सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

हंसश्येनक पिकव्या जलस्थल शिखण्डिनः ।

५७२ याज्ञवल्क्यस्मृतिः
हंसश्येनक पिकव्या जलस्थल शिखण्डिनः ।
भासं च हत्वा दद्याद् गामक्रव्यादास्तु वत्सिकाम् ॥२७२॥
किंच, क्रव्यमपक्वं मांसमत्तीति क्रव्याद् व्याघ्रसृगालादिर्मृगविशेषः वानर-
साहचर्यात् , तथा हंसश्येनसमभिव्याहारात् कङ्कगृध्रादिः पक्षिविशेषश्च गृह्यते;
'जल'शब्देन जलचरा बकादयो गृह्यन्ते; 'स्थल'शब्देन स्थलचरा बेलाकादयः,
शिखण्डी मयूरः; भासः पक्षिविशेषः, शेषाः प्रसिद्धाः, एषां प्रत्येकं वधे गामेकां
दद्यात् । अक्रव्यादस्तु हरिणादिमृगान् खञ्जरीटादिपक्षिविशेषान्दृत्वा वत्सतरीं
दद्यात् । तथा च मनुः (११।१३५-१३७)—'हत्वा हंसं वलाकां च बकं
बर्हिणमेव च । वानरं श्येनभासौ च स्पर्शयेद् ब्राह्मणाय गाम् ॥ क्रव्यादस्तु
मृगान्दृत्वा धेनुं दद्यात्पयस्विनीम् । अक्रव्यादो वत्सतरीमुष्ट्रं हत्वा तु कृष्ण-
लम् ॥' इति ॥ २७२ ॥
भाषा-हंस, बाज, बन्दर एवं मांसभोजी-व्याघ्र, स्यार आदि तथा कंक,
गृध्र, आदि एवं जल-चर बगुला तथा स्थलचर (बलाका आदि), मयूर, भास आदि
पशु-पक्षी के वध हो जाने पर एक गौ का दान करे । और मांस नहीं खाने वाले
हरिण आदि तथा खंजरीट आदि पक्षियों के वध हो जाने पर एक बछिया का
दान करे ॥ २७२ ॥
उरगेष्वायसो दण्डः पण्डके त्रपु सीसकम् ।
कोले घृतघटो देय उष्ट्रे गुञ्जा हयेऽशुकम् ॥ २७३ ॥
किंच, सरीसृपेषु व्यापादितेषु अयोमयो दण्डस्तीक्ष्णप्रान्तो देयः । पण्डके
नपुंसके व्यापादिते त्रपु सीसकं च माषपरिमितं दद्यात्, पलालभारं वा ।
'पण्डकं हत्वा पलालभारं त्रपु सीसकं वा दद्यात्' इति स्मृत्यन्तरदर्शनात् ।
यद्यपि 'पण्डको लिङ्गहीनः स्यात्संस्कारार्हश्च नैव सः' इति देवलवचनेन सामा-
न्येनैव स्त्रीपुंलिङ्गरहितो निर्दिष्टस्तथापि न गोब्राह्मणरूपस्येह विवक्षा; गोब्राह्मण-
वधनिषेधस्य जात्यवच्छेदेन प्रवृत्तेः, लिङ्गविरहिणि च पण्डे जातिसमवायाविशे-
षात्तन्निमित्तमेव लघुप्रायश्चित्तमुक्तम् । तस्मान्मृगपक्षिण एव विवक्षिताः । मृग-
पक्षिसमभिव्याहाराच्च कोले सूकरे व्यापादिते घृतकुम्भो देयः । उष्ट्रे गुञ्जा
देया । वाजिनि विनिपातितेऽंशुकं वस्त्रं देयम् । तथा च मनुः (११।११३)—
'अस्थि कार्ष्णायसीं दद्यात्सर्पं हत्वा द्विजोत्तमः । पलालभारकं षण्ढे सैसकं चैव
माषकम् ॥' इति ॥ २७३ ॥
भाषा-साँप मारने पर नुकीली लोहे की छड़ी, पण्डक (नपुंसक पशु-पक्षी)
को मारने पर पीतल और सीसा, सूअर मारने पर एक घड़ा घी, ऊँट मारने
पर गुञ्जा और घोड़ा मारने पर वस्त्र का दान देना चाहिए ॥ २७३ ॥
१. क्रव्यादे तु वत्सिकाम् । २. बकादयः ।

प्रायश्चित्ताध्यायः ५७३
तित्तिरौ तु तिलद्रोणं गजादीनामशक्नुवन् ।
दानं दातुं चरेत्कृच्छ्रमेकैकस्य विशुद्धये ॥ २७४ ॥
किंच, तित्तिरौ पतत्त्रिणि व्यापादिते तिलद्रोणं दद्यात् । 'द्रोण'शब्दश्च
परिमाणविशेषवचनः । 'अष्टमुष्टि भवेत्किंचिर्किंचिदष्टौ तु पुष्कलम् । पुष्कलानि
तु चत्वारि आढकः परिकीर्तितः ॥ चतुराढको भवेद् द्रोण इत्येतन्मानलक्षणम् ॥'
इति स्मरणात् ॥ पूर्वोक्तानां गजादीनां व्यापाइने निर्धनत्वेन नीलवृषपञ्चकादि-
दानं कर्तुमशक्नुवन् प्रत्येकं कृच्छ्रं चरेद्विशुद्ध्यर्थम् । 'कृच्छ्र'शब्दश्चात्र लक्षणया
क्लेशसाध्ये तपोमात्रे द्रष्टव्यः । तपांसि च गौतमेन दर्शितानि (१९।१७-
१९ )—'संवत्सरः षण्मासाश्चत्वारस्त्रयो द्वावेकश्चतुर्विंशत्यहो द्वादशाहः षडह-
स्त्र्यहोऽहोरात्र इति कालः । एतान्येवानादेशे विकल्पेन क्रियेरन्नेनसि गुरुणि
गुरूणि लघुनि लघूनि' इति । यदि 'कृच्छ्र'शब्देन मुख्योऽर्थो गृह्यते, तर्हि गजे
शुके वा विशेषेण प्राजापत्य एव स्यात् । नच तद्युक्तम्; तपोमात्रपरत्वे तु दान-
गुरुलघुभावाकलनया तपसोऽपि गुरुलघुभावो युज्यते । ततश्च गजे द्विमासिकं
यावकाशनं शुके तूपवास इति । एवमन्यत्रापि दानानुसारेण प्रायश्चित्तं
कल्प्यम् ॥ २७४ ॥
भाषा—तित्तिर पक्षी को मारने पर एक द्रोण तिल का दान करे हाथी
का वध करने पर पाँच नीलवृषों का दान न कर सकने पर शुद्धि के लिए
एक कृच्छ्र व्रत करे ॥ २७४ ॥
किंचाह—
फलपुष्पान्नरसजसत्त्वघाते घृताशनम् ।
उदुम्बरादौ फले मधूकादौ च कुसुमे चिरस्थितभक्तासवत्वाद्यन्ने च रसे
गुडादौ च यानि सत्त्वानि प्राणिनो जायन्ते तेषां घाते घृतप्राशनं शुद्धि-
साधनम् । इदं च घृतप्राशनं भोजनकार्ये एव विधीयते; प्रायश्चित्तानां
तपोरूपत्वात् । दर्शितं च तपोरूपत्वमङ्गिरसे 'प्रायश्चित्त'पदनिर्वचनव्याजेन—
'प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपोनिश्चयसंयुक्तं प्रायश्चित्तं
तदुच्यते ॥' इति ॥
प्रतिप्राणिप्रायश्चित्तस्यानन्त्यात् पृष्टाकोटेनापि वक्तुमशक्यत्वात्सामान्येन प्राय-
श्चित्तमाह—
किंचित्सास्थिवधे देयं प्राणायामस्त्वनस्थिके ॥ २७५ ॥
अस्थिमतां कृकलासादिप्राणिनां न्यूनसहस्रसंख्यानां प्रत्येकं वधे किंचित्स्वल्पं
धान्यहिरण्यादि देयम् । अनस्थिके श्वेकः प्राणायामः । तत्र किंचिदिति
यदा हिरण्यं दीयते तदा पणमात्रम् ; 'अस्थिमतां वधे पणो देयः' इति सुमन्तु-

५७४ याज्ञवल्क्यस्मृतिः
स्मरणात् । यदा तु धान्यं देयं तदाऽल्पसृष्टि देयम् ; 'अल्पसृष्टि भवेत्किंचित्' इति
स्मरणात् । - एतच्चानुक्तनिष्कृतिप्राणिवधविषयम् । यत्र तु प्रायश्चित्तविशेषः
श्रूयते, तत्र स एव भवति; यथाह पराशरः- 'हंससारसचक्राह्वकौञ्चकुक्कुट-
घातकः । मयूरमेषौ हत्वा च एकभक्तेन शुद्ध्यति ॥ मद्गुं च टिट्टिभं चैव शुकं
पारावतं तथा । भाडिकां च बकं हत्वा शुद्ध्येद्वै नक्तभोजनात् ॥ चाषकाक-
कपोतानां सारीतित्तिरघातकः । अन्तर्जले उभे संध्ये प्राणायामेन शुद्ध्यति ॥
गृध्रश्येनविहङ्गानामुलूकस्य च घातकः । अपकाशी दिनं तिष्ठेद् द्वौ कालौ मारु-
ताशनः ॥ हत्वा मूषिकमार्जारसर्पाजगरडुण्डुभान् । प्रत्येकं भोजयेद्विप्रांल्लोह-
दण्डश्च दक्षिणा ॥ सेधाकच्छपगोधानां शशशल्यकघातकः । वृन्ताकफलगुग्वाशी
अहोरात्रेण शुद्ध्यति ॥ मृगरोहिवराहाणामविकाबस्तघातने । वृकजम्बूकऋक्षाणां
तरक्षूणां च घातकः ॥ तिलप्रस्थं त्वसौ दद्याद्वायुभक्षो दिनत्रयम् । गजमेषतुर-
ङ्गोष्ट्रगवयानां निपातने ॥ प्रायश्चित्तमहोरात्रं त्रिसंध्यं चावगाहनम् । खरवा-
नरसिंहानां चित्रकव्याघ्रघातकः ॥ शुद्धिमेति त्रिरात्रेण ब्राह्मणानां च भोजनैः ॥'
इति ॥ एवमन्येषामपि स्मृतिवचसां देशकालाद्यपेक्षया विषयव्यवस्था कल्प-
नीया ॥ २७५ ॥
भाषा-फल, फूल, अन्न और रस में पड़े हुए (उत्पन्न हुए) क्षुद्र जीवों
को मारने पर घी खाकर शुद्ध होवे । अस्थिवाले जीवों का (एक हजार से
कम संख्या में) वध करने पर कुछ धान्य, सोना आदि का दान देना चाहिए,
बिना अस्थिवाले जीवों को मारने पर एक प्राणायाम करे ॥ २७५ ॥
इति हिंसाप्रायश्चित्तप्रकरणम् ।
'इन्धनार्थं द्रुमच्छेद' (प्रा० २४०) इत्युपपातकोद्देशे पठितं, हिंसाप्र-
सङ्गलोभेन तद्व्युत्क्रमपठितमप्यपकृष्य तत्र प्रायश्चित्तमाह-
^३वृक्षगुल्मलतावीरुच्छेदने जप्यमृक्शतम् ।
स्यादोषधिवृथाच्छेदे क्षीराशी गोऽनुगो दिनम् ॥ २७६ ॥
फलदानां आम्रपनसादीनां च वृक्षाणां गुल्मादीनां च यज्ञाद्यदृष्टार्थं विना
छेदने ऋचां गायत्र्यादीनां शतं जप्यव्यम् । ओषधीनां तु ग्राम्यारण्यानां
वृथैव छेदने दिनं कृत्स्नमवगर्गावां परिचर्यामनुगम्यान्ते क्षीरं पिबेदाहारान्तर-
परित्यागेन । पञ्चयज्ञार्थं तु न दोषः । एतच्च फलादिद्वारेणोपयोगिषु द्रष्टव्यम् ।
(मनुः ११।१४२)-'फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् । गुल्मवल्ली-
१. कुसरं भोजयेत् । २. शशशल्यक । ३. वृक्षगुल्मलतानां च
च्छेदने ।

लतानां च पुष्पितानां च वीरुधाम् ॥' इति मनुस्मरणात् । दृष्टार्थत्वेऽपि कर्षणा-
ङ्गभूतहलाद्यर्थत्वे न दोषः । 'फलपुष्पोपगान्पादपांश्च हिंस्यात्कर्षणार्थं चोपह-
न्यात्' इति वसिष्ठस्मरणात् । यत्र तु स्थानविशेषाद्दण्डाधिक्यं तत्र प्रायश्चित्ता-
धिक्यमपि कल्पनीयम् । तदुक्तम्—'चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये ।
जातद्रुमाणां द्विगुणो दमो वृक्षेऽथ विश्रुते ॥' इति ।-अयं च ऋक्शतजपो
द्विजातिविषयः, न पुनः शूद्रादिविषयः; तेषां जपेऽनधिकारात् । अतस्तेषां
दण्डानुसारेण द्विरात्रादिकं कल्पनीयम् । उपपातकमध्ये विशेषतः पाठस्यानर्थ-
क्यपरिहारार्थमुपपातकासाधारणप्रायश्चित्तमप्यत्र भवति । तच्च गुरुत्वादभ्यास-
विषयं कल्प्यम् ॥ २७६ ॥
भाषा—( बिना यज्ञ कार्य के ) वृक्ष, गुल्म, लता और विरवा काटने पर
गायत्री आदि ऋचा का सौ बार जप करे । ओषधियों ( वनस्पतियों )
को निष्प्रयोजन काटने पर दिन भर दूध पीकर रहे और गाय की सेवा
करे ॥ २७६ ॥
पुंश्चलीवानरादिवधप्रायश्चित्तप्रसङ्गात्तद्दंशनिमित्तं प्रायश्चित्तमाह—
पुंश्चलीवानरखरैर्दष्टैर्श्वोष्ट्रादिवायसैः ।
प्राणायामं जले कृत्वा घृतं प्राश्य विशुध्यति ॥ २७७ ॥
पुंश्चल्यादयः प्रसिद्धाः, एतैर्दष्टः पुमानन्तर्जले प्राणायामं कृत्वा घृतं
प्राश्य विशुध्यति । 'आदि'ग्रहणाच्छृगालादीनां ग्रहणम् । तथाह मनुः (११।-
१९९)—'श्वसृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च । नराश्वोष्ट्रवराहेश्च प्राणा-
यामेन शुध्यति ॥' इति । अयं च घृतप्राशो भोजनप्रत्याम्नायो द्रष्टव्यः; प्रायश्चि-
त्तानां तपोरूपत्वेन शरीरसंतापनार्थत्वात् । -एतदशक्तविषयम् ; 'श्वसृगालमृगम-
हिषाजाविकखरकरभनकुलमार्जारॅमूषकप्लवककाकपुरुषदष्टानामापोहिष्ठेत्यादिभिः
स्नानं प्राणायामत्रयं च ॥' इति यत् सुमन्तुवचनं, तन्नाभेरधःप्रदेश ईषद्वष्टविष-
यम् । यच्चाङ्गिरोवचनम्—'ब्रह्मचारी शुना दष्टस्त्र्यहं सायं पिबेत्पयः । गृहस्थश्चेद्
द्विरात्रं तु एकाहं योऽग्निहोत्रवान् ॥ नाभेरुर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् ।
स्यादेतत्रिगुणं वक्त्रे मस्तके तु चतुर्गुणम् ॥' इति, -तत्सम्यग्दष्टविषयम् । क्षत्रिय-
वैश्ययोस्तु पादपादन्यूनं कल्पनीयम् । शूद्रस्य तु—'शूद्राणां चोपवासेन शुद्धि-
र्दानेन वा पुनः । गां वा दद्याद् वृषं चैकं ब्राह्मणाय विशुद्धये ॥' इति बृहदङ्गिर-
सोक्तं द्रष्टव्यम् । यत्तु वसिष्ठवचनम्-'ब्राह्मणस्तु शुना दष्टो नदीं गत्वा समुद्र-
गाम् । प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥' (२३।३१) इति, -तदुत्तमाङ्ग-
१. दण्डानुसारात् । २. साधारणप्राप्तं प्रायश्चित्तं । ३. दष्ट-
रक्षोष्ट्रादि । ४. मूषिकाप्लव । ५. विशुष्यति ।

