विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
॥ विष्णुस्मृतौ ५ ॥ २१
मुक्तकरलुण्ठने दश पणान्दण्ड्यः । ६५ । शोणितेन
विना दुःखमुत्पादयिता द्वात्रिंशत्पणान् । ६६ । सह
शोणितेन चतुःषष्टिम् । ६७ । करपाददन्तभङ्गे कर्णाना-
सादिकर्तने मध्यमम् । ६८ । चेष्टाभोजनवाग्रोधे प्रहा-
रदाने च । ६९ । नेत्रकन्धराबाहुसक्थ्यंसभङ्गे चोत्तम-
मम् । ७० । उभयनेत्रभेदिनं राजा यावज्जीवं बन्ध-
नान्न विमुञ्चेत् । ७१ । तादृशमेव वा कुर्यात् । ७२ ।
एकं बहूनां निघ्नतां प्रत्येकमुक्ताद्दण्डाद्विगुणः । ७३ ।
उत्क्रोशन्तमभिधावतां तत्समीपवर्तिनां संसरतां च
। ७४ । सर्वे च पुरुषपीडाकरास्तदुत्थानव्ययं दद्युः । ७५ ।
ग्राम्यपशुपीडाकराश्च । ७६ । गोऽश्वोष्ट्रगजापहार्येक-
करपादः कार्यः । ७७ । अजाव्यपहार्येककरश्च । ७८ ।
धान्यापहार्यैकादशगुणं दण्ड्यः । ७९ । सस्यापहारी
च । ८० । सुवर्णरजतवस्त्राणां पञ्चाशतस्त्वभ्यधिकमप-
हरन्निष्करः । ८१ । तदूनमेकादशगुणं दण्ड्यः । ८२ ।
सूत्रकार्पासगोमयगुडदधिक्षीरतक्रतृणलवणमृद्भस्मपक्षि-
74. क्रोशन्तमभिधावताम् C^{1,2}; तं क्रोशन्तमभिधावतां । v.
72. तादृशं नेत्रद्वयरहितं वा कुर्यात्कारयेदित्यर्थः ।... 74. ...अभि-
भूयमानसमीपवर्तिनां संसरतां ... चानभिधावकानामपि तन्निमित्ताद्दण्डा-
द्विगुणो दण्डो भवति । 79. धान्यं वार्षिकं श्यामाकादि... । 80.
सस्यानि हेमन्तवसन्तोद्भवानि व्रीहियवादीनि ।...
मत्स्यघृततैलमांसमधुवैदलवेणुमृण्मयलोहभाण्डानाम्-
पहर्ता मूल्यात्त्रिगुणं दण्ड्यः । ८३ । पक्वान्नानां
च । ८४ । पुष्पहरितगुल्मवल्लीलतापर्णानामपहरणे
पञ्च कृष्णालान् । ८५ । शाकमूलफलानां च । ८६ ।
रत्नापहार्युत्तमसाहसम् । ८७ । अनुक्तद्रव्याणामपहर्ता
मूल्यसमम् । ८८ । स्तेनाः सर्वमपहृतं धनिकस्य
दाप्याः । ८९ । ततस्तेषामभिहितदण्डप्रयोगः । ९० ।
येषां देयः पन्थास्तेषामपथदायी कार्षापणपञ्चविंशतिं
दण्ड्यः । ९१ । आसनाईस्यासनमददच्च । ९२ । पूजा-
र्हमपूजयंश्च । ९३ । प्रातिवेश्यब्राह्मणो निमन्त्रणातिक्रमे
च । ९४। निमन्त्रयित्वा भोजनादायिनश्च । ९५ । निम-
न्त्रितस्तथेत्युक्त्वा चाभुञ्जानः सुवर्णमाषकम् । ९६ । निम-
न्त्रयितुश्च द्विगुणमन्नम् । ९७ । अभक्ष्येण ब्राह्मणं दूषयिता
षोडश सुवर्णान् । ९८ । जात्यपहारिणा शतम् । ९९ ।
सुरया वध्यः । १०० । क्षत्रियं दूषयितुस्तदर्धम् । १०१ ।
वैश्यं दूषयितुस्तदर्धमपि । १०२ । शूद्रं दूषयितुः प्रथम-
साहसम् । १०३ । अस्पृश्यः कामकारेण स्पृश्यं स्पृश-
91. कार्षापथानां C¹⁻². From the C. 96. उक्तावानभुञ्जानः C¹;²v
Ap. 104. अस्पृश्यः (अस्पृश्य V²) कामकारे सस्पृशन्स्पृश्यं वध्यः । V¹⁻³;
92. अतिथ्यादेः... 104. अस्पृश्यश्चाण्डालादिः कामकारेण बुद्धि-
पूर्वकं स्पृश्यं त्रैवर्णिकं स्पृशन्वध्यः ।...
