सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

itized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalga
६ ॥ विष्णुस्तवौ १ ॥
पवनक्षोभसंजातवीचीशतसमाकुलम् ॥ ३४ ॥
हिमवच्छतसंकाशं भूमण्डलमिवापरम् ।
वीचीहस्तैः प्रचलितैराह्वयानमिव क्षितिम् ॥ ३५ ॥
तैरेव शुभ्रतां चन्द्रे विदधानमिवानिशम् ।
: अन्तरस्थेन हरिणा विगताशेषकल्मषम् ॥ ३६ ॥
यस्मात्तस्मात्तु बिभ्रन्तं सुशुभ्रां तनुमूर्जिताम् ।
पाण्डुरं खगमागम्यमधोभुवनवर्तिनम् ॥ ३७ ॥
इन्द्रनीलकडाराख्यं विपरीतमिवाम्बरम् ।
फलावलीसमुद्भूतवनसंघसमाचितम् ॥ ३८ ॥
निर्मोकमिव शेषाहेर्विस्तीर्णं तमतीव हि ।
तं दृष्ट्वा तच मध्यस्थं ददृशे केशवालयम् ॥ ३९ ॥
अनिर्देश्यपरीमाणमनिर्देश्यर्धिसंयुतम् ।
शेषपर्यङ्कगं तस्मिन्ददर्श मधुसूदनम् ॥ ४० ॥
शेषाहिफणरत्नांशुदुर्विभाव्यमुखाम्बुजम् ।
शशाङ्कशतसंकाशं सूर्य्यायुतसमप्रभम् ॥ ४१ ॥
35. ॰हस्तैर्धवलितैरा॰ C^{1,2}v. 41. T. om. V⁴.
35. हिमाचलानां शतेन संकाश्यमानमपरं भूमण्डलमिव वीचीनां
हिमवदाकारत्वात् । वीचय एव हस्तास्तैरतिचपलैः क्षितिमाह्वयानमिव ॥
36. तैरेव क्षीरवीचीहस्तैरनिशं प्रक्षालनेन चन्द्रमसि शौक्ल्यातिशयं
विदधानमिव ।... 37. यस्माद्धरिणाहृतकल्मषस्तस्मादतिशुद्धामूर्जितां
स्फुरन्तीं तनुं धारयन्तम् ।... 38. ...विपरीतं अधोगतमम्बरमिव तस्यापि
नीलरक्तादिमयव्याप्तत्वात् । समुद्भूतं संजातशोभम्...
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry

॥ विष्णुस्मृतौ १ ॥ ७
पीतवाससमक्षोभ्यं सर्वरत्नविभूषितम् ।
मुकुटेनार्कवर्णेन कुण्डलाभ्यां विराजितम् ॥ ४२ ॥
संवाह्यमानाङ्घ्रियुगं लक्ष्म्या करतलैः शुभैः ।
शरीरधारिभिः शस्त्रैः सेव्यमानं समन्ततः ॥ ४३ ॥
तं दृष्ट्वा पुण्डरीकाक्षं ववन्दे मधुसूदनम् ।
जानुभ्यामवनीं गत्वा विज्ञापयति चाप्यथ ॥ ४४ ॥
उद्धृताहं त्वया देव रसातलतलं गता ।
स्वस्थाने स्थापिता विष्णो लोकानां हितकाम्यया ॥ ४५ ॥
तच्चाधुना मे देवेश का धृतिर्वै भविष्यति ।
एवमुक्तस्तदा देव्या देवो वचनमब्रवीत् ॥ ४६ ॥
वर्णाश्रमाचाररताः शास्त्रैकतत्परायणाः ।
त्वां धरे धारयिष्यन्ति तेषां त्वद्भार आहितः ॥ ४७ ॥
एवमुक्ता वसुमती देवदेवमभाषत ।
वर्णानामाश्रमाणां च धर्मान्वद सनातनान् ॥ ४८ ॥
45. खे स्थाने C¹, ²v. 47. एताः शास्त्रैकतत्पराः । V⁴. 48. धर्मा-
न्मह्यं वदाशु भोः ॥ V⁴ in mg. ; धर्मान्वद सनातन ॥ V¹⁻³ ; सना-
तनान् ॥ C¹, ²v ; C. defective. See 63 (शाश्वतान्).
43. ...मृदुतरैः करतलैः सस्नेहं संवाहितचरणकमलम् । शङ्खचक्र-
गदापद्माधिष्ठात्रीभिर्देवताभिर्मूर्तिमतीभिः पार्श्वयोरुपास्यमानम् ॥ 44. ...
मधुसूदनमवलोक्यावनिर्नतजानुमण्डला धारणी अभिवाद्यानन्तरं स्वाभि-
मतं विज्ञापयामास ॥ 45. ...स्वस्थाने स्थापिता...

