विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
digitized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalgad
६० ॥ विष्णुस्मृतौ ३२ ॥
र्यात् । ६ । असंस्तुतापि परपत्नी भगिनीति वाच्या
पुत्रीति मातेति वा । ७ । न च गुरूणां त्वमिति ब्रूयात्
। ८ । तदतिक्रमे निराहारो दिवसान्ते तं प्रसाद्याश्नी-
यात् । ९ । न च गुरुणा सह विगृह्य कथाः कुर्यात्
। १० । न चैवास्य परीवादम् । ११ । न चानभिप्रेतम्
। १२ ।
गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः ।
पूर्णे विंशतिवर्षे च गुणदोषौ विजानता ॥ १३ ॥
कामं तु गुरुपत्नीनां युवतीनां युवा भुवि ।
विधिवद्वन्दनं कुर्यादसावहमिति ब्रुवन् ॥ १४ ॥
विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् ।
गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ॥ १५ ॥
10. कथां C¹-²v. 11. नैव चास्य C¹-²v. 14. अभिवादनकं कुर्याद०
C¹-²v. See M. II, 216.
7. असंस्तुता अपरिचिता ।... परपत्नी न परदास्यादिः । भगिन्यादि-
शब्दैर्वाच्या । व्यवस्थितश्चायं विकल्पः । समानवयस्का भगिनीति न्यून-
वयस्का पुत्रीति अधिकवयस्का मातेति ।... 9. तेषां गुरूणामतिक्रमे
त्वंकारादिवचने चाहाररहितः सायं तं गुरुं प्रसाद्यापराधं क्षमाप्या-
श्नीयात् ।... 10. गुरुणा सह विगृह्य विजिगीषया कथा जल्पवितण्डावान्न
कुर्यात् ।... 12. गुरोरनभिप्रेतं प्रतिकूलम्... 14. युवा शिष्यो युवतीनां
भुवि पादावनुपस्पृशन्नसावहमित्यभिवादयेदहं भो अमुकशर्मेति स्वनाम-
निर्देशन्विधिवद्व्यवस्थयाभिनेत्याद्युक्तरीत्या कामं यथेच्छमभिवादनं कुर्यात् ॥
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry
tized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalg
॥ विष्णुस्मृतौ ३२ ॥ ३३ ॥ ३४ ॥ ९१
वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ १६ ॥
ब्राह्मणं दशवर्षं च शतवर्षं च भूमिपम् ।
पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता ॥ १७ ॥
विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः ।
वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ॥ १८ ॥ ३२ ॥
अथ पुरुषस्य कामक्रोधलोभाख्यं रिपुत्रयं सुघोरं
भवति । १ । परिग्रहप्रसङ्गाद्विशेषेण गृह्याश्रमिणः । २ ।
तेनायमाक्रान्तोऽतिपातकमहापातकानुपातकोपपातकेषु ।
प्रवर्तते । ३ । जातिभ्रंशकरेषु संकरीकरणेष्वपात्रीकर-
णेषु च । ४ । मलावहेषु प्रकीर्णकेषु च । ५ ।
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ ६ ॥ ३३ ॥
मातृगमनं दुहितृगमनं स्नुषागमनमित्यतिपातका-
नि । १ ।
18. जन्मनः C^{1,2}. XXXIII, 2. गृह्याश्रमिणाम् V¹.
16... बन्धुरभिजनः ।.. कर्म श्रौतस्मार्तादि ।... XXXIII, 2.
परिग्रहो गृहदारादिस्वीकारः ।... 4... असंकरं ब्राह्मणादिवर्णमपि
संकरं संकरसमानधर्माणं कुर्वन्तीति संकरीकरणानि । पात्रं प्रतिग्रहाद्यर्ह-
मप्यपात्रं प्रतिग्रहाद्यनर्हं कुर्वन्तीत्यपात्रीकरणानि ॥
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry
digitized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalgao...
६२ ॥ विष्णुस्मृतौ ३४ ॥ ३५ ॥ ३६ ॥
अतिपातकिनस्त्वेते प्रविशेयुर्हुताशनम् ।
न ह्यन्या निष्कृतिस्तेषां विद्यते हि कथं च न ॥२॥३४॥
ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णहरणं गुरुदार-
गमनमिति महापातकानि । १। तत्संयोगश्च । २। संव-
त्सरेण पतति पतितेन सहाचरन् । ३। एकयानभोज-
नासनशयनैः । ४। यौनस्रौवमौखैः संबन्धैस्तु सद्य एव
। ५।
अश्वमेधेन शुद्धेयुर्महापातकिनस्त्विमे ।
पृथिव्यां सर्वतीर्थानां तथानुसरणेन च ॥ ६ ॥ ३५ ॥
यागस्थस्य क्षत्रियस्य वैश्यस्य च रजस्वलायाश्चान्त-
र्वत्न्याश्चाविगोत्रायाश्चाविज्ञातस्य गर्भस्य शरणागतस्य
च घातनं ब्रह्महत्यासमानि । १। कूटसाक्ष्यं सुहृ-
XXXV, 5. यौनस्रौवमुख्यैः संबन्धैस्तु V¹⁻⁴ N.; यौनस्रौवमौखसंब-
न्धात्० C¹˒²; यौनमौखस्रौवसंबन्धात्० v. मौख seems the lectio
doctior and corresponds to यौनस्रौव. See also the Pet.
Dict. 6. वा for च C¹˒²v Ap. XXXVI, 1. अविज्ञातगर्भस्य V⁴.
XXXV, 5... स्रुवभवः स्रौवः स च पतितस्य पतितेन सह वा याज-
नम् ।... 6...चकारः साधनतासमुच्चयार्थः ।... XXXVI, 1...अवि-
ज्ञातः स्त्रीपुंनपुंसकत्वेनानिर्णीतो यो गर्भस्तस्य हननम् ।...
