सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 30, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 30

मत्स्यघृततैलमांसमधुवैदलवेणुमृण्मयलोहभाण्डानाम्-
पहर्ता मूल्यात्त्रिगुणं दण्ड्यः । ८३ । पक्वान्नानां
च । ८४ । पुष्पहरितगुल्मवल्लीलतापर्णानामपहरणे
पञ्च कृष्णालान् । ८५ । शाकमूलफलानां च । ८६ ।
रत्नापहार्युत्तमसाहसम् । ८७ । अनुक्तद्रव्याणामपहर्ता
मूल्यसमम् । ८८ । स्तेनाः सर्वमपहृतं धनिकस्य
दाप्याः । ८९ । ततस्तेषामभिहितदण्डप्रयोगः । ९० ।
येषां देयः पन्थास्तेषामपथदायी कार्षापणपञ्चविंशतिं
दण्ड्यः । ९१ । आसनाईस्यासनमददच्च । ९२ । पूजा-
र्हमपूजयंश्च । ९३ । प्रातिवेश्यब्राह्मणो निमन्त्रणातिक्रमे
च । ९४। निमन्त्रयित्वा भोजनादायिनश्च । ९५ । निम-
न्त्रितस्तथेत्युक्त्वा चाभुञ्जानः सुवर्णमाषकम् । ९६ । निम-
न्त्रयितुश्च द्विगुणमन्नम् । ९७ । अभक्ष्येण ब्राह्मणं दूषयिता
षोडश सुवर्णान् । ९८ । जात्यपहारिणा शतम् । ९९ ।
सुरया वध्यः । १०० । क्षत्रियं दूषयितुस्तदर्धम् । १०१ ।
वैश्यं दूषयितुस्तदर्धमपि । १०२ । शूद्रं दूषयितुः प्रथम-
साहसम् । १०३ । अस्पृश्यः कामकारेण स्पृश्यं स्पृश-
91. कार्षापथानां C¹⁻². From the C. 96. उक्तावानभुञ्जानः C¹;²v
Ap. 104. अस्पृश्यः (अस्पृश्य V²) कामकारे सस्पृशन्स्पृश्यं वध्यः । V¹⁻³;
92. अतिथ्यादेः... 104. अस्पृश्यश्चाण्डालादिः कामकारेण बुद्धि-
पूर्वकं स्पृश्यं त्रैवर्णिकं स्पृशन्वध्यः ।...