विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
पृष्ठ 37, कुल 392 में से
संदर्भ में पढ़ें॥ विष्णुस्मृतौ ६ ॥ ३१
धनग्राहिणि प्रेते प्रव्रजिते द्विदश समाः प्रवसिते वा
तत्पुत्रपौत्रैर्धनं देयम् । २७ । नातः परमनिच्छुभिः। २८ ।
सपुत्रस्य वाप्यपुत्रस्य वा रिक्थग्राही ऋणं दद्यात् । २९ ।
निर्धनस्य स्त्रीग्राही । ३० । न स्त्री पतिपुत्रकृतम् । ३१ ।
न स्त्रीकृतं पतिपुत्रौ । ३२ । न पिता पुत्रकृतम् । ३३ ।
अविभक्तैः कृतमृणं यस्तिष्ठेत्स दद्यात् । ३४ । पैतृकमृण-
मविभक्तानां भ्रातॄणां च । ३५ । विभक्ताश्च दायानुरूप-
मंशम् । ३६ । गोपशौण्डिकशैलूषरजकव्याधस्त्रीणां पति-
र्दद्यात् । ३७ । वाक्प्रतिपन्नं कुटुम्बिना देयम् । ३८ ।
कस्यचित्कुटुम्बार्थे कृतं च । ३९ ।
यो गृहीत्वा ऋणं सर्वं श्वो दास्यामीति सामकम्।
न दद्याल्लोभतः पश्चात्तथा वृद्धिमवाप्नुयात् ॥ ४० ॥
दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते ।
28. ऽनीप्सुभिः । C¹,²v. •29. वापुत्रस्य C¹,² ; om. v. 38, 39.
वा० नादेयं कस्यचित्। कुटुम्बार्थे कृतं च । all. See, however,
Colebrooke, Dig I, 5, CXCII.
30. यदि धनाभावे रिक्थग्राही नास्ति तदा यो यदीयां स्त्रियं भार्या-
त्वेन स्वीकरोति स तदीयऋणं दद्यात् ।... 35. विभागात्प्राक्पित्रा कृत-
मृणमविभक्तानां भ्रातॄणां चकारात्पौत्राणां संभूय देयं भवति ।... 37.
...तदधीनवृत्तित्वात् ।... 40. यः सर्वमृणं हिरण्यं धान्यादि गृहीत्वा
श्वः परश्वो वेत्यादि कृतेऽवधौ सामकं सममेव दास्यामीति प्रतिज्ञाय
पश्चाल्लोभादिना कृतेऽवधौ न दद्यात्...