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry
orशwith a loop). Look atश्वशुरin line 3:श्वhas a loop on top left and a curl! Wait, what aboutशinशरणागतायाः(line 7)? It has a loop on the left, then a slant. Now look at the letter in question in line 22: Does it have a loop on the left? No, it has an upper loop and a lower loop: it'sधorषorथ? Wait, look at साधितमिति: सा+धि+त+मि+ति! Wait, what does the letter before ष्टकार्यंlook like? Is itदु? Yes, दुष्टकार्यं साधितमिति! "त्वयेदं दुष्टकार्यं साधितमिति" = "You have accomplished/done this evil deed!" Wait, look at साधितमितिvsनाशितमिति: Wait, if it's साधितमिति: Letter 1: सा(orना?) Letter 2: धि(orशि?) Wait, let's zoom in to 500% on दुष्टकार्यं` and the next word:
Characters:
त्वयेदं
digitized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalgad...
६४ ॥ विष्णुस्मृतौ ३७ ॥
च त्यागः । ५ । अग्निपितृमातृसुतदाराणां च । ६ ।
अभोज्यान्नाभक्ष्यभक्षणम् । ७ । परस्वापहरणम् । ८ ।
परदाराभिगमनम् । ९ । अयाज्ययाजनम् । १० । वि-
कर्मजीवनम् । ११ । असत्प्रतिग्रहश्च । १२ । क्षत्रविट्-
शूद्रगोवधः । १३ । अविक्रेयविक्रयः । १४ । परिवि-
त्तितानुजेन ज्येष्ठस्य । १५ । परिवेदनम् । १६ । तस्य
च कन्यादानम् । १७ । याजनं च । १८ । व्रात्यता
। १९ । भृतकाध्यापनम् । २० । भृताच्चाध्ययनादानम्
। २१ । सर्वाकरेष्वधिकारः । २२ । महायन्त्रप्रवर्त्तनम्
। २३ । द्रुमगुल्मवल्लीलतौषधीनां हिंसा । २४ । स्त्रिया
- विकर्मणा जीवनं च C¹; वि० जीवनञ्च C². 24, 25. द्रुम०
हिंसया जीवनम् । v. 25. स्त्रीजीवनम् C¹,².
- सुवर्णतत्समव्यतिरिक्तस्य परस्वस्य धान्यकुप्यादेरपहरणम् ।... 10.
अयाज्या जातिकर्मदुष्टाः शूद्रव्रात्यादयस्तेषां याजनं पतितयाजनस्य महा-
पातकतत्वात् ॥ 11. विपरीत्तं कर्म विकर्म यथा ब्राह्मणस्य क्षत्रिय-
वैश्यवृत्ती तदुपजीवनम् ।... 14. अविक्रेयं लाक्षालवणादि... 17.
तस्य परिवेत्तुश्वभ्रातात्परिवित्तेश्च... 19. यथाकालमनुपनयनम् ।...
20... यद्यप्युपाध्यायलक्षणेऽस्यानुज्ञा गम्यते तथाप्यापद्विषयासौ मन्तव्या ।
...अनापदि भृतकाध्यापनमुपपातकमिति न विरोधः ।... 22. सर्वे च
आकराः सुवर्णरजताद्युत्पत्तिस्थानानि तेषां राजादेशेनाधिकारः । सर्व
शब्दात्कचिन्मात्रां वस्त्राद्युत्पत्तिस्थानानामपि ग्रहणम् ।... 23. एका-
प्रयोगेनानेकहिंसाकरं नाल्यादिमहायन्त्रं तस्य प्रवर्त्तनं निर्माणम् । 24...
लताः दीर्घयायिन्यो द्राक्षादयः ।... हिंसा छेदः इन्धनाद्युद्देशेन...
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry
॥ विष्णुस्मृतौ ३७ ॥ ३८ ॥ ६५
जीवनम् । २५ । अभिचारबलकर्मसु च प्रवृत्तिः । २६ ।
आत्मार्थे क्रियारम्भः । २७ । अनाहिताग्निता । २८ ।
देवर्षिपितृऋणानामपक्रिया । २९ । असच्छास्त्राभि-
गमनम् । ३० । नास्तिकता । ३१ । कुशीलवता । ३२।
मद्यपस्त्रीनिषेवणम् । ३३ । इत्युपपातकानि । ३४ ।
उपपातकिनस्त्वेते कुर्युश्चान्द्रायणं नराः ।
पराकं च तथा कुर्युर्यजेयुर्गोसवेन च ॥ ३५ ॥ ३७ ॥
ब्राह्मणस्य रुजस्करणम् । १ । अघ्रेयमद्ययोर्घ्रातिः ।
। २ । जैह्मम् । ३ । पशुषु मैथुनाचरणम् । ४ । पुंसि
च । ५। इति जातिभ्रंशकराणि । ६ ।
जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया ।
कुर्यात्सांतपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥ ७ ॥ ३८ ॥
29 T. om. V¹⁻⁴. अवपाक्रिया C¹, ²v; अनपक्रिया N. 35.
गोसवेन च V¹⁻⁴ N. XXXVIII. v makes one Sûtra of 1 — 6.
26. परमरणाय जपहोमाद्यभिचारः। अनिषिद्धस्यापि परानभिमतस्य
बलावष्टम्भेन करणं बलकर्म ।... 27. अत्र क्रियासामान्येऽपि पचनक्रिया
ग्राह्यते। अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणादिति स्मरणात् (below,
LXVII, 43 ) ।...30. असतां वेदवाह्यादीनां शास्त्रेष्वभिगमनमायासः ।
35... चशब्दो विकल्पार्थः... XXXVIII, 2. अघ्रेयं विण्मूत्रादि...
