सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 108, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 108

१०० ॥ विष्णुस्मृतौ ४३ । ४४ ॥
क्वचिद्भूतेन ताड्यन्ते लम्बमानास्तथा क्वचित् ।
क्वचित्क्षिप्यन्ति बाणौघैरुत्कृत्यन्ते तथा क्वचित् ॥ ४२ ॥
कण्टेषु दत्तपादाश्च भुजङ्गाभोगवेष्टिताः ।
पीड्यमानास्तथा यन्त्रैः कृष्यमाणाश्च जानुभिः ॥ ४३॥
भग्नपृष्ठशिरोग्रीवाः सूचीकण्ठाः सुदारुणाः ।
कूटागारप्रमाणैश्च शरीरैर्यातनाक्षमैः ॥ ४४ ॥
एवं पातकिनः पापमनुभूय सुदुःखिताः ।
तिर्यग्योनौ प्रपद्यन्ते दुःखानि विविधानि च ॥४५॥४३॥
अथ पापात्मनां नरकेष्वनुभूतदुःखानां तिर्यग्योनयो
भवन्ति । १ । अतिपातकिनां पर्यायेण सर्वाः स्थावर-
योनयः । २ । महापातकिनां च कृमियोनयः । ३ ।
43. कण्टकेषु V¹⁻³ C¹,²v N. in V⁴. 44. सुदारुणाः all. No
comment. Cf. 39, 40, 41.
42. भूतेन पूर्वोक्तेन लम्बमाना वृक्षादौ बन्धनेन । क्षिप्यन्तीति पद-
व्यत्ययः ॥ 43. कण्टाः कण्टकास्तेषु । भुजङ्गाभोगाः सर्पशरीराणि ।
यन्त्रैस्तिलेक्षुनिष्पीडनयन्त्रैः पीड्यमानाः । कण्टकाक्रान्तपादत्वेन गमनाशक्त्या
जानुभिः कृष्यमाणाः ॥ 44. भग्नं पृष्ठं पृष्ठभागः शिरो मस्तकं ग्रीवा
शिरोधिर्येषां... सूचीसौक्ष्यप्रमाणाः कण्ठनालो येषाम् । कूटाख्यमगारं
गृहविशेषस्तत्प्रमाणं । यातनाक्षमैरिति यातनासु दुःखानुभवेष्वतिस्थूला-
न्येव शरीराणि क्षमन्ते न सूक्ष्माणि स्वल्पदुःखेनैव तेषां क्षिप्रं नाशात् ॥
45. पातकिनो नरकं नीयमाना यथा दुःखान्यनुभवन्त्येवमेव नरकेषु
पापफलमनुभूय पापशेषेण... दुःखानि प्रपद्यन्ते ॥ XLIV, 2... वृक्ष
गुल्मलतादिका...योनयः...