॥ विष्णुस्मृतौ ५ ॥ २३
न्वध्यः । १०४ । रजस्वलां शिफाभिस्ताडयेत् । १०५ ।
पत्युद्यानोदकसमीपेऽप्यशुचिकारी पणशतम् । १०६ ।
तच्चापास्यात् । १०७। गृहभ्रूकुण्याद्युपभेत्ता मध्यमसाहसं
दण्ड्यः । १०८ । तच्च योजयेत् । १०९ । गृहे पीडा-
करं द्रव्यं प्रक्षिपन्पणशतम् । ११० । साधारण्यापलापी
च । १११ । प्रेषितस्याप्रदाता च । ११२ । पितृपुत्रा-
चार्ययाज्यर्त्विजामन्योन्यापतितत्यागी च । ११३ । न
च ताञ्जह्यात् । ११४ । शूद्रप्रव्रजितानां दैवे पित्र्ये
भोजकश्च । ११५। अयोग्यकर्मकारी च । ११६। समुद्र-
गृहभेदकश्च । ११७ । अनियुक्तः शपथकारी । ११८ ।
पशूनां पुंस्त्वोपघातकारी च । ११९ । पितापुत्रविरोधे
तु साक्षिणां दशपणो दण्डः । १२० । यस्तयोश्चान्तरे
स्यात्तस्योत्तमसाहसः ।१२१। तुलामानकूटकर्तुश्च ।१२२।
अस्पृश्यः कामकारेण स्पृशंस्पृश्यं त्रैवर्णिकं वध्यः । V⁴; कामकारेणास्पृश्य-
स्त्रैवर्णिकं स्पृशन्बध्यः । C¹'²; कामकारेण अदृश्यवानवार्थवान् v. See
the C., which shows how these vv. ll. have sprung up.
105. रजस्वलां बुद्धिपूर्वं त्रैवर्णिकां स्पृशन्तीम्... 108. भ्रूरङ्गना-
दिः। ... 109. ...उत्थानद्रव्यं दद्यादित्यर्थः ।... 110. कण्टक०...०कार्पास-
पुंजलिकादि द्रव्यं प्रक्षिपन्... 112. देवब्राह्मणाद्यर्थं प्रेषितस्यार्थस्य
लोभेनाप्रदाता... 116. यदस्य योग्यं कर्म न भवति। यथानुषनीतस्या-
ध्ययनम् ।... 118. राज्ञा सभ्यैर्वा अनियुक्तो नादिष्टः ...
२४ ॥ विष्णुस्मृतौ ५ ॥
तद्यूते कूटवादिनश्च ॥ १२३॥ द्रव्याणां प्रतिरूपविक्रयि-
कस्य च । १२४। संभूयवणिजां पण्यमनर्घेणावरुन्ध-
ताम् । १२५ । प्रत्येकं विक्रीणतां च । १२६ । गृहीत-
मूल्यं पण्यं यः क्रेतुर्नैव दद्यात्तस्यासौ सोदयं दाप्यः ।
१२७। राज्ञा च पणशतं दण्ड्यः । १२८ । क्रीतमक्री-
णतो या हानिः सा क्रेतुरेव स्यात् । १२९ । राज-
विनिषिद्धं विक्रीणतस्तदपहारः ।१३०। तारिकः स्थलजं
शुल्कं गृह्णन्दश पणान्दण्ड्यः । १३१। ब्रह्मचारिवानप्रस्थ-
भिक्षुगुर्विणीतीर्थानुसारिणां नाविकः शौल्किकः शुल्क-
माददानश्च । १३२ । तच्च तेषां दद्यात् । १३३ । द्यूते
कूटाक्षदेविनां करच्छेदः । १३४। उपधिदेविनां संदंश-
च्
॥ विष्णुस्मृतौ ५ ॥ २५
दिवा पशूनां वृकाद्युपघाते पाले त्वनायति पालदोषः ।
१३७ । विनष्टपशुमूल्यं च स्वामिने दद्यात् । १३८ ।
अननुज्ञातां दुहन्पञ्चविंशतिं कार्षापणान् । १३९ । म-
हिषी चेत्सस्यनाशं कुर्यात्तत्पालस्त्वष्टौ माषान्दण्ड्यः ।
१४० । अपालायाः स्वामी । १४१ । अश्वस्तूष्ट्रो गर्दभो
वा । १४२ । गौश्चेत्तदर्धम् । १४३ । तदर्धमजाविकम् । १४४ ।
भक्षयित्वोपविष्टेषु द्विगुणम् । १४५ । सर्वं च स्वामिने वि-
नष्टसस्यमूल्यं च । १४६ । पथि ग्रामे विवीतान्ते न दोषः ।
१४७ । अनावृते च । १४८ । अल्पकालम् । १४९ ।
उत्सृष्टवृषभसूतिकानां च । १५० । यस्तूत्तमवर्णान्दास्ये
नियोजयेत्तस्योत्तमसाहसो दण्डः । १५१ । त्यक्तप्रव्रज्यो
राज्ञो दास्यं कुर्यात् । १५२ । भृतकश्चापूर्णे काले भृतिं
त्यजन्सकलमेव मूल्यं दद्यात् । १५३ । राज्ञे च पणशतं
दद्यात् । १५४ । तद्दोषेण यदि नश्येत्तत्स्वामिने । १५५ ।
अन्यत्र दैवोपघातात् । १५६ । स्वामी चेद्भृतकमपूर्णे
काले जह्यात्तस्य सर्वमेव मूल्यं दद्यात् । १५७ । पणशतं
च राजनि । १५८ । अन्यत्र भृतकदोषात् । १५९ । यः
141. अपालकायाः v Ap. 142–150 with C. om. V¹.