५७६ याज्ञवल्क्यस्मृतिः
दंशविषयम् ॥ स्त्रीणां तु—'ब्राह्मणी तु शुना दष्टा जम्बुकेन वृकेण वा । उदितं
ग्रहनक्षत्रं दृष्ट्वा सद्यः शुचिर्भवेत् ॥' इति पराशरोक्तं द्रष्टव्यम् । कृच्छ्रादिव्रत-
स्थायाः पुनस्तेनैव विशेषो दर्शितः—'त्रिरात्रमेवोपवसेत्छुना दष्टा तु ^१सुव्रता ।
सघृतं यावकं भुक्त्वा व्रतशेषं समापयेत् ॥' इति ॥ रजस्वलायामपि विशेषः
पुलस्त्येन दर्शितः—'रजस्वला यदा दष्टा शुना जम्बुकरासभैः । पञ्चरात्रं
निराहारा पञ्चगव्येन शुध्यति ॥ ऊर्ध्वं तु द्विगुणं नाभेर्वक्त्रे तु त्रिगुणं तथा ।
चतुर्गुणं स्मृतं मूर्ध्नि दष्टेऽन्यत्राप्लुतिर्भवेत् ॥' इति । अन्यत्राऽरजस्वला-
वस्थायाम् । यस्तु श्वादिभिर्घाणादिनोपहन्यते तस्य शातातपेन विशेष
उक्तः—'शुना घ्रातावलीढस्य नखैर्विलिखितस्य च । अद्भिः प्रक्षालनं
शौचमग्निना चोपकूलनम्' इति । उपकूलनं तापनम् ॥ यदा तु श्वादिदंश-
शस्त्राघातादिजनितव्रणे कृमय उत्पद्यन्ते तदा मनुना विशेष उक्तः—'ब्राह्मणस्य
व्रणद्वारे पूयशोणितसंभवे । कृमिरुत्पद्यते यस्य प्रायश्चित्तं कथं भवेत् ॥
गवां मूत्रपुरीषेण त्रिसंध्यं स्नानमाचरेत् । त्रिरात्रं पञ्चगव्याशी त्वधोनाभ्या विशु-
ध्यति ॥ नाभिकण्ठान्तरोद्भूते व्रणे चोत्पद्यते कृमिः । षड्रात्रं तु व्यहं पञ्चगव्या-
शनमिति स्मृतम् ॥' तत्र श्वादिदंशव्रणे तद्दंशप्रायश्चित्तानन्तरमिदं कर्तव्यम् ।
शस्त्रादिजनितव्रणे त्वेतदेव, त्र्यहं पञ्चगव्याशनादिकमिति शेषः । क्षत्रियादिषु तु
प्रतिवर्णं पादपादह्रासः कल्पनीयः ॥ २७७ ॥
भाषा—व्यभिचारिणी स्त्री, बन्दर, गदहा, ऊँट, घोड़ा (सियार आदि),
कौआ द्वारा दाँत या चोंच से काटे जाने पर जल में खड़ा होकर प्राणायाम
करने और घी खाने पर शुद्धि होती है ॥ २७७ ॥
शारीरत्वग्धातुविच्छेदकदंशप्रायश्चित्तप्रसङ्गाच्छारीरचरमधातुविच्छेदकस्कन्द-
ने प्रायश्चित्तमाह—
यन्मेऽद्य रेत इँत्याभ्यां स्कन्नं रेतोऽभिमन्त्रयेत् ।
स्तनान्तरं ^४भ्रुवोर्मध्यं तेनाऽनामिकया स्पृशेत् ॥ २७८ ॥
यदि कथंचिच्छ्रीसंभोगमन्तरेणापि हठाच्चरमधातुर्विसृष्टस्तदा तत्स्कन्नं रेतो
'यन्मेऽद्य रेत: पृथिवीं', 'पुनर्मामैत्विन्द्रियम्' इत्याभ्यां मन्त्राभ्यामभिमन्त्र-
येत् । तेन चाभिमन्त्रितेन रेतसा स्तनयोर्भुवोश्च मध्यमुपकनिष्ठिकया
स्पृशेत् ॥ अन्ये तु स्कन्नस्य रेतसोऽशुचित्वेन स्पर्शकर्मण्ययोग्यत्वात्तेनेत्य-
नामिकासहचर्यात्स्वबुद्धिस्थाङ्गुष्ठपरत्वेन व्याचक्षते । तेनाङ्गुष्ठेनानामिकया चेति
१. सव्रता । २. चोपचूलनं । ३. षड्रात्रं च तदा प्रोक्तं प्राजापत्यं विशो-
धनं । ४. एताभ्यां स्कन्नं रेतोऽनुमन्त्रयेत् । ५. भ्रुवोर्वाऽपि तथा नामिकया ।

प्रायश्चित्त्याध्यायः ५७७
'अङ्गुष्ठ'पदग्रहणे वृत्तभङ्गप्रसङ्गेनेति निर्दिष्टमिति,-तदसत्; अङ्गुष्ठस्यानुबुद्धिस्थ-
त्वात् । नच शब्दसंनिहितपरित्यागेनार्थाद् बुद्धिस्यस्यान्वयो युक्तः । तदुक्तम्-
'गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् । शब्दान्तरैर्विभक्त्या वा धूमोऽयं
ज्वलतोतिवत् ॥' इति । नच रेतसोऽशुचित्वेन स्पर्शायोग्यत्वम् । विधानादेव
प्रायश्चित्तार्थरूपस्पर्शे योग्यत्वमवगम्यते प्रायश्चित्तरूपपान इव सुरायाः । इदं च
प्रायश्चित्तं गृहस्थस्यैवाकामतः स्कन्नविषयम् । ब्रह्मचारिणः स्वप्ने जागरणा-
वस्थायां च गुरुप्रायश्चित्तस्य दर्शनात् । यत्तु यमवचनम्—'गृहस्थः कामतः
कुर्याद्रेतः स्कन्दनं भुवि । सहस्रं तु जपेद् देव्यः प्राणायामैस्त्रिभिः सह ॥' इति,-
तत्कामकारविषयम् ॥ २७८ ॥
भाषा—( स्वप्नदोष होने पर ) 'यन्मेऽद्य रेतः पृथिवीमसकन् पुनर्मामै-
स्विन्द्रियम्' इन मंत्रों से वीर्य का अभिमन्त्रण करे और उससे दोनों
छाती, और दोनों भौंहों के मध्यभाग का कनिष्ठिका अँगुली द्वारा स्पर्श
करे ॥ २७८ ॥
मयि तेज इति च्छायां स्वां २दृष्ट्वाऽम्बुगतां जपेत् ।
सावित्रीमशुचौ दृष्टे चापल्ये चानृतेऽपि च ॥ २७९ ॥
किंच, स्वीयं प्रतिबिम्बमम्बुगतं दृष्टं चेत् तदा 'मयि तेज इन्द्रियम्' इतीमं
मन्त्रं जपेत् । अशुचिद्रव्यदर्शने पुनः सावित्रीं सवितृदेवत्यां 'तत्सवितुः'
इत्यादिकामृचं जपेत् । तथा वाक्पाणिपादादिचापल्यकरणे तामेव जपेत्, अनृ-
तवचने च ।-एतत्कामकारे द्रष्टव्यम् ; अकामकृते तु 'सुप्त्वा भुक्त्वा च क्षुत्वा
च निष्ठीव्योक्त्वाऽनृतानि च । पीत्वाऽपोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ॥'
इति मनूक्तमाचमनं द्रष्टव्यम् ॥ यत्तु संवर्तवचनम्—'क्षुते निष्ठीवने चैव दन्त-
श्लिष्टे तथानृते । पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत् ॥' इति,-तदल्पप्र-
योजने जलाभावे वा द्रष्टव्यम् ॥ स्त्रीशूद्रविट्क्षत्रवधानन्तरं 'निन्दिताथोपजीवनं'
पठितं, तत्र च मनुयोगीश्वरप्रोक्तान्युपपातकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया
वेदितव्यानि । नास्तिक्येऽपि तानि प्रायश्चित्तानि तथैव प्रयोध्यानि, 'नास्तिक्य'-
शब्देन च वेदादिनिन्दनं तेन जीवनमुच्यते; तत्रोभयत्रापि वसिष्ठेन प्रायश्चित्ता-
न्तरमप्युक्तम्—'नास्तिकः कृच्छ्रं द्वादशरात्रं चरित्वा विरमेन्नास्तिकायान्नास्तिक-
वृत्तिस्त्वतिकृच्छ्रम्' (२१।२९) इति ।-एतच्च सकृत्करणविषयम् । उपपातकप्राय-
श्चित्तान्यभ्यासविषयाणि । यच्च शङ्खनोक्तम्—'नास्तिको नास्तिकवृत्तिः कृतघ्नः
कूटव्यवहारी मिथ्याभिशंसी इत्येते पञ्चसंवत्सरं ब्राह्मणगृहे भैक्षं चरेयुः' इति ।
१. वक्ष्यमाणत्वात् । २. दृष्ट्वाऽम्बुनि वै जपेत् । ३. चापले वाऽनृ-
तेऽपि च । ४. निष्ठीविते ।

