् बुधः ॥ धरो ध्रुवस्तथा सोम आपश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभा-
सश्च वासवोऽष्टौ प्रकीर्तिताः ॥ देवेशेशानयोर्मध्य आदित्यानां तथा गणम् ॥
धातार्यमा च मित्रश्च वरुणोऽशुर्भगस्तथा ॥ इन्द्रो विवस्वान्पूषा च पर्ज-
न्यो दशमः स्मृतः । ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ॥ इत्येते
१. मन्त्राः स्मृत्यन्तरोक्ताः । २. प्रान्तरं । ३. हेमकारश्च कांस्यकारः ।
४. प्राञ्जलिः प्राङ्मुखो भूत्वा । ५. ध्रुवोऽध्वरस्तथा सोमः । धरो ध्रुवश्च सोमश्च ।
६. आदित्यानां तथाथनं । आदित्याराधनं तथा । ७. वरुणोऽशो भग ।
२५० याज्ञवल्क्यस्मृतिः
द्वादशादित्या नामभिः परिकीर्तिताः । १अग्नेः पश्चिमभागे तु रुद्राणाम-
यनं विदुः ॥ वीरभद्रश्च शम्भुश्च गिरिशश्च महायशाः । अजैकपादहिर्बुध्न्यः
पिनाकी चापराजितः ॥ भुवनाधीश्वरश्चैव कपाली च विशांपतिः । स्थाणुर्भवश्च
भगवान् रुद्रास्त्वेकादश स्मृताः ॥ प्रेतेशरक्षोमध्ये तु मातृस्थानं प्रकल्पयेत् ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ वाराही चैव माहेन्द्री
चामुण्डा गणसंयुता । निर्ऋतेरुत्तरे भागे गणेशायतनं विदुः ॥ वरुणस्यो-
त्तरे भागे मरुतां स्थानमुच्यते । पवनः स्पर्शनो वायुरनिलो मारुतस्तथा ॥
प्राणः प्राणेशजीवौ च मरुतोऽष्टौ प्रकीर्तिताः । घटस्योत्तरभागे तु दुर्गामावाहयेद्
बुधः ॥ एतासां देवतानां तु स्वनाम्ना पूजनं विदुः । भूषावसानं धर्माय दत्त्वा
चार्ध्यादिकं क्रमात् ॥ अर्ध्यादिपञ्चादङ्गानां भूषणान्तमुपकल्पयेत् । गन्धादिकां
नैवेद्यान्तां परिचर्यां प्रकल्पयेत् ॥' इति । अत्र च तुलां पताकाध्वजालंकृतां
विधाय तस्यां 'एह्येही'ति मन्त्रेण धर्ममावाह्य 'धर्मायार्घ्यं कल्पयामि नमः'
इत्यादिना प्रयोगेणार्यपाद्याचमनीयमधुपर्काचमनीयस्नानवस्त्रयज्ञोपवीताचमनी-
यमुकुटकटकादिभूषणान्तं दत्त्वा इन्द्रादीनां दुर्गान्तानां प्रणवाद्यैः स्वनामभिश्च-
तुर्थ्यन्तैर्नमोन्तैर्मन्त्रैरर्ध्यादिभूषणान्तं पदार्थानुसमयेन दत्त्वा धर्माय गन्धपुष्पधूपदीप-
नैवेद्यादि दत्त्वा इन्द्रादीनां गन्धादीनि पूर्ववद्दद्यात् । गन्धपुष्पाणि च घटपूजायां
रक्तानि कार्याणि । यथाह नारदः- '२रक्तैर्गन्धैश्च माल्यैश्च धूपैर्धूपायताद्भिभिः ।
अर्चयेत्तु घटं पूर्वं ततः शिष्टांस्तु पूजयेत् ॥' इति । इन्द्रादीनां तु विशेषानभि-
धानाद्यथालाभं रक्तैरन्यैर्वा पूजनमिति पूजाक्रमः ॥ एतच्च सर्वं प्राड्विवाकः
कुर्यात् । यथोक्तम्-'प्राड्विवाकस्ततो विप्रो वेदवेदाङ्गपारगः । श्रुतवृत्तोप-
संपन्नः शान्तचित्तो विमत्सरः ॥ सत्यसंधः शुचिर्दक्षः सर्वप्राणिहिते रतः । उपो-
षितः शुद्धवासाः कृतदन्तानुधावनः ॥ सर्वासां देवतानां च पूजां कुर्याद्यथाविधि ॥'
तथा । ऋत्विग्भिश्चतुर्भिश्चतसृषु दिक्षु लौकिकाग्नौ होमः कार्यः । यथाह-
'चतुर्दिक्षु तथा होमः कर्तव्यो वेदपारगैः । आज्येन हविषा चैव समिद्भिर्होम-
साधनैः ॥ सावित्र्या प्रणवेनाथ स्वाहान्तेनैव होमयेत् ॥' प्रणवादिकां गायत्री-
मुच्चार्य पुनः स्वाहाकारान्तं प्रणवमुच्चार्य समिदाज्यचरून्प्रत्येकमष्टोत्तरशतं
जुहुयादित्यर्थः । एवं हवनान्तां देवपूजां विधायानन्तरमभियुक्तमर्थं वक्ष्यमाण-
मन्त्रसहितं पत्रे लिखित्वा तत्पत्रं शोध्य शिरोगतं कुर्यात् । यथाह - '३यदर्थम-
भियुक्तः स्याल्लिखित्वा तं तु पत्रके । मन्त्रेणानेन सहितं तत्कार्यं तु शिरोगतम् ॥'
मन्त्रश्चायम्-'आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च