5...चकारात्स्त्रियामप्ययोनौ गमनम् । ...इति योगिस्मरणात् (Y. II,
293).
digitized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalgac
८६ ॥ विष्णुस्मृतौ ३९ ॥ ४० ॥ ४१ ॥
ग्राम्यारण्यानां पशूनां हिंसा संकरीकरणम् । १ ।
संकरीकरणं कृत्वा मासम्मश्नीत यावकम् ।
कृच्छ्रातिकृच्छ्रमथवा प्रायश्चित्तं तु कारयेत् ॥ २ ॥ ३९ ॥
निन्दितेभ्यो धनादानं वाणिज्यं कुसीदजीवनमसत्य-
भाषणं शूद्रसेवनमित्यपात्रीकरणम् । १ ।
अपात्रीकरणं कृत्वा तप्तकृच्छ्रेण शुध्यति ।
शीतकृच्छ्रेण वा भूयो महासांतपनेन वा ॥ २ ॥ ४० ॥
पक्षिणां जलचराणां जलजानां च घातनम् । १ ।
XL, 2. भूमि v.
XXXIX, 1. ग्राम्या अश्वादयः । आरण्या महिषादयः ।... तत्र
गोमनुष्यवधस्योपपातकादिपरिहारात्तदितरहिंसा संकरीकरणम् । ...2.
इच्छानिच्छेऽनुवर्तेते । तत्रेच्छया संकरीकरणं कृत्वा... यावकम्... अश्नी-
यात् । अनिच्छया तत्करणे कृच्छ्रातिकृच्छ्रं कुर्यात् । खयासामर्थ्ये ब्राह्मणा-
द्वारापि कारयितुं णिच्प्रयोगः ।... XL, 1. निन्दितेभ्यो म्लेच्छादिभ्यो
विनापि प्रतिग्रहं वृद्ध्यादिरूपेण धनादानम् । वाणिज्यमनिषिद्धस्यापि
वस्तुनः क्रयविक्रयौ । कुसीदमनिषिद्धयापि वृद्ध्या जीवनम् । असत्यभाषणं
साक्ष्यमन्तरेणापि । शूद्रसेवनं प्रेष्यत्वं विनाप्याह्लादकरणं त्रैवर्णिकानाम् ।
इत्येवंप्रकारमपात्रीकरणमसत्प्रतिग्रहनिषिद्धविक्रयनिषिद्धसाक्ष्यान्तशूद्रप्रे-
ष्यत्वानामुपपातकत्वात् ।... 2. इच्छया अपात्रीकरणं कृत्वा वक्ष्यमाणेन
तप्तकृच्छ्रेण शुध्यति । अनिच्छया तत्करणे तु शीतकृच्छ्रेण । भूयोऽभ्यासेन
तत्करणे महासांतपनेन शुध्यति ।... XLI, 1... जलचरा ये जलं
प्रविश्य मत्स्यादीन्गृह्णन्ति ते उदादयो (उद्रा० ?), जीवविशेषाः । जलजा
मत्स्यादयः । तेषां घातनम् ॥
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry
॥ विष्णुस्मृतौ ४१ । ४२ ॥ ४३ ॥ ६७
कृमिकीटानां च । २ । मद्यानुगतभोजनम् । ३। इति
मलावहानि । ४।
मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम् ।
कृच्छ्रातिकृच्छ्रमथवा प्रायश्चित्तं विशोधनम् ॥ ५ ॥ ४१ ।
यदनुक्तं तत्प्रकीर्णकम् । १ ।
प्रकीर्णपातके ज्ञात्वा गुरुत्वमथ लाघवम् ।
प्रायश्चित्तं बुधः कुर्याद्ब्राह्मणानुमतः सदा ॥ २ ॥ ४२ ॥
अथ नरकाः । १ । तामिस्रम् । २ । अन्धतामिस्रम्
। ३ । रौरवम् । ४ । महारौरवम् । ५ । कालसूत्रम् । ६ ।
महानरकम् । ७ । संजीवनम् । ८ । अवीचिः । ९ ।
तापनम् । १० । संप्रतापनम् । ११ : संघातकम् । १२ ।
काकोलम् । १३ । कुड्गलम् । १४ । पूतिमृत्तिकम् । १५ ।
XLII, 2. ०मतो यथा ॥ V¹⁻⁴. XLIII, 10. तपनम् । V¹⁻⁴.
See 11; Y. III, 224; and the C. 13. काकोलः। V¹⁻⁴.
See the P. Dict. 14. कुड्डलं। V¹⁻³; कुण्डलं। कुट्टानं। C¹'²;
कुद्दालं v See M. IV, 89; Y. III, 222; and the C.
3. मद्येन पूर्वोक्तेन द्वादशविधेनानुगतं सदृशं मदजनकत्या जातीफलादि
तद्भक्षणम्। यद्वा मद्यस्य सुराया अनु पश्चाद्भूतमुत्पन्नं भङ्गादि तद्भक्षणम्। ...