८ ॥ विष्णुस्तवौ १ ॥
त्वत्तोऽहं श्रोतुमिच्छामि त्वं हि मे परमा गतिः ।
नमस्ते देव देवेश देवारिबलसूदन ॥ ४९ ॥
नारायण जगन्नाथ शङ्खचक्रगदाधर ।
पद्मनाभ हृषीकेश महाबलपराक्रम ॥ ५० ॥
अतीन्द्रिय सुदुष्पार देव शार्ङ्गधनुर्धर ।
वराह भीम गोविन्द पुराण पुरुषोत्तम ॥ ५१ ॥
हिरण्यकेश विश्वाक्ष यज्ञमूर्ते निरञ्जन ।
क्षेत्र क्षेत्रज्ञ लोकेश सलिलार्णवशायक ॥ ५२ ॥
मन्त्र मन्त्रवहाचिन्त्य वेदवेदाङ्गविग्रह ।
जगतोऽस्य समग्रस्य सृष्टिसंहारकारक ॥ ५३ ॥
धर्माधर्मज्ञ धर्माङ्ग धर्मयोने वरप्रद ।
विष्वक्सेनामृत व्योम मधुकैटभसूदन ॥ ५४ ॥
बृहतां बृंहणाज्ञेय सर्व सर्वाभयप्रद ।
वरेण्यानघ जीमूताव्यय निर्माणकारक ॥ ५५ ॥
52. सलिलान्तर० C^{1, 2}v. 53. यन्त्रमन्त्र० C^{1, 2}. 54. धर्म धर्मज्ञ
C^{1, 2}. 55. ०ज्ञेय C^{1, 2}v. निर्वाण० C^{1-2}.
51. ...सुतरां दुर्ज्ञेयं पारमन्तो यस्य । सुदुष्पापेति पाठे दुरधिगमः ।
देवो द्युतिमान्। 52. ...विश्वस्मिन्नक्षिणी यस्य सर्वसाक्षित्वात् । विश्वतो
ऽक्षिणी यस्येति वा। 53. ...मन्त्रो ऋगादिः...। ...मन्त्रं वहति पठतीति
होता। ...वेदा ऋगादयः । वेदाङ्गानि शिक्षादीनि । उभयं विग्रहो यस्य ।
... 55. बृहतां परममहत्परिमाणानां कालाकाशादीनाम्... । अज्ञेयो
ज्ञातुमशक्यः। ...सर्वरूपत्वात्सर्वः। ...जगतो विश्वस्य निर्माणं करोति...

॥ विष्णुस्मृतौ १ ॥ ६
आप्यायन अपां स्थान चैतन्याधार निष्क्रिय ।
सप्तशीर्षाध्वरगुरो पुराण पुरुषोत्तम ॥ ५६ ॥
ध्रुवाक्षर सुसूक्ष्मेश भक्तवत्सल पावन ।
त्वं गतिः सर्वदेवानां त्वं गतिर्ब्रह्मवादिनाम् ॥ ५७ ॥
तथा विदितवेद्यानां गतिस्त्वं पुरुषोत्तम ।
प्रपन्नास्मि जगन्नाथ ध्रुवं वाचस्पतिं प्रभुम् ॥ ५८ ॥
सुब्रह्मण्यमनाधृष्यं वसुषेणं वसुप्रदम् ।
महायोगबलोपेतं पृश्निगर्भं धृतार्चिषम् ॥ ५९ ॥
वासुदेवं महात्मानं पुण्डरीकाक्षमच्युतम् ।
सुरासुरगुरुं देवं विभुं भूतमहेश्वरम् ॥ ६० ॥
एकव्यूहं चतुर्बाहुं जगत्कारणकारणम् ।
ब्रूहि मे भगवन्धर्मांश्चातुर्वर्ण्यस्य शाश्वतान् ॥ ६१ ॥
आश्रमाचारसंयुक्तान्सरहस्यान्ससंग्रहान् ।
एवमुक्तस्तु देवेशः पुनः क्षोणीमभाषत ॥ ६२ ॥
61. चतुर्वर्णां C1,2v.
56. आप्याययति जगदिति । ... चैतन्यस्य विज्ञानस्याधारो निवास-
स्थानम् ।... 57. सुतरां सूक्ष्माः परमाणवस्तेषामीशः क्रियादिहेतुः ...
59. ...सुतरां ब्रह्मण्य इति...। ब्रह्मण्ये वेदाय ब्राह्मणाय वा हित इति
ब्रह्मण्यः । ... पृश्निराकाशो गर्भे यस्य । तस्मात् ... आकाशः संभूत
इति श्रुतेः । धृतान्यर्चींषि तेजांसि सूर्यादिषु येन । तेजस्तेजस्विनामहं
प्रभास्मि शशिसूर्ययोः । इत्यादि स्मरणात् ॥ 60. ...विभुर्व्यापकः ... ।
61. एक एव व्यूहो विराट्स्वरूपो यस्य ।... जगत्कारणानां महाभूतानाम्...
2

१० ॥ विष्णुस्मृतौ १ ॥ २ ॥
शृणु देवि धरे धर्मांश्चातुर्वर्ण्यस्य शाश्वतान् ।
आश्रमाचारसंयुक्तान्सरहस्यान्ससंग्रहान् ॥ ६३ ॥
ये तु त्वां धारयिष्यन्ति सन्तस्तेषां परायणान् ।
निषण्णा भव वामोरु काञ्चनेऽस्मिन्वरासने ॥ ६४ ॥
सुखासीना निबोध त्वं धर्मान्निगदतो मम ।
शुश्रुवे वैष्णवान्धर्मान्सुखासीना धरा तदा ॥ ६५ ॥ १ ॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चेति वर्णाश्चत्वारः । १ ।
तेषामाद्या द्विजातयस्त्रयः । २ । तेषां निषेकाद्यः श्मशा-
नान्तो मन्त्रवत्क्रियासमूहः । ३ । तेषां च धर्माः । ४ ।
ब्राह्मणस्याध्यापनम् । ५ । क्षत्रियस्य शस्त्रनित्यता । ६ ।
वैश्यस्य पशुपालनम् । ७ । शूद्रस्य द्विजातिशुश्रूषा । ८ ।
द्विजानां यजनाध्ययने । ९ । अथैतेषां वृत्तयः । १० ।
ब्राह्मणस्य याजनप्रतिग्रहौ । ११ । क्षत्रियस्य क्षितिपा-
लनम् । १२ । कृषिगोरक्षवाणिज्यकुसीदये।निपोषणानि
वैश्यस्य । १३ । शूद्रस्य सर्वशिल्पानि । १४ । आपद्यन-
न्तरा वृत्तिः । १५ ।
II, 2. द्विजातयः । C¹'²v.
II, 13. ...योनिर्यवव्रीह्यादिबीजं तत्पोषणं रक्षणम् । ... 14. शि-
ल्पानि चित्रकारादीनि । सर्वशब्देन वैश्यवृत्तीनां क्रयादीनामपि
ग्रह्णम् ।... 15... अनन्तरा संनिहिता कनीयसी... वृत्तिः ।...