५७८ याज्ञवल्क्यस्मृतिः
यच्च हारीतेन - 'नास्तिको नास्तिकवृत्तिः' इति प्रक्रम्य 'पञ्चतपोऽश्रावकाशजल-
शयनान्यनुतिष्ठेयुग्रीष्मवर्षाहेमन्तेषु' इति,-तदुभयमप्यन्ताभिनिवेशेन बहुकाला-
भ्यासविषयम् ॥ २७९ ॥
भाषा—जल में पड़ी हुई अपनी छाया को देख कर 'मयि तेज इन्द्रियम्'
मन्त्र का जप करे; अपवित्र मनुष्य को देखने पर, (वाणी, हाथ, पैर
आदि की) चपलता करने पर और असत्यभाषण करने पर गायत्री का
जप करे ॥ २७९ ॥
नास्तिक्यानन्तरं 'व्रतलोपश्च' इत्युक्तं, तत्रावकीर्णस्याप्रसिद्धत्वात्तल्लक्षण-
कथनपूर्वकं प्रायश्चित्तमाह—
अवकीर्णी भवेद् गत्वा ब्रह्मचारी तु योषितम् ।
गर्दभं पशुमालभ्य नैर्ऋतं स विशुध्यति ॥ २८० ॥
ब्रह्मचार्यपुकुर्वाणको नैष्ठिकश्चासौ योषितं गत्वाऽवकीर्णी भवति ।
चरमधातोर्विसर्गोऽवकीर्णं तदस्यास्ति सोऽवकीर्णी, स निर्ऋतिदैवत्येन गर्द-
भपशुना यागं कृत्वा विशुध्यति । गर्दभस्य पशुत्वे सिद्धेऽपि पुनः 'पशु'ग्रहणं 'अथ
पशुकल्पः' (१।११।१) इत्याश्वलायनादिगृह्योक्तपशुधर्मप्राप्त्यर्थम् । एतच्चारण्ये
चतुष्पथे लौकिकेऽग्नौ कार्यम् । 'ब्रह्मचारी चेत्स्त्रियमुपेयादरण्ये चतुष्पथे लौकिके-
ऽग्नौ रक्षोदैवतं गर्दभं पशुमालभेत' (२३।१) इति वसिष्ठस्मरणात् ॥ तथा
रात्रावेकाक्षिविकलेन यष्टव्यम् । तथा च मनुः (११।११८)—'अवकीर्णी तु
काणेन रासभेन चतुष्पथे । पाकयज्ञविधानेन यजेत निर्ऋतिं निशि ॥' इति ।
पशोरभावे चरुणा यष्टव्यम् । 'निर्ऋतिं वा चरुं निर्वपेत् तस्य जुहुयात्-कामाय
स्वाहा, कामकामाय स्वाहा, निर्ऋत्यै स्वाहा, रक्षोदेवताभ्यः स्वाहा' (२३।२।३)
इति वसिष्ठस्मरणात् । - एतच्चाशक्तविषयम् । शक्तस्य पुनर्गर्दभेनावकीर्णी निर्ऋतिं
चतुष्पथे यजेत् । 'तस्याजिनमूर्ध्ववालं परिधाय लोहितपात्रः सप्तगृहान् भैक्षं
चरेत्कर्माचक्षाणः संवत्सरेण शुध्यति' (२३।१७-१९) इति गौतमोक्तो वार्षिक-
तपःसमुचितः पशुयागश्चरुर्वा द्रष्टव्यः । तथा त्रिषवणस्नानमेककालभोजनं च
द्रष्टव्यम् । (११।१२२-१२३)—'एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् ।
सप्तागारं चरेद्भैक्षं स्वकर्म परिकीर्तयन् ॥ तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालि-
कम् । उदस्पृशंस्त्रिषवणमब्देन स विशुध्यति ॥' इति मनुस्मरणात् ॥ इदं च
वार्षिकमश्रोत्रियब्राह्मपत्न्यां वैश्यायां श्रोत्रियपत्न्यां च द्रष्टव्यम् ॥ - यदा तु गुण-
वत्योर्ब्राह्मणीक्षत्रिययोः श्रोत्रियभार्ययोरवकिरति तदा त्रिवार्षिकं द्विवार्षिकं च
क्रमेण योज्यम् ॥ यथाहतुः शङ्खलिखितौ—'गुप्तायां वैश्यायामवकीर्णः संवत्सरं

