सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 111, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 111

॥ विष्णुस्मृतौ ४५ ॥ १०३

ब्रह्महा यक्ष्मी । ३ । सुरापः श्यावदन्तकः । ४ । सुवर्ण-
हारी कुनखी । ५ । गुरुतल्पगो दुश्चर्मा । ६ । पूतिनासः
पिशुनः । ७ । पूतिवक्त्रः सूचकः । ८ । धान्यचौरोऽङ्ग-
हीनः । ९ । मिश्रचौरोऽतिरिक्ताङ्गः । १० । अन्नापहा-
रकस्त्वामयावी । ११ । वागपहारको मूकः । १२ ।
वस्त्रापहारकः श्वित्री । १३ । अश्वापहारकः पङ्गुः । १४ ।
देवब्राह्मणाक्रोशको मूकः । १५ । लोलजिह्वो गरदः
। १६ । उन्मत्तोऽग्निदः । १७ । गुरोः प्रतिकूलोऽपस्मरी
। १८ । गोघ्नस्त्वन्धः । १९ । दीपापहारकश्च । २० । काणश्च
दीपनिर्वापकः । २१ । त्रपुचामरसीसकविक्रयी रजकः
। २२ । एकशफविक्रयी मृगव्याधः । २३ । कुण्डाशी भ-
गास्यः । २४ । घण्टिकः स्तेनः । २५ । वार्धुषिको
भ्रामरी । २६ । मृष्टाश्येकाकी वातगुल्मी । २७ । समय-


  1. मिष्टाश्येकाकी C¹,²; मृष्टाश्येको V.

  1. ब्राह्मणस्वामिकसुवर्णापहारी... 6... दुश्चर्मा त्वग्दोषी भवति ।...
  2. धान्येष्वेवोत्कृष्टमपहृत्य तत्परिमाणपूरणायावकृष्टं तन्मध्ये प्रक्षिपति
    स मिश्रचौरोऽतिरिक्ताङ्गः षडङ्गुल्यादिः ।... 12. अननुज्ञाताध्यायी
    पुस्तकापहारी संदेशाप्रवक्ता वा... 15... देवद्विजयोर्गलिप्रदाता मूकः ॥
  3. पितृप्रतिकूलकार्यपस्मरी ॥ 22... रजको वस्त्ररागकरः प्रति-
    लोमजः ॥ 23. एकशफा अश्वादयः... 24. कुण्डस्यान्नं कुण्डपरिमितं
    वान्नातीति कुण्डाशी । भगवदास्यं यस्येति मैथुनाय मुखसमर्पकः ॥ 25.
    सुवर्णातिरिक्तद्रव्यस्तेनो घण्टिको वैतालिकः ॥ 27. एकाकी मृष्टाश्नो
    वातगुल्मवान् ॥ 28. संविद्व्यतिक्रमकारी खल्वाटः शिरश्चन्द्रिकावान् ॥