सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 112, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 112

१०४ ॥ विष्णुस्मृतौ ४५ ॥ ४६ ॥
भेत्ता खल्वाटः । २८ । श्लीपद्यवकीर्णी । २९ । परवृत्तिघ्नो
दरिद्रः । ३० । परपीडाकरो दीर्घरोगो । ३१ ।
एवं कर्मविशेषेण जायन्ते लक्षणान्विताः ।
रोगान्वितास्तथाऽन्यांश्च कुनखञ्जैकलोचनाः ॥ ३२ ॥
वामना बधिरा मूका दुर्बलाश्च तथापरे ।
तस्मात्सर्वप्रयत्नेन प्रायश्चित्तं समाचरेत् ॥ ३३ ॥ ४५ ॥
अथ कृच्छ्राणि भवन्ति । १ । व्यहं नाश्नीयात् । २ ।
प्रत्यहं च त्रिषवणं स्नानमाचरेत् । ३ । त्रिः प्रतिस्नान-
मप्सु मज्जनम् । ४ । मग्नस्त्रिरघमर्षणं जपेत् । ५ ।
दिवा स्थितस्तिष्ठेत् । ६ । रात्रावासीनः । ७ । कर्मणो
ऽन्ते पयस्विनीं दद्यात् । ८ । इत्यघमर्षणम् । ९ । त्र्यहं
सायं त्र्यहं प्रातस्त्र्यहमयाचितमश्नीयादेष प्राजापत्यः
। १० । त्र्यहमुष्णाः पिवेदपस्त्र्यहमुष्णं घृतं त्र्यहमुष्णं पय-
स्त्यहं च नाश्नीयादेष तप्तकृच्छ्रः । ११ । एष एव शीतैः
शीतकृच्छ्रः । १२ । कृच्छ्रातिकृच्छ्रः पयसा दिवसैर्काविंश-
तिक्षपणम् । १३ । उदकसक्तूनां मासाभ्यवहारेणोदक-
29. अवकीर्णी क्षतव्रतः श्लीपदी उच्छूनजङ्घाचरणः ॥ 31. निष्कारणं
परपीडाकरोऽसाध्यव्याधिमान् ॥ 33. तथोऽपरे... शठादयः । XLVI,
8. त्रिरात्रान्ते पयस्विनीं गां ब्रह्मचार्याय दद्यात् ॥ 10. सायं दिवाभोजन-
परिहारेण नक्तकाले । प्राता रात्रिभोजनपरिहारेण मध्याह्ने । ...दिवा रात्रौ
वैकवारमयाचितं स्वीयं परकीयं वा याचनव्यतिरेकेणोपस्थितम् । ... त्र्यहं
नाश्नीयादित्यनुवर्तते तेनान्ते त्रिरात्रमुपवसेत्सोऽयं प्राजापत्यः । त्र्यहम्... इति
मनुस्मरणात् (XI, 212) ... 13. एकविंशतिरात्रं पयसा दुग्धेन वर्तनं
कृच्छ्रातिकृच्छ्रः ।...