146. विनष्टस्य सस्यस्य V⁴. 147. ग्रामसीमान्ते C¹'²v; सीमान्ते
from the C. 149. अल्पकालं V²'³; अल्पकानां C¹'²v; ग्रासमात्र-
भक्षणे न दोषः N. See Colebrooke, Dig. III, 4, XXI.
153. ...यावदभ्युपगतं तावत्सकलमेव मूल्यं वेतनं स्वामिने दद्यात् ।...
4
...->यल्लशुनं छत्राकादि... तस्य कामतो भक्षयिता भोक्ता न तु भोजयिता । Line 22:तद्दण्डस्य पूर्वमुक्तत्वात् । (Sû. 98)... 174. अभक्ष्याणि सुरादीनि... Line 23:175. राजसंबन्धिमनुष्येषु यो वैद्यशास्त्रपथमतिक्रम्य...उपचरति ।...`
-
Let's check line 9 again:
पापहार्यर्थवृद्धिसहितं धनं धनिकस्य दाप्यः । १६६ ।
Wait, let's write१६६ ।(or१६९ ।). I will write१६६ ।as printed (it's clearly a misprint of १६९ in the original book). -
Let's check top:
Line marker starts at top.
Header:
२६ ॥ विष्णुस्मृतौ ५ ॥
Sutras:
कन्यां पूर्वदत्तामन्यस्मै दद्यात्स चौरवच्छास्यः । १६० ।
...
Everything is aligned and precise.२६ ॥ विष्णुस्मृतौ ५ ॥
कन्यां पूर्वदत्तामन्यस्मै दद्यात्स चौरवच्छास्यः । १६० ।
[
॥ विष्णुस्मृतौ ५ ॥ २७
मध्यमेषु मध्यमम् । १७६ । तिर्यक्षु प्रथमम् । १७७ ।
प्रतिश्रुतस्याप्रदायी तद्दापयित्वा प्रथमसाहसं दण्ड्यः ।
१७८ । कूटसाक्षिणां सर्वस्वापहारः कार्यः । १७९ ।
उत्कोचापजीविनां सभ्यानां च । १८० । गोचर्ममात्रा-
धिकां भुवमन्यस्याधीकृतां तस्मादनिर्मोच्यान्यस्य यः
प्रयच्छेत्स वध्यः । १८१ । ऊनां चेत्षोडश सुवर्णा-
न्दण्ड्यः । १८२ ।
एकोऽश्नीयाद्यदुत्पन्नं नरः संवत्सरं फलम् ।
गोचर्ममात्रा सा क्षौणी स्तोका वा यदि वा बहुः॥१८३॥
ययोर्निक्षिप्त आधिस्तौ विवदेतां यदा नरौ ।
यस्य भुक्तिः फलं तस्य बलात्कारं विना कृता ॥१८४॥
सागमेन तु भोगेन भुक्तं सम्यग्यदा तु यत् ।
आहर्त्ता लभते तच्च नापहार्यं तु तत्क्वचित् ॥ १८५ ॥
पित्रा भुक्तं तु यद्द्रव्यं भुक्त्याचारेण धर्मतः ।
तस्मिन्प्रेते न वाच्योऽसौ भुक्त्या प्राप्तं हि तस्य तत्॥१८६॥
त्रिभिरेव तु या भुक्ता पुरुषैर्भूैर्यथाविधि ।
179. सर्वापहारः V¹⁻⁴; सर्वस्वापहारः C¹'²v N. Ap. 183.
वह्न V¹⁻⁴; बहुः C¹'²v N. v Ap.
176. अराजसंबन्धिषु... 185. स्वत्त्वहेतुः प्रतिग्रहक्रयादिरागमस्तेन
सह वर्त्तमानः सागमः।... 186. ...द्रव्यं गृहक्षेत्रादि... पित्र्यगृह्यं
पितामहस्याप्युपलक्षणम् ।... 187...पितृपितामहप्रपितामहै...
३० ॥ विष्णुस्मृतौ ६ ॥
र्थमेव यत्स्थावरं दत्तं तद्गृहीतधनप्रवेशे दद्यात् । ९ ।
दीयमानं प्रयुक्तमर्थमुत्तमर्णास्यागृह्णतस्ततः परं न
वर्धते । १० । हिरण्यस्य परा वृद्धिर्द्विगुणा । ११ । धान्यस्य
त्रिगुणा । १२ । वस्त्रस्य चतुर्गुणा । १३ । रसस्याष्ट-
गुणा । १४ । संततिः स्त्रीपशूनाम् । १५ । किण्वकार्पास-
सूत्रचर्मायुधेटकाङ्गाराणामक्षया । १६ । अनुक्तानां द्वि-
गुणा । १७ । प्रयुक्तमर्थं यथा कथंचित्साधयन्न राज्ञो
वाच्यः स्यात् । १८ । साध्यमानश्चेद्राजानमभिगच्छेत्त-
त्समं दण्ड्यः । १९ । उत्तमर्णश्चेद्राजानमियात्तद्विभावि-
तोऽधमर्णो राज्ञे धनदशभागसंमितं दण्डं दद्यात् । २० ।
प्राप्तार्थश्चोत्तमर्णो विंशतितममंशम् । २१ । सर्वापह्ना-
व्येकदेशविभावितोऽपि सर्वं दद्यात् । २२ । तस्य च
भावनास्तिस्रो भवन्ति लिखितं साक्षिणः समयक्रिया
च । २३ । ससाक्षिकमाप्तं ससाक्षिकमेव दद्यात् । २४ ।
लिखितार्थे प्रविष्टे लिखितं पाटयेत् । २५ । असमग्रदाने
लेखासंनिधाने चोत्तमर्णः स्वलिखितं दद्यात् । २६ ।
14 om. C^{1, 2}v. 18. तिष्ठन्वकथंचित् V⁴ for प्रयुक्तमर्थं यथाकथं-
चित् । 25. लिखितार्थप्रविष्टो V^{1-3} C^{1, 2} ; लिखितान्ते प्रविष्टे v.