5. कामकृतेषु मलिनीकरणीयेषु तप्तकृच्छ्रेण ... अकामतः पुनस्तप्तारब्ध-
कृच्छ्रेण (कृच्छ्रातिकृच्छ्रेण)... विशुद्धिः ॥ XLIII, 10. अग्निसंनिकर्षेण
तापानुभवः ॥ 14. गोण्यादिषु प्रक्षिप्य तन्मुखबन्धनम् ॥ 17. पुटपाकः ॥
13
९८ ॥ विष्णुस्मृतौ ४३ ॥
लोहशङ्कुः । १६ । ऋचीषम् । १७ । विषमपन्थानम्
। १८ । कण्टकशाल्मलिः । १९ । दीपनदी । २० । असि-
पत्रवनम् । २१ । लोहचारकमिति । २२ । एतेष्वकृत-
प्रायश्चित्ता अतिपातकिनः पर्यायेण कल्पं पच्यन्ते । २३।
महापातकिनो मन्वन्तरम् । २४। अनुपातकिनश्च । २५।
उपपातकिनश्चतुर्युगम् । २६ । कृतसंकरिकरणाश्च संव-
त्सरसहस्रम् । २७ । कृतजातिभ्रंशकरणाश्च । २८ । कृता-
पात्रीकरणाश्च । २९ । कृतमलिनीकरणाश्च । ३० ।
प्रकीर्णकपातकिनश्च बह्वन्वर्षपूगान् । ३१ ।
कृतपातकिनः पापाः प्राणत्यागादनन्तरम् ।
याम्यं पन्थानमासाद्य दुःखमश्नन्ति दारुणम् ॥ ३२ ॥
यमस्य पुरुषैर्घोरैः कृष्यमाणा यतस्ततः ।
सुकृच्छ्रेणानुकारेण नीयमानाश्च ते यथा ॥ ३३ ॥
17. ऋचीसं । V¹⁻⁴v; ऋचीसं । C¹,². See the C. 25 om.
C¹,²v. 26. चातुर्युगम् । V¹⁻⁴ C¹,²v; चतुर्युगं N. 31. ॰युगान्
C¹,²v. 32. सर्वे for पापाः C¹,²v.
23... पर्यायेण पच्यन्ते यातनामनुभवन्ति ॥ 31. बह्वन् बहून् । वर्षपूगा-
न्वर्षशतानि ।... 32. कृतानि नवविधानि पातकानि यैस्ते । अकृतप्रायश्चित्ता
अत एव पापाः पापाक्रान्ताः... 33. भयानकैर्यमदूतैः समविषमेषु देशेषु
कृष्यमाणाः कष्टानुकारिणा करविशेषेण नरकं नीयमानास्ते यथा दुःख-
मनुभवन्ति एवं नरकोपभोगानन्तरमपि तिर्यग्योनौ प्रपद्यन्ते दुःखानि
विविधानि चेत्यध्यायान्तेनान्वयः ॥
॥ विष्णुस्मृतौ ४३ ॥ ६६
श्वभिः सृगालैः क्रव्यादैः काककङ्कबकादिभिः ।
अग्नितुण्डैर्भक्ष्यमाणा भुजङ्गैर्वृश्चिकैस्तथा ॥ ३४ ॥
अग्निना दह्यमानाश्च तुद्यमानाश्च कण्टकैः ।
क्रकचैः पाट्यमानाश्च पीड्यमानाश्च तृष्णया ॥ ३५ ॥
क्षुधया व्यथमानाश्च घोरैर्व्याघ्रगणैस्तथा ।
पूयशोणितगन्धेन मूर्च्छमानाः पदे पदे ॥ ३६ ॥
परान्नपानं लिप्सन्तस्ताड्यमानाश्च किंकरैः ।
काककङ्कबकादीनां भीमानां सहशाननैः ॥ ३७ ॥
क्वचित्क्वाथ्यन्ते तैलेन ताड्यन्ते मुसलैः क्वचित् ।
आयसीषु च वद्यन्ते शिलासु च तथा क्वचित् ॥ ३८ ॥
क्वचिद्वान्तमथाश्नन्ति क्वचित्पूयमस्तृक्क्वचित् ।
क्वचिद्विष्ठां क्वचिन्मांसं पूयगन्धि सुदारुणम् ॥ ३९ ॥
अन्धकारेषु तिष्ठन्ति दारुणेषु तथा क्वचित् ।
कृमिभिर्भक्ष्यमाणाश्च वह्नितुण्डैश्च दारुणैः ॥ ४० ॥
क्वचिच्छीतेन बाध्यन्ते क्वचिच्चामेध्यमध्यगाः ।
परस्परमथाश्नन्ति क्वचित्प्रेताः सुदारुणाः ॥ ४१ ॥
38. विध्यन्ते C¹'²; पच्यन्ते v. 41. ०मध्यमाः। V¹.
34... अग्नितुण्डे येषां ते भल्लूकादयः शेषं प्रसिद्धम् ॥ 37... काका-
द्याननत्वं किंकरविशेषणम् ॥ 38... बध्यन्ते पिष्यन्ते आयसीषु लोहमयीषु
(०स्थालीषु ?) शिलासु च ।... 41. अमेध्यं विष्ठादि । परस्परं प्रेताः
प्रेतानश्नन्ति सुदारुणा बुभुक्षातिशयेन ॥
१०० ॥ विष्णुस्मृतौ ४३ । ४४ ॥
क्वचिद्भूतेन ताड्यन्ते लम्बमानास्तथा क्वचित् ।
क्वचित्क्षिप्यन्ति बाणौघैरुत्कृत्यन्ते तथा क्वचित् ॥ ४२ ॥
कण्टेषु दत्तपादाश्च भुजङ्गाभोगवेष्टिताः ।
पीड्यमानास्तथा यन्त्रैः कृष्यमाणाश्च जानुभिः ॥ ४३॥
भग्नपृष्ठशिरोग्रीवाः सूचीकण्ठाः सुदारुणाः ।
कूटागारप्रमाणैश्च शरीरैर्यातनाक्षमैः ॥ ४४ ॥
एवं पातकिनः पापमनुभूय सुदुःखिताः ।
तिर्यग्योनौ प्रपद्यन्ते दुःखानि विविधानि च ॥४५॥४३॥
अथ पापात्मनां नरकेष्वनुभूतदुःखानां तिर्यग्योनयो
भवन्ति । १ । अतिपातकिनां पर्यायेण सर्वाः स्थावर-
योनयः । २ । महापातकिनां च कृमियोनयः । ३ ।
43. कण्टकेषु V¹⁻³ C¹,²v N. in V⁴. 44. सुदारुणाः all. No
comment. Cf. 39, 40, 41.
