याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 634, कुल 782 में से
संदर्भ में पढ़ें५७८ याज्ञवल्क्यस्मृतिः
यच्च हारीतेन - 'नास्तिको नास्तिकवृत्तिः' इति प्रक्रम्य 'पञ्चतपोऽश्रावकाशजल-
शयनान्यनुतिष्ठेयुग्रीष्मवर्षाहेमन्तेषु' इति,-तदुभयमप्यन्ताभिनिवेशेन बहुकाला-
भ्यासविषयम् ॥ २७९ ॥
भाषा—जल में पड़ी हुई अपनी छाया को देख कर 'मयि तेज इन्द्रियम्'
मन्त्र का जप करे; अपवित्र मनुष्य को देखने पर, (वाणी, हाथ, पैर
आदि की) चपलता करने पर और असत्यभाषण करने पर गायत्री का
जप करे ॥ २७९ ॥
नास्तिक्यानन्तरं 'व्रतलोपश्च' इत्युक्तं, तत्रावकीर्णस्याप्रसिद्धत्वात्तल्लक्षण-
कथनपूर्वकं प्रायश्चित्तमाह—
अवकीर्णी भवेद् गत्वा ब्रह्मचारी तु योषितम् ।
गर्दभं पशुमालभ्य नैर्ऋतं स विशुध्यति ॥ २८० ॥
ब्रह्मचार्यपुकुर्वाणको नैष्ठिकश्चासौ योषितं गत्वाऽवकीर्णी भवति ।
चरमधातोर्विसर्गोऽवकीर्णं तदस्यास्ति सोऽवकीर्णी, स निर्ऋतिदैवत्येन गर्द-
भपशुना यागं कृत्वा विशुध्यति । गर्दभस्य पशुत्वे सिद्धेऽपि पुनः 'पशु'ग्रहणं 'अथ
पशुकल्पः' (१।११।१) इत्याश्वलायनादिगृह्योक्तपशुधर्मप्राप्त्यर्थम् । एतच्चारण्ये
चतुष्पथे लौकिकेऽग्नौ कार्यम् । 'ब्रह्मचारी चेत्स्त्रियमुपेयादरण्ये चतुष्पथे लौकिके-
ऽग्नौ रक्षोदैवतं गर्दभं पशुमालभेत' (२३।१) इति वसिष्ठस्मरणात् ॥ तथा
रात्रावेकाक्षिविकलेन यष्टव्यम् । तथा च मनुः (११।११८)—'अवकीर्णी तु
काणेन रासभेन चतुष्पथे । पाकयज्ञविधानेन यजेत निर्ऋतिं निशि ॥' इति ।
पशोरभावे चरुणा यष्टव्यम् । 'निर्ऋतिं वा चरुं निर्वपेत् तस्य जुहुयात्-कामाय
स्वाहा, कामकामाय स्वाहा, निर्ऋत्यै स्वाहा, रक्षोदेवताभ्यः स्वाहा' (२३।२।३)
इति वसिष्ठस्मरणात् । - एतच्चाशक्तविषयम् । शक्तस्य पुनर्गर्दभेनावकीर्णी निर्ऋतिं
चतुष्पथे यजेत् । 'तस्याजिनमूर्ध्ववालं परिधाय लोहितपात्रः सप्तगृहान् भैक्षं
चरेत्कर्माचक्षाणः संवत्सरेण शुध्यति' (२३।१७-१९) इति गौतमोक्तो वार्षिक-
तपःसमुचितः पशुयागश्चरुर्वा द्रष्टव्यः । तथा त्रिषवणस्नानमेककालभोजनं च
द्रष्टव्यम् । (११।१२२-१२३)—'एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् ।
सप्तागारं चरेद्भैक्षं स्वकर्म परिकीर्तयन् ॥ तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालि-
कम् । उदस्पृशंस्त्रिषवणमब्देन स विशुध्यति ॥' इति मनुस्मरणात् ॥ इदं च
वार्षिकमश्रोत्रियब्राह्मपत्न्यां वैश्यायां श्रोत्रियपत्न्यां च द्रष्टव्यम् ॥ - यदा तु गुण-
वत्योर्ब्राह्मणीक्षत्रिययोः श्रोत्रियभार्ययोरवकिरति तदा त्रिवार्षिकं द्विवार्षिकं च
क्रमेण योज्यम् ॥ यथाहतुः शङ्खलिखितौ—'गुप्तायां वैश्यायामवकीर्णः संवत्सरं