digitized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalg
॥ विष्णुस्मृतौ २ ॥ ३ ॥ ११
क्षमा सत्यं दमः शौचं दानमिन्द्रियसंयमः ।
अहिंसा गुरुशुश्रूषा तीर्थानुसरणं दया ॥ १६ ॥
आर्जवं लोभशून्यत्वं देवब्राह्मणपूजनम् ।
अनभ्यसूया च तथा धर्मः सामान्य उच्यते ॥ १७॥ २ ॥
अथ राजधर्माः । १ । प्रजापरिपालनम् । २ । वर्णाश्र-
माणां स्वे स्वे धर्मे व्यवस्थापनम् । ३ । राजा च जाङ्गलं
पशुव्यं सस्योपेतं देशमाश्रयेत् । ४ । वैश्यशूद्रप्रायं च । ५ ।
तत्र धन्वन्महीवारिवृक्षगिरिदुर्गाणामन्यतमं दुर्गमा-
श्रयेत् । ६ । तत्र स्वखग्रामाधिपान्कुर्यात् । ७ । दशा-
ध्यक्षान् । ८ । शताध्यक्षान् । ९ । देशाध्यक्षांश्च । १० ।
ग्रामदोषाणां ग्रामाध्यक्षः परीहारं कुर्यात् । ११ । अशक्तो
दशग्रामाध्यक्षाय निवेदयेत् । १२ । सोऽप्यशक्तः शता-
ध्यक्षाय । १३ । सोऽप्यशक्तो देशाध्यक्षाय । १४ । देशा-
ध्यक्षोऽपि सर्वात्मना दोषमुच्छिन्द्यात् । १५ । आकर-
शुल्कातरनागवनेष्वाप्तान्नियुञ्जीत । १६ । धर्मिष्ठानधर्म-
17. आर्जवंमलोभश्च C¹'² v. III, 5. ॰शूद्रपादं च । C¹'²; ॰शूद्र-
वैश्याय च । v. 7. ग्रामाध्यक्षानपि कुर्यात् । C¹'²; ग्रामाधियान्कुर्यात् । v.
III, 6. ... महीदुर्गं मह्यामेवेष्टकापाषाणादिनिमित्तं दुर्गम । मह्यैवो-
च्चावचप्रदेशप्रदेशप्रचुरदुर्गमित्यन्ये । ... 7. तत्र दुर्गे स्थितः सन् । ...
16. ... तरन्तीयंते नद्यादि येनेति तरो नौकादित्तक्तां शुल्कं जलजं
शुल्कमिति यावत् । नागा गजाः । वनानि अरण्यानि । नागवन्ति वना-
नीति वा । नगः पर्वत : । तत्संबन्धि नागम । गिरिदुर्गमिति वा । ...
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry

१२ ॥ विष्णुस्मृतौ ३ ॥
कार्येषु । १७ । निपुणानर्थकार्येषु । १८ । शूरान्संग्राम-
कर्मसु । १९ । उग्रानुग्रेषु । २० । षण्ढान्स्त्रीषु । २१ । प्रजाभ्यो
बल्यर्थं संवत्सरेण धान्यतः षष्ठमंशमादद्यात् । २२ । सर्व-
सस्येभ्यश्च । २३ । द्विकं शतं पशुहिरण्येभ्यो वस्त्रेभ्यश्च ।
२४ । मांसमधुघृतौषधिगन्धपुष्पमूलफलरसदारुपत्राजि-
नमृद्भाण्डाश्मभाण्डवैदलेभ्यः षष्ठभागम् । २५ । ब्राह्म-
णेभ्यः करादानं न कुर्यात् । २६ । ते हि राज्ञो धर्मक-
रदाः । २७ । राजा च प्रजाभ्यः सुकृतदुष्कृतषष्ठांश-
भाक् । २८ । स्वदेशपण्याच्च शुल्कांशं दशममादद्यात् ।
२९ । परदेशपण्याच्च विंशतितमम् । ३० । शुल्कस्था-
नादपक्रामन्सर्वापहारमाप्नुयात् । ३१ । शिल्पिनः कर्म-
जीविनश्च शूद्राश्च मासेनैकां राज्ञः कर्म कुर्युः । ३२ ।
स्वाम्यमात्यदुर्गकोशदण्डराष्ट्रमित्राणि प्रकृतयः । ३३ ।
तद्दूषकांश्च हन्यात् । ३४ । स्वराष्ट्रपरराष्ट्रयोश्च चारचक्षुः
25. ॰पुष्प॰ om. C$^{1,2}$v. 31. सर्वापचारित्वम् C$^{1,2}$.


