याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 307, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः ।
२५१
रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥' इति । एतच्च धर्मावा-
हनादि शिरसि पत्रारोपणान्तमनुष्ठानकाण्डं सर्वदिव्यसाधारणम् । यथोक्तम्—
'इमं मन्त्रविधिं कृत्स्नं सर्वदिव्येषु योजयेत् । आवाहनं च देवानां तथैव
परिकल्पयेत् ॥' इति । अनन्तरं प्राड्विवाको घटमामन्त्रयेत्; 'घटमामन्त्रयेच्चैव
विधिनानेन शास्त्रवित्' इति स्मरणात् । मन्त्राश्च दर्शिताः—'त्वं घट ! ब्रह्मणा
सृष्टः परीक्षार्थं दुरात्मनाम् । घकाराद्धर्ममूर्तिस्त्वं टकारात्कुटिलं नरम् ॥ घृतो
आवयसे यस्माद्धटस्तेनाभिधीयते । त्वं वेत्सि सर्वजन्तूनां पापानि सुकृतानि
च ॥ त्वमेव² देव ! जानीषे न विदुर्यानि मानवाः । व्यवहाराभिशस्तोऽयं
मानुषः शुद्धिमिच्छति ॥ तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥' इति । शोध्यस्तु
'त्वं तुले' इत्याविना पूर्वोक्तेन मन्त्रेण तुलामामन्त्रयेत् । अनन्तरं प्राडिवाकः
शिरोगतपत्रकं शोध्य यथास्थानं निवेश्य³ च घटमारोपयति; 'पुनरारोपयेत्त-
स्मिञ्छिरोवस्थितपत्रकम्' इति स्मरणात् । आरोपितं च विनाडीपञ्चकं यावत्त-
थैवावस्थापयेत् । तत्कालपरीक्षां च ज्योतिःशास्त्राभिज्ञः कुर्यात् ; 'ज्योतिर्विद्
ब्राह्मणः श्रेष्ठः कुर्यात्कालपरीक्षणम् । विनाड्यः पञ्च विज्ञेयाः परीक्षाकाल-
कोविदैः ॥' इति स्मरणात् । दशगुर्वक्षरोच्चारकालः प्राणः । षट्प्राणा
विनाडी । उक्तं च—'दशगुर्वर्णः प्राणः षट् प्राणाः स्युर्विनाडिका तासाम् ।
षष्ट्या घटी घटीनां षष्ट्याहः⁴ खाम्भिनिर्विनैर्मासः ॥' इति । तस्मिंश्च काले
शुद्धयशुद्धिपरीक्षणार्थं शुचयः पुरुषा राज्ञा नियोक्तव्याः । ते च शुद्धयशुद्धी
कथयन्ति । यथोक्तं पितामहेन—'साक्षिणो ब्राह्मणाः श्रेष्ठा यथादृष्टार्थवादिनः ।
ज्ञानिनः शुचयोऽलुब्धा नियोक्तव्या नृपेण तु ॥ शंसन्ति साक्षिणः श्रेष्ठैः⁶
शुद्धयशुद्धी⁵ नृपे तदा ॥' इति । शुद्धयशुद्धिनिर्णयकारणं चोक्तम् ( नारदः
१।२८३ )—'तुलितो यदि वर्धेत स शुद्धः स्यान्न संशयः । समो वा हीयमानो
वा न सँ⁷ शुद्धो भवेन्नरः ॥' इति । यत्तु पितामहवचनम्—'अल्पदोषः समो
ज्ञेयो बहुदोषस्तु हीयते' इति, तन्न यद्यप्यभियुक्तस्यार्थस्याल्पत्वं बहुत्वं च न
दिव्यैनावधारयितुं शक्यते तथापि सकृदमतिपूर्वत्वेनाल्पत्वमसकृन्मतिपूर्वत्वेन
च महत्त्वमिति दण्डप्रायश्चित्ताहपत्वमहत्त्वमवधार्यते । तदा चानुपलक्ष्यमाण-
दृष्टकारण एव कक्षादीनां छेदो भङ्गो वा भवति तदाप्यशुद्धिरेव—( नारदः
१।२८४ ) 'कक्षाच्छेदे तुलाभङ्गे घटकर्कटयोस्तथा । रज्जुच्छेदेऽक्षभङ्गे च तथैवा-
शुद्धिमादिशेत् ॥' इति स्मरणात् । कक्षं शिक्यतलम् । कर्कटौ तुलान्तयोः
१. सर्वभूतानां ।
२. त्वमेव सर्वं ।
३. यथानिवेशं च ।
४. षष्ट्याहोरात्र उक्तश्च ।
५. शोध्यशुद्धि ।
६. सर्वै ।
७. वेशुद्धो ।
८. छेदे च भङ्गे च ।