42. भूतेन पूर्वोक्तेन लम्बमाना वृक्षादौ बन्धनेन । क्षिप्यन्तीति पद-
व्यत्ययः ॥ 43. कण्टाः कण्टकास्तेषु । भुजङ्गाभोगाः सर्पशरीराणि ।
यन्त्रैस्तिलेक्षुनिष्पीडनयन्त्रैः पीड्यमानाः । कण्टकाक्रान्तपादत्वेन गमनाशक्त्या
जानुभिः कृष्यमाणाः ॥ 44. भग्नं पृष्ठं पृष्ठभागः शिरो मस्तकं ग्रीवा
शिरोधिर्येषां... सूचीसौक्ष्यप्रमाणाः कण्ठनालो येषाम् । कूटाख्यमगारं
गृहविशेषस्तत्प्रमाणं । यातनाक्षमैरिति यातनासु दुःखानुभवेष्वतिस्थूला-
न्येव शरीराणि क्षमन्ते न सूक्ष्माणि स्वल्पदुःखेनैव तेषां क्षिप्रं नाशात् ॥
45. पातकिनो नरकं नीयमाना यथा दुःखान्यनुभवन्त्येवमेव नरकेषु
पापफलमनुभूय पापशेषेण... दुःखानि प्रपद्यन्ते ॥ XLIV, 2... वृक्ष
गुल्मलतादिका...योनयः...
को-> wait,संकोचको! Yes: सं को च को. Then: बि ले श यः Then:स र्पा दिः ॥ Then:16... अभिप्लवो जल-`
- Line 19:
कुक्कुटः ॥ 19. रसमिच्क्षादेः... 23... तैलपायिक' पतत्त्रीनामकः
Wait!
Let's inspect19. रसमिच्क्षादेः...
Is itरसमिच्क्षादेःorरस इक्ष्वादेःorरस इक्ष्वादेः?
Look at L19:
19. रसमिच्क्षादेः...-> wait,र स मि क्षा देः?
Wait, "रसः इक्ष्वादेः" -> "रस इक्ष्वादेः" or "रसमिं..."?
Wait, in main text L10:रसं श्वा । १९ ।
In commentary:
19. रसमि...->रसं इक्ष्वादेःorरसमिच्क्षादेः?
Wait, look at the letters:
रसमिक्ष्छा?
Wait,इक्षु! "इक्ष्वादेः"!
Could it be `र
१०२ ॥ विष्णुस्मृतौ ४४ ॥ १५ ॥
कार्पासितान्तवं क्रौञ्चः । २८ । गोधा गाम् । २९ । वा-
ल्गुदो गुडम् । ३० । छुच्छुन्दरिगन्धान् । ३१ । पत्त्रशाकं
बर्ही । ३२ । कृतान्नं सेधा । ३३ । अकृतान्नं शल्यकः । ३४ ।
अग्निं बकः । ३५ । गृहकार्युपस्करम् । ३६ । रक्तवासांसि
जीवजीवकः । ३७ । गजं कूर्मः । ३८ । अश्वं व्याघ्रः । ३९ ।
फलं पुष्पं वा मर्कटः । ४० । वृक्षः स्त्रियम् । ४१ ।
यानमुष्ट्रः । ४२ । पशूनृक्षः । ४३ ।
यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः ।
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥ ४४ ॥
स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषमवाप्नुयुः ।
एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ॥ ४५ ॥ ४४ ॥
अथ नरकाभिभूतदुःखानां तिर्यक्त्वमुत्तीर्णानां मनु-
ष्वेषु लक्षणानि भवन्ति । १ । कुष्ठ्यतिपातकी । २ ।
३० वाग्गुदो C^b. 33 श्वावित् । C^1, 2v. 37. जविञ्जीविकः ।
C^1, 2. 43. पशूनजः । प्रेतः पारजावी । C^1, 2; पशूनजः । v. This is
probably a correction. See Sûtra 21 and M. XII, 67.
XLV, 1 नरकानुभूत० V^1-4. See the C.
30... वाग्गुदो वग्गुलाख्यान्तरपक्षिविशेषः ।... 33. सेधा श्वावित् ॥
36... गृहकारी चरटाख्यः कीटविशेषः ॥ 37... जीवजीवकश्चकोरः ॥
XLV, 1. नरकेषु तामिस्रादिष्वभिः सर्वेषु भूतेषूत्पन्नानि दुःखानि
येषाम्... मनुष्यजन्मसु वक्ष्यमाणानि क्षयादीनि लक्षणानि तत्पापसूचकानि
भवन्ति ।... 4 ..श्यावः श्यावदन्तो दशना यस्य तादृक्...
॥ विष्णुस्मृतौ ४५ ॥ १०३
ब्रह्महा यक्ष्मी । ३ । सुरापः श्यावदन्तकः । ४ । सुवर्ण-
हारी कुनखी । ५ । गुरुतल्पगो दुश्चर्मा । ६ । पूतिनासः
पिशुनः । ७ । पूतिवक्त्रः सूचकः । ८ । धान्यचौरोऽङ्ग-
हीनः । ९ । मिश्रचौरोऽतिरिक्ताङ्गः । १० । अन्नापहा-
रकस्त्वामयावी । ११ । वागपहारको मूकः । १२ ।
वस्त्रापहारकः श्वित्री । १३ । अश्वापहारकः पङ्गुः । १४ ।
देवब्राह्मणाक्रोशको मूकः । १५ । लोलजिह्वो गरदः
। १६ । उन्मत्तोऽग्निदः । १७ । गुरोः प्रतिकूलोऽपस्मरी
। १८ । गोघ्नस्त्वन्धः । १९ । दीपापहारकश्च । २० । काणश्च
दीपनिर्वापकः । २१ । त्रपुचामरसीसकविक्रयी रजकः
। २२ । एकशफविक्रयी मृगव्याधः । २३ । कुण्डाशी भ-
गास्यः । २४ । घण्टिकः स्तेनः । २५ । वार्धुषिको
भ्रामरी । २६ । मृष्टाश्येकाकी वातगुल्मी । २७ । समय-
- मिष्टाश्येकाकी C¹,²; मृष्टाश्येको V.
- ब्राह्मणस्वामिकसुवर्णापहारी... 6... दुश्चर्मा त्वग्दोषी भवति ।...
- धान्येष्वेवोत्कृष्टमपहृत्य तत्परिमाणपूरणायावकृष्टं तन्मध्ये प्रक्षिपति
स मिश्रचौरोऽतिरिक्ताङ्गः षडङ्गुल्यादिः ।... 12. अननुज्ञाताध्यायी
पुस्तकापहारी संदेशाप्रवक्ता वा... 15... देवद्विजयोर्गलिप्रदाता मूकः ॥ - पितृप्रतिकूलकार्यपस्मरी ॥ 22... रजको वस्त्ररागकरः प्रति-
लोमजः ॥ 23. एकशफा अश्वादयः... 24. कुण्डस्यान्नं कुण्डपरिमितं
वान्नातीति कुण्डाशी । भगवदास्यं यस्येति मैथुनाय मुखसमर्पकः ॥ 25.
सुवर्णातिरिक्तद्रव्यस्तेनो घण्टिको वैतालिकः ॥ 27. एकाकी मृष्टाश्नो
वातगुल्मवान् ॥ 28. संविद्व्यतिक्रमकारी खल्वाटः शिरश्चन्द्रिकावान् ॥
१०४ ॥ विष्णुस्मृतौ ४५ ॥ ४६ ॥
भेत्ता खल्वाटः । २८ । श्लीपद्यवकीर्णी । २९ । परवृत्तिघ्नो
दरिद्रः । ३० । परपीडाकरो दीर्घरोगो । ३१ ।
एवं कर्मविशेषेण जायन्ते लक्षणान्विताः ।
रोगान्वितास्तथाऽन्यांश्च कुनखञ्जैकलोचनाः ॥ ३२ ॥
वामना बधिरा मूका दुर्बलाश्च तथापरे ।
तस्मात्सर्वप्रयत्नेन प्रायश्चित्तं समाचरेत् ॥ ३३ ॥ ४५ ॥
अथ कृच्छ्राणि भवन्ति । १ । व्यहं नाश्नीयात् । २ ।
प्रत्यहं च त्रिषवणं स्नानमाचरेत् । ३ । त्रिः प्रतिस्नान-
मप्सु मज्जनम् । ४ । मग्नस्त्रिरघमर्षणं जपेत् । ५ ।
दिवा स्थितस्तिष्ठेत् । ६ । रात्रावासीनः । ७ । कर्मणो
ऽन्ते पयस्विनीं दद्यात् । ८ । इत्यघमर्षणम् । ९ । त्र्यहं
सायं त्र्यहं प्रातस्त्र्यहमयाचितमश्नीयादेष प्राजापत्यः
। १० । त्र्यहमुष्णाः पिवेदपस्त्र्यहमुष्णं घृतं त्र्यहमुष्णं पय-
स्त्यहं च नाश्नीयादेष तप्तकृच्छ्रः । ११ । एष एव शीतैः
शीतकृच्छ्रः । १२ । कृच्छ्रातिकृच्छ्रः पयसा दिवसैर्काविंश-
तिक्षपणम् । १३ । उदकसक्तूनां मासाभ्यवहारेणोदक-
29. अवकीर्णी क्षतव्रतः श्लीपदी उच्छूनजङ्घाचरणः ॥ 31. निष्कारणं
परपीडाकरोऽसाध्यव्याधिमान् ॥ 33. तथोऽपरे... शठादयः । XLVI,
8. त्रिरात्रान्ते पयस्विनीं गां ब्रह्मचार्याय दद्यात् ॥ 10. सायं दिवाभोजन-
परिहारेण नक्तकाले । प्राता रात्रिभोजनपरिहारेण मध्याह्ने । ...दिवा रात्रौ
वैकवारमयाचितं स्वीयं परकीयं वा याचनव्यतिरेकेणोपस्थितम् । ... त्र्यहं
नाश्नीयादित्यनुवर्तते तेनान्ते त्रिरात्रमुपवसेत्सोऽयं प्राजापत्यः । त्र्यहम्... इति
मनुस्मरणात् (XI, 212) ... 13. एकविंशतिरात्रं पयसा दुग्धेन वर्तनं
कृच्छ्रातिकृच्छ्रः ।...
॥ विष्णुस्मृतौ ४६ ॥ १०५
कृच्छ्रः । १४। बिसाभ्यवहारेण मूलकृच्छ्रः । १५।
विल्वाभ्यवहारेण श्रीफलकृच्छ्रः । १६। पद्माक्षैर्वा । १७।
निराहारस्य द्वादशाहेन पराकः । १८। गोमूत्रगोम-
यक्षीरदधिसर्पिःकुशोदकान्येकदिवसमश्नीयाद्दितीयमुप-
वसेदेतत्सान्तपनम् । १९। गोमूत्रादिभिः प्रत्यहमभ्य-
स्तैर्महासांतपनम् । २०। त्र्यहाभ्यस्तैश्चातिसांतपनम्
। २१। पिण्याकाचामतक्रोदकसक्तूनामुपवासान्तरितो
ऽभ्यवहारस्तुलापुरुषः । २२। कुशपलाशोडुम्बरपद्म-
शङ्खपुष्पीवटब्रह्मसुवर्चलापत्त्रैः क्वथितस्याम्भसः प्रत्येकं
पानेन पर्णकृच्छ्रः । २३।
कृच्छ्राण्येतानि सर्वाणि कुर्वीत कृतवापनः ।
नित्यं त्रिषवणस्नायी अधःशायी जितेन्द्रियः ॥ २४ ॥
XLVI, 18. द्वादशाहेनैव C¹˒²; ॰नैष v. 23. ॰ब्राह्मीसुवर्चला॰
V¹⁻⁴ N.; ॰ब्रह्मसुवर्चलानां C¹˒²; ब्रह्मसुवर्चलां v. 24. कृतपा-
वनः। C¹˒².