त्रिषवणमनुतिष्ठेत् । क्षत्रियायां तु द्वे वर्षे ब्राह्मण्यां त्रीणि वर्षाणि' इति । शङ्ख-
लिरोवचनम् — 'अवकीर्णिनिमित्तं तु ब्रह्महत्याव्रतं चरेत् । चीरवासास्तु षण्मासां-
स्तथा मुच्येत किल्बिषात् ॥' इति,-तदकामतो मानवादिकविषयमीषद्व्यभि-
चारिणीविषयं वा ॥ अत्यन्तव्यभिचारितासु पुनः 'स्वैरिण्यां वृषल्यामवकीर्णः
सचैलं स्नात उदकुम्भं दद्याद् ब्राह्मणाय । वैश्यायां चतुर्थकालाहारो ब्राह्मणान्भो-
जयेत्, यवसंभारं च गोभ्यो दद्यात् । क्षत्रियायां त्रिरात्रमुपोषितो घृतपात्रं
दद्यात् । ब्राह्मण्यां षड्रात्रमुपोषितो गां च दद्यात् । गोष्ववकीर्णः प्राजापत्यं चरेत् ।
षण्ढायामवकीर्णः पलालभारं सोसमाषकं च दद्यात्' इति शङ्खलिखितोदितं वेदि-
तव्यम् । एतच्चावकीर्णिप्रायश्चित्तं त्रैवर्णिकस्यापि ब्रह्मचारिणः समानम् । 'अवकीर्णी
द्विजो राजा वैश्यश्चापि खरेण तु । इष्ट्वा भैक्षाशिनो नित्यं शुद्ध्यन्त्यब्दात्समा-
हिताः ॥' इति शाण्डिल्यस्मरणात् । यदा स्त्रीसंभोगमन्तरेण कामतश्चरमधातुं
विसृजति, दिवा च स्वप्ने वा विसृजति, तदा नैर्ऋतयागमात्रं द्रष्टव्यम् ; 'एतदेव
रेतसः प्रयत्नोत्सर्गे दिवा स्वप्ने च' (२३।५३) इति वसिष्ठेन यागमात्रस्यातिदिष्ट-
त्वात् । व्रतान्तरेषु कृच्छ्रचान्द्रायणादिष्वतिदिष्टब्रह्मचर्येषु स्कन्दने सत्येतदेव
यागमात्रम् । व्रतान्तरेषु चैव'मिति तेनैवातिदिष्टत्वात् । स्वप्नस्कन्दने तु मनूक्तं
द्रष्टव्यम् (२।१८१) — 'स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः । स्नात्वा-
र्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ॥' इति । वानप्रस्थादीनां चेदमेव ब्रह्मचर्य-
खण्डने अवकीर्णिव्रतं कृच्छ्रत्रयाधिकं भवति; 'वानप्रस्थो यतिश्चैव स्कन्दने सति
कामतः । पराकत्रयसंयुक्तमवकीर्णी व्रतं चरेत् ॥' इति शाण्डिल्यस्मरणात् ॥ यद्वा
गार्हस्थ्यपरिग्रहेण संन्यासात्प्रच्युतो भवति तदा संवर्तोक्तं द्रष्टव्यम्; 'संन्यस्य
दुर्मतिः कश्चित्प्रत्यापत्तिं व्रजेद्यदि । स कुर्यात्कृच्छ्रमश्रान्तः षण्मासान्प्रस्थनन्त-
रम् ॥' इति । प्रत्यापत्तिर्गाह्स्थ्यंपरिग्रहः। अत एव वसिष्ठः — 'यस्तु प्रव्रजितो
भूत्वा पुनः सेवेत मैथुनम् । षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥' इति ।
तथा च पराशरः — 'यः प्रत्यवसितो विप्रः प्रव्रज्यातो विनिर्गतः । अनाशकनि-
वृत्तश्च गार्हस्थ्यं चेच्चिकीर्षति ॥ स चरेत्त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च ।
जातकर्मादिभिः सर्वैः संस्कृतः शुद्धिमाप्नुयात्' ॥ तत्र ब्राह्मणस्य षाण्मासिकः
कृच्छ्रः पुनः संन्याससंस्कारश्च क्षत्रियस्य चान्द्रायणत्रयम् । वैश्यस्य कृच्छ्रत्रय-
मिति व्यवस्था । अथवा ब्राह्मणस्यैव शक्तिसकृदभ्यासाद्यपेक्षया व्यवस्थितं
प्रायश्चित्तत्रयं द्रष्टव्यम् ॥ ( 'चितिभ्रष्टा तु या नारी मोहाद्विचलिता क्वचित् ।
प्राजापत्येन शुद्ध्येत्तु तस्मादेवापकर्मणः ॥' चितिभ्रष्टा भर्तुरनुगमने आपस्तम्ब-
स्मरणात् क्वचिदित्युक्तम् । ) तथा मरणसंन्यासिनामपि यमेन प्रायश्चित्तमुक्तम्-


