विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
पृष्ठ 110, कुल 392 में से
संदर्भ में पढ़ें१०२ ॥ विष्णुस्मृतौ ४४ ॥ १५ ॥
कार्पासितान्तवं क्रौञ्चः । २८ । गोधा गाम् । २९ । वा-
ल्गुदो गुडम् । ३० । छुच्छुन्दरिगन्धान् । ३१ । पत्त्रशाकं
बर्ही । ३२ । कृतान्नं सेधा । ३३ । अकृतान्नं शल्यकः । ३४ ।
अग्निं बकः । ३५ । गृहकार्युपस्करम् । ३६ । रक्तवासांसि
जीवजीवकः । ३७ । गजं कूर्मः । ३८ । अश्वं व्याघ्रः । ३९ ।
फलं पुष्पं वा मर्कटः । ४० । वृक्षः स्त्रियम् । ४१ ।
यानमुष्ट्रः । ४२ । पशूनृक्षः । ४३ ।
यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः ।
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥ ४४ ॥
स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषमवाप्नुयुः ।
एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ॥ ४५ ॥ ४४ ॥
अथ नरकाभिभूतदुःखानां तिर्यक्त्वमुत्तीर्णानां मनु-
ष्वेषु लक्षणानि भवन्ति । १ । कुष्ठ्यतिपातकी । २ ।
३० वाग्गुदो C^b. 33 श्वावित् । C^1, 2v. 37. जविञ्जीविकः ।
C^1, 2. 43. पशूनजः । प्रेतः पारजावी । C^1, 2; पशूनजः । v. This is
probably a correction. See Sûtra 21 and M. XII, 67.
XLV, 1 नरकानुभूत० V^1-4. See the C.
30... वाग्गुदो वग्गुलाख्यान्तरपक्षिविशेषः ।... 33. सेधा श्वावित् ॥
36... गृहकारी चरटाख्यः कीटविशेषः ॥ 37... जीवजीवकश्चकोरः ॥
XLV, 1. नरकेषु तामिस्रादिष्वभिः सर्वेषु भूतेषूत्पन्नानि दुःखानि
येषाम्... मनुष्यजन्मसु वक्ष्यमाणानि क्षयादीनि लक्षणानि तत्पापसूचकानि
भवन्ति ।... 4 ..श्यावः श्यावदन्तो दशना यस्य तादृक्...