  1. अर्थकार्येषु सुवर्णादिपरीक्षासु... । यद्वा ऊहापोहादिनिर्णयवत्सु
    कार्येषु निपुणान्पण्डितान्नियुञ्जीत ॥ 23. सस्यानि वार्षिकाणि श्यामाका-
    दीनि ... 27. करविधेयेऽपि राज्ञो धर्मं निजाचारसंपन्नं करत्वेन
    ददति... 30. यत्पण्यं देशान्तरे ... विक्रीयते तस्मात्... 31. अप-
    क्रामन्नपसरन्नन्यमार्गेण गच्छन्वणिक् । सर्वपण्यापचारमाप्नुयात् । ... 32. शि-
    ल्पिनः लोहकारादयः । कर्मोपजीविनः कारवो वर्धक्यादयः । चकारादन्यो-
    पजीविनः शूद्राश्च ... यथाच मनुः (VII, 138) ...

॥ विष्णुस्मृतौ ३ ॥ १३
स्यात्। ३५। साधूनां पूजनं कुर्यात्। ३६। दुष्टांश्च ह-
न्यात्। ३७। शत्रुमित्रोदासीनमध्यमेषु सामभेददान-
दण्डान्यथार्हं यथाकालं प्रयुञ्जीत। ३८। संधिविग्रहया-
नासनसंश्रयद्वैधीभावांश्च यथाकालमाश्रयेत्। ३६। चैत्रे
मार्गशीर्षे वा यात्रां यायात्।४०। परस्य व्यसने वा।४१।
परदेशावाप्तौ तद्देशधर्मान्नोच्छिन्द्यात्। ४२। परेणाभि-
युक्तश्च सर्वात्मना स्वं राष्ट्रं गोपायेत्।४३। नास्ति राज्ञां
समरे तनुत्यागसदृशो धर्मः। ४४। गोब्राह्मणनृपमित्र-
धनदारजीवितरक्षणार्थे हतास्ते स्वर्गलोकभाजः। ४५।
वर्णसंकररक्षणार्थं च।४६। राजा परपुरावाप्तौ तु तत्र
तत्कुलीनमभिषिञ्चेत्।४७। न राजकुलमुच्छिन्द्यात्।४८।
अन्यत्राकुलीन

१४ ॥ विष्णुस्मृतौ ३ ॥
निधिं लब्ध्वा तदर्थं ब्राह्मणेभ्यो दद्यात् । ५६ । द्वितीय-
मर्धं कोशे प्रवेशयेत् । ५७ । निधिं ब्राह्मणो लब्ध्वा सर्व-
मादद्यात् । ५८ । क्षत्रियश्चतुर्थमंशं राज्ञेऽपरं चतुर्थमंशं
ब्राह्मणेभ्योऽर्धमादद्यात् । ५९ । वैश्यस्तु चतुर्थमंशं राज्ञे
दद्याद्ब्राह्मणेभ्योऽर्धमंशमादद्यात् । ६० । शूद्रश्चावाप्तं द्वा-
दशधा विभज्य पञ्चांशान्राज्ञे दद्यात्पञ्चांशान ब्राह्मणेभ्यो
ऽंशद्वयमादद्यात् । ६१ । अनिवेदितविज्ञातस्य सर्वमप-
हरेत् । ६२ । स्वनिहिताद्राज्ञे ब्राह्मणवर्ज्जं द्वादशमंशं
दद्युः । ६३ । परनिहितं स्वनिहितमिति ब्रुवंस्तत्समं
दण्डमावहेत् । ६४ । बालानाथस्त्रीधनानि च राजा
परिपालयेत् । ६५ । चौरह

॥ विष्णुस्मृतौ ३ ॥ १५
विद्भिर्ब्राह्मणैः सार्धम् । ७२ । व्यवहारदर्शने ब्राह्मणं
वा नियुञ्जीत । ७३ । जन्मकर्मव्रतोपेताश्च राज्ञा सभा-
सदः कार्या रिपौ मित्रे च ये समाः कामक्रोधभय-
लोभादिभिः कार्यार्थिभिरनाहार्याः । ७४ । राजा च
सर्वकार्येषु सांवत्सराधीनः स्यात् । ७५ । देवब्राह्मणा-
न्सततमेव पूजयेत् । ७६ । वृद्धसेवी भवेत् । ७७ । यज्ञ-
याजी च । ७८ । न चास्य विषये ब्राह्मणः क्षुधार्तो
ऽवसीदेत् । ७९ । न चान्योऽपि सत्कर्मनिरतः । ८० ।
ब्राह्मणेभ्यश्च भुवं प्रतिपादयेत् । ८१ । येषां च प्रतिपा-
दयेत्तेषां स्ववंश्यानुभुवःप्रमाणं (?)दानच्छेदोपवर्णनं च
पटे ताम्रपट्टे वा लिखितं स्वमुद्राङ्कितं चागामिनृपवि-
ज्ञापनाथं दद्यात् । ८२। परदत्तां च भुवं नापहरेत् । ८३।
74. ॰भय॰ om. V¹⁻³ C¹,²v; भयं त्रासः N. 82. ननु प्रतिपा-
दिताया अपि (this clause is from the Comm. on 81) भुवं
प्रमाणं V¹⁻³; येषां च प्रतिपादयेत्तेषां खवंश्यानन्तरप्रमाणं C¹,²; ये०
च प्र० खवंशानन्तरः प्रमाणं v. ताम्रपत्रे v.
74. जन्म विशिष्टमातृपितृतः । कर्म जातकर्मदिसंस्कारः । ...अना-
हार्या अनाकर्षणीयाः ।... 82. येषां ब्राह्मणादीनां भुवं दद्यात्तेषां वक्ष्य-
माणलक्षणं शासनपत्रं दद्यादिति संबन्धः । ... स्ववंश्यान्पित्रादीन्तीन् ।...
चकारात् ... वंश्यानात्मानं च। भुवः क्षेत्रादिकायाः प्रमाणं निवर्तनादि-
परिमाणम् । दीयत इति दानं भूम्यादि तस्य च्छेदोऽपहारः । ...यद्वा दानस्य
भूम्यादेः छेदोऽवच्छेदो ... पूर्वतोऽमुकनद्याः पश्चमतोऽमुकस्थानस्येदम ...
चकारान्वितं मेऽमुकपुत्रस्य यदत्रोपरि लेखितम् । ... पटे कार्पासिके
वस्त्रखण्डे ... स्वस्य मुद्रा हंसवराहादिका ... See also Burnell,
Palaeogr. p. 95 seq., and p. 114.

