विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
पृष्ठ 100, कुल 392 में से
संदर्भ में पढ़ेंdigitized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalgao...
६२ ॥ विष्णुस्मृतौ ३४ ॥ ३५ ॥ ३६ ॥
अतिपातकिनस्त्वेते प्रविशेयुर्हुताशनम् ।
न ह्यन्या निष्कृतिस्तेषां विद्यते हि कथं च न ॥२॥३४॥
ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णहरणं गुरुदार-
गमनमिति महापातकानि । १। तत्संयोगश्च । २। संव-
त्सरेण पतति पतितेन सहाचरन् । ३। एकयानभोज-
नासनशयनैः । ४। यौनस्रौवमौखैः संबन्धैस्तु सद्य एव
। ५।
अश्वमेधेन शुद्धेयुर्महापातकिनस्त्विमे ।
पृथिव्यां सर्वतीर्थानां तथानुसरणेन च ॥ ६ ॥ ३५ ॥
यागस्थस्य क्षत्रियस्य वैश्यस्य च रजस्वलायाश्चान्त-
र्वत्न्याश्चाविगोत्रायाश्चाविज्ञातस्य गर्भस्य शरणागतस्य
च घातनं ब्रह्महत्यासमानि । १। कूटसाक्ष्यं सुहृ-
XXXV, 5. यौनस्रौवमुख्यैः संबन्धैस्तु V¹⁻⁴ N.; यौनस्रौवमौखसंब-
न्धात्० C¹˒²; यौनमौखस्रौवसंबन्धात्० v. मौख seems the lectio
doctior and corresponds to यौनस्रौव. See also the Pet.
Dict. 6. वा for च C¹˒²v Ap. XXXVI, 1. अविज्ञातगर्भस्य V⁴.
XXXV, 5... स्रुवभवः स्रौवः स च पतितस्य पतितेन सह वा याज-
नम् ।... 6...चकारः साधनतासमुच्चयार्थः ।... XXXVI, 1...अवि-
ज्ञातः स्त्रीपुंनपुंसकत्वेनानिर्णीतो यो गर्भस्तस्य हननम् ।...
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry