सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 106, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 106

९८ ॥ विष्णुस्मृतौ ४३ ॥
लोहशङ्कुः । १६ । ऋचीषम् । १७ । विषमपन्थानम्
। १८ । कण्टकशाल्मलिः । १९ । दीपनदी । २० । असि-
पत्रवनम् । २१ । लोहचारकमिति । २२ । एतेष्वकृत-
प्रायश्चित्ता अतिपातकिनः पर्यायेण कल्पं पच्यन्ते । २३।
महापातकिनो मन्वन्तरम् । २४। अनुपातकिनश्च । २५।
उपपातकिनश्चतुर्युगम् । २६ । कृतसंकरिकरणाश्च संव-
त्सरसहस्रम् । २७ । कृतजातिभ्रंशकरणाश्च । २८ । कृता-
पात्रीकरणाश्च । २९ । कृतमलिनीकरणाश्च । ३० ।
प्रकीर्णकपातकिनश्च बह्वन्वर्षपूगान् । ३१ ।
कृतपातकिनः पापाः प्राणत्यागादनन्तरम् ।
याम्यं पन्थानमासाद्य दुःखमश्नन्ति दारुणम् ॥ ३२ ॥
यमस्य पुरुषैर्घोरैः कृष्यमाणा यतस्ततः ।
सुकृच्छ्रेणानुकारेण नीयमानाश्च ते यथा ॥ ३३ ॥
17. ऋचीसं । V¹⁻⁴v; ऋचीसं । C¹,². See the C. 25 om.
C¹,²v. 26. चातुर्युगम् । V¹⁻⁴ C¹,²v; चतुर्युगं N. 31. ॰युगान्
C¹,²v. 32. सर्वे for पापाः C¹,²v.
23... पर्यायेण पच्यन्ते यातनामनुभवन्ति ॥ 31. बह्वन् बहून् । वर्षपूगा-
न्वर्षशतानि ।... 32. कृतानि नवविधानि पातकानि यैस्ते । अकृतप्रायश्चित्ता
अत एव पापाः पापाक्रान्ताः... 33. भयानकैर्यमदूतैः समविषमेषु देशेषु
कृष्यमाणाः कष्टानुकारिणा करविशेषेण नरकं नीयमानास्ते यथा दुःख-
मनुभवन्ति एवं नरकोपभोगानन्तरमपि तिर्यग्योनौ प्रपद्यन्ते दुःखानि
विविधानि चेत्यध्यायान्तेनान्वयः ॥