याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।
६७० याज्ञवल्क्यस्मृतिः
श्लो० ३६७—दण्ड-स्थान का निर्देश मनुस्मृति में मिलता है:—
दश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्रवीत् ।
त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत् ॥
उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।
चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥
श्लो० ३६८— कालम् = दिवारात्रिसन्ध्यात्मकम्—शूलपाणि ।
कालम् = सुभिक्षदुर्भिक्षादियुक्तम्—वीरमित्रोदय ।
कर्म = अग्निहोत्रादि तथा सूनाधिष्ठानादि ॥
यथाचार्यमथाचारे याज्ञवल्क्यनिरूपिते ।
नारायणेन मिश्रेण टिप्पणीयं समापिता ॥
व्यवहाराध्याय
श्लो० १—व्यवहारपदार्थस्वरूपनिरूपण के लिए अपरार्कमे कात्यायन का
वचन है :—
प्रयत्न-साध्ये विच्छिन्ने धर्माख्ये न्याय-विस्तरे ।
साध्य-मूलोऽत्र यो वादः व्यवहारः स उच्यते ॥
न्यायविस्तरे = न्यायप्रपञ्च मे ।
ऋणादानादिनानाविवादपद-विषय-संशयः निराक्रियते अनेनेति नाना
संशयहारी विचारो व्यवहारः यह शूलपाणि का मत है ।
“लोभश्च उत्कोचादिरूपेण परवित्तलिप्सा लोभः। अज्ञान-प्रमादावप्यत्र
वर्जनीयतया द्रष्टव्यौ” ( अपरार्क )
व्यवहार-काल के विषय में पराशर-माधवीय में बृहस्पति का
वचन है :—
दिवसस्याष्टमं भागं मुक्त्वा कालं सुसंविशेत् ।
स कालो व्यवहाराणां शास्त्र-दृष्टः परः स्मृतः ॥
अपरार्क में उद्धृत कात्यायन का मत है :—
आद्यादह्नोऽष्टभागाद्यत् ऊर्ध्वम्भागत्रयं भवेत् ।
स कालो व्यवहारस्य शास्त्रे दृष्टो मनीषिभिः ॥
व्यवहार-दर्शन की विधि मनु में कही गई है :—
तत्रासीनः स्थितो वापि पाणिमुद्यम्य दक्षिणम् ।
विनीत-वेषाभरणः पश्येत् कार्याणि कार्यिणाम् ॥
श्लो० २—सभासदाश्च बहु-शास्त्रज्ञाः ब्राह्मणाः तदलाभे क्षत्रियाः तदलाभे
तादृशा एव वैश्याः शूद्रंस्तु न कथमपीति कात्यायनमनुप्रामाण्यात्—(अपरार्क)
लो० ३—कार्यवशात् = व्यवहारदर्शनादधिकगुरुतरकार्यवशात् रोगादि-
वशाद्वा—( अपरार्क )
श्लो० ४—स्मृत्यपेतादीत्यत्रादिपदात् व्यवहारापेतस्य ग्रहणम्—शूलपाणि
एतच्च दण्डविधानं धन-विषय-विवादे, वादान्तरे तु पारुष्यादिविषये
दण्डान्तरं वेदितव्यम्” ( अपरार्क )
श्लो० ६—जात्यादि—यहाँ आदि पद से कात्यायनोक्त द्रव्यसंख्या आदि
परिग्राह्य हैं।
६७२ याज्ञवल्क्यस्मृतिः
अपरार्क में कात्यायन के वचन ये हैं :—
साध्यं प्रमाणं द्रव्यं च संख्या नाम तथात्मनः ।
राज्ञां च क्रमशॊ नाम निवासं साध्यनाम च ॥
क्ष्माऽऽपितॄणां नामानि पीडामाहर्तृणदायकौ ।
क्षमालिङ्गानि चान्यानि पक्षे संकीर्त्य कल्पयेत् ॥
देशादि के अनुल्लेख होने पर पक्ष-स्वीकार नहीं होता है । अत एव जी-
मूत-वाहनकृत व्यवहार-मातृका बृहस्पति का वचन है :—
देश-काल-विहीनश्च द्रव्य-संख्या-विवर्जितः ।
साध्य-प्रमाण-हीनश्च पक्षोऽनादेय इष्यते ॥
( अनादेयः = अग्राह्यः राज्ञा इत्यर्थः ) ॥
श्लो० ७–( पूर्वार्ध ) उत्तर-लेख से पूर्वकालिक कृत्य के विषय में
पराशर-माधवीय में बृहस्पति का वचन है :—
विनिश्चिते पूर्वपक्षे ग्राह्याग्राह्य-विशेषिते ।
प्रतिज्ञाते स्थिरीभूते लेखयेदुत्तरन्ततः ॥
उत्तरदान में अवधि का परिमाण स्मृति-कल्पतरु में बृहस्पति ने
बतलाया है :—
शालीनत्वाद्भयात्तद्वत् प्रत्यर्थी स्मृति-विभ्रमात् ।
कालम्प्रार्थयते यत्र तत्रेमं लब्धुमर्हति ॥
एकाहन्द्र्यहपञ्चाहसप्ताहं पक्षमेव वा ।
मासं ऋतुत्रयं वर्षं लभते शक्त्यपेक्षया ॥
कात्यायनीय मे तो कुछ विशेष बतलाया गया है :—
सद्यो वैकाह-पञ्चाहौ त्र्यहं वा गुरुलाघवात् ।
लभेतासौ त्रिपक्षम्वा सप्ताहम्ववा ऋणादिषु ॥
कालं शक्तिं विदित्वा तु कार्याणां च बलाबलाम्
अल्पं वा बहु वा कालं दद्यात्प्रत्यर्थिने प्रभुः ॥
उभयोर्लिखिते वाक्ये प्रारब्धे कार्यनिर्णये ।
अनुक्तं तन्न यो ब्रूयात् तस्मादर्थात्स हीयते ॥
श्लो० ७–( उत्तरार्ध ) सद्य इति । यहाँ कात्यायन का निम्न-लिखित
वचन द्रष्टव्य है :—
सद्यः कृतेषु कार्येषु सद्य एव विधीयते ।
कालातीतेषु वा कालं दद्यात्प्रत्यर्थिने प्रभुः ॥
टिप्पणी ( नोट्स ) ६७३
श्लो० १०—कलहो वाक्पारुष्यम् , साहसो दण्डपारुष्यम्—( अपरार्कः )
श्लो० ११—प्रत्यर्थी के द्वारा निह्नव करने पर अर्थी के कृत्य के विषय में
मनु का कथन है :—
अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि ।
अभियोक्ता विशेद् देश्यं करणं वान्यदुद्दिशेत् ॥
( देश्यम् = धनप्रयोगदेशवर्त्तिसाक्षिणम् , अन्यद्वा करणं पत्रादि इति ।
एवं निह्नवे प्रत्यर्थिना कृते यदि साक्ष्यादि-प्रमाणेन अर्थी प्रत्यर्थिनोऽपराधं
भावयति तदा प्रत्यर्थी भावित इत्युच्यते, स च अर्थिना अभियुक्तं धनं दत्त्वा
राज्ञे च स्वापह्नव-भाषणजन्य-दोषप्रयुक्तदण्डरूपेण तत्समन्धनन्दापयेदिति
तात्पर्यम् ।)
श्लो० १२—सहसा हठेन जनसमक्षं यत्परहिंसादि क्रियते तत्साहसम्—
( अपरार्कः )
श्लो० १३-१५—अत एव मनु ने भी कहा है :—
बाह्यैः विभावयेल्लिङ्गैः भावमन्तर्गतं नृणाम् ।
स्वर-वर्णैङ्गिताकारैश्चक्षुषा चेष्टितेन च ॥
आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ।
नेत्र-वक्त्र-विकारैश्च गृह्यतेऽन्तर्गतं मनः ॥ (८।२५-२६ )
श्लो० १३-१५—आकृति से मनोभाव का अभिव्यञ्जन रामायण में भी
