सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 29, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 29

॥ विष्णुस्मृतौ ५ ॥ २१
मुक्तकरलुण्ठने दश पणान्दण्ड्यः । ६५ । शोणितेन
विना दुःखमुत्पादयिता द्वात्रिंशत्पणान् । ६६ । सह
शोणितेन चतुःषष्टिम् । ६७ । करपाददन्तभङ्गे कर्णाना-
सादिकर्तने मध्यमम् । ६८ । चेष्टाभोजनवाग्रोधे प्रहा-
रदाने च । ६९ । नेत्रकन्धराबाहुसक्थ्यंसभङ्गे चोत्तम-
मम् । ७० । उभयनेत्रभेदिनं राजा यावज्जीवं बन्ध-
नान्न विमुञ्चेत् । ७१ । तादृशमेव वा कुर्यात् । ७२ ।
एकं बहूनां निघ्नतां प्रत्येकमुक्ताद्दण्डाद्विगुणः । ७३ ।
उत्क्रोशन्तमभिधावतां तत्समीपवर्तिनां संसरतां च
। ७४ । सर्वे च पुरुषपीडाकरास्तदुत्थानव्ययं दद्युः । ७५ ।
ग्राम्यपशुपीडाकराश्च । ७६ । गोऽश्वोष्ट्रगजापहार्येक-
करपादः कार्यः । ७७ । अजाव्यपहार्येककरश्च । ७८ ।
धान्यापहार्यैकादशगुणं दण्ड्यः । ७९ । सस्यापहारी
च । ८० । सुवर्णरजतवस्त्राणां पञ्चाशतस्त्वभ्यधिकमप-
हरन्निष्करः । ८१ । तदूनमेकादशगुणं दण्ड्यः । ८२ ।
सूत्रकार्पासगोमयगुडदधिक्षीरतक्रतृणलवणमृद्भस्मपक्षि-
74. क्रोशन्तमभिधावताम् C^{1,2}; तं क्रोशन्तमभिधावतां । v.
72. तादृशं नेत्रद्वयरहितं वा कुर्यात्कारयेदित्यर्थः ।... 74. ...अभि-
भूयमानसमीपवर्तिनां संसरतां ... चानभिधावकानामपि तन्निमित्ताद्दण्डा-
द्विगुणो दण्डो भवति । 79. धान्यं वार्षिकं श्यामाकादि... । 80.
सस्यानि हेमन्तवसन्तोद्भवानि व्रीहियवादीनि ।...