14. रसस्य तैलघृतादेः ... 16. ... एषामक्षया वृद्धिः कदापि न
निवर्तत इत्यर्थः । ... 25. लिखितार्थे गृहीतद्रव्यम् । तस्मिन्नुत्तमर्णे
प्रविष्टे सति तल्लिखितमृणपत्रं पाटयेच्छिन्द्यात् । ...
॥ विष्णुस्मृतौ ६ ॥ ३१
धनग्राहिणि प्रेते प्रव्रजिते द्विदश समाः प्रवसिते वा
तत्पुत्रपौत्रैर्धनं देयम् । २७ । नातः परमनिच्छुभिः। २८ ।
सपुत्रस्य वाप्यपुत्रस्य वा रिक्थग्राही ऋणं दद्यात् । २९ ।
निर्धनस्य स्त्रीग्राही । ३० । न स्त्री पतिपुत्रकृतम् । ३१ ।
न स्त्रीकृतं पतिपुत्रौ । ३२ । न पिता पुत्रकृतम् । ३३ ।
अविभक्तैः कृतमृणं यस्तिष्ठेत्स दद्यात् । ३४ । पैतृकमृण-
मविभक्तानां भ्रातॄणां च । ३५ । विभक्ताश्च दायानुरूप-
मंशम् । ३६ । गोपशौण्डिकशैलूषरजकव्याधस्त्रीणां पति-
र्दद्यात् । ३७ । वाक्प्रतिपन्नं कुटुम्बिना देयम् । ३८ ।
कस्यचित्कुटुम्बार्थे कृतं च । ३९ ।
यो गृहीत्वा ऋणं सर्वं श्वो दास्यामीति सामकम्।
न दद्याल्लोभतः पश्चात्तथा वृद्धिमवाप्नुयात् ॥ ४० ॥
दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते ।
28. ऽनीप्सुभिः । C¹,²v. •29. वापुत्रस्य C¹,² ; om. v. 38, 39.
वा० नादेयं कस्यचित्। कुटुम्बार्थे कृतं च । all. See, however,
Colebrooke, Dig I, 5, CXCII.
30. यदि धनाभावे रिक्थग्राही नास्ति तदा यो यदीयां स्त्रियं भार्या-
त्वेन स्वीकरोति स तदीयऋणं दद्यात् ।... 35. विभागात्प्राक्पित्रा कृत-
मृणमविभक्तानां भ्रातॄणां चकारात्पौत्राणां संभूय देयं भवति ।... 37.
...तदधीनवृत्तित्वात् ।... 40. यः सर्वमृणं हिरण्यं धान्यादि गृहीत्वा
श्वः परश्वो वेत्यादि कृतेऽवधौ सामकं सममेव दास्यामीति प्रतिज्ञाय
पश्चाल्लोभादिना कृतेऽवधौ न दद्यात्...
आद्यौ तु वितथे दाप्यावितरस्य सुता अपि ॥ ४१ ॥
बहवश्चेत्प्रतिभुवो दद्युस्तेऽर्थं यथाकृतम् ।
अर्थेऽविशेषिते त्वेषु धनिकच्छन्दतः क्रिया ॥ ४२ ॥
यमर्थं प्रतिभूर्दद्याद्धनिकेनोपपीडितः ।
ऋणिकस्तं प्रतिभुवे द्विगुणं दातुमर्हति ॥ ४३ ॥ ६ ॥
अथ लेख्यं त्रिविधम् । १ । राजसाक्षिकं ससाक्षिकम-
साक्षिकं च । २ । राजाधिकरणे तन्नियुक्तकायस्थकृतं
तदध्यक्षकरचिह्नितं राजसाक्षिकम् । ३ । यत्र क्वचन येन
केनचिल्लिखितं साक्षिभिः स्वहस्तचिह्नितं ससाक्षि-
कम् । ४ । स्वहस्तलिखितमसाक्षिकम् । ५ । तद्बलात्कारि-
तमप्रमाणम् । ६ । उपधिकृताश्च सर्व एव । ७ । दूषित-
कर्मदुष्टसाक्ष्यङ्कितं ससाक्षिकमपि । ८ । तादृग्विधेन
लेखकेन लिखितं च । ९ । स्त्रीबालास्वतन्त्रमत्तोन्मत्तभीत-
VII, 9. लेखकेन om. C¹.²v.