बतलाया गया है :—
आकारश्छाद्यमानोऽपि निग्रहीतुं न शक्यते ।
बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥
श्लो० १६—नारद ने पाँच प्रकार के हीन का निर्देश किया है :—
अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः ।
आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥
श्लो० १८—सपणः—जितेन मया एतावद्देयम् इत्यभ्युपेतं धनं पणः
( अपरार्कः )
श्लो० २०—एतत्तु वचनमपह्नववादिनः सावष्टम्भे प्रतिवचने द्रष्टव्यम् ।
यथा—एतेषामर्थानां मध्ये यद्येकमप्यर्थमर्थी साधयति तदा सर्वानेतानहं ददा-
मीति । कुत एतत् ? छलोदाहरणपरत्वादस्य वाक्यस्य । अन्यथा—
अनेकार्थाभियोगेऽपि यावत्संसाधयेद्धनी ।
साक्षिभिस्तावदेवासौ लभते साधितं धनम् ॥
१०४ याज्ञवल्क्यस्मृतिः
इति कात्यायनवचनविरोधः स्यात् (अपरार्कः)
श्लो० २१-प्रमाणान्तरदृष्टार्थविषया स्मृतिः अर्थशास्त्रम् ।
वेदैकसमधिगम्यार्थविषया तु धर्मशास्त्रम् ॥ (अपरार्कः)
दोनों के विरोध होने पर धर्मशास्त्र प्रबल माना जाता है—
यत्र विप्रतिपत्तिः स्याद् धर्मशास्त्रार्थशास्त्रयोः ।
अर्थशास्त्रोक्तमुत्सृज्य धर्मशास्त्रोक्तमाचरेत् ॥
श्लो० २४-धनस्य दशवार्षिकी-यहाँ विशेष द्रष्टव्य है :-
सम्प्रीत्या भुज्यमानानि न नश्यन्ति कदाचन ।
धेनुरुष्ट्रो वहन्नश्वो यश्च दम्यः प्रयुज्यते ॥ (मनुस्मृतिः)
श्लो० २५-इनसे अतिरिक्त पदार्थों का भी निर्देश बृहस्पति ने
किया है :-
विवाह्य श्रोत्रियैर्भुक्तं राजामात्यैस्तथैव च ।
सुदीर्घेणापि कालेन तेषां सिध्यति तत्त न ॥
असक्तालसरोगार्त्तबालभीतप्रवासिनाम् ।
शासनाढेन्येन भुक्तं भुक्त्वा न हीयते ॥
शासनाढम् = ताम्रपट्टादिलिखितम् ।
श्लो० २७-पूर्वक्रमागतम् = पूर्व शब्द का अर्थ है-पिता, पितामह
तथा प्रपितामह । इससे स्पष्ट है कि पूर्वक्रमागत भोग आगम से बलवत्तर
होता है । अत एव बृहस्पति का कथन है :-
अनुमानाद् गुरुः साक्षी साक्षिभ्यो लिखितं गुरु ।
अव्याहता त्रिपुरुषी भुक्तिरेभ्यो गरीयसी ॥
त्रिपुरुषी भुक्ति का अर्थ व्यास ने निम्नोक्त प्रकार से किया है :-
प्रपितामहेन यद्भुक्तं तत्पुत्रेण विना च तम् ।
तौ विना तस्य पित्रा च तस्य भोगस्त्रिपौरुषः ॥
तीनों पूर्वजों के जीवित रहने पर किया गया भोग त्रिपुरुषभोग नहीं
होता है । अत एव बृहस्पति का भी मत है :-
पिता पितामहो यस्य जीवेच्च प्रपितामहः ।
त्रयाणां जीवतां भोगो विज्ञेयस्त्वेकपौरुषः ॥
श्लो० ३४-विद्वानशेषमादद्यात्-परन्तु ब्राह्मण भी निधि को प्राप्त कर
पहले राजा को निवेदित करे, पश्चात् राजा की अनुमति पाकर उसका
उपभोग करे । अत एव नारद का कथन है :-