१. अग्नेः पश्चिमदिग्भागे रुद्राणां स्थापनं विदुः । २. निवेद्यान्तां परि-
चर्यां । ३. यं चार्थमभियुक्तः स्यात् ।
व्यवहाराध्यायः ।
२५१
रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥' इति । एतच्च धर्मावा-
हनादि शिरसि पत्रारोपणान्तमनुष्ठानकाण्डं सर्वदिव्यसाधारणम् । यथोक्तम्—
'इमं मन्त्रविधिं कृत्स्नं सर्वदिव्येषु योजयेत् । आवाहनं च देवानां तथैव
परिकल्पयेत् ॥' इति । अनन्तरं प्राड्विवाको घटमामन्त्रयेत्; 'घटमामन्त्रयेच्चैव
विधिनानेन शास्त्रवित्' इति स्मरणात् । मन्त्राश्च दर्शिताः—'त्वं घट ! ब्रह्मणा
सृष्टः परीक्षार्थं दुरात्मनाम् । घकाराद्धर्ममूर्तिस्त्वं टकारात्कुटिलं नरम् ॥ घृतो
आवयसे यस्माद्धटस्तेनाभिधीयते । त्वं वेत्सि सर्वजन्तूनां पापानि सुकृतानि
च ॥ त्वमेव² देव ! जानीषे न विदुर्यानि मानवाः । व्यवहाराभिशस्तोऽयं
मानुषः शुद्धिमिच्छति ॥ तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥' इति । शोध्यस्तु
'त्वं तुले' इत्याविना पूर्वोक्तेन मन्त्रेण तुलामामन्त्रयेत् । अनन्तरं प्राडिवाकः
शिरोगतपत्रकं शोध्य यथास्थानं निवेश्य³ च घटमारोपयति; 'पुनरारोपयेत्त-
स्मिञ्छिरोवस्थितपत्रकम्' इति स्मरणात् । आरोपितं च विनाडीपञ्चकं यावत्त-
थैवावस्थापयेत् । तत्कालपरीक्षां च ज्योतिःशास्त्राभिज्ञः कुर्यात् ; 'ज्योतिर्विद्
ब्राह्मणः श्रेष्ठः कुर्यात्कालपरीक्षणम् । विनाड्यः पञ्च विज्ञेयाः परीक्षाकाल-
कोविदैः ॥' इति स्मरणात् । दशगुर्वक्षरोच्चारकालः प्राणः । षट्प्राणा
विनाडी । उक्तं च—'दशगुर्वर्णः प्राणः षट् प्राणाः स्युर्विनाडिका तासाम् ।
षष्ट्या घटी घटीनां षष्ट्याहः⁴ खाम्भिनिर्विनैर्मासः ॥' इति । तस्मिंश्च काले
शुद्धयशुद्धिपरीक्षणार्थं शुचयः पुरुषा राज्ञा नियोक्तव्याः । ते च शुद्धयशुद्धी
कथयन्ति । यथोक्तं पितामहेन—'साक्षिणो ब्राह्मणाः श्रेष्ठा यथादृष्टार्थवादिनः ।
ज्ञानिनः शुचयोऽलुब्धा नियोक्तव्या नृपेण तु ॥ शंसन्ति साक्षिणः श्रेष्ठैः⁶
शुद्धयशुद्धी⁵ नृपे तदा ॥' इति । शुद्धयशुद्धिनिर्णयकारणं चोक्तम् ( नारदः
१।२८३ )—'तुलितो यदि वर्धेत स शुद्धः स्यान्न संशयः । समो वा हीयमानो
वा न सँ⁷ शुद्धो भवेन्नरः ॥' इति । यत्तु पितामहवचनम्—'अल्पदोषः समो
ज्ञेयो बहुदोषस्तु हीयते' इति, तन्न यद्यप्यभियुक्तस्यार्थस्याल्पत्वं बहुत्वं च न
दिव्यैनावधारयितुं शक्यते तथापि सकृदमतिपूर्वत्वेनाल्पत्वमसकृन्मतिपूर्वत्वेन
च महत्त्वमिति दण्डप्रायश्चित्ताहपत्वमहत्त्वमवधार्यते । तदा चानुपलक्ष्यमाण-
दृष्टकारण एव कक्षादीनां छेदो भङ्गो वा भवति तदाप्यशुद्धिरेव—( नारदः
१।२८४ ) 'कक्षाच्छेदे तुलाभङ्गे घटकर्कटयोस्तथा । रज्जुच्छेदेऽक्षभङ्गे च तथैवा-
शुद्धिमादिशेत् ॥' इति स्मरणात् । कक्षं शिक्यतलम् । कर्कटौ तुलान्तयोः
१. सर्वभूतानां ।
२. त्वमेव सर्वं ।
३. यथानिवेशं च ।
४. षष्ट्याहोरात्र उक्तश्च ।
५. शोध्यशुद्धि ।
६. सर्वै ।
७. वेशुद्धो ।
८. छेदे च भङ्गे च ।
२५२ याज्ञवल्क्यस्मृतिः
शिक्याधारावीषद्धकावायसकीलकौ कर्कटशृङ्गसंनिभौ । अधः पादस्तम्भयो-
रुपारि निविष्टस्तुलाधारपट्टः । यदा तु दृश्यमानकारणक एषां भङ्गस्तदा पुनरा-
रोपयेत् ; 'शिक्यादिच्छेद्भङ्गेषु पुनरारोपयेन्नरम्' इति स्मरणात् । ततश्च—
'ऋत्विक्पुरोहिताचार्यान्दक्षिणाभिश्च तोषयेत् । एवं कारयिता राजा भुक्त्वा
भोगान्मनोरमान् ॥ महतीं कीर्तिमाप्नोति ब्रह्मभूयाय कल्पते ॥' यदा तूक्तलक्षणं
घटं तथैव स्थापयितुमिच्छति तदा वायसाद्युपघातनिरासार्थं कपाटादिसहितां