42. ...यथाकृतमहमैतावदर्थं दास्यामीति स्वस्वाभ्युपगतमर्थं दद्युः । यदा
तु समांशतया विषमांशतया वार्थो न विशेषितः संपूर्णो वा प्रत्येकमभ्युपगत-
स्तदा प्रतिभूषु धनिकच्छन्दतो धनिकेच्छया क्रियार्थादानं भवति । यस्मादि-
च्छेत्तस्माद्गृह्णीयादित्यर्थः ।... VII, 3. ...तस्यां सभायां योऽध्यक्षः प्राड्वि-
वाकस्तस्य करचिह्नेन युक्तम् ।... 4. यत्र क्वचनेत्यनेन राजसभाया अनि-
यमः... 7. उपधिना छलेन कृताः सर्व एव लेख्य (लेखा?) अप्रमाणम् ।...
8. दूषिता लोभादिहेतुभिर्वादिना । कर्मदुष्टाश्चौर्यादिकर्मभिर्ये स्वयमेव
दुष्टास्तादृशैः साक्षिभिर्यदङ्कितं तत्ससाक्षिकमप्यप्रमाणम् ।...
tized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalg
॥ विष्णुस्मृतौ ७ ॥ ८ ॥ ३३
ताडितकृतं च । १० । देशाचाराविरुद्धं व्यक्ताधिविधि-
लक्षणमलुप्तक्रमाक्षरं प्रमाणम् । ११ ।
वर्णैश्च तत्कृतैश्चिह्नैः पत्रैरेव च युक्तिभिः ।
संदिग्धं साधयेल्लेख्यं तद्युक्तिप्रतिरूपकैः ॥ १२ ॥
यद्यर्णी धनिको वापि साक्षी वा लेखकोऽपि वा ।
म्रियते तच्च तल्लेख्यं तत्स्वहस्तैः प्रसाधयेत् ॥ १३ ॥ ७ ॥
अथासाक्षिणः । १ । न राजश्रोत्रियप्रव्रजितकितव-
तस्करपराधीनस्त्रीबालसाहसिकातिवृद्धमत्तोन्मत्ताभि-
शस्तपतितक्षुत्तृष्णार्तव्यसनिरागाढ्याः । २ । रिपुमि-
त्रार्थसंबन्धिविकर्मदृष्टदोषसहायाश्च । ३ । अनिर्दिष्टस्तु
साक्षित्वे यश्चोपेत्य ब्रूयात् । ४ । एकश्चासाक्षी । ५ ।
स्तेयसाहसवाग्दण्डपारुष्यसंग्रहणेषु साक्षिणो न परी-
क्ष्याः । ६ । अथ साक्षिणः । ७ । कुलजा वृत्तवित्तसंपन्ना
11. व्यक्ताधिलत० V^{1-4} C^{1, 2}; व्यक्ताविवृत० V; व्यक्ताविवृति० or
व्यक्ताधिविधि० Nârada 4, 60. See the C. 12. प्रतिरूपितैः ॥
V^{1-3} C^{1, 2} N. VIII, 1. अथ साक्षिणः V^{1-3} C^{1, 2}v. 3. ०विकर्मि०
V^{1-4}.
11. ...व्यक्ताधिविधिलक्षणमिति पाठे व्यक्तस्य स्पष्टमाधिविधेराधी-
कारस्य लक्षणं ...यस्मिन्नित्यर्थः ।... 12. तत्कृतैर्वर्णै स्तल्लिखितैः पत्राक्षरैः ।
तत्कृतैश्चिह्नैः श्रीकारादिभिः । तत्कृतैः पत्रैः पत्रान्तरैश्चाक्षरसादृश्यनिरू-
पणेन । युक्तिभिः ...अनयोरेवंविधो व्यवहारोऽस्मिन्देशेऽस्मिन्काले समा-
पत(?) इत्यादिभिः । तथा तस्मिन्पत्रे या युक्तयो लिखनपरिपाया(०याश्च?)-
स्तासां प्रतिरूपितानि सदृशलिखनानि तैश्च साधयेत् ।...
5
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry
३४ ॥ विष्णुस्मृतौ ८ ॥
यज्वानस्तपस्विनः शुचयो धर्मज्ञा अधीयानाः सत्य-
वन्तस्त्रैविद्यवृद्धाश्च । ८ । अभिहितगुणसंपन्न उभयानु-
मत एकोऽपि । ९ । द्वयोर्विवदमानयोर्यस्य पूर्ववादस्तस्य
साक्षिणः प्रष्टव्याः । १० । आधर्यं कार्यवशाद्यत्र पूर्व-
पक्षस्य भवेत्तत्र प्रतिवादिनोऽपि । ११ । उद्दिष्टसाक्षिणि
मृते देशान्तरगते वा तदभिहितश्रोतारः प्रमाणम् ।
। १२ । समक्षदर्शनात्साक्षी श्रवणाद्वा । १३ । साक्षिणश्च
सत्येन पूयन्ते । १४ । वर्णिनां यत्र वधस्तत्रानृतेन । १५ ।
तत्पावनाय कूष्माण्डीभिर्द्विजोऽग्निं जुहुयात् । १६ ।
शूद्र एकाह्निकं गोदशकस्य ग्रासं दद्यात् । १७ । स्व-
भावविकृतौ मुखवर्णविनाशेऽसंबद्धप्रलापे च कूटसाक्षिणं
विद्यात् । १८ । साक्षिणश्चाहूयादित्योदये कृतशपथा-
न्पृच्छेत् । १९ । ब्रूहीति ब्राह्मणं पृच्छेत् । २० । सत्यं
ब्रूहीति राजन्यम् । २१ । गोबीजकाञ्चनैर्वैश्यम् । २२ ।
सर्वमहापातकैस्तु शूद्रम् । २३ । साक्षिणश्च श्रावयेत् ।
13 om. V⁴. 15. तत्रानृतं वदन्न दुष्यति । V⁴. 18. विन्द्यात् । V⁴.
