सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 20, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 20

१२ ॥ विष्णुस्मृतौ ३ ॥
कार्येषु । १७ । निपुणानर्थकार्येषु । १८ । शूरान्संग्राम-
कर्मसु । १९ । उग्रानुग्रेषु । २० । षण्ढान्स्त्रीषु । २१ । प्रजाभ्यो
बल्यर्थं संवत्सरेण धान्यतः षष्ठमंशमादद्यात् । २२ । सर्व-
सस्येभ्यश्च । २३ । द्विकं शतं पशुहिरण्येभ्यो वस्त्रेभ्यश्च ।
२४ । मांसमधुघृतौषधिगन्धपुष्पमूलफलरसदारुपत्राजि-
नमृद्भाण्डाश्मभाण्डवैदलेभ्यः षष्ठभागम् । २५ । ब्राह्म-
णेभ्यः करादानं न कुर्यात् । २६ । ते हि राज्ञो धर्मक-
रदाः । २७ । राजा च प्रजाभ्यः सुकृतदुष्कृतषष्ठांश-
भाक् । २८ । स्वदेशपण्याच्च शुल्कांशं दशममादद्यात् ।
२९ । परदेशपण्याच्च विंशतितमम् । ३० । शुल्कस्था-
नादपक्रामन्सर्वापहारमाप्नुयात् । ३१ । शिल्पिनः कर्म-
जीविनश्च शूद्राश्च मासेनैकां राज्ञः कर्म कुर्युः । ३२ ।
स्वाम्यमात्यदुर्गकोशदण्डराष्ट्रमित्राणि प्रकृतयः । ३३ ।
तद्दूषकांश्च हन्यात् । ३४ । स्वराष्ट्रपरराष्ट्रयोश्च चारचक्षुः
25. ॰पुष्प॰ om. C$^{1,2}$v. 31. सर्वापचारित्वम् C$^{1,2}$.


  1. अर्थकार्येषु सुवर्णादिपरीक्षासु... । यद्वा ऊहापोहादिनिर्णयवत्सु
    कार्येषु निपुणान्पण्डितान्नियुञ्जीत ॥ 23. सस्यानि वार्षिकाणि श्यामाका-
    दीनि ... 27. करविधेयेऽपि राज्ञो धर्मं निजाचारसंपन्नं करत्वेन
    ददति... 30. यत्पण्यं देशान्तरे ... विक्रीयते तस्मात्... 31. अप-
    क्रामन्नपसरन्नन्यमार्गेण गच्छन्वणिक् । सर्वपण्यापचारमाप्नुयात् । ... 32. शि-
    ल्पिनः लोहकारादयः । कर्मोपजीविनः कारवो वर्धक्यादयः । चकारादन्यो-
    पजीविनः शूद्राश्च ... यथाच मनुः (VII, 138) ...