शालां कुर्यात् ; 'विशालामुन्नतां२ शुभ्रां घटशालां तु कारयेत् । यत्रस्था नोप-
हन्येत श्वमिश्चण्डालवायसैः ॥ तत्रैव लोकपालादीन्सर्वान्दिक्षु निवेशयेत् ।
त्रिसन्ध्यं पूजयेदेतान्गन्धमाल्यानुलेपनैः ॥ कपाटबीजसंयुक्तां परिचारकर-
क्षिताम् । मृत्पानीयाग्निसंयुक्तामशून्यां कारयेन्नृपः ॥' इति स्मरणात् ।
बीजानि यवव्रीह्यादीनि ॥ ॥ १००-१०२ ॥
भाषा—तौलने में जो निपुण ( सुवर्णकार आदि ) हों, उनसे अभियुक्त
को तुला पर चढ़ा कर तौलावे और उसके बराबर जो मिट्टी आदि वस्तु हो
उसके बराबर रेखा बनाकर उसे तुला से उतारे । इसके बाद दिव्य करने वाला
तुला की इस प्रकार प्रार्थना करे—हे तुला ! तुम सत्य के स्थान हो । आदि-
काल में देवताओं ने तुम्हारी सृष्टि की है। हे कल्याणी ! तुम सत्य को प्रकट
करो और मुझे इस संशय से विमुक्त करो । हे माता, यदि मैं पापी हूँ तो
मुझे नीचे ले जाओ और यदि मैं निर्दोष हूँ तो मुझे ऊपर उठाओ ॥१००-१०२॥
इति घटविधिः ॥
इदानीं ३क्रमप्राप्तमग्निदिव्यमाह—
करौ विमृदितै४र्व्रीहेर्लक्षयित्वा ततो न्यसेत् ।
सप्त५श्वत्थस्य पत्राणि तावत्६सूत्रेण वेष्टयेत् ॥ १०३ ॥
दिव्यमातृकोक्तसाधारणधर्मेषु सत्सु तुलाविधानोक्तधर्मावाहनादिशिरःपत्रा-
रोपणान्ते च विध्यन्ते सत्ययमग्निविधौ विशेषः । विमृदितव्रीहिर्विमृदिता
विघर्षिता व्रीहयः कराभ्यां येनासौ विमृदितव्रीहिस्तस्य करौ लक्षयित्वा
तिलकालकव्रणकिणादिस्थानेष्वलक्तरसादिनाऽङ्कयित्वा । यथाह नारदः
(१।३०१)—'हस्तक्षतेषु सर्वेषु कुर्याद्गुंसपदानि तु' इति । अनन्तरं सप्ताश्वत्थस्य
प७र्णानि हस्तयोरञ्जलीकृतयोर्न्यसेत्—'पत्रैरञ्जलिमापूर्य आश्वत्थैः सप्तभिः समैः'
१. भङ्गे तु । २. मुच्छ्रितां । ३. अग्निविधिं । अग्निविधानं ।
४. तन्ब्रीही लक्ष । ५. सप्त चाश्वत्थपत्राणि । ६. तावत्सूत्राणि वेष्टयेत् ।
७. पत्राणि ।
व्यवहाराध्यायः २५३
इति स्मरणात् । तानि च ^१हस्तसहितानि सूत्रेण तावद्वेष्टयेत् । यावन्त्यश्वत्थप-
र्णानि सप्तकृत्वो वेष्टयेदित्यर्थः । सूत्राणि च सप्त शुक्लानि भवन्ति—वेष्टयीत
सितैर्हस्तौ सप्तभिः सूत्रतन्तुभिः' इति नारदवचनात् । तथा सप्त शमीपत्राणि
सप्तैव दूर्वापत्राणि चाक्षतांश्च दध्यक्तानक्षतांश्चाश्वत्थपत्राणामुपरि विन्यसेत् ;
'सप्त पिप्पलपत्राणि शमीपत्राण्यथाक्षतान् । दूर्वायाः सप्त पत्राणि दध्यक्तांश्चाक्ष-
तान्न्यसेत् ॥' इति स्मरणात् । तथा कुसुमानि च विन्यसेत् ; 'सप्त पिप्पलप-
त्राणि अक्षतान्सुमनो दधि । हस्तयोर्निचिपेत्तत्र सूत्रेणावेष्टनं तथा ॥' इति पिता-
महवचनात् । सुमनसः पुष्पाणि । यदपि स्मरणम्—'अयस्तप्तं तु पाणिभ्याम-
र्कपर्णैस्तु सप्तभिः । अन्तर्हितं हरन् शुद्धस्त्वदग्धः सप्तमे पदे ॥' इति, तदप्यश्व-
त्थपत्राभावेऽर्कपत्रविषयं वेदितव्यम्; अश्वत्थपत्राणां पितामहप्रशंसावचनेन मुख्य-
त्वावगमात्—'पिप्पलाज्जायते वह्निः पिप्पलो वृक्षराट् स्मृतः । अतस्तस्य तु
पत्राणि हस्तयोर्विन्यसेद् बुधः ॥' इति १०३ ॥
भाषा—अग्नि का दिव्य करने वाले के दोनों हाथों में धान मलवा कर
हथेलियों पर बने हुए व्रणादि के स्थानों पर अलक्तक रस से चिह्न बनवाकर
उसके ऊपर पीपल के सात पत्ते रखे और उन्हें ( सात श्वेत ) धागों से लपेट
देवे ॥ १०३ ॥
कर्तुरग्न्यभिमन्त्रणमाह—
त्वमग्ने ! सर्वभूतानामन्तरश्चरसि पावक ! ।
साक्षिवत्पुण्यपापेभ्यो ब्रूहि सत्यं कवे ! मम ॥ १०४ ॥
हे अग्ने ! त्वं सर्वभूतानां जरायुजाण्डजस्वेदजोद्भिज्ञानामन्तः शरी-
राभ्यन्तरे चरसि उपयुक्तान्नपानादीनां पाचकत्वेन वर्तसे । पावक शुद्धिहेतो !