१६ ॥ विष्णुस्मृतौ ३ ॥
ब्राह्मणेभ्यः सर्वदायान्प्रयच्छेत् । ८४ । सर्वतश्चात्मानं
गोपायेत् । ८५ । सुदर्शनश्च स्यात् । ८६ । विषघ्नागद-
मन्त्रधारी च । ८७ । नापरीक्षितमुपयुञ्जीत । ८८ ।
स्मितपूर्वाभिभाषी स्यात् । ८९ । वध्येष्वपि न भ्रुकुटी-
माचरेत् । ९० । अपराधानुरूपं च दण्डं दण्ड्येषु दा-
पयेत् । ९१ । सम्यग्दण्डप्रणयनं कुर्यात् । ९२ । द्वितीय-
मपराधं न स कस्यचित्क्षमेत । ९३ । स्वधर्ममपालय-
न्नादण्ड्यो नामास्ति राज्ञः । ९४ ।
यत्र श्यामो लोहिताक्षो दण्डश्चरति निर्भयः ।
प्रजास्तत्र विवर्धन्ते नेता चेत्साधु पश्यति ॥ ९५ ॥
स्वराष्ट्रे न्यायदण्डः स्याद्भृशदण्डश्च शत्रुपु ।
सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥ ९६ ॥
एवं वृत्तस्य नृपतेः शीलोञ्छेनापि जीवतः ।
विस्तीर्यते यशो लोके तैलविन्दुरिवाम्भसि ॥ ९७ ॥
प्रजासुखे सुखी राजा तद्दुःखे यश्च दुःखितः ।
स कीर्तियुक्तो लोकेऽस्मिन्प्रेत्य स्वर्गे महीयते ॥ ९८ ॥ ३ ॥
94. राज्ञां V¹⁻⁴; राज्ञः Cʰ⁻ᵛ; राज्ञा (V⁴) or राज्ञो (V¹⁻³) N.
85. सर्वतो वानशत्रुव्यसनादिभ्योऽप्यात्मानं गोपायेद्रक्षेत् । यथाह ...
मनुः (VII, 220)... 87. विषघ्ना विषनाशका अगदा रोगनाशकाश्च ये
मन्त्रास्तद्धारणशीलो भवेत् ।... 95. निर्भयोऽप्रतिहतश्चरति ।...

॥ विष्णुस्मृतौ ४ ॥ ५ ॥ १७
जालस्थार्कमरीचिगतं रजस्त्रसरेणुसंज्ञकम् । १ । त-
दष्टकं लिक्षा । २ । तत्त्रयं राजसर्षपः । ३ । तत्त्रयं गौर-
सर्षपः । ४ । तत्षट्कं यवः । ५ । तत्त्रयं कृष्णलम् । ६ ।
तत्पञ्चकं माषः । ७ । तद्द्वादशमक्षार्धम् । ८ । अक्षार्धमेव
सचतुर्माषकं सुवर्णः । ९ । चतुःसुवर्णो निष्कः । १० ।
द्वे कृष्णले समधृते रूप्यमाषकः । ११ । तत्षोडशकं ध-
रणम् । १२ । ताम्रकार्षिकः कार्षापणः । १३ ।
पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः ।
मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः ॥ १४॥ ४ ॥
अथ महापातकिनो ब्राह्मणवर्जं सर्वे वध्याः । १ ।
न शारीरो ब्राह्मणस्य दण्डः । २ । स्वदेशाद्ब्राह्मणं
क्षताङ्गं विवासयेत् । ३ । तस्य च ब्रह्महत्यायामशिरस्कं
पुरुषं ललाटे कुर्यात् । ४ । सुराध्वजं सुरापाने । ५ ।
श्वपदं स्तेये । ६ । भगं गुरुतल्पगमने । ७ । अन्यत्रापि
वध्यकर्मणि तिष्ठन्तं समग्रधनमक्षतं विवासयेत् । ८ ।
IV, 8. तद्द्वादशकम् C¹·²v Hemâdri. V, 1. ब्राह्मणवर्जं may
possibly be a gloss, though N. has got it.
IV, 2. लिक्षा स्वेदजं यूकाण्डम् ॥ 8... द्वादशं द्वादशानां समुदायः...
10... समधृते तुल्यपरिमाणे... V, 1. वधोऽत्र प्राणवियोगफलको व्या-
पारः।... 6...स्तेये सुवर्णस्तेये... 8. वध्यं वधार्हं वधनिमित्तमिति...
3

... तैलमास्ये (and श्रोत्रे च?)
In Vishnu Smriti 5.25: द्रोहेण च नामजातिग्रहणे दशाङ्गुलोऽस्य शङ्कुर्निधेयः ।
Then 5.26: In Vishnu Smriti, Jolly's edition, chapter 5, sutra 26:
Wait, does 5.26 say:
"सहोपवेशिनः..."? No, that was 20.
What about "कर्णयोश्च"? (taptam asecayet tailam asye karṇayoś ca?)
Wait! In sutra 24: "दर्पेण धर्मोपदेशकारिणो राजा तप्तमासेचयेत्तैलमास्ये । २४ ।"
Does 25 say: "द्रोहेण च नामजातिग्रहणे दशाङ्गुलोऽस्य शङ्कुर्निधेयः । २५ ।"
Does 26 say something about "नामजातिग्रहणे"?
Wait, why does the commentary say:
"26. ...बहुवचनात्..."
Wait, why "बहुवचनात्"?
Because sutra 26 has a plural!
What word in 26 has a plural?
Wait, does sutra 26 say:
"जातीनाम्..." or "द्विजातीनाम्..."?
Wait! "द्रोहेण च नामजातिग्रहणे" in 25 has singular/dual.