१. गार्हस्थ्यलम्बनः परिग्रहः । २. अयं धनुश्चिह्नगो भागोऽधिकः ।
३७ या०

[५८०] याज्ञवल्क्यस्मृतिः

'जलान्युद्बन्धनभ्रष्टाः प्रब्रज्यानाशकच्युताः । विषप्रपतनप्रायशस्त्रघातच्युताश्च
ये ॥ नैव ते प्रत्यवसिताः सर्वलोकबहिष्कृताः । चान्द्रायणेन शुद्ध्यन्ति तस-
त्कृच्छ्रद्वयेन वा ॥' इति ॥ इदं च चान्द्रायणं तप्तकृच्छ्रद्वयात्मकं प्रायश्चित्तद्वयं
शक्त्यपेक्षया व्यवस्थितं विज्ञेयम् । यदा तु 'शस्त्रघातहताश्च' इति पाठः,
तदात्मत्यागयशास्त्रीयमरणनिमित्तस्तत्पुत्रादेरुपदेशो द्रष्टव्यः ॥ यत्पुनर्वासिष्ठेनो-
क्तम्- 'जीवन्नात्मत्यागी कृच्छ्रं द्वादशरात्रं चरेत् , त्रिरात्रं चोपवसेत्' (२३।१२)
इति,-तदप्यध्यवसिताशास्त्रीयमरणस्यैव कथंचिज्जीवने शक्त्यपेक्षया द्रष्टव्यम् ।
अथवा-अध्यवसायमात्रे त्रिरात्रं, शस्त्रादिक्षतस्य द्वादशरात्रमिति व्यवस्था । इदं
चावकीर्णिप्रायश्चित्तं गुरुदारतत्समव्यतिरिक्तागम्यागमनविषयम् । तत्र गुरुतर-
प्रायश्चित्तस्य दर्शितत्वात् । नच लघुनाऽवकीर्णिब्रतेन द्वादशवार्षिकाद्यपनोद्यमहा-
पातकदोषनिबर्हणमुचितम् । नच ब्रह्मचारित्वोपाधिकं लघुप्रायश्चित्तविधानमिति
युक्तम्; आश्रमान्तराणां द्वैगुण्यादिवृद्धेर्ब्रह्महत्याप्रकरणे दर्शितत्वात् । न चात्रा-
गम्यागमनप्रायश्चित्तं पृथक्कर्तव्यम् ; ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्या-
गम्यागमनेनान्तरीयकत्वात् , अतोऽन्यत्रापि यस्मिन्निमित्ते यन्निमित्तान्तरं समं
न्यूनं वाऽवश्यंभाविनाः । तत् पृथक् नैमित्तिकं प्रयुङ्क्ते । यथा (मनुः ११।२०८)-
'अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने । कृच्छ्रातिकृच्छ्रोऽसृक्पाते कृच्छ्रोऽभ्यन्तर-
शोणिते ॥' इत्यत्र शोणितोत्पादननिमित्तेऽवंगूरणनिपातलक्षणं निमित्तद्वयमव-
श्यंभावित्वेन स्वनैमित्तिकं कृच्छ्रमतिकृच्छ्रं च न प्रयुङ्क्ते, एवमन्यत्राप्यूहनी-
यम् । यत्र पुनर्निमित्तानामन्तर्भावनियमो नास्ति, तत्र पुनर्नैमित्तिकानि
पृथक्प्रयुज्यन्ते । निमित्तानि यथा-'यदा पर्वणि परभार्यां रजस्वलां तैला-
भ्यक्तो दिवा जले गच्छति' इति ॥ ननु ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलन-
स्यागमनान्तरीयकतत्वं नास्त्येव; पुत्रिकागमनेऽगम्यागमनदोषाभावात् । तथा
हि- न तावत्पुत्रिका कन्या; अक्षतयोनित्वात् , नापि परभार्या; प्रदाना-
भावात् , नापि वेश्या; अतद्वृत्तित्वात् , नापि विधवा; भर्तृमरणाभावात् ,
अतः पुत्रिकायाः क्वाप्यनन्तर्भावादप्रतिषिद्धेति तत्रैव विप्लुतस्य केवलमव-
कीर्णिब्रतम् । अन्यत्र विप्लुतस्य तु निमित्तान्तरसंनिपातादवकीर्णिब्रतं नैमि-
त्तिकान्तरमपि प्रयोक्तव्यमिति,-तदसत् ; पुत्रिकाया अपि परभार्यास्वान्त-
र्भावात् । प्रदानाभावेऽपि विवाहसंस्कारेण संस्कृतत्वात् गान्धर्वादिविवाह-
परिणीतावत् । नच 'यस्यास्तु न भवेद् भ्राता न विज्ञायेत वा पिता । नोपय-
च्छेत्तु तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥' इति प्रतिषेधात्सगोत्रास्विव भार्यात्वं
नोत्पद्यत इति वाच्यम् । दृष्टार्थत्वात् प्रतिषेधस्य व्यङ्गाङ्ग्यादिप्रतिषेधवत । दृष्टार्थत्वं

१. आविभ्रस्तत्र । २. अवगोरेण । ३. प्रयुक्तं अतः पृथ ।

प्रायश्चित्ताध्यायः ५८१
च पुत्रिकाधर्मशङ्कयेति हेतूपादानात् । नच पुत्रार्थमेव परिणयनं, अपि तु धर्मार्थ-
मपि, अतश्चोत्पादितपुत्रस्य मृतभार्यस्य धर्मार्थं पुत्रिकापरिणयने को विरोधः ?
प्रपञ्चितं चैतत्पुरस्तादित्यलमतिप्रसङ्गेन । तस्माद् ब्रह्मचारिणो योषित् ब्रह्म-
चर्यस्खलनस्यागम्यागमनान्तरीयकत्वाच्च पृथङ्नैमित्तिकं प्रयोक्तव्यमिति सुष्ठू-
क्तम् ॥ २८० ॥
भाषा—ब्रह्मचारी किसी स्त्री का भोग करने पर अवकीर्णी हो जाता
है, वह निर्ऋति देवता के लिए गदहे द्वारा पशुयज्ञ करने पर शुद्ध
होता है ॥ २८० ॥
ब्रह्मचारिप्रायश्चित्तप्रसङ्गादन्यदप्यनुपातकप्रायश्चित्तमाह—
भैक्षाग्निकार्यं त्यक्त्वा तु सप्तरात्रमनातुरः ।
कामावकीर्ण इत्याभ्यां जुहुयादाहुतिद्वयम् ॥ २८१ ॥
उपस्थानं ततः कुर्यात्सं मा सिञ्चन्त्वनेन तु ।
यस्त्वनातुर एव ब्रह्मचारी निरन्तरं सप्तरात्रं भैक्षमग्निकार्यं वा त्यजति
असौ 'कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा । कामावपन्नोऽस्म्य-
वपन्नोऽस्मि कामकामाय स्वाहा' इत्येताभ्यां मन्त्राभ्यामाहुती हुत्वा 'सं मा
सिञ्चन्तु मरुतः समिन्द्रः सं बृहस्पतिः । समायमग्नि सिञ्चन्तां यशसा ब्रह्म-
वर्चसेन ॥' इत्थनेन मन्त्रेणाग्निमुपतिष्ठेत ॥ एतच्च गुरुपरिचर्यादिगुरुतरकार्य-
व्यग्रतया अकरणे द्रष्टव्यम् । यदा स्वस्थ्य एवोभे भैक्षाग्निकार्ये त्यजति, तदा
'अकृत्वा भैक्षचरणमसमिध्य च पावकम् । अना तुरः सप्तरात्रमवकीर्णिव्रतं
चरेत् ॥' ( मनु० २।१८७ ) इति मानवं द्रष्टव्यम् ॥ यज्ञोपवीतविनाशे तु
हार्गतेन प्रायश्चित्तमुक्तम्—'मनोव्रतपतिभिश्चतस्र आज्याहुतीर्हुत्वा पुनर्यथार्थं
प्रतीयादसद्ब्रैत्तभोजनेऽभ्युदितेऽभिनिर्मुक्ते वान्ते दिवा स्वप्ने नग्नस्त्रीदर्शने नग्न-
स्वापे श्मशानमाक्रम्य हयादींश्चारुह्य पूज्यातिक्रमे चैताभिरेव जुहुयादग्नि-
समिन्धने स्थावरसरीसृपादीनां वधे “यदद्देवादेवहेडनम्” इति कूष्माण्डीभिराड्यं
जुहुयात् , मणिवींसोगवादीनां प्रतिग्रहे सावित्र्यष्टसहस्रं जपेत्' इति । मनो-
व्रतपतिभिरिति मनो ज्योतिरित्यादिमनोलिङ्गाभिः 'त्वमग्ने व्रतपा असि'
इत्यादिव्रतलिङ्गाभिरित्यर्थः । यथार्थं प्रतीयादिति, उपनयनोक्तमार्गेण समन्त्रकं
गृह्णीयादित्यर्थः । यज्ञोपवीतं विना भोजनादिकरणे तु—'ब्रह्मसूत्रं विना भुङ्क्ते
विण्मूत्रं कुरुतेऽथवा । गायत्र्यष्टसहस्रेण प्राणायामेन शुध्यति ॥' इति मरीच्युक्तं
द्रष्टव्यम् ॥ २८१३ ॥
१. हुत्वा चाऽऽयाहु द्वयम् । उपस्थानद्वयं कुर्यात् । २. समायमग्नि ।
३ हयादीनारुह्य । वासो गृहादीनां ।