VIII, 9. अभिहितैः कुलजन्मादिभिर्गुणैः संपन्नो यद्युभाभ्यामर्थि-
प्रत्यर्थिभ्यामप्युपगम्यते तदा एकोऽपि... 10...तत्र यो मदीयं धारयसीति
ब्रूते स पूर्ववादी पूर्वपक्षी वादी... 11. यत्र पूर्वपक्षस्य ऋणाद्यभि-
योगस्य कार्यवशात्प्रतिदानादिवशात्... चाधार्यमधरीभावोऽसाध्यता भव-
ति ।... 22. गोबीजकाञ्चनानि ते निष्फलानीति शापितं वैश्यं पृच्छेत् ।...
॥ विष्णुस्मृतौ ८ ॥ ३५
। २४ । ये महापातकिनां लोका ये चोपपातकिनां ते
कूटसाक्षिणामपि । २५ । जननमरणान्तरे कृतसुकृत-
हानिश्च । २६ । सत्येनादित्यस्तपति । २७ । सत्येन भाति
चन्द्रमाः । २८ । सत्येन वाति पवनः । २९ । सत्येन
भूर्धारयति । ३०। सत्येनापस्तिष्ठन्ति । ३१ । सत्येनाग्निः ।
। ३२ । खं च सत्येन । ३३ । सत्येन देवाः । ३४ । सत्येन
यज्ञाः । ३५ ।
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ ३६ ॥
जानन्तोऽपि हि ये साक्ष्ये तूष्णीम्भूता उपासते ।
ते कूटसाक्षिणां पापैस्तुल्या दण्डेन चाप्यथ ।
एवं हि साक्षिणः पृच्छेद्वर्णानुक्रमतो नृपः ॥ ३७ ॥
यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् ।
अन्यथावादिनो यस्य ध्रुवस्तस्य पराजयः ॥ ३८ ॥
वहुत्वं प्रतिगृह्णीयात्साक्षिद्वैधे नराधिपः ।
समेषु च गुणोत्कृष्टान्गुणिद्वैधे द्विजोत्तमान् ॥ ३९ ॥
यस्मिन्यस्मिन्विवादे तु कूटसाक्ष्यन्तृतं वदेत् ।
तत्तत्कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् ॥ ४० ॥ ८ ॥
- ॰सुकृत॰ om. C$^{1,2}$v. 32. सत्येनाग्निरित्तिष्ठति । C$^{1,2}$; om. v.
- महापातकिनो ब्रह्महादयः । उपपातकिनो गोघ्नादयः ।...
३६ ॥ विष्णुस्मृतौ ६ ॥
अथ समयक्रिया । १ । राजद्रोहसाहसेषु यथाका-
मम् । २ । निक्षेपास्तेयेष्वर्थप्रमाणम् । ३ । सर्वेष्वेवार्थजा-
तेषु मूल्यं कनकं कल्पयेत् । ४ । तत्र कृष्णलोने शूद्रं
दूर्वाकरं शापयेत् । ५ । द्विकृष्णलोने तिलकरम् । ६ ।
त्रिकृष्णलोने रजतकरम् । ७ । चतुःकृष्णलोने सुवर्ण-
करम् । ८ । पञ्चकृष्णलोने सीतोद्धृतमहीकरम् । ९ । सुव-
र्णार्धोने कोशो देयः शूद्रस्य । १० । ततः परं यथार्हं
घटाग्न्युदकविषाणामन्यतमम् । ११ । द्विगुणोऽर्थे यथा-
भिहिता समयक्रिया वैश्यस्य । १२ । त्रिगुणे राज-
न्यस्य । १३। कोशवर्जं चतुर्गुणे ब्राह्मणस्य । १४। न ब्राह्म-
णस्य कोशं दद्यात् । १५ । अन्यत्रागामिकालसमयनि-
बन्धनक्रियातः । १६ । कोश
॥ विष्णुस्मृतौ ९ ॥ ३७
ह्रीकारमेव शापयेत् । १७। प्राग्दृष्टदोषं स्वल्पेऽप्यर्थे
दिव्यानामन्यतममेव कारयेत् । १८। सत्सु विदितं सच्च-
रित्रं न महत्यर्थेऽपि। १९। अभियोक्ता वर्तयेच्छीर्षम् ।
। २०। अभियुक्तश्च दिव्यं कुर्यात् । २१। राजद्रोहसाह-
सेषु विनापि शीर्षवर्तनात्। २२। स्त्रीब्राह्मणविकालास-
मर्थरोगिणां तुला देया। २३। सा च न वाति वायौ।
। २४। न कुष्ठ्यसमर्थलोहकाराणामग्निर्देयः। २५। शर-
द्ग्रीष्मयोश्च। २६। न कुष्ठिपैत्तिकब्राह्मणानां विषं देयं ।
। २७। प्रावृषि च। २८। न श्लेष्मव्याध्यर्दितानां भीरू-
णां श्वासकासिनामम्बुजीविनां चोदकम्। २९। हेम-
न्तशिशिरयोश्च। ३०। न नास्तिकेभ्यः कोशो देयः। ३१।
न देशे व्याधिमरकोपसृष्टे च। ३२।
सचैलं स्नातमाहूय सूर्योदय उपोषितम् ।
कारयेत्सर्वदिव्यानि देवब्राह्मणसंनिधौ ॥ ३३ ॥ ९ ॥
- विदितसच्चरित्रं C¹,²; विदितसच्चरित्तो v; प्रथितं सच्चरितं Ap.