॥ विष्णुस्मृतौ ५ ॥ १८
श्रुतदेशजातिकर्मणामन्यथावादी कार्षापणशतद्वयं द-
ण्ड्यः । २६ । काणखञ्जादीनां तथावाद्यपि कार्षापण-
द्वयम् । २७ । गुरूनाक्षिपन्कार्षापणशतम् । २८ । परस्य
पतनीयाक्षेपे कृते तूत्तमसाहसम् । २९ । उपपातकयुक्तो
मध्यमम् । ३० । त्रैविद्यवृद्धानां क्षेपे जातिपूगानां च । ३१ ।
ग्रामदेशयोः प्रथमसाहसम् । ३२ । न्यङ्गतायुक्तो क्षेपे
कार्षापणशतम् । ३३ । मातृयुक्तो तूत्तमम् । ३४ । सम-
वर्णाक्रोशे द्वादश कार्षापणा दण्ड्यः । ३५ । हीनवर्णा-
क्रोशे षड्दण्ड्यः । ३६ । यथाकालमुत्तमसवर्णक्षेपे
तत्प्रमाणो दण्डः । ३७ । त्रयो वा कार्षापणाः । ३८ ।
युक्तावाक्यप्रदाने त्वेवमेव । ३९ । पारजायी सवर्णा-
गमने तूत्तमसाहसं दण्ड्यः । ४० । हीनवर्णागमने
मध्यमम् । ४१ । गोगमने च । ४२ । अन्त्यागमने
वध्यः । ४३ । पशुगमने कार्षापणशतं दण्ड्यः । ४४ ।
31. ॰वृद्धाक्षेपे C¹'²v. 33. व्यङ्गतायुक्ताक्षेपे C¹'²v. 34. सवर्णा०
C¹'²v. 37—39 om. v. 38. तयोर्वा कार्षापणास्त्रयः । C¹,²;
समोत्तरवर्णाक्षेपानन्तरमाक्षिप्तो हीनवर्णस्य त्रयः कार्षापणा दण्डः । N.
30. ...उपपातकं गोवधादि... । 31. ...पूगानां सङ्घादिसंघानाम्...
33. न्यङ्गमश्लीलम् । अश्लीलं न्यङ्गसंयुक्तमिति नारदस्मरणात् । (Nār.
XV, 3) ...तद्भगिनीं ग्रहिष्यामि चेत्कन्यां वा ... इत्यादिके ।... 37.
कालोऽत्राक्षेपेकालस्तमनतिक्राम्येति यथाकालम् ।... तत्प्रमाणः षट्कार्षापण-
प्रमाणो दण्डः कार्यः ।... 44. पशूनां गोव्यतिरिक्तानां गमने...

२० ॥ विष्णुस्मृतौ ५ ॥
दोषमनाख्याय कन्यां प्रयच्छंश्च । ४५ । तां च बिभृ-
यात् । ४६ । अदुष्टां दुष्टामिति ब्रुवन्नुत्तमसाहसम् । ४७ ।
गजाश्वोष्ट्रगोघाती त्वेककरपादः कार्यः । ४८ । विमां-
सविक्रयी च । ४९ । ग्राम्यपशुघाती कार्षापणशतं
दण्ड्यः । ५० । पशुस्वामिने तन्मूल्यं दद्यात् । ५१ ।
आरण्यपशुघाती पञ्चाशतं कार्षापणान् । ५२ । पक्षि-
घाती मत्स्यघाती च दश कार्षापणान् । ५३ । कीटो-
पघाती च कार्षापणम् । ५४ । फलोपगमद्रुमच्छेदी
तूत्तमसाहसम् । ५५ । पुष्योपगमद्रुमच्छेदी मध्यमम् । ५६ ।
वल्लीगुल्मलताच्छेदी कार्षापणशतम् । ५७ । तृणच्छे-
द्येकम् । ५८ । सर्वे च तत्स्वामिनां तदुत्पत्तिम् । ५९ ।
हस्तेनाङ्कूरयिता दश कार्षापणान् । ६० । पादेन
विंशतिम् । ६१ । काष्ठेन प्रथमसाहसम् । ६२ । पाषा-
णेन मध्यमम् । ६३ । शस्त्रेणोत्तमम् । ६४ । पादकेशां-
49, 50. ॰विक्रयी कार्षापणशतम् । ग्राम्यपशुघाती च । C^{1,2}v. 52.
पञ्चशतं N. in V^{1-3}; पञ्चाशतं V^{1-4} C^{1,2}v N. in V^4 Ap. 53.
दश om. C^{1,2}v. 54 om. C^{1,2}v. 55. ॰च्छेदी कीटोपघाती तूत्तम-
साहसं दण्ड्यः । C^{1,2}; ॰च्छेदी । v.
45...दोषे तु नारदः (Nâr. XII, 36)... 49. विश्रस्तमांसं श्वविङ्क-
राहादेस्तद्विक्रयशीलो विमांसविक्रयी ।... 55. फलैरुपगम्यन्त इति फलो-
पगमाः । फलोपकारिणः पनसाद्यादयः ।... 56. पुष्पैैरुपगम्यन्त इति
पुष्पोपगमाः । पुष्पोपकारिणश्चम्पकादयः ।... 60. ताडनार्थं हस्तमुद्धूर्य...
64 ...सजातीयविषयं सर्वमेतत् ।... (Sû. 19) इति सामान्यसूत्रात्...

