सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 41, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 41

॥ विष्णुस्मृतौ ८ ॥ ३५

। २४ । ये महापातकिनां लोका ये चोपपातकिनां ते
कूटसाक्षिणामपि । २५ । जननमरणान्तरे कृतसुकृत-
हानिश्च । २६ । सत्येनादित्यस्तपति । २७ । सत्येन भाति
चन्द्रमाः । २८ । सत्येन वाति पवनः । २९ । सत्येन
भूर्धारयति । ३०। सत्येनापस्तिष्ठन्ति । ३१ । सत्येनाग्निः ।
। ३२ । खं च सत्येन । ३३ । सत्येन देवाः । ३४ । सत्येन
यज्ञाः । ३५ ।
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ ३६ ॥
जानन्तोऽपि हि ये साक्ष्ये तूष्णीम्भूता उपासते ।
ते कूटसाक्षिणां पापैस्तुल्या दण्डेन चाप्यथ ।
एवं हि साक्षिणः पृच्छेद्वर्णानुक्रमतो नृपः ॥ ३७ ॥
यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् ।
अन्यथावादिनो यस्य ध्रुवस्तस्य पराजयः ॥ ३८ ॥
वहुत्वं प्रतिगृह्णीयात्साक्षिद्वैधे नराधिपः ।
समेषु च गुणोत्कृष्टान्गुणिद्वैधे द्विजोत्तमान् ॥ ३९ ॥
यस्मिन्यस्मिन्विवादे तु कूटसाक्ष्यन्तृतं वदेत् ।
तत्तत्कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् ॥ ४० ॥ ८ ॥


  1. ॰सुकृत॰ om. C$^{1,2}$v. 32. सत्येनाग्निरित्तिष्ठति । C$^{1,2}$; om. v.
  2. महापातकिनो ब्रह्महादयः । उपपातकिनो गोघ्नादयः ।...