कवे क्रान्तदर्शिन् । साक्षिवत् पुण्यपापेभ्यः सत्यं ब्रूहि । 'पुण्यपापेभ्यः' इति
ल्यब्लोपे पञ्चमी । पुण्यपापान्ववेक्ष्य सत्यं ब्रूहि दर्शयेत्यर्थः । अयःपिण्डे त्रिभि-
स्तापैः संतप्ते संदंशेन पुरत आनीते कर्ता पश्चिममण्डले प्राङ्मुखस्तिष्ठन् अनेन
मन्त्रेणाग्निं अभिमन्त्रयेत् । यथाह नारदः (१।२८८-८९)—'अग्निवर्णमयःपिण्डं
सस्फुलिङ्गं सुरक्षितम् । तापे तृतीये संताप्य ब्रूयात्सत्यपुरस्कृतम् ॥' इति ।
अस्यार्थः-लोहशुद्ध्यर्थं सुतप्तं लोहपिण्डमुदके निक्षिप्य पुनः संताप्योदके निक्षि-
प्य तृतीये तापे संताप्य संदंशेन गृहीत्वा पुरत आनीते सत्यपुरस्कृतं सत्यशब्द-
युक्तं 'त्वमग्ने सर्वभूतानाम्'इत्यादिमन्त्रं कर्ता ब्रूयादिति ॥ प्राड्विवाकस्तु मण्ड-
लभूभागाद्दक्षिणप्रदेशे लौकिकमग्निमुपसमाधाय 'अग्नये पावकाय स्वाहा' इत्या-
१. स्वहस्तसहितानि । २. अन्तर्हितं रहः शुद्धमदग्धः । अन्तर्हितैर्हरन् ।
२५४ याज्ञवल्क्यस्मृतिः
ज्येन्राष्टोत्तरशतवारं जुहुयात् ; 'शान्त्यर्थं जुहुयादग्नौ घृतमष्टोत्तरं शतम्' इति
स्मरणात् । हुत्वा च तस्मिन्नग्नावयःपिण्डं प्रक्षिप्य तस्मिंस्ताप्यमाने धर्मावाह-
नादिहवनान्तं पूर्वोक्तं विधिं विधाय तृतीये तापे वर्तमाने अयःपिण्डस्थमग्निमे-
भिर्मन्त्रैरभिमन्त्रयेत्—'त्वमग्ने ! वेदाश्चत्वारस्त्वं च यज्ञेषु हूयसे । त्वं मुखं सर्वदे-
वानां त्वं मुखं ब्रह्मवादिनाम् ॥ जठरस्थो हि भूतानां ततो वेत्सि शुभाशुभम् । पापं
पुनासि वै यस्मात्तस्मात्पावक ! उच्यसे । पापेषु दर्शयात्मानमर्चिष्मान्भव पावक ! ।
अथवा शुद्धभावेषु शीतो भव हुताशन ! ॥ त्वमग्ने ! सर्वदेवाना मन्तरश्चरसि
साक्षिवत् । त्वमेव देव ! जानीषे न विदुर्यानि १मानुषाः ॥ व्यवहाराभिशस्तोऽयं
मानुषः शुद्धिमिच्छति । तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥' इति ॥ १०४ ॥
भाषा-( इसके बाद दिव्य करने वाला प्रार्थना करे ) —हे अग्नि ! तुम
सभी प्राणियों के शरीर में विद्यमान हो । हे पवित्र करने वाले, क्रान्तदर्शी कवि
पुण्य और पाप के साक्षी होकर सत्य को प्रकाशित करो ॥ १०४ ॥
तस्येत्युक्तवतो लौहं पञ्चाशत्पलिकं समम् ।
अग्निवर्णं न्यसेत्पिण्डं हस्तयोरुभयोरपि ॥ १०५ ॥
अपि च, तस्य कर्तुरित्युक्तवतः 'त्वमग्ने सर्वभूतानामि'त्यादिभिर्मन्त्रैरभि-
मन्त्रणं कृतवतो लौहं लोहविकारं पिण्डं पञ्चाशत्पलिकं पञ्चाशत्पलसंमितं
सममक्षरहितम् । सर्वतश्च समं वृत्तं श्लक्ष्णं तथाऽष्टाङ्गुलायामम् ; 'अक्षहीनं समं
कृत्वा अष्टाङ्गुलमयूमयम् । पिण्डं तु तापयेदग्नौ पञ्चाशत्पलिकं समम् ॥ इति
पितामहस्मरणात् । अग्निवर्णमग्निसदृशमुभयोर्हस्तयोरश्वत्थपत्रदधिदूर्वाद्य-
न्तरितयोर्न्यसेन्निक्षिपेत्प्राड्विवाकः ॥ १०५ ॥
भाषा—उसके ऐसा कहने के बाद उसके दोनों हाथों पर पचास पल
तौल का लोहे का पिण्ड अग्नि के समान लाल करके रखे ॥ १०५ ॥
ततः किं कुर्यादित्यत आह—
स तमादाय सप्तैव मण्डलानि शनैर्व्रजेत् ।
स पुरुषस्तं तप्तलोहपिण्डं अञ्जलिना गृहीत्वा सप्त मण्डलानि शनैर्व्रजेत् ।
एवकारेण मण्डलेष्वेव पदन्यासं मण्डलानतिक्रमणं च दर्शयति । यथाह पिता-
महः—'न मण्डलमभिक्रामेन्नाप्यर्वाक्स्थापयेत्पदम्' इति ॥—
सप्तैव मण्डलानि शनैर्व्रजेदित्युक्तं, तत्रैकैकं मण्डलं किंप्रमाणकं मण्डलयो-