॥ विष्णुस्मृतौ ५ ॥ २१
मुक्तकरलुण्ठने दश पणान्दण्ड्यः । ६५ । शोणितेन
विना दुःखमुत्पादयिता द्वात्रिंशत्पणान् । ६६ । सह
शोणितेन चतुःषष्टिम् । ६७ । करपाददन्तभङ्गे कर्णाना-
सादिकर्तने मध्यमम् । ६८ । चेष्टाभोजनवाग्रोधे प्रहा-
रदाने च । ६९ । नेत्रकन्धराबाहुसक्थ्यंसभङ्गे चोत्तम-
मम् । ७० । उभयनेत्रभेदिनं राजा यावज्जीवं बन्ध-
नान्न विमुञ्चेत् । ७१ । तादृशमेव वा कुर्यात् । ७२ ।
एकं बहूनां निघ्नतां प्रत्येकमुक्ताद्दण्डाद्विगुणः । ७३ ।
उत्क्रोशन्तमभिधावतां तत्समीपवर्तिनां संसरतां च
। ७४ । सर्वे च पुरुषपीडाकरास्तदुत्थानव्ययं दद्युः । ७५ ।
ग्राम्यपशुपीडाकराश्च । ७६ । गोऽश्वोष्ट्रगजापहार्येक-
करपादः कार्यः । ७७ । अजाव्यपहार्येककरश्च । ७८ ।
धान्यापहार्यैकादशगुणं दण्ड्यः । ७९ । सस्यापहारी
च । ८० । सुवर्णरजतवस्त्राणां पञ्चाशतस्त्वभ्यधिकमप-
हरन्निष्करः । ८१ । तदूनमेकादशगुणं दण्ड्यः । ८२ ।
सूत्रकार्पासगोमयगुडदधिक्षीरतक्रतृणलवणमृद्भस्मपक्षि-
74. क्रोशन्तमभिधावताम् C^{1,2}; तं क्रोशन्तमभिधावतां । v.
72. तादृशं नेत्रद्वयरहितं वा कुर्यात्कारयेदित्यर्थः ।... 74. ...अभि-
भूयमानसमीपवर्तिनां संसरतां ... चानभिधावकानामपि तन्निमित्ताद्दण्डा-
द्विगुणो दण्डो भवति । 79. धान्यं वार्षिकं श्यामाकादि... । 80.
सस्यानि हेमन्तवसन्तोद्भवानि व्रीहियवादीनि ।...

मत्स्यघृततैलमांसमधुवैदलवेणुमृण्मयलोहभाण्डानाम्-
पहर्ता मूल्यात्त्रिगुणं दण्ड्यः । ८३ । पक्वान्नानां
च । ८४ । पुष्पहरितगुल्मवल्लीलतापर्णानामपहरणे
पञ्च कृष्णालान् । ८५ । शाकमूलफलानां च । ८६ ।
रत्नापहार्युत्तमसाहसम् । ८७ । अनुक्तद्रव्याणामपहर्ता
मूल्यसमम् । ८८ । स्तेनाः सर्वमपहृतं धनिकस्य
दाप्याः । ८९ । ततस्तेषामभिहितदण्डप्रयोगः । ९० ।
येषां देयः पन्थास्तेषामपथदायी कार्षापणपञ्चविंशतिं
दण्ड्यः । ९१ । आसनाईस्यासनमददच्च । ९२ । पूजा-
र्हमपूजयंश्च । ९३ । प्रातिवेश्यब्राह्मणो निमन्त्रणातिक्रमे
च । ९४। निमन्त्रयित्वा भोजनादायिनश्च । ९५ । निम-
न्त्रितस्तथेत्युक्त्वा चाभुञ्जानः सुवर्णमाषकम् । ९६ । निम-
न्त्रयितुश्च द्विगुणमन्नम् । ९७ । अभक्ष्येण ब्राह्मणं दूषयिता
षोडश सुवर्णान् । ९८ । जात्यपहारिणा शतम् । ९९ ।
सुरया वध्यः । १०० । क्षत्रियं दूषयितुस्तदर्धम् । १०१ ।
वैश्यं दूषयितुस्तदर्धमपि । १०२ । शूद्रं दूषयितुः प्रथम-
साहसम् । १०३ । अस्पृश्यः कामकारेण स्पृश्यं स्पृश-
91. कार्षापथानां C¹⁻². From the C. 96. उक्तावानभुञ्जानः C¹;²v
Ap. 104. अस्पृश्यः (अस्पृश्य V²) कामकारे सस्पृशन्स्पृश्यं वध्यः । V¹⁻³;
92. अतिथ्यादेः... 104. अस्पृश्यश्चाण्डालादिः कामकारेण बुद्धि-
पूर्वकं स्पृश्यं त्रैवर्णिकं स्पृशन्वध्यः ।...