५८२ :याज्ञवल्क्यस्मृतिः
भाषा—बिना अस्वस्थता के सात दिन तक भिक्षाटन और अग्निकर्म
छोड़ने पर 'कामावकीर्ण' आदि (कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय
स्वाहा। कामावपन्नोऽस्म्यवपन्नोऽस्मि कामकामाय स्वाहा' इन दोनों मन्त्रों से दो
आहुति करके 'संमा सिंचन्तु मरुतः समिन्द्रः संबृहस्पतिः । समायमग्निः सिंचन्तां
यशसा ब्रह्मवर्चसेन।' मन्त्र से पुनः अग्नि का उपस्थान करे ॥ २८१३ ॥
मधुमांसाशने कार्यः कृच्छ्रः शेषंव्रतानि च ॥ २८२ ॥
प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति ।
किंञ्च, ब्रह्मचारिणा अमत्या मधुमांसभक्षणे कृच्छ्रः कार्यः । तदनन्तरम-
वशिष्टानि व्रतानि समापयेत् । एतच्च शिष्टभोजनाहंशशादिमांसभक्षणविष-
यम् । 'ब्रह्मचारी चेन्मांसमश्नीयाच्छिष्टभोजनीयं कृच्छ्रं द्वादशरात्रं चरित्वा
व्रतशेषं समापयेत्' (२३।११) इति वसिष्ठस्मरणात् । 'द्वादशरात्र' ग्रहणं तु
मतिपूर्वाभ्यासापेक्षयाऽतिकृच्छ्रपराकादेरपि प्राप्त्यर्थम् । यदा तु मांसेकापनोद्य-
व्याध्यभिभूतस्तदा मांसं गुरोरुच्छिष्टं कृत्वा भक्षणीयम् । 'स चेद्याधितः कामं
गुरोरुच्छिष्टं भेषज्यार्थं सर्वं प्राश्नीयात्' (२३।९) इति तेनैवोक्तत्वात् । 'सर्व'-
ग्रहणं मांसलशुनाद्यभक्ष्यमात्रसंग्रहार्थम् । तल्लक्षणेन चापगतव्याधिरादित्यमु-
पतिष्ठेत । तथा च बौधायनः (२।१।२६-२७)—'येनेच्छेत्तु चिकित्सितुं तु
यद्याऽगदो भवति तदोत्थायादित्यमुपतिष्ठेत' 'हंसः शुचिषत्' इति । मधुनोऽ-
प्यज्ञानतः प्राशनोपपत्तौ न दोषः । 'अकामोपनतं मधु वाजसनेयके न दुष्यति'
(२३।१४) इति वसिष्ठस्मरणात् । अन्यसूतकान्नादिभक्षणप्रायश्चित्तं त्वभक्ष्य-
प्रायश्चित्तप्रकरणे वक्ष्यामः । आज्ञाप्रतिघातादिना गुरोः प्रतिकूलमाचरन् पाद-
प्रणिपातादिना गुरुं प्रसाद्य विशुध्यति ॥ २८२३ ॥
भाषा—मधु और मांस खाने पर कृच्छ्र और अवशिष्ट व्रत करे । गुरु के
विपरीत कार्य करने पर उन्हें प्रसन्न करने पर ही (ब्रह्मचारी) शुद्ध
होता है ॥ २८२३ ॥
ब्रह्मचारिप्रायश्चित्तप्रसङ्गाद् गुरोरपि प्रायश्चित्तमाह—
कृच्छ्रत्रयं गुरुः कुर्यान्म्रियते^२ प्रहितो यदि ॥ २८३ ॥
यस्तु गुरुश्चोरोगव्याघ्रादिभयाकुलप्रदेशे सान्द्रतरान्धकाराकुलितानिशीथा-
वसरे कार्यार्थं शिष्यं प्रेरयति, स च गुरुणा प्रेरितो दैवान्मृतस्तदा स गुरुः
कृच्छ्राणां प्राजापत्यादीनां त्रयं कुर्यात्, न पुनस्त्रयः प्राजापत्याः, तथा सति
पृथक्त्वनिवेशिनी संख्यानुपपन्ना स्यात् । न च 'एकादश प्रयाजान्द्यजति' इति-
वदावृत्त्यपेक्षा संख्येति चतुरस्रम् ; स्वरूपपृथक्त्वे संभवत्यावृत्त्यपेक्षया अन्याय्य-
१. शेषे व्रतानि । २. प्रहितो म्रियते यदि । ३. पृथक्त्वनिवेशिनी ।