- शरद्ग्रीष्मयोः। V⁴. 29. ॰व्याध्यर्दितभीरूणां V⁴. 30. ॰शिशि-
रयोः। v. 31. न om. C¹,².
- सत्सु शिष्टेषु...शिष्टत्वेन विदितम्।... 20...शीर्षं विवादपराजय-
निमित्तं पणं वर्तयेदङ्गीकुर्यात् । 23. असमर्थोऽतिवार्धकेन...29...अम्बुनि
जले जीवनं येषां कैवर्तादीनाम्... 33...ब्राह्मणानां सभ्यानामन्येषां च...
३८ ॥ विष्णुस्मृतौ १० ॥
अथ घटः । १ । चतुर्हस्तोच्छ्रितो द्विहस्तायतः । २ ।
तत्र सारवृक्षोद्भवा पञ्चहस्तायतोभयतःशिक्या तुला । ३ ।
तां च सुवर्णकारकांस्यकाराणामन्यतमो बिभृयात् । ४ ।
तत्र चैकस्मिञ्शिक्ये पुरुषमारोपयेद्द्वितीये प्रतिमानं
शिलादि । ५। प्रतिमानपुरुषौ समधृतौ सुचिह्नितौ कृत्वा
पुरुषमवतारयेत् । ६ । घटं च समयेन गृह्णीयात् । ७ ।
तुलाधारं च । ८ ।
ब्रह्मघ्नां ये स्मृता लोका ये लोकाः कूटसाक्षिणाम् ।
तुलाधारस्य ते लोकास्तुलां धारयतो मृषा ॥ ६ ॥
X, 5. पुरुषं दिव्यकारिणम् V¹. The latter word from
the C. 9. ब्रह्मघ्नो...कूटसाक्षिणः । C¹⁻² ; ब्रह्मघ्ने...V.
X, 1. घटः पादाक्षतुलादीनां समुदायस्तद्विधिरभिधीयत इति । घट-
निर्माणप्रकारमाह । 2... घटोच्छ्रयायामौ स्तम्भोच्छ्रयायामाभ्यां भवत
इति तावदेनोक्तौ । उच्छ्रयवचनान्निखननीयभागातिरिक्तमिदं परिमाणमि-
त्युक्तम् ।... 3. तत्र...मध्ये प्रान्तयोश्च लोहचालावलय(०लम्ब०)कर्कटोपेता
उभयतोऽवलम्बितशिक्या तुलाक्षमध्यावलम्बिकर्कटेऽवलम्बनीया ।... 4. वि-
भृयात्परीक्षावलं च (०लंब०) समां कुर्यात् ।... 5. पुरुषं दिव्यकारिणम्...
शिलादि शिलेष्टकाम्टदाद्यारोपयेत् ।... 6. सुचिह्नितौ प्रतिमानं द्रव्या-
न्तरागमपगमशङ्कानिवृत्त्यै पुरुषं च वस्त्रालंकारादिन्यूनाधिकशङ्कानिवृत्त्यै
राजमुद्रादिना सम्यक्चिह्नितौ कृत्वा पुरुषं... अवतारयेत् । अन्ये तु तुला-
प्रान्तयोरवलम्बस्थ्यभागेऽप्यङ्ककारणं व्याचक्षते ।... 7... घटं तुलां समयेन
शपथेन वक्ष्यमाणेन गृह्णीयात् नियमयेत् ।... 8. यः सुवर्णकाराद्यन्यतम-
स्तुलां धारयति तमपि शपथेन नियमयेत् ।...
