याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 629, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ५७३
तित्तिरौ तु तिलद्रोणं गजादीनामशक्नुवन् ।
दानं दातुं चरेत्कृच्छ्रमेकैकस्य विशुद्धये ॥ २७४ ॥
किंच, तित्तिरौ पतत्त्रिणि व्यापादिते तिलद्रोणं दद्यात् । 'द्रोण'शब्दश्च
परिमाणविशेषवचनः । 'अष्टमुष्टि भवेत्किंचिर्किंचिदष्टौ तु पुष्कलम् । पुष्कलानि
तु चत्वारि आढकः परिकीर्तितः ॥ चतुराढको भवेद् द्रोण इत्येतन्मानलक्षणम् ॥'
इति स्मरणात् ॥ पूर्वोक्तानां गजादीनां व्यापाइने निर्धनत्वेन नीलवृषपञ्चकादि-
दानं कर्तुमशक्नुवन् प्रत्येकं कृच्छ्रं चरेद्विशुद्ध्यर्थम् । 'कृच्छ्र'शब्दश्चात्र लक्षणया
क्लेशसाध्ये तपोमात्रे द्रष्टव्यः । तपांसि च गौतमेन दर्शितानि (१९।१७-
१९ )—'संवत्सरः षण्मासाश्चत्वारस्त्रयो द्वावेकश्चतुर्विंशत्यहो द्वादशाहः षडह-
स्त्र्यहोऽहोरात्र इति कालः । एतान्येवानादेशे विकल्पेन क्रियेरन्नेनसि गुरुणि
गुरूणि लघुनि लघूनि' इति । यदि 'कृच्छ्र'शब्देन मुख्योऽर्थो गृह्यते, तर्हि गजे
शुके वा विशेषेण प्राजापत्य एव स्यात् । नच तद्युक्तम्; तपोमात्रपरत्वे तु दान-
गुरुलघुभावाकलनया तपसोऽपि गुरुलघुभावो युज्यते । ततश्च गजे द्विमासिकं
यावकाशनं शुके तूपवास इति । एवमन्यत्रापि दानानुसारेण प्रायश्चित्तं
कल्प्यम् ॥ २७४ ॥
भाषा—तित्तिर पक्षी को मारने पर एक द्रोण तिल का दान करे हाथी
का वध करने पर पाँच नीलवृषों का दान न कर सकने पर शुद्धि के लिए
एक कृच्छ्र व्रत करे ॥ २७४ ॥
किंचाह—
फलपुष्पान्नरसजसत्त्वघाते घृताशनम् ।
उदुम्बरादौ फले मधूकादौ च कुसुमे चिरस्थितभक्तासवत्वाद्यन्ने च रसे
गुडादौ च यानि सत्त्वानि प्राणिनो जायन्ते तेषां घाते घृतप्राशनं शुद्धि-
साधनम् । इदं च घृतप्राशनं भोजनकार्ये एव विधीयते; प्रायश्चित्तानां
तपोरूपत्वात् । दर्शितं च तपोरूपत्वमङ्गिरसे 'प्रायश्चित्त'पदनिर्वचनव्याजेन—
'प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपोनिश्चयसंयुक्तं प्रायश्चित्तं
तदुच्यते ॥' इति ॥
प्रतिप्राणिप्रायश्चित्तस्यानन्त्यात् पृष्टाकोटेनापि वक्तुमशक्यत्वात्सामान्येन प्राय-
श्चित्तमाह—
किंचित्सास्थिवधे देयं प्राणायामस्त्वनस्थिके ॥ २७५ ॥
अस्थिमतां कृकलासादिप्राणिनां न्यूनसहस्रसंख्यानां प्रत्येकं वधे किंचित्स्वल्पं
धान्यहिरण्यादि देयम् । अनस्थिके श्वेकः प्राणायामः । तत्र किंचिदिति
यदा हिरण्यं दीयते तदा पणमात्रम् ; 'अस्थिमतां वधे पणो देयः' इति सुमन्तु-