रन्तरं च कियत्प्रमाणकमित्यत आह—
३षोडशाङ्गुलकं ज्ञेयं मण्डलं तावदन्तरम् ॥ १०६ ॥
१. मानवाः २. न्यसेत्क्षिप्तं । ३. षाङ्गुलिकं ।
व्यवहाराध्यायः २५५
षोडश अङ्गुलानि यस्य तत् षोडशाङ्गुलकम् । षोडशाङ्गुलप्रमाणं मण्डलं
बोद्धव्यम् । मण्डलयोरन्तरं मध्यं च तावदेव षोडशाङ्गुलकमेव ।—सप्त
मण्डलानि व्रजेदिति वदता प्रथममवस्थानमण्डलमेकमुक्तम् । अत श्चाष्टमण्ड-
लानि षोडशाङ्गुलकानि मण्डलानामन्तराणि मध्यानीत्यर्थः । मण्डलान्तराणि तु
सप्त तावत्प्रमाणानि ॥ एतदेव नारदेन परिसंख्योयोक्तम् ( १।२७५, ७६ )—
‘द्वात्रिंशदङ्गुलं प्राहुर्मण्डलान्मण्डलान्तरम् । अष्टभिर्मण्डलैरेवमङ्गुलानां शतद्व-
यम् । चत्वारिंशत्समधिकं भूमेरङ्गुलमानतः ॥’ इति । अयमर्थः—अवस्थानम-
ण्डलात्षोडशाङ्गुलान्मण्डलान्तरमन्यन्मण्डलम् । द्वितीयाद्येकमेकं द्वात्रिंशदङ्गुलं
सान्तरालं, तदेवमवस्थानमण्डलं षोडशाङ्गुलम् । गन्तव्यानि च सप्त मण्डलानि
सान्तरालानि द्वात्रिंशदङ्गुलानि । एवमष्टाभिर्मण्डलैश्र्चत्वारिंशदधिकं शतद्वयं
भूमेरङ्गुलमानतोऽङ्गुलमानमिति सार्वविभक्तिकस्तसिः । अस्मिंस्तु पक्षेऽवस्थानम-
ण्डलं षोडशाङ्गुलं विधाय द्वात्रिंशदङ्गुलप्रमाणानां सप्तानां सान्तरालमण्डलभ्रू-
भागानामेकमेकं भूभागं द्विधा विभज्यान्तरालभूभागान्वोडशाङ्गुलप्रमाणान्वि
हाय मण्डलभ्रूभागेषु द्विषोडशाङ्गुलप्रमाणेषु गन्तृपदप्रमाणानि सप्त मण्डलानि
कार्याणि । यथा तेनैवोक्तम् ( नारदः १।२९९ )—‘मण्डलस्य प्रमाणं तु कुर्या-
त्तत्पदसंमितम्’ इति । यत्तु पितामहेनोक्तम्—‘कारयेन्मण्डलान्यष्टौ पुरस्तान्न-
वमं तथा । आग्नेयं मण्डलं चाद्यं द्वितीयं वारुणं स्मृतम् ॥ तृतीयं वायुदैवत्यं
चतुर्थं यमदैवतम् । पञ्चमं त्विन्द्रदैवत्यं षष्ठं कौबेरमुच्यते । सप्तमं सोमदैवत्यं
सावित्रं त्वष्टमं तथा । नवमं सर्वदैवत्यमिति दिव्यविदो विदुः ॥ द्वात्रिंशदङ्गुलं
प्राहुर्मण्डलान्मण्डलान्तरम् । अष्टाभिर्मण्डलैरैवमङ्गुलानां शतद्वयम् ॥ षट्-
पञ्चाशत्समधिकं भूमेस्तु परिकल्पना । कर्तुः पदसमं कार्यं मण्डलं तु प्रमा-
णतः ॥ मण्डले मण्डले देयाः कुशाः शास्त्रप्रचोदिताः॥’ इति ।—तत्र नवमं सर्व-
दैवत्यमपरिमित्राङ्गुलप्रमाणं मण्डलं विहायाष्टाभिर्मण्डलैरष्टाभिश्चान्तरालैः प्रत्येकं
षोडशाङ्गुलप्रमाणैरङ्गुलानां षट्पञ्चाशदधिकं शतद्वयं संपद्यते । तत्रापि गन्त-
व्यानि सप्तैव मण्डलानि । यतः प्रथमे तिष्ठति नवमे क्षिपतीति न विरुध्यते ।
अङ्गुलप्रमाणं च—‘तिर्यग्यवोदराण्यष्टावूर्ध्वा वा व्रीहयस्त्रयः । प्रमाणमङ्गुलस्योक्तं
वितस्तिर्द्वादशाङ्गुला ॥ हस्तो वितस्तिद्वितयं दण्डो हस्तचतुष्टयम् । तत्सहस्रद्वयं
क्रोशो योजनं तच्चतुष्टयम् ॥’ इति बोद्धव्यम् ॥ १०६ ॥
भाषा—वह उस तप्त लौहपिण्ड को लेकर धीरे-धीरे सात मण्डल चले ।
१. परिसंख्येयोक्तम् । २. द्वादशाङ्गुलप्रमाणानां । ३. तन्नवमं ।
४. द्वादशाङ्गुलः ।
२५६ याज्ञवल्क्यस्मृतिः
एक मण्डल सोलह अङ्गुल का होता है और दो मण्डलों के बीच इतना ही
(सोलह अङ्गुल) अन्तर रहता है ॥ १०६ ॥
सप्त मण्डलानि गत्वा किं कर्तव्यमित्यत आह—
मुक्त्वाग्निं मृदितव्रीहिरदग्धः शुद्धिमाप्नुयात् ।
