सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 38, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 38

आद्यौ तु वितथे दाप्यावितरस्य सुता अपि ॥ ४१ ॥
बहवश्चेत्प्रतिभुवो दद्युस्तेऽर्थं यथाकृतम् ।
अर्थेऽविशेषिते त्वेषु धनिकच्छन्दतः क्रिया ॥ ४२ ॥
यमर्थं प्रतिभूर्दद्याद्धनिकेनोपपीडितः ।
ऋणिकस्तं प्रतिभुवे द्विगुणं दातुमर्हति ॥ ४३ ॥ ६ ॥
अथ लेख्यं त्रिविधम् । १ । राजसाक्षिकं ससाक्षिकम-
साक्षिकं च । २ । राजाधिकरणे तन्नियुक्तकायस्थकृतं
तदध्यक्षकरचिह्नितं राजसाक्षिकम् । ३ । यत्र क्वचन येन
केनचिल्लिखितं साक्षिभिः स्वहस्तचिह्नितं ससाक्षि-
कम् । ४ । स्वहस्तलिखितमसाक्षिकम् । ५ । तद्बलात्कारि-
तमप्रमाणम् । ६ । उपधिकृताश्च सर्व एव । ७ । दूषित-
कर्मदुष्टसाक्ष्यङ्कितं ससाक्षिकमपि । ८ । तादृग्विधेन
लेखकेन लिखितं च । ९ । स्त्रीबालास्वतन्त्रमत्तोन्मत्तभीत-
VII, 9. लेखकेन om. C¹.²v.
42. ...यथाकृतमहमैतावदर्थं दास्यामीति स्वस्वाभ्युपगतमर्थं दद्युः । यदा
तु समांशतया विषमांशतया वार्थो न विशेषितः संपूर्णो वा प्रत्येकमभ्युपगत-
स्तदा प्रतिभूषु धनिकच्छन्दतो धनिकेच्छया क्रियार्थादानं भवति । यस्मादि-
च्छेत्तस्माद्गृह्णीयादित्यर्थः ।... VII, 3. ...तस्यां सभायां योऽध्यक्षः प्राड्वि-
वाकस्तस्य करचिह्नेन युक्तम् ।... 4. यत्र क्वचनेत्यनेन राजसभाया अनि-
यमः... 7. उपधिना छलेन कृताः सर्व एव लेख्य (लेखा?) अप्रमाणम् ।...
8. दूषिता लोभादिहेतुभिर्वादिना । कर्मदुष्टाश्चौर्यादिकर्मभिर्ये स्वयमेव
दुष्टास्तादृशैः साक्षिभिर्यदङ्कितं तत्ससाक्षिकमप्यप्रमाणम् ।...