॥ विष्णुस्मृतौ ५ ॥ २३
न्वध्यः । १०४ । रजस्वलां शिफाभिस्ताडयेत् । १०५ ।
पत्युद्यानोदकसमीपेऽप्यशुचिकारी पणशतम् । १०६ ।
तच्चापास्यात् । १०७। गृहभ्रूकुण्याद्युपभेत्ता मध्यमसाहसं
दण्ड्यः । १०८ । तच्च योजयेत् । १०९ । गृहे पीडा-
करं द्रव्यं प्रक्षिपन्पणशतम् । ११० । साधारण्यापलापी
च । १११ । प्रेषितस्याप्रदाता च । ११२ । पितृपुत्रा-
चार्ययाज्यर्त्विजामन्योन्यापतितत्यागी च । ११३ । न
च ताञ्जह्यात् । ११४ । शूद्रप्रव्रजितानां दैवे पित्र्ये
भोजकश्च । ११५। अयोग्यकर्मकारी च । ११६। समुद्र-
गृहभेदकश्च । ११७ । अनियुक्तः शपथकारी । ११८ ।
पशूनां पुंस्त्वोपघातकारी च । ११९ । पितापुत्रविरोधे
तु साक्षिणां दशपणो दण्डः । १२० । यस्तयोश्चान्तरे
स्यात्तस्योत्तमसाहसः ।१२१। तुलामानकूटकर्तुश्च ।१२२।
अस्पृश्यः कामकारेण स्पृशंस्पृश्यं त्रैवर्णिकं वध्यः । V⁴; कामकारेणास्पृश्य-
स्त्रैवर्णिकं स्पृशन्बध्यः । C¹'²; कामकारेण अदृश्यवानवार्थवान् v. See
the C., which shows how these vv. ll. have sprung up.
105. रजस्वलां बुद्धिपूर्वं त्रैवर्णिकां स्पृशन्तीम्... 108. भ्रूरङ्गना-
दिः। ... 109. ...उत्थानद्रव्यं दद्यादित्यर्थः ।... 110. कण्टक०...०कार्पास-
पुंजलिकादि द्रव्यं प्रक्षिपन्... 112. देवब्राह्मणाद्यर्थं प्रेषितस्यार्थस्य
लोभेनाप्रदाता... 116. यदस्य योग्यं कर्म न भवति। यथानुषनीतस्या-
ध्ययनम् ।... 118. राज्ञा सभ्यैर्वा अनियुक्तो नादिष्टः ...

२४ ॥ विष्णुस्मृतौ ५ ॥
तद्यूते कूटवादिनश्च ॥ १२३॥ द्रव्याणां प्रतिरूपविक्रयि-
कस्य च । १२४। संभूयवणिजां पण्यमनर्घेणावरुन्ध-
ताम् । १२५ । प्रत्येकं विक्रीणतां च । १२६ । गृहीत-
मूल्यं पण्यं यः क्रेतुर्नैव दद्यात्तस्यासौ सोदयं दाप्यः ।
१२७। राज्ञा च पणशतं दण्ड्यः । १२८ । क्रीतमक्री-
णतो या हानिः सा क्रेतुरेव स्यात् । १२९ । राज-
विनिषिद्धं विक्रीणतस्तदपहारः ।१३०। तारिकः स्थलजं
शुल्कं गृह्णन्दश पणान्दण्ड्यः । १३१। ब्रह्मचारिवानप्रस्थ-
भिक्षुगुर्विणीतीर्थानुसारिणां नाविकः शौल्किकः शुल्क-
माददानश्च । १३२ । तच्च तेषां दद्यात् । १३३ । द्यूते
कूटाक्षदेविनां करच्छेदः । १३४। उपधिदेविनां संदंश-
च्

॥ विष्णुस्मृतौ ५ ॥ २५
दिवा पशूनां वृकाद्युपघाते पाले त्वनायति पालदोषः ।
१३७ । विनष्टपशुमूल्यं च स्वामिने दद्यात् । १३८ ।
अननुज्ञातां दुहन्पञ्चविंशतिं कार्षापणान् । १३९ । म-
हिषी चेत्सस्यनाशं कुर्यात्तत्पालस्त्वष्टौ माषान्दण्ड्यः ।
१४० । अपालायाः स्वामी । १४१ । अश्वस्तूष्ट्रो गर्दभो
वा । १४२ । गौश्चेत्तदर्धम् । १४३ । तदर्धमजाविकम् । १४४ ।
भक्षयित्वोपविष्टेषु द्विगुणम् । १४५ । सर्वं च स्वामिने वि-
नष्टसस्यमूल्यं च । १४६ । पथि ग्रामे विवीतान्ते न दोषः ।
१४७ । अनावृते च । १४८ । अल्पकालम् । १४९ ।
उत्सृष्टवृषभसूतिकानां च । १५० । यस्तूत्तमवर्णान्दास्ये
नियोजयेत्तस्योत्तमसाहसो दण्डः । १५१ । त्यक्तप्रव्रज्यो
राज्ञो दास्यं कुर्यात् । १५२ । भृतकश्चापूर्णे काले भृतिं
त्यजन्सकलमेव मूल्यं दद्यात् । १५३ । राज्ञे च पणशतं
दद्यात् । १५४ । तद्दोषेण यदि नश्येत्तत्स्वामिने । १५५ ।
अन्यत्र दैवोपघातात् । १५६ । स्वामी चेद्भृतकमपूर्णे
काले जह्यात्तस्य सर्वमेव मूल्यं दद्यात् । १५७ । पणशतं
च राजनि । १५८ । अन्यत्र भृतकदोषात् । १५९ । यः
141. अपालकायाः v Ap. 142–150 with C. om. V¹.
146. विनष्टस्य सस्यस्य V⁴. 147. ग्रामसीमान्ते C¹'²v; सीमान्ते
from the C. 149. अल्पकालं V²'³; अल्पकानां C¹'²v; ग्रासमात्र-
भक्षणे न दोषः N. See Colebrooke, Dig. III, 4, XXI.
153. ...यावदभ्युपगतं तावत्सकलमेव मूल्यं वेतनं स्वामिने दद्यात् ।...
4