अष्टमे मण्डले स्थित्वा नवमे मण्डलेऽग्नितप्तमयःपिण्डं त्यक्त्वा व्रीहीन्
कराभ्यां १ मर्दयित्वाऽदग्धहस्तश्चेच्छुद्धिमाप्नुयात् । दग्धहस्तश्चेदशुद्ध
इत्यर्थसिद्धम् । यस्तु संत्रासात्प्रस्खलन्हस्ताभ्यामन्यत्र दह्यते तथाप्यशुद्धो न
भवति । तथाह कात्यायनः—'प्रस्खलन्नभिशस्तश्चेत्स्थानादन्यत्र दह्यते । अदग्धं
तं विदुर्दैवात्तस्य भूयोऽपि दापयेत् ॥' इति ॥—
अन्तरा पतिते पिण्डे संदेहे वा पुनर्हरेत् ॥ १०७ ॥
यदा गच्छतोऽन्तराष्टममण्डलादर्वागेव पिण्डः पतति दग्धादग्धत्वे वा संश-
यस्तदा पुनर्हरेत् इत्यर्थप्राप्तमुक्तम् । तत्र चायमनुष्ठानक्रमः—पूर्वेद्युर्भूशुद्धिं २
विधायोत्तरेद्युर्मण्डलानि यथाशास्त्रं निर्माय मण्डलाधिदेवताश्च मन्त्रैस्तत्र तत्र
संपूज्याग्निसुपसमाधाय शान्तिहोमं निर्वर्त्याग्नावयःपिण्डं निधाय धर्मावाह-
नादिसर्वदेवतापूजां हवनान्तां निर्वर्त्य उपोषितस्य स्नातस्यार्द्रवाससः पश्चिमे ३
मण्डले तिष्ठतो व्रीहिमर्द्दनादिकरसंस्कारं विधाय प्रतिज्ञापत्रं समन्त्रकं कर्तुः शिरसि
बद्ध्वा प्राड्विवाकस्तृतीये तापेऽग्निमभिमन्त्र्य तप्तमयःपिण्डं संदंशेन ४ गृहीत्वा
कर्त्रभिमन्त्रितं तस्याञ्जलौ निदध्यात् । सोऽपि मण्डलानि सप्त गत्वा नवमे
मण्डले प्रक्षिप्यादग्धः शुद्धो भवतीति ॥ १०७ ॥
भाषा—(उसके बाद) अग्नि को गिराकर फिर व्रीहि हाथों से मले ।
यदि जला नहीं रहता है तो शुद्ध होता है । यदि जलने के सन्देह से लौह-
पिण्ड बीच ही में गिर जाय तो उसे पुनः उठाकर ले चले ॥ १०७ ॥
इत्यग्निविधिः ॥
संप्रत्युदकविधिमाह—
सत्येन माऽभिरक्ष त्वं वरुणेत्यभिशौप्य कम् ।
नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं विशेत् ॥ १०८ ॥
हे वरुण ! 'सत्येन मामभिरक्ष त्वम्' इत्यनेन मन्त्रेण कमुदकमभिशाप्या-
भिमन्त्र्य नाभिदघ्नोदकस्थस्य नाभिप्रमाणोदकस्थितस्य पुरुषस्योरू गृहीत्वा
१. कराभ्यां व्रीहीन् । २. भूतशुद्धिं । ३. पश्चिममण्डले । ४. संदं-
शेन । ५. अभिशाप्य । अभिशाय्य ।
शोध्यो जलं प्रविशेत् जले निमज्जेत् । एतच्च वरुणपूजायां सत्याम् ; 'गन्ध-
माल्यैः सुरभिभिर्मधुक्षीरघृतादिभिः । वरुणाय प्रकुर्वीत पूजामादौ समाहितः ॥'
इति नारदस्मरणात् । तथा साधारणधर्मेषु धर्मावाहनादिसकल१देवतापूजाहो-
मसमन्त्रकप्रतिज्ञापत्रशिरोनिवेशनान्तेषु सत्सु च । तथा—'तोय ! त्वं प्राणिनां
प्राणः सृष्टेराद्यं तु निर्मितम् । शुद्धेश्च कारणं प्रोक्तं द्रव्याणां देहिनां तथा ॥
अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे ॥' इति प्राड्विवाकेनोदकाभिमन्त्रणे कृते
शोध्यः 'सत्येन माऽभिरक्ष त्वं वरुण !' इति जलं प्रार्थयेत् । उदकस्थानानि च
नारदेनोक्तानि ( १३०५ )—'नदीषु तनुवेगासु सागरेषु वहेषु च । ह्रदेषु देव-
खातेषु तडागेषु सरःसु च' इति । तथा पितामहेनापि—'स्थिरतोये निर्मज्जेत
न ग्राहिणि न चाल्पके । तृणशैवालरहिते जलौकामत्स्यवर्जिते ॥ देवखातेषु
यत्तोयं तस्मिन्कुर्याद्विशोधनम् । आहार्यं वर्जयेन्नित्यं शीघ्रगासु नदीषु च ॥
आविशेत्सलिले नित्यमूर्निमपङ्कविवर्जिते ॥' इति । आहार्यं तडागादिभ्य आहृतं
ताम्रकटाहादिस्थितं जलम् । नाभिप्रमाणोदकस्थश्च यज्ञियवृक्षोद्भवां धर्मस्थूणाम-
वष्टभ्य प्राङ्मुखस्तिष्ठेत् ; 'उदके प्राङ्मुखस्तिष्ठेद्धर्मस्थूणां प्रगृह्य च ।' इति