tized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalg
॥ विष्णुस्मृतौ १० ॥ ११ ॥ ३६
धर्मपर्यायवचनैर्धट इत्यभिधीयसे ।
त्वमेव घट जानीषे न विदुर्यानि मानुषाः ॥ १० ॥
व्यवहाराभिशस्तोऽयं मानुषस्तुल्यते त्वयि ।
तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥ ११ ॥
ततस्त्वारोपयेच्छिक्ये भूय एवाथ तं नरम् ।
तुलितो यदि वर्धेत ततः स धर्मतः शुचिः ॥ १२ ॥
शिक्यच्छेदाक्षभङ्गेषु भूयस्त्वारोपयेन्नरम् ।
एवं निःसंशयं ज्ञानं यतो भवति निर्णयः ॥ १३ ॥ १० ॥
अथाग्निः । १ । षोडशाङ्गुलं तावदन्तरं मण्डलसप्तकं
कुर्यात् । २ । ततः प्राङ्मुखस्य प्रसारितभुजद्वयस्य सप्ता-
श्वत्थपत्राणि करयोर्दद्यात् । ३ । तानि च करद्वयसहि-
तानि सूत्रेण वेष्टयेत् । ४ । ततस्तचाग्निवर्णं लोहपिण्डं
पञ्चाशत्पलिकं समं न्यसेत् । ५ । तमादाय नातिद्रुतं
10. अभिधीयते V1-3 C1,2v. See the C. XI, 3. ॰पर्णानि V1.
10. घटशब्दो धर्मपर्यायस्तेनाभिधीयमानत्वाद्धर्ममूर्तितया मानुषैर्दुर्विचे-
यानि प्रत्यक्षतया त्वं जानीषे। ... पितामहस्तु धकाराद्धर्ममूर्तिस्त्वं टकारा-
त्कुटिलं नरम् । धृतो भावयसे यस्माद्धटस्तेनाभिधीयसे ।... XI, 3. ततो
वक्ष्यमाणव्रीहिमर्दनहस्ताङ्कवारणानन्तरम्... 4. तान्यश्वत्थपत्राण्यर्कपत्रा-
णि वा दद्यात्। द्वाभ्यां कराभ्यामञ्जलीकृताभ्यां सह श्वेतेन सूत्रेण सप्तवारं
म्बयेत् (मध्येत्?) ।... 5. ततः...अभिमन्त्रणानन्तरम्...
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry
॥ विष्णुस्मृतौ ११ ॥
नातिविलम्बितं मण्डलेषु पदन्यासं कुर्वन्व्रजेत् । ६ ।
ततः सप्तमं मण्डलमतीत्य भूमौ लोहपिण्डं जह्यात् । ७ ।
यो हस्तयोः क्वचिद्दग्धस्तमशुद्धं विनिर्दिशेत् ।
न दग्धः सर्वथा यस्तु स विशुद्धो भवेन्नरः ॥ ८ ॥
भयाद्वा पातयेद्यस्तु दग्धो वा न विभाव्यते ।
पुनस्तं हारयेल्लोहं समयस्याविशोधनात् ॥ ९ ॥
करौ विमृदितव्रीहेस्तस्यादावेव लक्षयेत् ।
अभिमन्त्र्यास्य करयोर्लोहपिण्डं ततो न्यसेत् ॥ १० ॥
त्वमग्ने सर्वभूतानामन्तश्चरसि साक्षिवत् ।
त्वमेवाग्ने विजानीषे न विदुर्यानि मानवाः ॥ ११ ॥
व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ।
तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥ १२ ॥ ११ ॥
6. नाविलम्बितं C¹.²v. 7. लोह० cm. V³ C¹.²v. 8. यद्यन्य-
चिह्नितकरस्तम० C¹,²; यदि स स्यात्ताच्चिह्नंकरस्तम० v. From the C.
9. धारयेत्पिण्डं C¹,²v. 10. विमृदितव्रीही इति पाठे तु स्पष्टमेव । N.
8. यो दिव्यकर्ता हस्तयोः क्वचित्पूर्वक्षतेषु चिह्नेषु ततोऽन्यत्र दग्धः...
भवति तमशुद्धं विनिर्दिशेत् ।... 10. विमृदिता व्रीहयो येनासौ विमृ-
दितव्रीहिस्तस्य करावादावेव पिप्पलपत्रन्यासात्प्रागेव व्रणकिणतिलकादि-
स्थानेष्वलक्तकरसादिना लक्षयेद्दर्शयेत् ।...लक्षयित्वा ततो न्यसेत् ।...पिण्डं
वक्ष्यमाणैर्मन्त्रैः प्राड्विवाकः स्वयमभिमन्त्र्य... अस्य करयोर्लोहपिण्डं न्य-
सेत् ।...मन्त्रानाह ॥
॥ विष्णुस्मृतिः ॥
THE
INSTITUTES OF VISHṆU
TOGETHER WITH EXTRACTS
FROM THE
SANSKRIT COMMENTARY OF NANDA PAṆḌITA CALLED VAIJAYANTĪ,
EDITED
WITH CRITICAL NOTES, AN ANUKRAMAṆIKĀ, AND
INDEXES OF WORDS AND MANTRAS
BY
JULIUS JOLLY, PH. D.
PROFESSOR OF SANSKRIT AND COMPARATIVE PHILOLOGY IN THE
UNIVERSITY OF WÜRZBURG.
CALCUTTA :
PRINTED BY J. W. THOMAS, BAPTIST MISSION PRESS,
AND PUBLISHED BY
THE ASIATIC SOCIETY, 57, PARK STREET.
1881.
Digitized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalgaon
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry
(Note: The page is a blank endpaper/flyleaf; only digitally added metadata at the top and bottom margins are present, with fragmentary edge remnants of letters visible along the right torn margin from an adjacent page.)