15. मृणालस्य मासं भोजनेन मूलकृच्छ्रः। ... 16. मासं बिल्वफल-
भक्षणेन श्रीफलकृच्छ्रः। ... 17. पद्मबीजैर्मासं भक्षितैर्वा श्रीफलकृच्छ्रः। ...
20. गोमूत्रादिभिः षड्भिर्गव्यैः प्रत्यहमभ्यस्तैर्महासांतपनम्। षडहसाध्यं
भवति। ... 21. तैरेव गोमूत्रादिभिः षड्भिः प्रत्येकं त्र्यहाभ्यस्तैरष्टादशा-
हिकमतिसांतपनं भवति। ... 22... दशाहाहिकस्तुलापुरुषः। ... 23...
एषां सप्तानां पत्त्रैः क्वथितमम्भः सप्ताहं पीत्वा पर्णकृच्छ्रः। ...
11
१०६ ॥ विष्णुस्मृतौ ४६ ॥ ४७ ॥
स्त्रीशूद्रपतितानां च वर्जयेच्चाभिभाषणम् ।
पवित्राणि जपेन्नित्यं जुहुयाच्चैव शक्तितः ॥ २५ ॥ ४६ ॥
अथ चान्द्रायणम् । १ । ग्रासानविकारानश्नीयात् ।
२ । तांश्चन्द्रकलाभिर्वृद्धौ वर्धयेद्धानौ ह्रासयेदमावा-
स्यायां नाश्नीयादेष चान्द्रायणो यवमध्यः । ३ । पिपी-
लिकामध्यो वा । ४ । यस्यामावास्या मध्ये भवति स
पिपीलिकामध्यः । ५ । यस्य पौर्णमासी स यवमध्यः ।
६ । अष्टौ ग्रासान्प्रतिदिवसं मासमश्नीयात्स यतिचा-
न्द्रायणः । ७ । सायं प्रातश्चतुरश्चतुरः स शिशुचान्द्रा-
यणः । ८ । यथाकथंचित्पञ्चोनां त्रिंशतीं मासेनाश्नी-
यात्स सामान्यचान्द्रायणः । ६ ।
व्रतमेतत्पुरा भूमि कृत्वा सप्तर्षयोऽमलाः ।
प्राप्तवन्तः परं स्थानं ब्रह्मा रुद्रस्तथैव च ॥ १० ॥ ४७ ॥
XLVII, 1 om. v. 3. ०वृद्धौ क्रमेण व० C¹·²v. 9. षट्कानां
C¹,²; om. v. 10. प्राप्नुवन्तः C¹,². वरम् । C¹,²; ऽखिलाः । v.
XLVII, 3... शुक्लपक्षे यथा चन्द्रकला वर्धन्ते तथैकैकापचयेन
ग्रासान्वर्धयेत् । प्रतिपद्येको । द्वितीयायां द्वौ । तृतीयायां त्रय इत्यादि
वृद्ध्या । पौर्णमास्यां पञ्चदश भवन्ति । ततः पुनश्चन्द्रकलह्रानौ कृष्णपक्षे
एकैकापचयेन ह्रासयेत् । प्रतिपदि चतुर्दश । द्वितीयायां त्रयोदश । तृती-
यायां द्वादशेति ह्रान्या । चतुर्दश्यामको भवति । ततोऽमावास्यां नाश्नीया-
दुपवसेत् ।... 9. एतदुक्तविधिनैदं चान्द्रायणं पुरा कल्पान्तरे कृत्वा...
॥ विष्णुस्मृतौ ४८ ॥ १०७
अथ कर्मभिरात्मकृतैर्गुरुमात्मानं मन्येतात्मार्थे
प्रसृतियावकं श्रपयेत् । १ । न ततोऽग्नौ जुहुयात् । २ ।
न चात्र बलिकर्म । ३ । अश्रुतं श्रप्यमाणं शृतं चाभि-
मन्त्रयेत् । ४ । श्रप्यमाणे रक्षां कुर्यात् । ५ । ब्रह्मा
देवानां पदवीः कवीनां ऋषिर्विप्राणां महिषो मृगाणां
श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति
रेभन्निति दर्भान्बध्नाति । ६ । शृतं च तमश्नीयात्पात्रे
निषिच्य । ७ । ये देवा मनोजाता मनोजुषः सुदक्षा
दक्षपितरस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः
स्वाहेत्यात्मनि जुहुयात् । ८ । अथाचान्तो नाभिमा-
XLVIII, 5. कुर्यात् and the following section up to
LI, 28 क्रव्याद॰ is wanting in v, two leaves having been
lost.
XLVIII, 1... अत एव यावकोपक्रमे हारीतः। अयान्ययाजनं
कृत्वा प्राश्य मूत्रपुरीषके। अप्रतिग्राह्यमादाय याजयित्वा तु निन्दितानिति
स्वकृतमेव कर्माभिहितवान्। कर्मभिरयान्ययाजनादिभिर्गुरुमात्मानं मन्येत।
स्वकृतशुभाशुभकर्मणः स्वान्तरात्मसाक्षितया तत्कृतात्मगौरवलाघवैः स्व-
प्रत्यक्षे तज्ज्ञानं च निमित्तमत्र दर्शितम्। यद्वा तुलापुरुषयज्ञप्रोक्तप्रकारेण
परात्मप्रतिकृतितोलने आत्मप्रतिकृतेर्गौरवं मन्येतेति व्याख्येयम्।... 2...