स्मरणात् ॥ १०८ ॥
भाषा—'हे वरुण ! तुम सत्य द्वारा मेरी रक्षा करो' इस प्रकार जल का
आवाहन कर के नाभि तक जल में खड़े हुए पुरुष की जाँघों को पकड़कर
जल में डुबकी लगावे ॥ १०८ ॥
ततः किं कर्तव्यमित्यत आह—
समकालमिषुं मुक्तमानीय़ान्यो जवी नरः ।
गते तस्मिन्निमग्नाङ्गं पश्येच्चेच्छुद्धिमाप्नुयात् ॥ १०९ ॥
निमज्जनसमकालं गते तस्मिन् जविन्येकस्मिन्पुरुषे अन्यो जवी शरपात-
स्थानस्थितः पूर्वमुक्तमिषुमानीय जले निमग्नाङ्गं यदि पश्यति तदा स शुद्धो
भवति । एतदुक्तं भवति—त्रिषु शरेषु मुक्तेष्वेको वेगवान्मध्यमशरपातस्थानं
गत्वा तमादाय तत्रैव तिष्ठति । अन्यस्तु पुरुषो वेगवान् शरमोक्षस्थाने तोरण-
मूले तिष्ठति । एवं स्थितयोस्तृतीयास्यां करतालिकायां शोध्यो निमज्जति ।
तत्समकालमेव तोरणमूलस्थितोऽपि द्रुततरं मध्यशरपातस्थानं गच्छति । शर-
ग्राही च तस्मिन्प्राप्ते द्रुततरं तोरणमूलं प्राप्य़ान्तर्जलगंतं यदि न पश्यति १०तदा
१. देवपूजा । २. इत्युक्तं प्रार्थयते । ३. निमज्जेत्तु । ४. जलूका ।
५. मानयेद्यो । ६. गतेऽन्यस्मिन् । ७. तदा शुद्धो । ८. स्थितयो-
स्तयोस्तृतीय । ९. मध्यमशर । १०. तदा शुद्धिं व्रजतीति ।
[Page Header: २५८ याज्ञवल्क्यस्मृतिः]
शुद्धो भवतीति । एतदेव स्पष्टीकृतं पितामहेन—'गन्तुश्चापि च कर्तुश्च समं
गमनमज्जनम् । गच्छेत्तोरणमूलात्तु लक्ष्यस्थानं जवी नरः ॥ तस्मिन्गते द्विती-
योऽपि वेगादादाय सायकम् । गच्छेत्तोरणमूलं तु यतः स पुरुषो गतः ॥ आग-
तस्तु शरग्राही न पश्यति यदा जले । अन्तर्जलगतं सम्यक्तदा शुद्धं विनिद्दिँ-
शेत् ॥' इति । जविनोश्च पुरुषयोर्निर्धारणं कृतं नारदेन—'पञ्चाशतो धावकानां
यौ स्यातामधिकौ जवे । तौ च तत्र नियोक्तव्यौ शरानयनकारणात् ॥' इति ।
तोरणं च निमज्जनसमीपस्थाने समे शोध्यकर्णप्रमाणोच्छ्रितं कार्यम् ; 'गत्वा
तु तज्जलस्थानं तटे तोरणमुच्छ्रितम् । कुर्वीत कर्णमात्रं तु भूमिभागे समे
शुचौ ॥' इति नारदस्मरणात् । शरत्रयं वैणवं च धनुर्मङ्गलद्रव्यैः श्वेतपुष्पादिभिः
प्रथमं संपूजयेत् ; 'शरान्संपूजयेत्पूर्वं वैणवं च धनुस्तथा । मङ्गलैर्धूपपुष्पैश्च ततः
कर्म समाचरेत् ॥' इति पितामहवचनात् । धनुषः प्रमाणं लक्ष्यस्थानं च नारदे-
नोक्तम्—'क्रूरं धनुः सप्तशतं मध्यमं षट्शतं स्मृतम् । मन्दं पञ्चशतं ज्ञेयमेष
ज्ञेयो धनुर्विधिः ॥ मध्यमेन तु चापेन प्रक्षिपेच्च शरत्रयम् । हस्तानां तु शते
सार्धे लक्ष्यं कृत्वा विचक्षणः ॥ न्यूनाधिके तु दोषः स्यात्क्षिपतः सायकां-
स्तथा ॥' इति । अङ्गुलानां सप्ताधिकं शतं सप्तशतं क्रूरं धनुः । एवं षट्शतं
पञ्चशतं च । एवं चैकादशाङ्गुलाधिकं हस्तचतुष्टयं क्रूरस्य धनुषः प्रमाणम्,
मध्यमस्य दशाङ्गुलाधिकम्, मन्दस्य नवाङ्गुलाधिकमित्युक्तं भवति ।
शराश्चानायसाग्रा वैणवाः कार्याः; •'शरांश्चानाय साग़्रांस्तु प्रकुर्वीत
विशुद्धये । वेणुकाण्डमयांश्चैव क्षेप्ता तु सुदृढं क्षिपेत् ॥' इति स्मरणात् ।
क्षेप्ता क्षत्रियस्तद्वृत्तिर्वा ब्राह्मणः सोपवासो नियोक्तव्यः । यथाह—'क्षेप्ता च
क्षत्रियः प्रोक्तस्तद्वृत्तिर्ब्राह्मणोऽपि वा । अक्रूरहृदयः शान्तः सोपवासस्ततः
क्षिपेत् ॥' इति । त्रिषु मुक्तेषु मध्यमः शरो ग्राह्यः; तेषां च प्रोषितानां च
शराणां शास्त्रचोदनात् । मध्यमस्तु शरो ग्राह्यः पुरुषेण बलीयसा ॥' इति वच-
नात् । तत्रापि पतनस्थानादानेतव्यः; न सर्पणस्थानात्, 'शरस्य पतनं ग्राह्यं
सर्पणं तु विवर्जयेत् । सर्पन्सर्पन्शरो यायाद् दूराद्दूरतरं यतः ॥' इति वचनात् ।
वाते च प्रवायति विषमादिदेशे च शरमोक्षो न कर्तव्यः; 'इषुं न प्रक्षिपेद्विद्वा-
न्मारुते चातिवायति । विषमे भूप्रदेशे च वृक्षस्थानसमाकुले ॥ तृणगुल्मलता-
वल्लीपङ्कपाषाणसंयुते ॥' इति पितामहवचनात् । निमग्नाङ्गं पश्येच्चेच्छुद्धिमा-
प्नुयादिति वदता उन्मज्जिताङ्गस्याशुद्धिर्दर्शिता । स्थानान्तरगमने चाशुद्धिः
पितामहेनोक्ता; 'अन्यथा न विशुद्धिः स्यादेकाङ्गस्यापि दर्शनात् ॥' इति 'स्था-
नाङ्गाऽन्यत्र गमनाद्यस्मिन्पूर्वं निवेशितः ॥' इति एकाङ्गस्यापि दर्शनादिति च
१. प्रक्षितानां च । २. च प्रवाति ।
व्यवहाराध्यायः २५६
कर्णाद्यभिप्रायेण । 'शिरोमात्रं तु दृश्येत न कर्णौ नापि नासिका । अप्सु प्रवेशने
यस्य शुद्धं तमपि निर्दिशेत् ॥' इति विशेषाभिधानात् । अयमत्र प्रयोगक्रमः—
'उक्तलक्षणजलाशयसंनिधावुक्तलक्षणं तोरणं विधाय उक्तप्रमाणे देशे लक्ष्यं
निधाय तोरणसंनिधौ १ सशरं धनुः संपूज्य जलाशये वरुणमावाह्य पूजयित्वा
तत्तीरे धर्मादींश्च देवान्हवनान्तेमिष्ट्वा शोध्यस्य शिरसि प्रतिज्ञापत्रमाबध्य
प्राड्विवाको जलमभिमन्त्रयते-'तोय ! त्वं प्राणिनां प्राणः' इत्यादिना मन्त्रेण ।
अथ शोध्यः—'सत्येन' इत्यादिना मन्त्रेण जलमभिमन्त्र्य गृहीतस्थूणस्य
नाभिमात्रोदकावस्थितस्य बलीयसः पुरुषस्य समीपमुपसर्पति । अथ शरेषु त्रिषु
मुक्तेषु मध्यमशरपातस्थाने मध्यमं शरं गृहीत्वा जविन्वेकस्मिन्पुरुषे स्थिते
अन्यस्मिंश्च तोरणमूले स्थिते प्राड्विवाकेन तालत्रये दत्ते युगपद्गमनमज्जनमथ
शरानयनमिति ॥ १०९ ॥
भाषा—उसके डुबकी लगाने के समय ही छोड़े गये बाण को लानेके
लिए एक तेज दौड़ने वाला व्यक्ति जावे; लौटने पर यदि वह दिव्य करने वाले
व्यक्ति को जल डूबा हुआ ही पावे तो वह शुद्ध होता है ॥ १०९ ॥
इत्युदकविधिः ॥
इदानीं विषविधानमाह—
त्वं विष ! ब्रह्मणः पुत्रः सत्ये धर्मे २ व्यवस्थितः ।
त्रायस्वास्मादभीशापात्सत्येन भव मेऽमृतम् ३ ॥ ११० ॥
एवमुक्त्वा विषं शार्ङ्गं भक्षयेद्धिमशैलजम् ।
यस्य वेगैर्विना ४ जीर्येच्छुद्धिं तस्य विनिर्दिशेत् ॥ १११ ॥
'त्वं विष'इत्यादिमन्त्रेण विषमभिमन्त्र्य कर्ता विषं हिमशैलजं शृङ्गभवं भक्षयेत् ।
तच्च भक्षितं सत् यस्य विषं वेगैर्विना जीर्यति स शुद्धो भवति । विषवेगो नाम
धातोर्धात्वन्तरप्राप्तिः । 'धातोर्धात्वन्तरप्राप्तिर्विषवेग इति स्मृतः' इति वचनात् ।
धातवश्च त्वगसृङ्मांसमेदोस्थिमज्जाशुक्राणीति सप्त । एवं च सप्तैव विषवेगा
भवन्ति । तेषां च लक्षणानि पृथगेव विषतन्त्रे कथितानि—'वेगो रोमाञ्चमाद्यो
रचयति विषजः स्वेदवक्त्रोपशोषौ तस्योर्ध्वंस्तत्परौ द्वौ वपुषि जनयतो वर्णभे-
दप्रवेपौ । यो वेगः पञ्चमोऽसौ नयति विवशतां कण्ठभङ्गं च हिक्कां षष्ठो
निःश्वासमो हौ वितरति च मृतिं सप्तमो भक्षकस्य ॥' इति । अत्र च महादेवस्य
१. समीपे सशरं । २. सत्ये धर्मे, ; सत्यधर्मेव्यवस्थितः । ३. व्यव-
स्थितम् । ४. जीर्णं तस्य शुद्धिं विनिर्दिशेत् । ५. नयनविवशतां ।
१७ या०