अग्नौ होमं वैश्वदेवं न कुर्यात्। न चासंस्कृतान्नभोजनदोषः।... 4...
षण्मन्त्रैर्वक्ष्यमाणैरभिमन्त्रयेत्॥ 5... तत्र मन्त्रः॥ 6. अनेन मन्त्रेण
चरुस्थालीकण्ठे दर्भान्बध्नीयात्।... 7. शृतं च चरुं पात्रान्तरे निषिच्य तम-
श्नीयात्। तत्र मन्त्रः॥ 8. अनेन मन्त्रेण चरुं प्राश्नीयात्। न मन्त्रान्त-
रेण।... 9. चरुप्राशनेोत्तरं यथोक्तमालभेत। तत्र मन्त्रः॥
[Header]
१०८ ॥ विष्णुस्मृतौ ४८ ॥
लभेत । ९ । स्नाताः प्रीता भवत यूयमापोऽस्माकमुदरे
यवाः । ता अस्मभ्यमनमीवा अयक्ष्मा अनागसः सन्तु
देवीरमृता ऋतावृध इति । १० । त्रिरात्रं मेधार्थी ।
११ । षड्रात्रं पापकृत् । १२ । सप्तरात्रं पीत्वा महापा-
तकिनामन्यतमं पुनाति । १३ । द्वादशरात्रेण पूर्वपु-
रुषकृतमपि पापं निर्दहति । १४ । मासं पीत्वा सर्व-
पापानि । १५ । गोनिहारमुक्तानां यवानामेकविंशति-
रात्रं च । १६ ।
यवोऽसि धान्यराजोऽसि वारुणो मधुसंयुतः ।
निर्णोदः सर्वपापानां पवित्रमृषिभिः स्मृतम् ॥ १७ ॥
घृतमेव मधु यवा आपो वा अमृतं यवाः ।
सर्वं पुनीत मे पापं यन्मे किंचन दुष्कृतम् ॥ १८ ॥
- पीता भवन्तो C$^{1, 2}$. ता अस्ममनमीवा अयक्ष्या (अपक्ष्या V$^2$)
अनागसा सन्तु V$^{1-3}$; ता असममनमीवा अपक्ष्या अनागसा C$^{1, 2}$. ऋतावृद्ध
V$^{1, 2, 4}$ C$^{1, 2}$. See Preface. 11. मेधावी । C$^{1, 2}$. 14. निर्हन्ति
V$^4$. 16. ०निर्हार० C$^{1, 2}$. 17. हृतं V$^4$; हृतं V$^{1-3}$; स्मृतम् C$^{1, 2}$
and Baudhāyana. 18. सर्वे all; सर्वं Baudh.
- अनेन नाभिमालभेत । उक्तकर्मणो यथाधिकारं विनियोगमाह ॥
- मेधा धारणवती बुद्धिस्तदर्थी त्रिरात्रं प्राश्नीयात् ॥ 13. सप्तरात्र-
पानेन ब्रह्महादीनामेकं पुनाति ।... 14. द्वादशरात्रं पीत्वा पित्रादिकृत-
मपि पापं निर्दहति ।... 15... सर्वाणि महापापोपपापादीनि सर्वेषां
स्वस्य पित्रादीनां च पापानि निर्दहति ।... 16. गोनिहारो गोमयं तेन
सह मुक्ताः... सर्वपापानि निर्दहति ।... 17. हृतमित्यौशनसे ॥
॥ विष्णुस्मृतौ ४८ ॥ ४९ ॥ १०६
वाचा कृतं कर्मकृतं मनसा दुर्विचिन्तितम् ।
अलक्ष्मीं कालकर्णीं च नाशयध्वं यवा मम ॥ १९ ॥
श्वशूकरावलीढं च उच्छिष्टोपहतं च यत् ।
मातापिचोरशुश्रूषां तन्पुनीध्वं यवा मम ॥ २० ॥
गणान्नं गणिकान्नं च शूद्रान्नं श्राद्धसूतकम् ।
चौरस्यान्नं नवश्राद्धं पुनीध्वं च यवा मम ॥ २१ ॥
बालधूर्तंमधर्मं च राजद्वारकृतं च यत् ।
सुवर्णस्तेन्यमव्रात्यमयाज्यस्य च याजनम् ॥
ब्राह्मणानां परीवादं पुनीध्वं च यवा मम ॥ २२ ॥ ४८ ॥
मार्गशीर्षशुक्लैकादश्यामुपोषिता द्दश्यां भगवन्तं
वासुदेवमर्चयेत् । १ । पुष्पधूपानुलेपनदीपनैवेद्यैर्ब्रा-
ह्मणतर्पणैश्च । २ । व्रतमेतत्संवत्सरं कृत्वा पापेभ्यः पूतो
20. पुनीध्वं च C1,2. 21. शूद्रसूतकम्। Baudh. 22 om.
C1,2. बालवृद्धम्... अव्रात्यम् Baudh.
19. अलक्ष्मीं कालकर्णीं च सर्वं पुनीत मे यवा इत्यौशनसे ॥ 21.
श्राद्धसहितं सूतकं तथाभक्ष्यम् । सर्वं पुनीत मे यवा इत्यौशनसे ॥ 22.
धूर्तभित्यत्र भावप्रधानो निर्देशः । अव्रतसमूहो ऽव्रात्यम् । सुवर्णस्तेयं
महापातकोपलक्ष्णार्थम् ।... परीवादो निन्दा ॥ XLIX, 3. मार्ग-
शीर्षशुक्लद्वादशीमारभ्य कार्त्तिकाशुक्लद्वादशीपर्यन्तं द्वादशस्वपि शुक्लद्वादशीषु
पूर्वोक्तं व्रतं कृत्वातिपातकादिभ्यो नवविधेभ्यः पापेभ्यो मुक्तः पूतो भवति ।...